Skip to main content

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 35

Chapter 35

Unit 178 of 276Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 35Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 351 source entries

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 35

Source

।। श्रीकृष्ण उवाच ।। नारायणश्च ब्रह्माणमुवाच कृपया पुनः ।। दृष्ट्वा गङ्गां च सर्वे तां मम मायां च मेनिरे ।। १ ।। ।। ।। श्रीनारायण उवाच ।। उत्तिष्ठ गच्छ भद्रं ते भविष्यति चतुर्मुख ।। अत्र स्नात्वाऽभिशप्तस्त्वं पूतो भव ममाज्ञया।।२।। त्वं चेत्सत्यं स्वयं पूतः स्पर्शं वाञ्छन्ति तानि ते ।। वैष्णवेशस्य तीर्थानि सर्वाणि सततं मुने।।३।। तथापि शापमुक्तस्त्वमत्र प्रकृतिहेलनात् ।। अहंकारश्च सर्वेषां पापबीजममङ्गलम् ।। ४ ।। शीघ्रं त्वं गच्छ गोलोकं ममालयं परात्परम् ।। प्रकृत्यंशां मङ्गलदां तत्र प्राप्स्यसि भारतीम् ।। ५ ।। प्रकृतिं भज कल्याण सृष्टिबीजस्वरूपिणीम् ।। अहो कल्पान्तपर्यन्तं तपस्तप्तं त्वयाऽधुना।।६।। तव मन्त्रं न गृह्णन्ति केऽपि वेश्याऽभिशापतः ।। यदन्यदेवपूजायां तव पूजा भविष्यति ।। ७ ।। त्वमेव जगतां धाता स्वात्मारामश्च योषितः ।। सर्वरूपी च पूजः च सर्वदेहेषु सर्वतः ।। ८ ।। तदा ममाज्ञया ब्रह्मा स्नात्वा च जाह्नवीजले ।। शीघ्रं जगाम गोलोकं मां प्रणम्य जगद्गुरुः ।। ९ ।। ते देवा मुनयः सर्वे प्रजग्मुः स्वालयं मुदा ।। सुनिर्मलं मम यशो गायन्तश्च पुनःपुनः ।। 4.35.१० ।। विधिरागत्य गोलोकं संप्राप्य भारतीं सतीम् ।। सर्वविद्याधिदेवीं तां मद्वक्त्राब्जविनिर्मिताम् ।।११ ।। वागीश्वरीं च संप्राप्य ब्रह्मा प्रमुदितः स्वयम् ।। कामास्त्राणां च व्यापारमनुमेने स्वयं विभुः।।१२।। तत आगत्य मां नत्वा प्राप्य त्रैलोक्यमोहिनीम् ।। क्रीडां चकार भगवान्स्थानेस्थानेऽतिनिर्जने।।१३।। रतिं चिरतरं कृत्वा विरराम स्वयं विधिः ।। वागीश्वरीमुवाचेदं त्वं वै ब्रह्मा च कर्मणा ।। १४ ।। काचित्स्वकर्मणा साध्वी पूज्या च स्थिरयौवना ।। तवैव कर्मयोगं च युवानं पश्य सुन्दरि ।। १५ ।। विदग्धाया विदग्धेन संगमो गुणवान्भवेत् ।। जरातुरोऽहं वृद्धश्च तपस्वी वैष्णवो द्विजः ।। १६ ।। अस्वतन्त्रः पराधीनः का रतिः पुंश्चलीषु मे ।। आजगाम ब्रह्मलोकं पुनरेव निजालयम् ।। १७ ।। ददृशुब्रर्ह्मलोकस्थास्तां देवीं कौतुकान्विताः ।। अतीव सुन्दरीं रम्यां शुभ्रवर्णां च सस्मिताम् ।। १८ ।। शरच्छीतांशुवदनां शरत्पङ्कजलोचनाम् ।। पक्वबिम्बप्रभामुष्टदीप्तौष्ठाधरपल्लवाम् ।।१९।। मुक्तापङ्क्तिविनिन्द्यैकदन्तपङ्क्तिमनोहराम्।। रत्नकेयूरवलयरत्ननूपुरशोभिताम् ।। 4.35.२० ।। रत्नकुण्डलयुग्मेन कर्णमूलविराजिताम् ।। रत्नेन्द्रसारहारेण वक्षःस्थलसमुज्ज्वलाम् ।। २१ ।। वह्निशुद्धांशुकं सूक्ष्मं बिभ्रतीं नवयौवनाम् ।। अतीव कमनीयां च पीनश्रोणिपयोधराम् ।। २२ ।। वीणापुस्तकहस्तां च व्याख्यामुद्राकरां वराम् ।। ते च निर्मञ्छनं कृत्वा चक्रुः परममङ्गलम् ।। २३ ।। पुरीं प्रवेशयामासुर्ब्रह्माणं भारतीं मुदा ।। ब्रह्मा तया सह क्रीडां चकार स दिवानिशम् ।। २४ ।। अतीव सुखसंभोगे निमग्नः सततं मुदा ।। गूढे सर्वपुराणेषु किं पुनः श्रोतुमिच्छसि ।। २९ ।। ।।श्रीनारायण उवाच ।। प्राणेशवचनं श्रुत्वा प्रहस्य परमेश्वरी ।। भूयोऽपि परिपप्रच्छ कौतुकान्मानसं पुरा ।। २६ ।। श्रीराधिकोवाच ।। ब्रह्मा कथं न जग्राह वेश्यां स्वयमुपस्थिताम् ।। न कर्मक्षेत्रे रहसि फलदाता च कर्मणाम् ।। २७ ।। उपस्थितायास्त्यागे च महान्दोषो हि योषितः ।। ज्ञात्वा देवो विधाता स कथं तत्याज मोहिनीम् ।। २८ ।। श्रीनारायण उवाच ।। राधिकावचनं श्रुत्वा प्रहस्य मधुसूदनः ।। पाद्मकल्पस्य वृत्तान्तमुवाच परमेश्वरीम् ।। २९ ।। श्रीकृष्ण उवाच।। शृणु कान्ते प्रवक्ष्यामि पुरावृत्तान्तमीप्सितम् ।। अकथ्यं गोपनीयं च महतामभिनिन्दितम् ।। 4.35.३० ।। एकदा च प्रजाः स्रष्टुं विधाता प्रेरितो मया ।। ससर्ज मनसा पुत्राञ्ज्वलतो ब्रह्मतेजसा।। ३१ ।। सनकं च सनन्दं च सनातनमनुत्तमम् ।। सनत्कुमारं वोढुं च कविं पञ्चशिखं विभुम् ।।३२ ।। असितं कपिलं सिद्धं सिद्धान्मम कुलोद्भवान्।। तान्नग्नान्पञ्चवर्षीयान्पिता स्रष्टुं जगाद ह।। ३३ ।। प्रजाः स्रष्टुं प्रेरकं च जनकं तेऽवमन्य च ।। प्रजग्मुस्तपसे तूर्णं ममार्चनपरायणाः ।। ३४ ।। तदा रुष्टो जगद्धाता पुनः पुत्रान्विनिर्ममे ।। रुद्रानेकादश वरान्रुदतो भीमविग्रहान् ।। ३५ ।। तस्मिन्प्रयुज्य तरसा पुनः पुत्रान्विनिर्ममे ।। योगी योगेन मां ध्यात्वा स्वात्मारामः स्वविग्रहे ।। ३६ ।। वसिष्ठं पुलहं चैव क्रतुमङ्गिरसं तथा ।। भृगुमत्रिं पुलस्त्यं च दक्षं कर्दममेव च ।। ३७ ।। मरीचिं च विनिर्माय प्रजाः स्रष्टुं नियुज्य च ।। प्रहृष्टमानसः पुत्रं कन्यैका च ससर्ज ह ।। ३८ ।। कृष्णस्य कामिनः पुत्रः कामदेवो बभूव ह ।। कन्या षोडशवर्षीया रत्नभूषणभूषिता ।। ३९ ।। उवाच पुत्रं स विधिः सुदीप्तं पुरतः स्थितम् ।। दुर्निवार्यं मत्कलांशं स्वात्मारामं मनोहरम् ।। 4.35.४० ।। ब्रह्मोवाच ।। स्त्रीपुंसोः क्रीडनार्थाय मुदा त्वं च विनिर्मितः ।। हृष्टियोगेन सर्वेषामधिष्ठानं करिष्यसि ।। ४१ ।। संमोहनं समुद्वेगं बीजस्तंभितकारणम् ।। उन्मत्तबीजं ज्वलदं शश्वच्चेतनहारकम् ।। ४२ ।। प्रगृह्यैतान्मया दत्तान्सर्वान्संमोहनं कुरु ।। दुर्निवार्यो मम वराद्भव वत्स भवेषु च ।। ४३ ।। बाणान्दत्त्वैवमुक्त्वा च प्रहृष्टश्च जगद्विधिः ।। दृष्ट्वोवाच दुहितरं वरं दातुं समुद्यतः ।। ४४।। एतस्मिन्नन्तरे कामो मनसाऽऽलोच्य मन्त्रणाम् ।। कर्तुं शस्त्रपरीक्षां च बाणांश्चिक्षेप ब्रह्मणि ।। ४५ ।। मंत्रपूतैश्च बाणैश्च दुर्वार्यैः स्मरणेन च ।। अतिविद्धो महायोगी मूर्च्छितो हतचेतनः।। ४६ ।। क्षणेन चेतनां प्राप्य ददर्शाग्रे च कन्यकाम् ।। तां संभोक्तुं मनश्चक्रे सा दुद्राव भिया सती ।। ४७ ।। दृष्ट्वा पश्चाच्च पितरं धावन्तं हतचेतनम् ।। जगाम शरणं शीघ्रं भ्रातॄणां च तपस्विनाम् ।। ४८ ।। ते तां समीपे संस्थाप्य तमूचुः पितरं क्रुधा ।। हितं तथ्यं च वेदोक्तं नीतिसारं परं वचः ।। ४९ ।। ऋषय ऊचुः ।। अहो किमेतज्जनक कर्म तेऽतिविगर्हितम् ।। नीचानां चरितं यत्तत्करोषि त्वं जगद्विधे ।। 4.35.५० ।। पश्यन्ति सततं सन्तः प्रसूमिव परस्त्रियम् ।। ये ते सर्वत्र पूज्याश्च परत्रेह जितेन्द्रियाः ।।५१ ।। त्वं स्वयं वेदकर्ता च कन्यां संभोक्तुमिच्छसि ।। कन्या च मातृवर्गेषु प्रविष्टा च श्रुतौ श्रुता ।। ५२ ।। गुरोः पत्नी राजपत्नी विप्रपत्नी च या सती ।। पत्नी च भ्रातृसुतयोर्मित्रपत्नी च तत्प्रसूः ।। ५३ ।। प्रसूः पित्रोस्तथा भ्रातुः पत्नी श्वश्रूः स्वकन्यकाः ।। जननी तत्सपत्नी च भगिनी सुरभी तथा ।। ५४ ।। स्वाभीष्टसुरपत्नी च धात्रिकाऽन्नप्रदायिका ।। गर्भधात्री स्वनाम्ना च भयात्त्रातुश्च कामिनी ।। ५५ ।। एता वेदप्रणीताश्च सर्वेषां मातरः स्मृताः।। एतास्वपि च सर्वासु न्यूनता नास्ति कासु च ।।५६।। कन्यादाताऽन्नदाता च ज्ञानदाताऽभयप्रदः ।। जन्मदो मन्त्रदो ज्येष्ठभ्राता च पितरः स्मृताः ।।५७ ।। एता वहन्ति ये मूढा य एताञ्जनकानपि ।। पच्यन्ते नरके ते च यावद्वै ब्रह्मणो वयः ।। ५८ ।। तानन्धकूपे संस्थाप्य दूरतो यमकिङ्कराः।। कुर्वन्ति ताडनं शश्वत्पुरीषं पाययन्ति च ।। ५९ ।। त्वमेव विश्वकर्ता च शास्ता वै शमनस्य च ।। वयं विधाता जगतां तेन गृह्णासि कन्यकाम् ।। 4.35.६० ।। अस्माकं पुरतो दूरं गच्छ कामार्तमानस।। न कुर्मो भस्मसात्कर्तुं शक्ताश्च जनकं वयम् ।।६१।। गुरोर्दोषसहस्राणि क्षन्तुमर्हन्ति पण्डिताः ।। सर्वघ्नं तं विनिघ्नन्ति नीतिज्ञाः स्वगुरुं विना ।।६२।। गृह्णन्ति यदि सर्वस्वं शपन्तं निष्ठुरं गुरुम् ।। साधवस्तं न निन्दन्ति प्रणमन्ति स्वभक्तितः ।।६३।। ये द्विषन्ति च निन्दति गुरुमिष्टं सुरात्परम् ।। पच्यन्ते तेऽन्धकूपे च यावच्चन्द्रदिवाकरौ।।६४।। पुरीषं भुञ्जते नित्यं क्षुभिता यमताडनैः ।। सर्पप्रमाणकीटैश्च दंशिताश्च दिवानिशम् ।। ६५।। इत्येवमुक्त्वा मुनयः प्रणेमुस्तत्पदाम्बुजम् ।। सर्वं भवति दैवेन प्रशान्तमनसा ध्रुवम् ।। ६६ ।। उन्मुखा मुनयः सर्वे बभूवुश्च स्वकर्मणि।। ब्रह्मा शरीरं संत्यक्तुं व्रीडया च समुद्यतः ।।६७।। योगेन भित्त्वा षट्चक्रं सर्वान्प्राणान्निरुद्ध्य च।। ब्रह्मरन्ध्रं समानीय तत्याज स्वेन वर्त्मना ।।६८।। मनसा श्रीहरिं स्मृत्वा नमस्कारं चकार ह ।। न मे मनः परद्रव्ये भविता स्तोकमीश्वर ।।६९।। प्राणत्यागात्परं दुःखमयशश्च यशस्विनाम् ।। बभूव हृदि कृत्वैकं ब्रह्मा लीनश्च ब्रह्मणि।। ।। 4.35.७० ।। कन्या तातं मृतं दृष्ट्वा विलप्य च भृशं मुहुः।। योगेन देहं तत्याज सा प्रलीना च ब्रह्मणि।।७१।। मृतं तातं च भगिनीं दृष्ट्वा च मुनिपुंगवाः ।। सस्मरुः श्रीहरिं कोपात्स्वात्मारामं विलप्य च ।।७२।। नारायणो मदंशश्च कृपयाऽऽगत्य सत्वरम् ।। ब्रह्माणं जीवयामास ब्रह्मज्ञानात्सुतां च ताम् ।।७३।। ब्रह्मा पुरो हरिं दृष्ट्वा वरं वव्रे स्म वाञ्छितम् ।। भक्तिं त्वच्चरणे शश्वन्निश्चलामनपायिनीम् ।।७४।। ब्रह्माणं विरसं दृष्ट्वा तमुवाच कृपानिधिः ।। प्रबोधवचनं सत्यं नीतिसारं मनोहरम् ।। ७५ ।। श्रीनारायण उवाच ।। शृणु ब्रह्मन्प्रवक्ष्येऽहं मुखमुत्तोल्य सांप्रतम् ।। त्यज लज्जां जगन्नाथ हृदयज्वररूपिणीम् ।। ७६ ।। सत्कीर्तिरपकीर्तिर्वा सुप्रतिष्ठाप्युपद्रवः ।। क्षुद्राणां चैव महतां भवत्येव स्वकर्मणा ।।७७।। सर्वेषामपि सर्वेभ्यः स्वकर्म बलवत्तरम् ।। तस्मात्सन्तः प्रकुर्वन्ति नित्यं सत्कर्म संततम् ।। ७८ ।। केचित्कुर्वन्ति निर्मूलं सर्वेषामपि कर्मणाम् ।। कृतं कर्म परं भुक्त्वा हरिपादाब्जचेतसः ।।७९ ।। कुकर्मणश्चापकीर्तिस्ततो लज्जा भवेद्ध्रुवम् ।। सुकर्मणः सुप्रतिष्ठा सर्वत्र निर्मलं यशः ।। 4.35.८० ।। कालेन रजसा देहो बलं रूपं शुभाशुभम् ।। कीर्तिर्या त्रिगुणा चैव मोहश्चापयशो विधे ।। ८१ ।। ऋणव्रणापवादाश्च जन्तूनां यान्ति कालतः ।। महतां तौ च पूर्वोक्तौ नेतरश्च कदाचन ।। ८२ ।। सदाऽपकीर्तिर्वसति परस्त्रीषु च वस्तुषु।। तस्मात्ते नैव गृह्णन्ति सन्तः स्वक्लेशकारणे ।। ८३ ।। स्मर मामन्तरे ब्राह्मे मदीयं विषयं कुरु।। अतस्ते न मनो लोलं भविता परवस्तुषु ।। ८४ ।। योषिद्रूपा च मे माया सर्वेषां मोहकारिणी ।। लीलया कुरुते मोहं स्वात्मारामस्य संततम् ।। ८५ ।। नानामुद्राश्रये देशे रागिणो संततं रतिः।। स्तनाभिधे मांसपिण्डेऽधरे लालालयेऽशुचौ ।।८६।। श्रोणिवक्त्रस्तनं तासां कामदेवालयं सदा ।। तस्मात्ते न हि पश्यन्ति सन्तो हि धर्मभीरवः ।।८७।। को धर्मः किं यशस्तेषां का प्रतिष्ठा च किं तपः।। किं बुद्धिर्विद्या दानं च परस्त्रीषु च यन्मनः ।। ८८ ।। इहाप्यपयशो दुःखं नरकेषु परत्र च ।। वासः प्रहारस्तेषां च ताडनैः कृमिभक्षणैः ।। ८९ ।। दुःखबीजं सुखं मत्वा मूढाश्च दैवदोषतः ।। परस्त्रीसेवनं प्रीत्या कुर्वन्ति संततं मुदा ।। 4.35.९० ।। उत्तमा मत्पदाम्भोजं सत्कर्म मध्यमाः सदा ।। स्मरन्ति शश्वदधमाः परस्त्रीसेवनं मुदा ।। ९१ ।। विपत्तिः संततं तस्य परवस्तुषु यन्मनः ।। विशेषतः परस्त्रीषु सुवर्णेषु च भूमिषु ।। ९२ ।। दैवात्परस्त्रियं दृष्ट्वा विरमेद्यो हरिं स्मरन् ।। दृष्ट्वा परसुवर्णं च हस्तप्रक्षालनाच्छुचिः ।। ९३ ।। सततं नैव संसक्ताः सन्तः स्वस्त्रीषु कामतः ।। यक्ष्मव्याधिज्ञानहानिलोकनिन्दाभयेन च ।।९४।। तपस्विनस्तपस्यायां शास्त्रचिन्तासु पण्डिताः।। योगिनो योगचिन्तासु वेदार्थेषु च वैदिकाः ।।९५।। साध्यश्च पतिसेवासु गृहस्था गृहकर्मसु ।। विषयेषु विषयिणो मद्भक्ता मम सेवने ।। ९६ ।। एते नियुक्ता एतेषु सभासु च प्रशंसिताः।।। वेदोक्ताचरणेनैव तद्विरुद्धेन निन्दिताः ।।९७।। सर्वे नित्यं प्रशंसन्ति शश्वत्सन्मार्गगामिनम् ।। हालिका अपि निन्दन्ति कुवर्त्मगामिनं विधे ।।९८।। भविता न परस्त्रीषु परवस्तुषु ते मनः ।। अद्यप्रभृति जीवन्तं निविष्टं मद्वरेण च ।। ९९ ।। मदीयविषये बाह्ये मया दत्तं कुरु प्रियम् ।। अन्तरा मत्पदाम्भोजचिन्तां विघ्नविनाशिनीम् ।। 4.35.१०० ।। कन्या भवतु मे ब्रह्मन्कामदेवस्य कामिनी ।। रतिर्नाम परित्याज्या रत्यधिष्ठातृदेवता ।।१०१।। इत्येवमुक्त्वा ब्रह्माणमाश्वास्य कमलापतिः ।। जगाम नित्यं वैकुण्ठं वृन्दावनविनोदनः ।। १०२ ।। इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे राधाकृष्णसंवादो नाम पञ्चत्रिंशोऽध्यायः ।। ३५ ।।

|| śrīkṛṣṇa uvāca || nārāyaṇaśca brahmāṇamuvāca kṛpayā punaḥ || dṛṣṭvā gaṅgāṃ ca sarve tāṃ mama māyāṃ ca menire || 1 || || || śrīnārāyaṇa uvāca || uttiṣṭha gaccha bhadraṃ te bhaviṣyati caturmukha || atra snātvā'bhiśaptastvaṃ pūto bhava mamājñayā||2|| tvaṃ cetsatyaṃ svayaṃ pūtaḥ sparśaṃ vāñchanti tāni te || vaiṣṇaveśasya tīrthāni sarvāṇi satataṃ mune||3|| tathāpi śāpamuktastvamatra prakṛtihelanāt || ahaṃkāraśca sarveṣāṃ pāpabījamamaṅgalam || 4 || śīghraṃ tvaṃ gaccha golokaṃ mamālayaṃ parātparam || prakṛtyaṃśāṃ maṅgaladāṃ tatra prāpsyasi bhāratīm || 5 || prakṛtiṃ bhaja kalyāṇa sṛṣṭibījasvarūpiṇīm || aho kalpāntaparyantaṃ tapastaptaṃ tvayā'dhunā||6|| tava mantraṃ na gṛhṇanti ke'pi veśyā'bhiśāpataḥ || yadanyadevapūjāyāṃ tava pūjā bhaviṣyati || 7 || tvameva jagatāṃ dhātā svātmārāmaśca yoṣitaḥ || sarvarūpī ca pūjaḥ ca sarvadeheṣu sarvataḥ || 8 || tadā mamājñayā brahmā snātvā ca jāhnavījale || śīghraṃ jagāma golokaṃ māṃ praṇamya jagadguruḥ || 9 || te devā munayaḥ sarve prajagmuḥ svālayaṃ mudā || sunirmalaṃ mama yaśo gāyantaśca punaḥpunaḥ || 4.35.10 || vidhirāgatya golokaṃ saṃprāpya bhāratīṃ satīm || sarvavidyādhidevīṃ tāṃ madvaktrābjavinirmitām ||11 || vāgīśvarīṃ ca saṃprāpya brahmā pramuditaḥ svayam || kāmāstrāṇāṃ ca vyāpāramanumene svayaṃ vibhuḥ||12|| tata āgatya māṃ natvā prāpya trailokyamohinīm || krīḍāṃ cakāra bhagavānsthānesthāne'tinirjane||13|| ratiṃ cirataraṃ kṛtvā virarāma svayaṃ vidhiḥ || vāgīśvarīmuvācedaṃ tvaṃ vai brahmā ca karmaṇā || 14 || kācitsvakarmaṇā sādhvī pūjyā ca sthirayauvanā || tavaiva karmayogaṃ ca yuvānaṃ paśya sundari || 15 || vidagdhāyā vidagdhena saṃgamo guṇavānbhavet || jarāturo'haṃ vṛddhaśca tapasvī vaiṣṇavo dvijaḥ || 16 || asvatantraḥ parādhīnaḥ kā ratiḥ puṃścalīṣu me || ājagāma brahmalokaṃ punareva nijālayam || 17 || dadṛśubrarhmalokasthāstāṃ devīṃ kautukānvitāḥ || atīva sundarīṃ ramyāṃ śubhravarṇāṃ ca sasmitām || 18 || śaracchītāṃśuvadanāṃ śaratpaṅkajalocanām || pakvabimbaprabhāmuṣṭadīptauṣṭhādharapallavām ||19|| muktāpaṅktivinindyaikadantapaṅktimanoharām|| ratnakeyūravalayaratnanūpuraśobhitām || 4.35.20 || ratnakuṇḍalayugmena karṇamūlavirājitām || ratnendrasārahāreṇa vakṣaḥsthalasamujjvalām || 21 || vahniśuddhāṃśukaṃ sūkṣmaṃ bibhratīṃ navayauvanām || atīva kamanīyāṃ ca pīnaśroṇipayodharām || 22 || vīṇāpustakahastāṃ ca vyākhyāmudrākarāṃ varām || te ca nirmañchanaṃ kṛtvā cakruḥ paramamaṅgalam || 23 || purīṃ praveśayāmāsurbrahmāṇaṃ bhāratīṃ mudā || brahmā tayā saha krīḍāṃ cakāra sa divāniśam || 24 || atīva sukhasaṃbhoge nimagnaḥ satataṃ mudā || gūḍhe sarvapurāṇeṣu kiṃ punaḥ śrotumicchasi || 29 || ||śrīnārāyaṇa uvāca || prāṇeśavacanaṃ śrutvā prahasya parameśvarī || bhūyo'pi paripapraccha kautukānmānasaṃ purā || 26 || śrīrādhikovāca || brahmā kathaṃ na jagrāha veśyāṃ svayamupasthitām || na karmakṣetre rahasi phaladātā ca karmaṇām || 27 || upasthitāyāstyāge ca mahāndoṣo hi yoṣitaḥ || jñātvā devo vidhātā sa kathaṃ tatyāja mohinīm || 28 || śrīnārāyaṇa uvāca || rādhikāvacanaṃ śrutvā prahasya madhusūdanaḥ || pādmakalpasya vṛttāntamuvāca parameśvarīm || 29 || śrīkṛṣṇa uvāca|| śṛṇu kānte pravakṣyāmi purāvṛttāntamīpsitam || akathyaṃ gopanīyaṃ ca mahatāmabhininditam || 4.35.30 || ekadā ca prajāḥ sraṣṭuṃ vidhātā prerito mayā || sasarja manasā putrāñjvalato brahmatejasā|| 31 || sanakaṃ ca sanandaṃ ca sanātanamanuttamam || sanatkumāraṃ voḍhuṃ ca kaviṃ pañcaśikhaṃ vibhum ||32 || asitaṃ kapilaṃ siddhaṃ siddhānmama kulodbhavān|| tānnagnānpañcavarṣīyānpitā sraṣṭuṃ jagāda ha|| 33 || prajāḥ sraṣṭuṃ prerakaṃ ca janakaṃ te'vamanya ca || prajagmustapase tūrṇaṃ mamārcanaparāyaṇāḥ || 34 || tadā ruṣṭo jagaddhātā punaḥ putrānvinirmame || rudrānekādaśa varānrudato bhīmavigrahān || 35 || tasminprayujya tarasā punaḥ putrānvinirmame || yogī yogena māṃ dhyātvā svātmārāmaḥ svavigrahe || 36 || vasiṣṭhaṃ pulahaṃ caiva kratumaṅgirasaṃ tathā || bhṛgumatriṃ pulastyaṃ ca dakṣaṃ kardamameva ca || 37 || marīciṃ ca vinirmāya prajāḥ sraṣṭuṃ niyujya ca || prahṛṣṭamānasaḥ putraṃ kanyaikā ca sasarja ha || 38 || kṛṣṇasya kāminaḥ putraḥ kāmadevo babhūva ha || kanyā ṣoḍaśavarṣīyā ratnabhūṣaṇabhūṣitā || 39 || uvāca putraṃ sa vidhiḥ sudīptaṃ purataḥ sthitam || durnivāryaṃ matkalāṃśaṃ svātmārāmaṃ manoharam || 4.35.40 || brahmovāca || strīpuṃsoḥ krīḍanārthāya mudā tvaṃ ca vinirmitaḥ || hṛṣṭiyogena sarveṣāmadhiṣṭhānaṃ kariṣyasi || 41 || saṃmohanaṃ samudvegaṃ bījastaṃbhitakāraṇam || unmattabījaṃ jvaladaṃ śaśvaccetanahārakam || 42 || pragṛhyaitānmayā dattānsarvānsaṃmohanaṃ kuru || durnivāryo mama varādbhava vatsa bhaveṣu ca || 43 || bāṇāndattvaivamuktvā ca prahṛṣṭaśca jagadvidhiḥ || dṛṣṭvovāca duhitaraṃ varaṃ dātuṃ samudyataḥ || 44|| etasminnantare kāmo manasā''locya mantraṇām || kartuṃ śastraparīkṣāṃ ca bāṇāṃścikṣepa brahmaṇi || 45 || maṃtrapūtaiśca bāṇaiśca durvāryaiḥ smaraṇena ca || atividdho mahāyogī mūrcchito hatacetanaḥ|| 46 || kṣaṇena cetanāṃ prāpya dadarśāgre ca kanyakām || tāṃ saṃbhoktuṃ manaścakre sā dudrāva bhiyā satī || 47 || dṛṣṭvā paścācca pitaraṃ dhāvantaṃ hatacetanam || jagāma śaraṇaṃ śīghraṃ bhrātṝṇāṃ ca tapasvinām || 48 || te tāṃ samīpe saṃsthāpya tamūcuḥ pitaraṃ krudhā || hitaṃ tathyaṃ ca vedoktaṃ nītisāraṃ paraṃ vacaḥ || 49 || ṛṣaya ūcuḥ || aho kimetajjanaka karma te'tivigarhitam || nīcānāṃ caritaṃ yattatkaroṣi tvaṃ jagadvidhe || 4.35.50 || paśyanti satataṃ santaḥ prasūmiva parastriyam || ye te sarvatra pūjyāśca paratreha jitendriyāḥ ||51 || tvaṃ svayaṃ vedakartā ca kanyāṃ saṃbhoktumicchasi || kanyā ca mātṛvargeṣu praviṣṭā ca śrutau śrutā || 52 || guroḥ patnī rājapatnī viprapatnī ca yā satī || patnī ca bhrātṛsutayormitrapatnī ca tatprasūḥ || 53 || prasūḥ pitrostathā bhrātuḥ patnī śvaśrūḥ svakanyakāḥ || jananī tatsapatnī ca bhaginī surabhī tathā || 54 || svābhīṣṭasurapatnī ca dhātrikā'nnapradāyikā || garbhadhātrī svanāmnā ca bhayāttrātuśca kāminī || 55 || etā vedapraṇītāśca sarveṣāṃ mātaraḥ smṛtāḥ|| etāsvapi ca sarvāsu nyūnatā nāsti kāsu ca ||56|| kanyādātā'nnadātā ca jñānadātā'bhayapradaḥ || janmado mantrado jyeṣṭhabhrātā ca pitaraḥ smṛtāḥ ||57 || etā vahanti ye mūḍhā ya etāñjanakānapi || pacyante narake te ca yāvadvai brahmaṇo vayaḥ || 58 || tānandhakūpe saṃsthāpya dūrato yamakiṅkarāḥ|| kurvanti tāḍanaṃ śaśvatpurīṣaṃ pāyayanti ca || 59 || tvameva viśvakartā ca śāstā vai śamanasya ca || vayaṃ vidhātā jagatāṃ tena gṛhṇāsi kanyakām || 4.35.60 || asmākaṃ purato dūraṃ gaccha kāmārtamānasa|| na kurmo bhasmasātkartuṃ śaktāśca janakaṃ vayam ||61|| gurordoṣasahasrāṇi kṣantumarhanti paṇḍitāḥ || sarvaghnaṃ taṃ vinighnanti nītijñāḥ svaguruṃ vinā ||62|| gṛhṇanti yadi sarvasvaṃ śapantaṃ niṣṭhuraṃ gurum || sādhavastaṃ na nindanti praṇamanti svabhaktitaḥ ||63|| ye dviṣanti ca nindati gurumiṣṭaṃ surātparam || pacyante te'ndhakūpe ca yāvaccandradivākarau||64|| purīṣaṃ bhuñjate nityaṃ kṣubhitā yamatāḍanaiḥ || sarpapramāṇakīṭaiśca daṃśitāśca divāniśam || 65|| ityevamuktvā munayaḥ praṇemustatpadāmbujam || sarvaṃ bhavati daivena praśāntamanasā dhruvam || 66 || unmukhā munayaḥ sarve babhūvuśca svakarmaṇi|| brahmā śarīraṃ saṃtyaktuṃ vrīḍayā ca samudyataḥ ||67|| yogena bhittvā ṣaṭcakraṃ sarvānprāṇānniruddhya ca|| brahmarandhraṃ samānīya tatyāja svena vartmanā ||68|| manasā śrīhariṃ smṛtvā namaskāraṃ cakāra ha || na me manaḥ paradravye bhavitā stokamīśvara ||69|| prāṇatyāgātparaṃ duḥkhamayaśaśca yaśasvinām || babhūva hṛdi kṛtvaikaṃ brahmā līnaśca brahmaṇi|| || 4.35.70 || kanyā tātaṃ mṛtaṃ dṛṣṭvā vilapya ca bhṛśaṃ muhuḥ|| yogena dehaṃ tatyāja sā pralīnā ca brahmaṇi||71|| mṛtaṃ tātaṃ ca bhaginīṃ dṛṣṭvā ca munipuṃgavāḥ || sasmaruḥ śrīhariṃ kopātsvātmārāmaṃ vilapya ca ||72|| nārāyaṇo madaṃśaśca kṛpayā''gatya satvaram || brahmāṇaṃ jīvayāmāsa brahmajñānātsutāṃ ca tām ||73|| brahmā puro hariṃ dṛṣṭvā varaṃ vavre sma vāñchitam || bhaktiṃ tvaccaraṇe śaśvanniścalāmanapāyinīm ||74|| brahmāṇaṃ virasaṃ dṛṣṭvā tamuvāca kṛpānidhiḥ || prabodhavacanaṃ satyaṃ nītisāraṃ manoharam || 75 || śrīnārāyaṇa uvāca || śṛṇu brahmanpravakṣye'haṃ mukhamuttolya sāṃpratam || tyaja lajjāṃ jagannātha hṛdayajvararūpiṇīm || 76 || satkīrtirapakīrtirvā supratiṣṭhāpyupadravaḥ || kṣudrāṇāṃ caiva mahatāṃ bhavatyeva svakarmaṇā ||77|| sarveṣāmapi sarvebhyaḥ svakarma balavattaram || tasmātsantaḥ prakurvanti nityaṃ satkarma saṃtatam || 78 || kecitkurvanti nirmūlaṃ sarveṣāmapi karmaṇām || kṛtaṃ karma paraṃ bhuktvā haripādābjacetasaḥ ||79 || kukarmaṇaścāpakīrtistato lajjā bhaveddhruvam || sukarmaṇaḥ supratiṣṭhā sarvatra nirmalaṃ yaśaḥ || 4.35.80 || kālena rajasā deho balaṃ rūpaṃ śubhāśubham || kīrtiryā triguṇā caiva mohaścāpayaśo vidhe || 81 || ṛṇavraṇāpavādāśca jantūnāṃ yānti kālataḥ || mahatāṃ tau ca pūrvoktau netaraśca kadācana || 82 || sadā'pakīrtirvasati parastrīṣu ca vastuṣu|| tasmātte naiva gṛhṇanti santaḥ svakleśakāraṇe || 83 || smara māmantare brāhme madīyaṃ viṣayaṃ kuru|| ataste na mano lolaṃ bhavitā paravastuṣu || 84 || yoṣidrūpā ca me māyā sarveṣāṃ mohakāriṇī || līlayā kurute mohaṃ svātmārāmasya saṃtatam || 85 || nānāmudrāśraye deśe rāgiṇo saṃtataṃ ratiḥ|| stanābhidhe māṃsapiṇḍe'dhare lālālaye'śucau ||86|| śroṇivaktrastanaṃ tāsāṃ kāmadevālayaṃ sadā || tasmātte na hi paśyanti santo hi dharmabhīravaḥ ||87|| ko dharmaḥ kiṃ yaśasteṣāṃ kā pratiṣṭhā ca kiṃ tapaḥ|| kiṃ buddhirvidyā dānaṃ ca parastrīṣu ca yanmanaḥ || 88 || ihāpyapayaśo duḥkhaṃ narakeṣu paratra ca || vāsaḥ prahārasteṣāṃ ca tāḍanaiḥ kṛmibhakṣaṇaiḥ || 89 || duḥkhabījaṃ sukhaṃ matvā mūḍhāśca daivadoṣataḥ || parastrīsevanaṃ prītyā kurvanti saṃtataṃ mudā || 4.35.90 || uttamā matpadāmbhojaṃ satkarma madhyamāḥ sadā || smaranti śaśvadadhamāḥ parastrīsevanaṃ mudā || 91 || vipattiḥ saṃtataṃ tasya paravastuṣu yanmanaḥ || viśeṣataḥ parastrīṣu suvarṇeṣu ca bhūmiṣu || 92 || daivātparastriyaṃ dṛṣṭvā viramedyo hariṃ smaran || dṛṣṭvā parasuvarṇaṃ ca hastaprakṣālanācchuciḥ || 93 || satataṃ naiva saṃsaktāḥ santaḥ svastrīṣu kāmataḥ || yakṣmavyādhijñānahānilokanindābhayena ca ||94|| tapasvinastapasyāyāṃ śāstracintāsu paṇḍitāḥ|| yogino yogacintāsu vedārtheṣu ca vaidikāḥ ||95|| sādhyaśca patisevāsu gṛhasthā gṛhakarmasu || viṣayeṣu viṣayiṇo madbhaktā mama sevane || 96 || ete niyuktā eteṣu sabhāsu ca praśaṃsitāḥ||| vedoktācaraṇenaiva tadviruddhena ninditāḥ ||97|| sarve nityaṃ praśaṃsanti śaśvatsanmārgagāminam || hālikā api nindanti kuvartmagāminaṃ vidhe ||98|| bhavitā na parastrīṣu paravastuṣu te manaḥ || adyaprabhṛti jīvantaṃ niviṣṭaṃ madvareṇa ca || 99 || madīyaviṣaye bāhye mayā dattaṃ kuru priyam || antarā matpadāmbhojacintāṃ vighnavināśinīm || 4.35.100 || kanyā bhavatu me brahmankāmadevasya kāminī || ratirnāma parityājyā ratyadhiṣṭhātṛdevatā ||101|| ityevamuktvā brahmāṇamāśvāsya kamalāpatiḥ || jagāma nityaṃ vaikuṇṭhaṃ vṛndāvanavinodanaḥ || 102 || iti śrībrahmavaivarte mahāpurāṇe śrīkṛṣṇajanmakhaṇḍe nārāyaṇanāradasaṃvāde rādhākṛṣṇasaṃvādo nāma pañcatriṃśo'dhyāyaḥ || 35 ||

English translation

The episode of Brahma Krsna said- Narayana compassionately again started speaking to Brahma and all those present there looking at the Ganga took to be for my illusion.

Narayana said- O four-faced Brahma get up and go to your abode You will surely meet with welfare. Taking a bath in the river Ganga you will be relieved of the curse with my command.

Sage in case you feet truthful and are puce at heart, All these sacred places including yourself are desirous of the touch of Visnu but since you have defied the nature you have earned a sin.

You will therefore be relieved of a sin. The arrogance is the seed of all the sins and You immediately move on to my infallible place of Goloka. Reaching there you will achieve Sarasvatl who is the form of Prakiti and always O virtuous one, you own Prakrti, who happens to be the seed of the universe. You have performed tapas, for a kalpa.

Because of the curse of the wicked women no body would recite your mantra but you will be adored together with the other gods.

Since you are the creator of the universe and always remain engrossed in your own soul, you are the form of all and are adorable by all.

Thereafter Brahma the teacher of the universe took bath in the Ganga at my command and left for Goloka, Thereafter all the gods, the sages reciting my spotless glory again and again left for their On reaching Goloka Brahma achieved Sarasvatl who happens to be the goddess of all the matter and had. emerged out of my lotus-like Achieving Sarasvatl Brahma felt delighted, Brahma then himself permitted the god of love to short the arrows on him.

Soon thereafter Brahma returned to my place and bowed before me. Owning Sarasvatl who could attract the three worlds, Brahma took her to the secluded places and enjoyed her company.

After enjoying the love-sport with her for long, 'the mind of Brahma felt detached and he spoke to Sarasvatl, "You represent the Brahman by your action." A women becomes chaste by her deeds, beside being adorable and possessing the everlasting youth. O beautiful one, you better select some one else who should be quite young for your purpose.

Because a competent women can feel happy with a competent man. Because of my old age I am unstable, old, ascetic, Vaisnava, Brahmanal and am governed by others. How could I be i attached to a loose women? I have returned again to my own abode which is Brahmaloka. ' The people of Brahmaloka looked at the goddess with great interest who was quite' beautiful, charming having fair complexion and wore a serene smile on her face.

Her face resembled the moon of the winter season, the eyes resembled the lotus flowers of the winter season; the shining lips resembled the ripe wood apples, the lines of teeth resembled the jewels. The goddess was adorned with armlets, wristlets and the anklets made of gems.

The gem-studded ear-ornaments adorned her ears and the garland of gems was shining on her She was clad in fine clothes sanctified by fire and was quite youthful and attractive. She had She held virid in both the hands, while the other hands were in vyakhydna-mudrd. The people of Brahmaloka welcomed the goddess sacrificing various valuable on her. Thereafter both Brahma and Bharat! entered Goloka, Thereafter both Brahma and Bharat! were engaged in love-sports, they then delightfully engaged themselves in the love-sport This is the secret of various Puranas; what else do you want to listen from me.?.

Narayana said- On hearing the words of her beloved, Radh^ curiously again asked the lord.

Radhika said- "O lord, you tell me why did Brahma not accept the apsara of the heaven who herself arrived before him in a secluded place.

The reason was not known in the land of Bharata. It is really sinful not to accept a damsel who herself arrives to seek ones company.

Brahma being well aware of this how could he Narayana said- On hearing the words of Radhika Madhusudana smiled and he narrated to her the story of Pddma-kalpa.

Sri Krsna said- O my beloved listen to me, I am going to tell you an extremely secret and untold story which delights the noble people.

Once I inspired Brahma for the creation of the universe. Thereafter the illumining mind bom sons were created by him.

ym: w ittcf g They were known as Sanaka, Sananda, the best Sanatana, Sanatkumara, Vodhu Kavi, Pancasikha, Asita, Kapila and siddha, the five siddhas who always remain or the ago of five years and were bom out of my amsa were asked by Brahma to engage themselves in the creation of the universe. Those sons of Brahma always engaged themselves in my devotion.

Disregarding the command of their father, the proceeed on for performing tapas.

Therefore, getting disgusted Brahma created another set of sons. They happened to be the possessing terrific bodies and were eleven in number. Since they were always ciyhng, they came to be known as Rudras.

Entrusting the creation of the universe to the Rudras, Brahma started meditating upon me.

With this yogic powers and with his mind devoted in me, Brahma created more sons who have been known as Vasistha, Pulaha, Kratu, and MarTci and entrusted them with the task of creation of the universe. Thereafter Brahma delightfully created another son and a daughter.

Ktoadeva happen to be the son of Sri Krsna and was filled with love, the girl who was created was of sixteen years' age and was adorned with all the ornaments.

The son who was standing before him and was bom out of my amsa was quite pleasant to look at beside being illustrious.

Brahma said- I have created both of you and you incite the men and a women to indulge in the love sport between. By means of yogic practices you reside in the hearts of all.

You accept my arrows by which you can influence others besides charming them with force, disturbing the seed, making them hysterical, creating burning sensation, removing of senses and disturbing them because of my been you can move everywhere in the universe without any obstruction.

The lord of the universe handing over the arrows to kdma, felt extremely delighted and looking at the daughter he thought of bestowing a boon on her. In the meantime kama in order to test the weapons provided to him by his own father, shot an arrow at Brahma.

With the shooting of the arrow at Brahma, the creator of the universe who happens to be the lord of mantras was wounded and he lost his On regaining his consciousness he found the girl there and became desirous of enjoying her company. The chaste girl fled from the scene in terror. Finding her father following her she felt terrified and ran for shelter towards his ascetic rT?it wnsi ftrat Keeping the giri with them, the ascetics looked at; BrahmS, their own father with great anger and they spoke to him the words which were according to the Vedas, quite appropriate and the best.

The sages said- It pain us a lot that you have indulged in such an action which is to be denounced by all. O creator of universe, you have indulged in the actions which are practiced by the degraded people.

The noble people always look at the other women like their own mother and always control their senses. Such people are adored every where in the universe.

You are yourself the creator of the universe and you intend to enjoy the company of your own daughter. The daughter comes in the category of mothers which has been defined in the Vedas.

The \vife of the teacher, the wife of the king, wife of the Brahmana, the wives of the brothers and the sons, the wife of the friends and their mothers, the wives of the parents, the mother in¬ law, one's own daughter, the mother, co-wife, the sisters the cow, the wife of the family gods, mid¬ wife, the one who provides food, the one who keeps in the womb, the one who removes the danger, are all considered to be like mothers.

This has been ordained in the Vedas, they are all equal in respect and no one is of lesser in WT ^ ftRR; T5?IT; 11 q a 11 Similarly the one who gives away the daughter, the one who gives away food, the one who gives away knowledge, the one who gives away protection, the one who gives birth, the one who gives mantra and the elder brother are considered to be like father.

Such of the foolish people who misbehave, with the mother and the father as defined above i they fall into the hell and remain there till the age!

of Brahma. ' The messengers of Yama carry them and through them in the andhakupa hell and always torture them were they have to consume refuge.

fgsntiT ^3nT?iT o n You are the creator of the universe and also administer even the god of death and you create the three worlds. Are you going to catch hold of this girl because of the position you will going.

O father, your mind is infested with passion and you therefore disappear from the sight of sight of we people at a long distance. Though we are competent enough to reduce you to ashes but we still do not so taking you to be our father.

Because the noble people forgive a thousand sins of the teacher. The people who are well- versed in polity destroyed the person who kill every-one, accept the teacher.

In case a teacher takes away every-thing and than pronouncing a curse, even such a heartless teacher is not denounced by the noble people and adore him with great devotion.

The one becomes the jealous of the teacher, who indeed in the better than the gods and denounce him they fall in the andhakupa hell and stay there till the life of the sun and the moon.

After having been tortured by the messengers of Yama they consumed the refuge and are bitten by the snakes through out the day and night.

Thus speaking the sages offered their salutation at the feet of Brahma, everything is possible according to the moves of destiny.

All the sages than engaged themselves in their respective assignment and Brahma feeling ashamed thought of ending his life.

He stopped his Prdnavdyu (wind of life) and broke the Satcakra with the yogic practices and pushing it through the Brahmarandhra, his soul was about to leave his body.

At that point of time he remembers the name of lord Hari and offered his salutation to him saying, O lord my mind should not get attracted even slightly towards the riches of others. For the graceful people, the denouncement is verse than death. Completely devoting his mind towards the lord he merged into the Brahman.

Finding her father dead, the daughter felt extremely grieved and lamented for long.

Thereafter she ending her life by yogic practices merged into the body of Brahman.

rTTct 'ar iqfiRt ^ at The best of sages also thinking of their father and the sister who had met with their end, lamented for long in anger and started reciting the name of Hari.

Thereafter, Narayana who happens to be my aftisa arrived there at once and with the application of his divine knowledge he brought back to life Brahma and his daughter.

Brahma on finding Hari standing before him asked for a desired boon, "My mind should remain devoted at your feet always. And I should have and everlasting and deep devotion at your Finding Brahma disturbed in his brain, the compassionate lord spoke to him to enlighten him with the words which were truthful, appropriate and pleasant.

NarSyana said- O Brahman, O lord of the universe, you shed away the shame and the burning of their heart. Raise up your head and listen to me whatever I am speaking to you.

Credit or discredit, reputation or denouncement, one gets according to his own deeds either he is a great or insignificant.

One's own deeds are always powerful for a person. By availing of the reward of the one's deeds, one consumes them.

Some one has to face the result of his own deed by devoting his mind at the lotus-like feet of the lord.

One gets denouncement by indulging in misdeeds which results in shame. With the noble deeds, one attains glory and nobility.

O Brahman, the body attains old age because of the time. Besides the strength, beauty, good and bad deeds, the three types of glory, illusion and denouncement, indebtedness, wounds and black spot are earned by people according to their deeds but the noble people are free from all The blemish resides in the riches of others as well as the wives of others. Therefore the noble people do not aspire for the same because they are always troublesome.

Therefore reciting my name in your mind you devote yourself to me. In that case the mind is not attracted towards other things, my illusion in the form of damsels influenced everyone, my illusion also attracts playfully the noble people.

The passionate people depending upon the beauty of their limbs always feel attracted towards them. As for example their breasts, the developed part of the body and those which are impure, lips and other parts of the body are always the source of attraction for them.

Therefore the such of the people who are devoted to religion never look at the buttocks, the face, the breasts and the pelvic region of the The one whose mind is engrossed in the ladies, his dharma, glory, tapas, intelligance, knowledge and charities become infructuous.

He has to face miseries in this world and have fall into the hell after death where many types of insects bite him.

The foolish people as a move of destiny get attracted towards the wives of others delightfully taking it to be a real pleasure.

But the best of the people always devote their mind at my feet performing good deeds and the degraded people delightfully enjoy the company of the wives of others.

The one who feels attracted towards the wives of others, the gold of other and the land of others, he has always to face the miseries.

The one who on coming across anthers wife recites the name of Hari in his mind and by coming across the riches of others he neglects them such a person is sanctified, the people suffering from ailments, people without knowledge and some of the people afraid of public denouncement never indulge themselves in approaching the wives of others.

The ascetics engage themselves in performing tapas, the learned people engage themselves in the study of scriptures, the yogis engage themselves in yogic practices, the Vedic people spend their time in the study of the Vedas, the auspicious serving the husbands attend to the household affairs, the passionate people engage themselves in the evil deeds and the devotees always remain devoted to me.

fqrgrET tr jiviRwi: i Those, who are engaged in such type of works follow the path of the Vedas and are praised in the assembly of intellectuals, such of the people who act against the Vedas are always denounced.

O Brahman, the one who follows the right path is praised by everyone and those who follow the wrong path are denounced even by those ploughing the fields.

Because of the boon pronounced by me your mind will never feel attracted at the wives of others besides others riches. You follow the discourse given by me out-worldly and in- worldly you devote your mind towards my lotus¬ O Brahman, your daughter would become the wife of Kamadeva and will be known by the name of Rati. She would be known as the goddess of love. You disown her.

Thus speaking assuring Brahma and Radha Krsna moved on to Vaikuntha.

Chapter-aligned complete witnesses. Sanskrit Wikisource revision 125022 (2017-10-04T02:43:48Z); Shanti Lal Nagar English scan pages n1144–n1152: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n1144/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.