Skip to main content

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 30

Chapter 30

Unit 173 of 276Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 30Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 301 source entries

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 30

Source

।। नारद उवाच ।। ।। महामुने रहस्यं च श्रुतं ब्रह्मन्किमद्भुतम् ।। मृते मुनौ किं चकार श्रीकृष्णो भक्तवत्सलः ।। १ ।। श्रीनारायण उवाच ।। दृष्ट्वा मृतं मुनिं कृष्णः संस्कारं कर्तुमुद्यतः ।। कृत्वा वक्षसि तद्देहं रुरोदोच्चैर्यथा नरः ।।२।। बाहुभ्यां च समाश्लिष्य पिपेषोद्रिक्तमोहतः ।। निर्गतं भस्मनिकरं शवाद्वज्रांगघर्षणात् ।। ३ ।। रक्तमांसास्थिहीनं तच्छरीरं च महात्मनः ।। षष्टिवर्षसहस्राणि निराहारः कृतो मुने ।। ४ ।। दग्धं लोहितमांसास्थि ज्वलता जठराग्निना ।। बाह्यज्ञानविहीनस्य हरिपादाब्जचेतसः ।। ५ ।। चितां चन्दनकाष्ठेन निर्माय मधुसूदनः ।। कृत्वाऽग्निकार्यं तत्रैव स्थापयामास शोकतः ।। ६ ।। ददौ चितायामग्निं च काष्ठं दत्त्वा शवोपरि ।। ज्वलितायां चिता यां च मूर्च्छामाप क्षणं विभुः ।।७।। तद्देहे भस्मसाद्भूते नेदुर्दुन्दुभयो दिवि ।। बभूव पुष्पवृष्टिश्च तत्क्षणाद्गगनादहो ।। ८ ।। एतस्मिन्नन्तरे तत्र रत्नसारविनिर्मितम् ।। स्यन्दनं च मनोयायि वस्त्रमाल्यपरिच्छदम् ।। ९ ।। पार्षदप्रवरैर्युक्तं श्रीकृष्णसदृशैर्वरैः ।। आविर्बभूव गोलोकात्सुन्दरं पुरतो हरेः ।। 4.30.१० ।। अवरुह्य रथात्तूर्णं पार्षदप्रवरा हरेः ।। सर्वे समानरूपास्ते प्रणम्य राधिकेश्वरौ ११ ।। धृतवन्तं सूक्ष्मदेहं प्रणमय्य मुनीश्वरम् ।। रथे कृत्वा तु तं देहं जम्मुर्गोलोकमुत्तमम् ।। १२ ।। गते मुनीन्द्रे गोलोकं वृन्दावनविनोदिनी ।। बभूव विस्मिता साध्वी पप्रच्छ जगदीश्वरम् ।। १३ ।। श्रीराधिकोवाच ।। कोऽयं नाथ मुनिश्रेष्ठः सर्वावयवव क्रिमः ।। अतिखर्वजनाकारस्तेजीयानतिकुत्सितः ।। १४ ।। कथं वा निर्गतं भस्म देहादस्य किमद्भुतम् ।। साक्षाद्विलीनं यत्तेज स्त्वत्पादाब्जेऽनलोपमम् ।। १५ ।। रथस्थः पुण्यवान्सद्यो गोलकं च जगाम ह ।। स्वात्मारामस्य यद्धेतो रोदनं ते बभूव ह ।। १६ ।। त्वया कृतं च सत्कारमश्रुपूर्णेन चक्षुषा ।। सर्वं विवरणं तूर्णं संव्यस्य कथय प्रभो ।। १७ ।। राधिकावचनं श्रुत्वा प्रहस्य मधुसूदनः कथां कथितुमारेभे युगान्तरगतामपि ।। १८ ।। श्रीकृष्ण उवाच ।। रहस्यमष्टावक्रीयं विख्यातं सर्वतः प्रिये ।। पश्चाच्छ्रोष्यसि कालेन प्रसङ्गे विदुषां मुखात् ।।१९।। अष्टावक्रो मुनीन्द्रोऽपि विख्यातो भुवनत्रये ।। परिपूर्णं यद्यशसा जन्मना तज्जगत्त्रयम्।।4.30.२०।। कृष्णस्य वचनं श्रुत्वा विमनस्का हरिप्रिया ।। उवाच मधुरं यत्नाच्छुष्ककण्ठोष्ठतालुका ।। २१ ।। राधिकोवाच ।। यत्तृषालोर्मनः पूर्ण न बभूव सुधाम्बुधौ ।। स वितृप्तो भवति किं गोष्पदोदकपानतः ।। २२ ।। वेदानां वेदवक्तॄणां विधातुर्जनकस्य च ।। महाविष्णोरीश्वरस्त्वं कोऽन्यो वक्ताऽस्ति त्वत्परः ।।२३।। राधिकावचनं श्रुत्वा तुष्टः कृष्णो बभूव ह ।। उवाच गोपनीयं च रहस्यं परमाद्भुतम् ।। २४ ।। श्रीकृष्ण उवाच ।। शृणु कान्ते प्रवक्ष्येऽहमितिहासं पुरातनम् ।। श्रवणात्कथनाद्यस्य सर्वं पापं प्रणश्यति ।। २५ ।। महाविष्णोर्नाभिपद्माद्बभूव जगतां विधिः ।। ममांशस्य मत्कलया जलाकीर्णे जगत्त्रये ।। २६ ।। पुत्रा बभूवुश्चत्वारो ब्रह्मणो मानसात्पुरा ।। नारायणपराः सर्वे ज्वलन्तो ब्रह्मतेजसा ।। २७ ।। शिशवः पञ्चवर्षीया नग्ना अज्ञानिनो यथा ।। बाह्यज्ञानविहीनाश्च ब्रह्मतत्त्वविशारदाः ।। २८ ।। सनकश्च सनन्दश्च तृतीयश्च सनातनः ।। सनत्कुमारो भगवानेते चत्वार एव च ।।२९।। तानुवाच जगद्धाता सृष्टिं कुरुत पुत्रकाः ।। ते न तस्थुः पितुर्वाक्ये प्रययुस्तपसे मम ।।4.30.३०।। विधाता विमनस्कश्च तनयेषु गतेषु च ।। पितुर्दुःखाय प्रभवेत्पुत्रश्चेदवचस्करः ।। ३१ ।। ज्ञानेन निर्ममे पुत्रान्स्वाङ्गेषु च तपोधनान् ।। वेदवेदाङ्गविज्ञांश्च ज्वलतो ब्रह्मतेजसा ।।३२।। अत्रिः पुलस्त्यः पुलहो मरीचिर्भृगुरङ्गिराः ।। क्रतुर्वसिष्ठो वोढुश्च कपिलश्चासुरिः कविः ।।३३।। शङ्कुः शङ्खः पञ्चशिखः प्रचेतास्ते तपोधनाः ।। बहुकालं तपस्तप्त्वा चक्रुः सृष्टिं तदाज्ञया ।। ३४ ।। कलत्रवन्तस्ते सर्वे संसारं कर्तुमु न्मुखाः ।। बभूवुः पुत्रपौत्राश्च सर्वेषां च तपस्विनाम्।। ३९।। तदस्तु च कथा बह्वी मुनिवंशानुकीर्तनी ।। चार्वी पुण्यस्वरूपा च प्रकृतं शृणु सुन्दरि ।। ३६ ।। प्रचेतसः सुतः श्रीमानसितो मुनिपुङ्गवः ।। सकलत्रस्तपस्तेपे दिव्यं वर्षसहस्रकम् ।। ३७ ।। न बभूव सुतस्तस्य प्राणांस्त्यक्तुं समुद्यतः ।। तं सम्बोद्धुं बभूवाथ सत्या वागशरीरिणी।।३८।। कथं त्यजसि प्राणांस्त्वं गच्छ शङ्करसन्निधिम् ।। सिद्धं कुरु गृहीत्वा च मन्त्रं शङ्करवक्त्रतः ।। ३९ ।। मन्त्राधिष्ठातृदेवीं ते सद्यः साक्षाद्भविष्यति ।। वरेणाभीष्टदेव्याश्च पुत्रस्ते भविता धुवम् ।। 4.30.४० ।। श्रुत्वैतच्चरितं विप्रो जगाम शिवसन्निधिम् ।। योगिनामप्यगम्यं च शिवलोकं निरामयम् ।। ४१ ।। सकलत्रो यथा योगी तुष्टाव योगिनां गुरुम् ।। पुटाञ्जलियुतो भूत्वा भक्तिनम्रात्मकन्धरः ।।४२।। असित उवाच ।। जगद्गुरो नमस्तुभ्यं शिवाय शिवदाय च ।। योगीन्द्राणां च योगीन्द्र गुरूणां गुरवे नमः ।। ४३ ।। मृत्योमृर्त्युस्वरूपेण मृत्युसंसारखण्डन।। मृत्योरीश मृत्युबीज मृत्युञ्जय नमोऽस्तु ते ।। ४४ ।। कालरूपं कलयतां कालकालेश कारण ।। कालादतीत कालस्य कालकाल नमोऽस्तु ते ।। ४५ ।। गुणातीत गुणाधार गुणबीज गुणात्मक ।। गुणीश गुणिनां बीज गुणिनां गुरवे नमः ।। ४६ ।। ब्रह्मस्वरूप ब्रह्मज्ञ ब्रह्मभावे च तत्पर ।। ब्रह्मबीजस्वरूपेण ब्रह्मबीज नमोस्तु ते ।। ४७ ।। इति स्तुत्वा शिवं नत्वा पुरस्तस्थौ मुनीश्वरः ।। दीनवत्साश्रुनेत्रश्च पुलकां चितविग्रहः ।। ४८ ।। असितेन कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत् ।। वर्षमेकं हविष्याशी शङ्करस्य महात्मनः ।। ४९ ।। स लभेद्वै ष्णवं पुत्रं ज्ञानिनं चिरजीविनम् ।। भवेदनाढ्यो दुःखी च मूको भवति पण्डितः ।। 4.30.५० ।। अभार्यो लभते भार्यां सुशीलां च पतिव्र ताम् ।। इह लोके सुखं भुक्त्वा यात्यन्ते शिवसन्निधिम् ।। ५१ ।। इदं स्तोत्रं पुरा दत्तं ब्रह्मणा च प्रचेतसे ।। प्रचेतसा स्वपुत्रायासिताय दत्तमुत्तमम् ।। ५२ ।। श्रीकृष्ण उवाच ।। समाकर्ण्य मुनेः स्तोत्रं भगवाञ्छंकरः स्वयम् ।। उवाच ब्रह्मणः पुत्रं स्वभक्तं भक्तव त्सलः ।। ५१३ ।। शंकर उवाच ।। स्थिरो भव मुनिश्रेष्ठ जानामि तव वाञ्छितम् ।। पुत्रस्ते भविता सत्यं मदंशेन च मत्समः ।।५४।। दास्यामि मन्त्रमतुलं सर्वेषां च सुदुर्लभम् ।। इत्युक्त्वा च ददौ मन्त्रं तवैव षोडशाक्षरम् ।। ५५ ।। स्तोत्रं पूजाविधानं च कवचं परमाद्भुतम् ।। संसारविजयं नाम पुरश्चरणपूर्वकम् ।।५६।। वरं दातुमिष्टदेवी प्रत्यक्षा भवितेति च ।। इत्युक्त्वा विरतो रुद्रः स तं नत्वा जगाम ह ।। ५७ ।। जजाप परमं मन्त्रं सोऽसितः शतवत्सरम् ।। साक्षाद्भूत्वा वरस्तस्मै त्वया दत्तः पुरा सति ।। ५८ ।। पुत्रस्ते भविता सत्यं महाज्ञानी सुतेति च ।। वरं दत्त्वा त्वमगमो गोलोकं मम सन्निधिम् ।। ५९ ।। कालेन च सुतस्तस्य शिवांशेन बभूव ह ।। ब्रह्मिष्ठो देवलो नाम्ना कन्दर्पसमसुन्दरः ।।4.30.६० ।। सुयज्ञनृपतेः कन्यां रत्नमालावतीं मुदा ।। तां सुन्दरीं विवाहेन जगृहे सर्वमोहिनीम् ।। ६१ ।। स्थाने स्थाने च रहसि शतवर्षं तया सह ।। स रेमे निपुणः श्रेष्ठः स्त्रीणां रमणकर्मणि ।। ६२ ।। कालान्तरे स विरतो बभूव मुनिपुंगवः ।। सुखं सर्वं परित्यज्य धर्मिष्ठः श्रीहरिं स्मरन् ।। ६३ ।। उत्थाय रात्रौ शयनाद्विरक्तश्च तपोधनः ।। स ययौ तपसे कान्ते गन्धमादनपर्वते ।।६४।। निद्रां त्यक्त्वा च तत्कान्ता न दृष्ट्वा स्वामिनं सती ।। विललाप भृशं शोकात्प्रदग्धा विरहाग्निना।।६५।। उत्तिष्ठन्ती निर्विशन्ती रुरोदोच्चैर्मुहुर्मुहुः ।। तप्तपात्रे यथा धान्यं बभूव तन्मनस्तदा ।। ६६ ।। आहारं च परित्यज्य प्राणांस्तत्याज सुन्दरी ।। चकार तत्सुतस्तस्याः कर्म निर्हरणादिकम् ।।६७।। तपश्चकार स मुनिर्गन्धमादनगह्वरे ।। दिव्यं वर्षसहस्रं च मम भक्तो जितेन्द्रियः ।।६८।। तं ददर्श ह दैवेन रम्भा शृंगारलोलुपा।। अतीवसुन्दरं शान्तं कन्दर्पमिव सुन्दरम् ।। ६९ ।। सा च तं कथयामास निर्जने समुपस्थिता ।। विधाय वेषं यत्नेन त्रैलोक्यचित्तमोहिनी ।। 4.30.७० ।। रम्भोवाच ।। निबोध साधो मद्वाक्यं कामिनीनां मनोहरम् ।। त्यक्त्वा कठोरं रहसि भज मां सुखदायिकाम् ।। ७१ ।। त्वं वरेषु वरः पृथ्व्यां वरारोहा स्वयंवरा ।। विदग्धाया विदग्धस्य दुर्लभो नव संगमः ।। ७२ ।। यज्ञं कुर्वन्ति भूपाला भारते स्वर्गहेतुकम् ।। स्वर्गभोगनिमित्तं च भोगसारा वयं मुने ।। ७३ ।। स्तनयोर्युग्ममूर्वोर्मे सुन्दरं मुखपंकजम् ।। हास्यभ्रूभंगसहितं दृष्ट्वा को न लभेत्सुखम्।। ७४ ।। स्त्रीरसः सुखसारश्च मुनीनामभिवाञ्छितः ।। रसिकासुखसंभोगो निर्जने चातिदुर्लभः ।।७५।। देवो वा मानवो वाऽपि गन्धर्वो वाऽथ राक्षसः ।। स्त्रीसुखेष्वप्यविज्ञेयो रम्भाया रतिवञ्चितः।।७६।। रहस्युपस्थितां कान्तां न भजेद्यो जितेन्द्रियः ।। गात्रलोमप्रमाणाब्दं कुम्भीपाके वसेद्ध्रुवम् ।।७७।। सत्यं तस्याश्च वधभाक्तच्छापेन प्रणश्यति ।। विधाता मोहिनीशापादपूज्यो भुवनत्रये ।। ७८ ।। येन त्यक्तोपस्थिता तं यथा पश्यति पुंश्चली ।। स्वामिपुत्रस्वबन्धूनां न तथा घातकं रुषा ।। ७९ ।। परं प्रियं च सर्वेषां जारं जानाति पुंश्चली ।। यदि तेन परित्यक्ता तं हन्तुं सा तु दक्षिणा।।4.30.८०।। पुंश्चली हिंस्रजन्तुभ्यो नवघातिभ्य एव च।। दुष्टा शश्वद्दयाहीना दुरन्ता प्रतिजन्मनि ।। ८१ ।। त्यज ध्यानं मुनिश्रेष्ठ भुंक्ष्वेदं तपसः फलम् ।। रहस्युपस्थितां मां च गृहीत्वा सुचिरं सुखम् ।। ८२ ।। स रम्भावचनं श्रुत्वा तामुवाच भयाकुलः ।। हितं तथ्यं नीतिसारं परिणामसुखावहम् ।। ८३ ।। देवल उवाच ।। शृणु रम्भे प्रवक्ष्यामि वेदसारं परं वचः ।। कुलधर्मोचितं सत्यं ब्राह्मणानां तपस्विनाम् ।। ८४ ।। धर्मोऽयं युक्तकाले च स्वयोषिति रतो द्विजः ।। सर्वत्र पूजितः शश्वदिह लोके परत्र च ।। ८५ ।। ब्राह्मणः क्षत्रियो वैश्यो यो रतः परयोषिति ।। याति तस्यापूजितस्य रुष्टा लक्ष्मीर्गृहादपि।। ८६ ।। इहातिनिन्द्यः सर्वत्र नाधिकारी स्वकर्मसु ।। परत्रैवान्धकूपे च यावद्वर्षशतं वसेत् ।।।७७ ।। ग्राह्या चोपस्थिता स्त्री च गृहिणा न तपस्विना ।। त्यागे दोषः कामिनीनां शापभाक्पापभाग्गृही ।। ८८ ।। ब्रह्मा जगद्विधाताऽपि न विरक्तः कलत्रवान् ।। त्यागे दोषस्तत्कदाचिन्नास्माकं त्यक्तयोषिताम् ।। ८९ ।। स्वभार्यां च परित्यज्य यो गृह्णाति परस्त्रियम् ।। यशोधनायुषां हानिर्भवेज्जीवन्मृतस्य च ।। 4.30.९० ।। भुवि नास्ति यशो यस्य जीवनं तस्य निष्फलम् ।। सुसंपदा किं राज्येन सुखेन च तपस्विनः ।। ९१ ।। निष्कामेन च वृद्धेन मया किं ते प्रयोजनम्।। सुवेषं सुन्दरं मातर्युवानं पश्य सुन्दरि।।९२।। इत्येवं वचनं श्रुत्वा चुकोपाप्सरसां वरा ।। उवाच भूयो वाक्यं तं त्रस्ता प्रस्फुरिताधरा ।। ९३ ।। रम्भोवाच ।। चारुचम्पकवर्णाभः कन्दर्पसमसुन्दरः ।। तपःप्रभावात्सश्रीकः सुवेषः संमतः स्त्रियाः।।९४।। त्वया विनाऽन्यं कं यामि को वास्ति त्वत्परः पुमान्।। पुंश्चली त्वां परित्यज्य का जीवति स्मरा तुरा ।। ९५ ।। शीघ्रं मां भज विप्रेन्द्र दग्धां कामाग्निना सदा ।। कामो नश्यति मां त्वत्तो यथा रम्भां मतंगजः ।। ९६ ।। न चेच्छापं प्रदास्यामि वद वेदविदां वर ।। मां वा दारुणशापं वा सत्वरं ग्रहणं कुरु ।।९७।। दग्धाः प्राणा मनोदग्धं स्वात्मा वा इति संततम्।। नवशृङ्गारपीयूषपाननिर्वाणतां व्रजेत् ।। ९८ ।। स्वान्तर्दुःखेन दुःखार्तो यो यं शपति निश्चितम्।। तं शापं खण्डितुं शक्तो न विधाता जगत्पतिः ।। ९९ ।। द्विजो रम्भावचः श्रुत्वा बभूव ध्यानतत्परः ।। नोवाच किंचिन्मौनस्थः सा तं कोपाच्छशाप ह ।।4.30.१००।। हे वक्रचित्त ते विप्र सर्वावयववक्रिमम् ।। शरीरमञ्जनाकारं रूपयौवनवर्जितम् ।। १ ।। अतीवविकृताकारं त्रिषु लोकेषु गर्हितम् ।। पुरातनं तपो नष्टं सद्यो भवतु निश्चितम् ।। २ ।। इत्युक्त्वा पुंश्चली कामात्कामलोकं जगाम ह ।। अचिरेण मुनीन्द्रश्च न ददर्श हरेः पदम् ।।३।। पदारविन्दविरहात्समुद्विग्नो बभूव ह।। स्वाङ्गं च दृष्ट्वा विकृतं पूर्वपुण्यविवर्जितम्।।४ ।। कृत्वाऽग्निकुण्डं शोकेन प्राणांस्त्यक्तुं समुद्यतः ।। मया दृष्टो वरो दत्तो दिव्यज्ञानेन बोधितः ।।५।। आश्वासश्च कृतः प्रीत्या ततः शान्तो बभूव ह ।। अङ्गान्यष्टौ च वक्राणि दृष्ट्वा तूर्णं महामुनेः ।। ६ ।। अष्टावक्रेति तन्नाम कौतुकेन मया कृतम् ।। मद्वाक्यान्मलयद्रोणीमयमागम्य सत्वरः ।। ७ ।। षष्टि वर्षसहस्राणि चकार परमं तपः ।। तपोऽवसाने मद्भक्तो मया युक्तः कृतः प्रिये ।। ८ ।। सर्वस्मिन्प्रलये नष्टे न मद्भक्तः प्रणश्यति।। सुचिरेणैव तपसा ज्वलता जठराग्निना ।। ९ ।। त्यक्ताहारस्यान्तरं च भस्मपूर्णं ततो मुनेः ।। आगतं मलयद्रोणीं मुनिहेतोर्मया प्रिये ।। 4.30.११० ।। अष्टावक्राच्च मद्भक्तो न भूतो न भविष्यति ।। एवंभूतस्तपोनिष्ठः प्रपौत्रो ब्रह्मणो मुनिः ।। ११ ।। निष्कलः पुंश्चली शापाद्ब्रह्माऽपूज्यो यथा पुरा ।। इत्येवं कथितं सर्वं रहस्यं च महात्मनः ।। सुखदं पुण्यदं गूढं किं भूयः श्रोतुमिच्छसि ।। ११२ ।। इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे राधाप्रश्ने त्रिंशत्तमोऽध्यायः ।। ३०

|| nārada uvāca || || mahāmune rahasyaṃ ca śrutaṃ brahmankimadbhutam || mṛte munau kiṃ cakāra śrīkṛṣṇo bhaktavatsalaḥ || 1 || śrīnārāyaṇa uvāca || dṛṣṭvā mṛtaṃ muniṃ kṛṣṇaḥ saṃskāraṃ kartumudyataḥ || kṛtvā vakṣasi taddehaṃ rurodoccairyathā naraḥ ||2|| bāhubhyāṃ ca samāśliṣya pipeṣodriktamohataḥ || nirgataṃ bhasmanikaraṃ śavādvajrāṃgagharṣaṇāt || 3 || raktamāṃsāsthihīnaṃ taccharīraṃ ca mahātmanaḥ || ṣaṣṭivarṣasahasrāṇi nirāhāraḥ kṛto mune || 4 || dagdhaṃ lohitamāṃsāsthi jvalatā jaṭharāgninā || bāhyajñānavihīnasya haripādābjacetasaḥ || 5 || citāṃ candanakāṣṭhena nirmāya madhusūdanaḥ || kṛtvā'gnikāryaṃ tatraiva sthāpayāmāsa śokataḥ || 6 || dadau citāyāmagniṃ ca kāṣṭhaṃ dattvā śavopari || jvalitāyāṃ citā yāṃ ca mūrcchāmāpa kṣaṇaṃ vibhuḥ ||7|| taddehe bhasmasādbhūte nedurdundubhayo divi || babhūva puṣpavṛṣṭiśca tatkṣaṇādgaganādaho || 8 || etasminnantare tatra ratnasāravinirmitam || syandanaṃ ca manoyāyi vastramālyaparicchadam || 9 || pārṣadapravarairyuktaṃ śrīkṛṣṇasadṛśairvaraiḥ || āvirbabhūva golokātsundaraṃ purato hareḥ || 4.30.10 || avaruhya rathāttūrṇaṃ pārṣadapravarā hareḥ || sarve samānarūpāste praṇamya rādhikeśvarau 11 || dhṛtavantaṃ sūkṣmadehaṃ praṇamayya munīśvaram || rathe kṛtvā tu taṃ dehaṃ jammurgolokamuttamam || 12 || gate munīndre golokaṃ vṛndāvanavinodinī || babhūva vismitā sādhvī papraccha jagadīśvaram || 13 || śrīrādhikovāca || ko'yaṃ nātha muniśreṣṭhaḥ sarvāvayavava krimaḥ || atikharvajanākārastejīyānatikutsitaḥ || 14 || kathaṃ vā nirgataṃ bhasma dehādasya kimadbhutam || sākṣādvilīnaṃ yatteja stvatpādābje'nalopamam || 15 || rathasthaḥ puṇyavānsadyo golakaṃ ca jagāma ha || svātmārāmasya yaddheto rodanaṃ te babhūva ha || 16 || tvayā kṛtaṃ ca satkāramaśrupūrṇena cakṣuṣā || sarvaṃ vivaraṇaṃ tūrṇaṃ saṃvyasya kathaya prabho || 17 || rādhikāvacanaṃ śrutvā prahasya madhusūdanaḥ kathāṃ kathitumārebhe yugāntaragatāmapi || 18 || śrīkṛṣṇa uvāca || rahasyamaṣṭāvakrīyaṃ vikhyātaṃ sarvataḥ priye || paścācchroṣyasi kālena prasaṅge viduṣāṃ mukhāt ||19|| aṣṭāvakro munīndro'pi vikhyāto bhuvanatraye || paripūrṇaṃ yadyaśasā janmanā tajjagattrayam||4.30.20|| kṛṣṇasya vacanaṃ śrutvā vimanaskā haripriyā || uvāca madhuraṃ yatnācchuṣkakaṇṭhoṣṭhatālukā || 21 || rādhikovāca || yattṛṣālormanaḥ pūrṇa na babhūva sudhāmbudhau || sa vitṛpto bhavati kiṃ goṣpadodakapānataḥ || 22 || vedānāṃ vedavaktṝṇāṃ vidhāturjanakasya ca || mahāviṣṇorīśvarastvaṃ ko'nyo vaktā'sti tvatparaḥ ||23|| rādhikāvacanaṃ śrutvā tuṣṭaḥ kṛṣṇo babhūva ha || uvāca gopanīyaṃ ca rahasyaṃ paramādbhutam || 24 || śrīkṛṣṇa uvāca || śṛṇu kānte pravakṣye'hamitihāsaṃ purātanam || śravaṇātkathanādyasya sarvaṃ pāpaṃ praṇaśyati || 25 || mahāviṣṇornābhipadmādbabhūva jagatāṃ vidhiḥ || mamāṃśasya matkalayā jalākīrṇe jagattraye || 26 || putrā babhūvuścatvāro brahmaṇo mānasātpurā || nārāyaṇaparāḥ sarve jvalanto brahmatejasā || 27 || śiśavaḥ pañcavarṣīyā nagnā ajñānino yathā || bāhyajñānavihīnāśca brahmatattvaviśāradāḥ || 28 || sanakaśca sanandaśca tṛtīyaśca sanātanaḥ || sanatkumāro bhagavānete catvāra eva ca ||29|| tānuvāca jagaddhātā sṛṣṭiṃ kuruta putrakāḥ || te na tasthuḥ piturvākye prayayustapase mama ||4.30.30|| vidhātā vimanaskaśca tanayeṣu gateṣu ca || piturduḥkhāya prabhavetputraścedavacaskaraḥ || 31 || jñānena nirmame putrānsvāṅgeṣu ca tapodhanān || vedavedāṅgavijñāṃśca jvalato brahmatejasā ||32|| atriḥ pulastyaḥ pulaho marīcirbhṛguraṅgirāḥ || kraturvasiṣṭho voḍhuśca kapilaścāsuriḥ kaviḥ ||33|| śaṅkuḥ śaṅkhaḥ pañcaśikhaḥ pracetāste tapodhanāḥ || bahukālaṃ tapastaptvā cakruḥ sṛṣṭiṃ tadājñayā || 34 || kalatravantaste sarve saṃsāraṃ kartumu nmukhāḥ || babhūvuḥ putrapautrāśca sarveṣāṃ ca tapasvinām|| 39|| tadastu ca kathā bahvī munivaṃśānukīrtanī || cārvī puṇyasvarūpā ca prakṛtaṃ śṛṇu sundari || 36 || pracetasaḥ sutaḥ śrīmānasito munipuṅgavaḥ || sakalatrastapastepe divyaṃ varṣasahasrakam || 37 || na babhūva sutastasya prāṇāṃstyaktuṃ samudyataḥ || taṃ samboddhuṃ babhūvātha satyā vāgaśarīriṇī||38|| kathaṃ tyajasi prāṇāṃstvaṃ gaccha śaṅkarasannidhim || siddhaṃ kuru gṛhītvā ca mantraṃ śaṅkaravaktrataḥ || 39 || mantrādhiṣṭhātṛdevīṃ te sadyaḥ sākṣādbhaviṣyati || vareṇābhīṣṭadevyāśca putraste bhavitā dhuvam || 4.30.40 || śrutvaitaccaritaṃ vipro jagāma śivasannidhim || yogināmapyagamyaṃ ca śivalokaṃ nirāmayam || 41 || sakalatro yathā yogī tuṣṭāva yogināṃ gurum || puṭāñjaliyuto bhūtvā bhaktinamrātmakandharaḥ ||42|| asita uvāca || jagadguro namastubhyaṃ śivāya śivadāya ca || yogīndrāṇāṃ ca yogīndra gurūṇāṃ gurave namaḥ || 43 || mṛtyomṛrtyusvarūpeṇa mṛtyusaṃsārakhaṇḍana|| mṛtyorīśa mṛtyubīja mṛtyuñjaya namo'stu te || 44 || kālarūpaṃ kalayatāṃ kālakāleśa kāraṇa || kālādatīta kālasya kālakāla namo'stu te || 45 || guṇātīta guṇādhāra guṇabīja guṇātmaka || guṇīśa guṇināṃ bīja guṇināṃ gurave namaḥ || 46 || brahmasvarūpa brahmajña brahmabhāve ca tatpara || brahmabījasvarūpeṇa brahmabīja namostu te || 47 || iti stutvā śivaṃ natvā purastasthau munīśvaraḥ || dīnavatsāśrunetraśca pulakāṃ citavigrahaḥ || 48 || asitena kṛtaṃ stotraṃ bhaktiyuktaśca yaḥ paṭhet || varṣamekaṃ haviṣyāśī śaṅkarasya mahātmanaḥ || 49 || sa labhedvai ṣṇavaṃ putraṃ jñāninaṃ cirajīvinam || bhavedanāḍhyo duḥkhī ca mūko bhavati paṇḍitaḥ || 4.30.50 || abhāryo labhate bhāryāṃ suśīlāṃ ca pativra tām || iha loke sukhaṃ bhuktvā yātyante śivasannidhim || 51 || idaṃ stotraṃ purā dattaṃ brahmaṇā ca pracetase || pracetasā svaputrāyāsitāya dattamuttamam || 52 || śrīkṛṣṇa uvāca || samākarṇya muneḥ stotraṃ bhagavāñchaṃkaraḥ svayam || uvāca brahmaṇaḥ putraṃ svabhaktaṃ bhaktava tsalaḥ || 513 || śaṃkara uvāca || sthiro bhava muniśreṣṭha jānāmi tava vāñchitam || putraste bhavitā satyaṃ madaṃśena ca matsamaḥ ||54|| dāsyāmi mantramatulaṃ sarveṣāṃ ca sudurlabham || ityuktvā ca dadau mantraṃ tavaiva ṣoḍaśākṣaram || 55 || stotraṃ pūjāvidhānaṃ ca kavacaṃ paramādbhutam || saṃsāravijayaṃ nāma puraścaraṇapūrvakam ||56|| varaṃ dātumiṣṭadevī pratyakṣā bhaviteti ca || ityuktvā virato rudraḥ sa taṃ natvā jagāma ha || 57 || jajāpa paramaṃ mantraṃ so'sitaḥ śatavatsaram || sākṣādbhūtvā varastasmai tvayā dattaḥ purā sati || 58 || putraste bhavitā satyaṃ mahājñānī suteti ca || varaṃ dattvā tvamagamo golokaṃ mama sannidhim || 59 || kālena ca sutastasya śivāṃśena babhūva ha || brahmiṣṭho devalo nāmnā kandarpasamasundaraḥ ||4.30.60 || suyajñanṛpateḥ kanyāṃ ratnamālāvatīṃ mudā || tāṃ sundarīṃ vivāhena jagṛhe sarvamohinīm || 61 || sthāne sthāne ca rahasi śatavarṣaṃ tayā saha || sa reme nipuṇaḥ śreṣṭhaḥ strīṇāṃ ramaṇakarmaṇi || 62 || kālāntare sa virato babhūva munipuṃgavaḥ || sukhaṃ sarvaṃ parityajya dharmiṣṭhaḥ śrīhariṃ smaran || 63 || utthāya rātrau śayanādviraktaśca tapodhanaḥ || sa yayau tapase kānte gandhamādanaparvate ||64|| nidrāṃ tyaktvā ca tatkāntā na dṛṣṭvā svāminaṃ satī || vilalāpa bhṛśaṃ śokātpradagdhā virahāgninā||65|| uttiṣṭhantī nirviśantī rurodoccairmuhurmuhuḥ || taptapātre yathā dhānyaṃ babhūva tanmanastadā || 66 || āhāraṃ ca parityajya prāṇāṃstatyāja sundarī || cakāra tatsutastasyāḥ karma nirharaṇādikam ||67|| tapaścakāra sa munirgandhamādanagahvare || divyaṃ varṣasahasraṃ ca mama bhakto jitendriyaḥ ||68|| taṃ dadarśa ha daivena rambhā śṛṃgāralolupā|| atīvasundaraṃ śāntaṃ kandarpamiva sundaram || 69 || sā ca taṃ kathayāmāsa nirjane samupasthitā || vidhāya veṣaṃ yatnena trailokyacittamohinī || 4.30.70 || rambhovāca || nibodha sādho madvākyaṃ kāminīnāṃ manoharam || tyaktvā kaṭhoraṃ rahasi bhaja māṃ sukhadāyikām || 71 || tvaṃ vareṣu varaḥ pṛthvyāṃ varārohā svayaṃvarā || vidagdhāyā vidagdhasya durlabho nava saṃgamaḥ || 72 || yajñaṃ kurvanti bhūpālā bhārate svargahetukam || svargabhoganimittaṃ ca bhogasārā vayaṃ mune || 73 || stanayoryugmamūrvorme sundaraṃ mukhapaṃkajam || hāsyabhrūbhaṃgasahitaṃ dṛṣṭvā ko na labhetsukham|| 74 || strīrasaḥ sukhasāraśca munīnāmabhivāñchitaḥ || rasikāsukhasaṃbhogo nirjane cātidurlabhaḥ ||75|| devo vā mānavo vā'pi gandharvo vā'tha rākṣasaḥ || strīsukheṣvapyavijñeyo rambhāyā rativañcitaḥ||76|| rahasyupasthitāṃ kāntāṃ na bhajedyo jitendriyaḥ || gātralomapramāṇābdaṃ kumbhīpāke vaseddhruvam ||77|| satyaṃ tasyāśca vadhabhāktacchāpena praṇaśyati || vidhātā mohinīśāpādapūjyo bhuvanatraye || 78 || yena tyaktopasthitā taṃ yathā paśyati puṃścalī || svāmiputrasvabandhūnāṃ na tathā ghātakaṃ ruṣā || 79 || paraṃ priyaṃ ca sarveṣāṃ jāraṃ jānāti puṃścalī || yadi tena parityaktā taṃ hantuṃ sā tu dakṣiṇā||4.30.80|| puṃścalī hiṃsrajantubhyo navaghātibhya eva ca|| duṣṭā śaśvaddayāhīnā durantā pratijanmani || 81 || tyaja dhyānaṃ muniśreṣṭha bhuṃkṣvedaṃ tapasaḥ phalam || rahasyupasthitāṃ māṃ ca gṛhītvā suciraṃ sukham || 82 || sa rambhāvacanaṃ śrutvā tāmuvāca bhayākulaḥ || hitaṃ tathyaṃ nītisāraṃ pariṇāmasukhāvaham || 83 || devala uvāca || śṛṇu rambhe pravakṣyāmi vedasāraṃ paraṃ vacaḥ || kuladharmocitaṃ satyaṃ brāhmaṇānāṃ tapasvinām || 84 || dharmo'yaṃ yuktakāle ca svayoṣiti rato dvijaḥ || sarvatra pūjitaḥ śaśvadiha loke paratra ca || 85 || brāhmaṇaḥ kṣatriyo vaiśyo yo rataḥ parayoṣiti || yāti tasyāpūjitasya ruṣṭā lakṣmīrgṛhādapi|| 86 || ihātinindyaḥ sarvatra nādhikārī svakarmasu || paratraivāndhakūpe ca yāvadvarṣaśataṃ vaset |||77 || grāhyā copasthitā strī ca gṛhiṇā na tapasvinā || tyāge doṣaḥ kāminīnāṃ śāpabhākpāpabhāggṛhī || 88 || brahmā jagadvidhātā'pi na viraktaḥ kalatravān || tyāge doṣastatkadācinnāsmākaṃ tyaktayoṣitām || 89 || svabhāryāṃ ca parityajya yo gṛhṇāti parastriyam || yaśodhanāyuṣāṃ hānirbhavejjīvanmṛtasya ca || 4.30.90 || bhuvi nāsti yaśo yasya jīvanaṃ tasya niṣphalam || susaṃpadā kiṃ rājyena sukhena ca tapasvinaḥ || 91 || niṣkāmena ca vṛddhena mayā kiṃ te prayojanam|| suveṣaṃ sundaraṃ mātaryuvānaṃ paśya sundari||92|| ityevaṃ vacanaṃ śrutvā cukopāpsarasāṃ varā || uvāca bhūyo vākyaṃ taṃ trastā prasphuritādharā || 93 || rambhovāca || cārucampakavarṇābhaḥ kandarpasamasundaraḥ || tapaḥprabhāvātsaśrīkaḥ suveṣaḥ saṃmataḥ striyāḥ||94|| tvayā vinā'nyaṃ kaṃ yāmi ko vāsti tvatparaḥ pumān|| puṃścalī tvāṃ parityajya kā jīvati smarā turā || 95 || śīghraṃ māṃ bhaja viprendra dagdhāṃ kāmāgninā sadā || kāmo naśyati māṃ tvatto yathā rambhāṃ mataṃgajaḥ || 96 || na cecchāpaṃ pradāsyāmi vada vedavidāṃ vara || māṃ vā dāruṇaśāpaṃ vā satvaraṃ grahaṇaṃ kuru ||97|| dagdhāḥ prāṇā manodagdhaṃ svātmā vā iti saṃtatam|| navaśṛṅgārapīyūṣapānanirvāṇatāṃ vrajet || 98 || svāntarduḥkhena duḥkhārto yo yaṃ śapati niścitam|| taṃ śāpaṃ khaṇḍituṃ śakto na vidhātā jagatpatiḥ || 99 || dvijo rambhāvacaḥ śrutvā babhūva dhyānatatparaḥ || novāca kiṃcinmaunasthaḥ sā taṃ kopācchaśāpa ha ||4.30.100|| he vakracitta te vipra sarvāvayavavakrimam || śarīramañjanākāraṃ rūpayauvanavarjitam || 1 || atīvavikṛtākāraṃ triṣu lokeṣu garhitam || purātanaṃ tapo naṣṭaṃ sadyo bhavatu niścitam || 2 || ityuktvā puṃścalī kāmātkāmalokaṃ jagāma ha || acireṇa munīndraśca na dadarśa hareḥ padam ||3|| padāravindavirahātsamudvigno babhūva ha|| svāṅgaṃ ca dṛṣṭvā vikṛtaṃ pūrvapuṇyavivarjitam||4 || kṛtvā'gnikuṇḍaṃ śokena prāṇāṃstyaktuṃ samudyataḥ || mayā dṛṣṭo varo datto divyajñānena bodhitaḥ ||5|| āśvāsaśca kṛtaḥ prītyā tataḥ śānto babhūva ha || aṅgānyaṣṭau ca vakrāṇi dṛṣṭvā tūrṇaṃ mahāmuneḥ || 6 || aṣṭāvakreti tannāma kautukena mayā kṛtam || madvākyānmalayadroṇīmayamāgamya satvaraḥ || 7 || ṣaṣṭi varṣasahasrāṇi cakāra paramaṃ tapaḥ || tapo'vasāne madbhakto mayā yuktaḥ kṛtaḥ priye || 8 || sarvasminpralaye naṣṭe na madbhaktaḥ praṇaśyati|| sucireṇaiva tapasā jvalatā jaṭharāgninā || 9 || tyaktāhārasyāntaraṃ ca bhasmapūrṇaṃ tato muneḥ || āgataṃ malayadroṇīṃ munihetormayā priye || 4.30.110 || aṣṭāvakrācca madbhakto na bhūto na bhaviṣyati || evaṃbhūtastaponiṣṭhaḥ prapautro brahmaṇo muniḥ || 11 || niṣkalaḥ puṃścalī śāpādbrahmā'pūjyo yathā purā || ityevaṃ kathitaṃ sarvaṃ rahasyaṃ ca mahātmanaḥ || sukhadaṃ puṇyadaṃ gūḍhaṃ kiṃ bhūyaḥ śrotumicchasi || 112 || iti śrībrahmavaivarte mahāpurāṇe śrīkṛṣṇajanmakhaṇḍe nārāyaṇanāradasaṃvāde rādhāpraśne triṃśattamo'dhyāyaḥ || 30

English translation

Narada said- what type of astonishing secret relates to the sage? After the death of the sage, what did Krsna do, who always showers his grace on his devotees?

Thereafter lord Madhusudana made a pier of sandal-wood and cremated his body. Expressing his grief MadhusQdana placed the body of the sage on the pier and after that the wood was also placed over the body. Thereafter the pier was lit.

When the pair went in flames, the lord fainted for a while. When the body of the sage was burnt out, the musical instruments and the big drums w ere sounded in the heaven. At the same time the flowers were rained from the sky. At that point of time a beautiful chariot arrived from Goloka which was inlaid with-the best of gems and could move with the speed of mind and was decorated with the garlands of flowers and other costumes. It had a number of attendant who resembled the form of lord Krsna. The attendant of the lord, immediately descended from the chariot who resembled the form of Krsna. All of them bowed in reverence to Krsna and Radhika and also the sage who was in ethereal form.

Thereafter the sage was made to board the chariot and was than carried to Goloka, After the departure of Astavakra, the great sage to Goloka, Radhika the goddess of Vmdavana felt surprised and asked the lord of the universe.

Radhika said- She one who was the beat of the sages why were his limb deformed? He was quite dwarfish and had a black complexion of the body. He looked quite horrible but still he was quite illustrious.

How could they astonishing ashes emerge from his body any could the divine lustre possessed by the sage in his body merger in your lotus-like feet. Thereafter the auspicious soul was mounted over the chariot and went to Goloka and with the influence of that you could not help crying. O lord you had welcomed him with your eyes filled with tears; therefore, you tell me the entire story in detail.

On hearing the words of Radhika, Madhusudana smiled or a moment and started narrating the story which related to many Lord Krsna said- The secret of Astavakra is quite well- known in some subsequent contexts.

You will listen the same from the mouth of the The sage Astavakra was well-known in the three worlds. O mother of the universe, his (glory was spread over the three worlds.

On hearing the words of Kr§na, the face of Radhika faded away and her throat, lips and palate dried up. Thereafter with great efforts she spoke sweet words.

Radhika said- "The thirsty person who could not quench his thirst with the ocean of nectar could he be satisfied with the water stored in the place measuring the hoof of a cow. You happen to be the creator of the Vedas and post-Vedic literature and you happen to be the lord of Brahma, Visnu and Siva. Therefore who else could be superior to you.”.

On hearing the words of Radhika, Kr§^a felt delighted and therefore revealing the astonishing and inaccessible secret to her he spoke.

Kfsna said- O any beloved, you listen to me I will narrate to you an ancient story, with the hearing or reciting or which all the sins vanish.

dMiV I Vri After the submerging of the three worlds in the water Brahma who happens to be my own atfisa emerged from the navel of Mahavi^pu from my rays.

In the earlier times he had four mind bom sons who were devoted to Narayana and illumined with the divine lustre.

They were intellectuals and always remained like the five-year-old children roaming about naked devoid of the knowledge of Brahman but were well-versed in Brahmatattva. They were known as Sanaka, Sananda, Sanatana and Brahma said to them, "O sons you engage yourself in the creation of the universe." But all of them disregarding the words of their father went for performing tapes. After the departure of his sons, Brahma felt sad because if the sons do not listen to his father, it becomes quite painful to the father,.

Thereafter, with his divine knowledge he created several sons out of his limbs, who were well-versed in tapes, and well-versed in the Vedic and post-Vedic literature, illumining with the divine lustre.

These included Atri, Pulastya, Pulaha, Marlci, Asuri, Kavi, 6anku, Pafleasikha and Praceta. All of them got ready to increase the universe, remaining with their wives, all the sages produced many children and grand children. The story relating to the tradition of the race of sages is quite lengthy and bestows merit. Therefore, it should be left out; now we shall talk on the subject relating to the present context.

Praceta had two sons named Srlman and Asita who happened to be the best of the sages, as it performed tapas for a divine thousand years with his wife.

But could not get a son. Then they were getting ready to end their lives. At that point of time a divine voice was heard saying, O sage why are you ending your life? You go to Siva and receive a mantra from him, which should be recited by you.

The great goddess of the mantra would surely appear before you and with the boon of the same goddess, you would surely beget a son.

Hearing this the sage went to Siva who is beyond the reach of the yogis. The sage arrived at Sivaloka with his wife and with his mind filled with devotion, bowing in reverence to him, offered prayer to Siva who happens to be the lord of the yogis.

Asita said- O teacher of the universe, I offer my salutation to you. You are the form of welfare and bestow welfare, you are best among the yogis and happen to be the teacher of the teachers. I offer my salutation to you.

Taking to the form of death, you even destroy the death. You are the lord of death, the cause of death and are the one who has over-powered death. I bow in reverence to you.

O great lord, you are the form of Kala and the aim of those who count the time. You happen to be the death for the Kala, the lord and the cause of the death. You are the death for the Kala, I offer my salutation to you.

You are beyond the qualities, the base of qualities, the cause of qualities, the lord of qualities, the seed of the virtuous people, you are the teacher of virtuous people. I offer my salutation to you.

You are the form of Brahman, well-versed in the Brahman, thinker of Brahman and the form of Brahman as well as the seed of the Vedas, I offer my salutation to you.

After offering the prayer to Siva, he stood before him like a helpless person and started dropping tears from his eyes. His entire body was filled with sensation.

The one who recites the stotra of Siva composed by Asita regularly for a year and also consumer havisya food with devotion, he achieves a Vai?nava and intelligent son having long life.

The pauper achieves riches the dumb person becomes intelligent and the person without a wife achieves a chaste wife. He after enjoying all the riches in the universe ultimately reaches the abode of Siva.

In the earlier times this stotra was handed down by Brahma to Praceta who intum handed it down to his son Asita.

Krsna said- On hearing the stotra from the sage, lord Siva who is always graceful to his devotees, said to the son of Brahma.

Siva said- O best of the sages, be patient. I am well-aware of your desire. You will achieve a son from my arhs'a, who will equate me. This is I will bestow a beautiful mantra to you which is beyond the reach of all the people. Thus speaking Siva bestowed on the sage your sixteen letter mantra, stotra method of adoration and the method of its completion. He also bestowed on him, the kavaca which made the devotees victorious on the universe and said to the Brahmanas. The goddess will appear before you for bestowing the boons on you. Thus speaking Rudra kept quiet and the Brahman bowing in reverence to him left the place. Thereafter the sage Asita recited the mantra, for a hundred years. Thereafter you appeared before hire in earlier times and granted him a boon saying, will beget a most illustrious son. This is the Thus pronouncing the boon on the Brahmana, you returned, to Goloka and joined

In due course of time Asita had a son named Devala from the arhsa of Siva who was denoted to Brahman and was as beautiful as the god of love. He was married to the daughter of Suyajiia named Ratnamalavati who was quite charming and beautiful.

The sage Devala who was well-versed in the art of making love, enjoyed the company with Ratnamalavati for a hundred years roaming about in several secluded places.

In due course of time a sense of detachment developed in the mind of Devala, after which he is discarded everything and devoted his mind to lord Hari once during the night he got up from the bad and went to a cave in the Gandhamadana mountain for performing tapas.

When his wife woke up he found her husband missing and burning with the pangs of separation, she started lamenting filled with Sometimes she got up and sometimes she fell down. Thus Ratnamalavati started crying aloud again and again, her mind was facing the same condition as the paddy faces while it is poured in the burning vase. The beautiful damsel stopped taking food and ultimately she met with her end.

After her death her son cremated her, performing all the last rites.

The sage who was self-controlled and was my devotee performed tapas in the cave at Gandhamadana mo^mtain for a thousand divine years. As a move of destiny in the meantime, the extremely passionate Rambha looked at the sage who was quite beautiful, peaceful and was as charming as the god of love.

Rambha who could attract, three worlds to herself appeared in the secluded place before the sag. and said.

Rambha said- O ascetic, you listen to the charming words of damsel like me. Discarding this hard tapas. you enjoy my company with pleasure in the secluded place.

Because you are the best among the best and I happen to be the best of the apsaras and quite beautiful. It is really difficult for a competent person to have a union with a competent damsel, O sage, the kings of the land of Bharata performed yajhas for achieving the heaven, the pleasures of the heaven are available on earth.

Who will not achieve pleasure by enjoying my breasts, the thighs, the beautiful face like the lotus flower and the smile on my face.

Because out of all the pleasures, the pleasure of the company of a damsel is desired even by the great sages. It is very difficult to get the pleasure of enjoying the company of a beautiful damsel in a lonely place.

The gods, the humans, Gandharvas and the demons getting deprived of the love sports of Rambha should be treated like those who are unaware of the pleasure of the company of the Such of the self-controlled person who does not enjoy the company of the damsel who appears before him in a secluded place, he falls into the kumbhipaka hell and has to remain their till the number of years equivalent to the number hair oil ones body.

He earns the sin of killing the damsel and is also destroyed with the same sin. Brahma became unadorable because of the curse of The one who disowns a loose women, she looks at him with such a great anger with which she never looks at her husband, son father and the her other relatives, The loose women is considered by men to be more loveable. Therefore, if anyone disowns a loose woman he appears like killing himself.

The loose women becomes more dangerous than the wild animal who attacks in rage and she always become heartless and at is the cause of the miseries.

O best of the sages you disown your tapas and enjoy my company for long in the secluded places, earning the reward of your tapas.

On hearing the words of Rambha, the sage felt panicky and he spoke the words which were beneficial, truthful, appropriate and could result in achieving pleasure.

Devala said- O Rambha listen to me, I am going to tell you the essence of the Vedas which is truthful and is appropriate to the one who is bom in the race of Brahmanas.

It has been prescribed that a Brahmanas should enjoy the company of his wife at the appropriate time. Such a Brahmana is adored in this as well as in this future birth.

Such of the Brahmana or Ksatriya or Vaisya who always indulges in the worldly pleasure with his wife, he becomes unadorable and the goddess of riches getting annoyed, leaves this to except a women who approaches him but no for an ascetic. Only a house-holder earns a sin by disregarding the damsels. It is he, who gets entitled for a curse or a sin.

Lord Brahma the creator of the universe also has a wife and has not become an ascetic.

Therefore the ascetic who has already disowned the damsel can earn no sin by discarding a loose The one who accepts another damsel by disowning his own wife, he is treated as dead while still being alive. All his glory, fortune and age are destroyed.

The one who does not achieve glory on earth, his life is of no consequence. The ascetic remain unconcerned with the riches, the kingdom and other worldly pleasure.

O mother, what purpose would be served by your accepting an ascetic person like me. O beautiful one, you search for some others youthful person who should be beautiful.

On hearing the words of the sage, the apsard was enraged. Her lips started fluttering and getting panicky, she spoke to Devala.

He is denounced in this world getting discarded from his race and is not considered suitable for performing any good deeds. After his death, he falls into the andhakupa hell where he has to stay for a hundred years.

Therefore it could be proper for a house holder Rambha said- You have a complexion like beautiful moon and the flowers, you are beautiful like the god of love, as a result of tapas you have attained great glory and your physique has attracted a damsel.

Whom shall I approach after leaving you, who else is a better person like you? which one of the loose women getting infested with passion can remain alive disowning you.

Therefore, O best of the Brahmanas, I am burning with passion and you enjoy my company. I am getting destroyed by your neglect as the trunk of the banana tree gets destroyed when trampled upon by the intoxicated elephant.

O best of those well-versed in the Vedas in case you do not agreed to my words I am sure to pronounce a curse on you. Now you accept a terrific curse which is going to pronounced by My mind, my life and my soul are burning at the moment. They are desirous of enjoying the nectar of new found love, which can only pacify The one who pronounces a curse whose soul is hurt, the curse of such a person cannot be negativated even by Brahma the lord of the On hearing the words of Rambha, the Brahmana started performing tapas and uttered no words. At this, Rambha was en raged a and she pronounced a curse on the sage saying, "O Brahmana, having a wicked mind your body will get deformed and all your limbs will have to face deformity. Your body will become black like collyrium and you will be deprived of youthfulness. Your form should become completely deformed which, should be denounced by everyone. And the tapas

performed by you till now should become Thus speaking the loose women getting infested with passion left for the abode of the god of love. Thereafter the sage could not achieve an audience with the lord.

With the separation of his mind from the lotus¬ like feet of the lord, the sage was upset. With the loss of all tapas and the merits, he was filled with grief and finding all his limbs deformed, he tried to enter into the fire altar, with the intention putting an end to his life-In the meantime, I saw the sage, blessed him and bestowed the divine knowledge on him.

trtt m:i I assured him lovingly as a result of which, the sage became peaceful. Finding that all the eight limbs of his body had been deformed. 1 playfully gave him the name of Astavakra. Thereafter at my advice, he went to Malayacala and he performed tapas for sixty thousand years. O dear one, at the end of the tapas I release my At the time of dissolution when every thing is destroyed my devotee remain unaffected. He performed tapas without consuming anything for a long time. The fire of his stomach consumed everything within the body and the sage reducing the same to the ashes. O dear, I had arrived in the valley of Malaya mountain for the sake of this sage, There has been no other devotees of mine great or than Astavakra nor shall there be anyone in ftiture. The great grandson of Brahma had beei /such a great ascetic, but with the curse of that loose women, he was deprived of everything

as BrahmS became unadorable in the earlier times. Thus I have narrated to your the entire secret story of the sage which was quite pleasant and bestows merit. What else do you want to listen from me.

Chapter-aligned complete witnesses. Sanskrit Wikisource revision 143261 (2018-04-30T11:34:00Z); Shanti Lal Nagar English scan pages n1113–n1122: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n1113/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.