Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 28
Sourceनारद उवाच ।। त्रिषु मासेष्वतीतेषु तासां च हरिणा सह ।। वद केन प्रकारेण बभूव तनुसंगमः ।।१।। वृन्दावनं किंप्रकारं किंविधं रासमण्डलम् ।। हरिरेकस्ताश्च बह्व्यः केन क्रीडा बभूव ह ।। २ ।। कुतूहलं भवति मे इदं श्रोतुं नवं नवम् ।। कथयस्व महाभाग पुण्यश्रवणकीर्तन ।। ३ ।। कथा पुराणसाराणां रासयात्रा हरेरहो ।। हरिलीलाः पृथिव्यां तु सर्वाः प्रतिमनोहराः ।। ४ ।। सूत उवाच ।। नारदस्य वचः श्रुत्वा ऋषिर्नारायणः स्वयम् ।। प्रहस्य सुप्रसन्नास्यः प्रवक्तुमुपचक्रमे ।। ५ ।। श्रीनारायण उवाच ।। एकदा श्रीहरिर्नक्तं वनं वृन्दावनं ययौ ।। शुभे शुक्लत्रयोदश्यां पूर्णे चन्द्रोदये मुने ।। ६ ।। यूथिकामालतीकुन्दमाधवीपुष्पवायुना ।। वासितं कलनादेन मधुभ्राणां मनोहरम् ।। ७ ।। नवपल्लवसंयुक्तं पुंस्कोकिलरुतश्रुतम् ।। नवलक्षरासवाससंयुक्तं सुमनोहरम् ।। ८ ।। चन्दनागुरुकस्तूरीकुंकुमेन सुवासितम् ।। कर्पूरान्वितताम्बूलभोगद्रव्यसमन्वितम् ।।९ ।। प्रसूनैश्चम्पकानां च कस्तूरीचन्दनान्वितैः।। रतियोग्यैर्विरचितैर्नानातल्पैः सुशोभितम् ।। 4.28.१० ।। दीप्तं रत्नप्रदीपैश्च धूपेन सुरभीकृतम् ।। नानापुष्पैश्च रचितं मालाजालैर्विराजितम् ।। ११ ।। परितो वर्तुलाकारं तत्रैव रासमण्डलम् ।। चन्दनागुरुकस्तूरीकुंकुमेन सुसंस्कृतम् ।। १२।। पुष्पोद्यानैः पुष्पितैश्च युक्तक्रीडासरोवरैः।। हंसकारण्डवाकीर्णैर्जलकुक्कुटकूजितैः ।। १३ ।। क्रीडनीयैः सुन्दरैश्च सुरतश्रमहारिभिः ।। शुद्धस्फटिकसंकाशतोयपूर्णैः सुनिर्मलैः ।। १४।। दधिपूर्णशुक्लधान्यजलैर्निर्मञ्छनीकृतम् ।। रम्भास्तम्भसमूहेन सुन्दरेण सुशोभितम् ।। १५ ।। आम्रपल्लवयुक्तेन सूत्रबन्धेन चारुणा ।। भूषितं मंगलघटैः सिन्दूरचन्दनान्वितैः।।१६।। मालतीमाल्यसंयुक्तैर्नारिकेलफलान्वितैः।। स रासमण्डलं दृष्ट्वा जहास मधुसूदनः।।१७।। चकार तत्र कुतुकाद्विनोदमुरलीरवम् ।। गोपीनां कामुकीनां च कामवर्धनकारणम् ।। १८ ।। तच्छ्रुत्वा राधिका सद्यो मुमोह मदनातुरा ।। बभूव स्थाणुवद्देहा ध्यानैकतानमानसा ।। १९ ।। क्षणेन चेतनां प्राप्य पुनः शुश्राव सा ध्वनिम् ।। उवास सा समुत्तस्थौ समुद्विग्ना पुनः पुनः ।। 4.28.२० ।। त्यक्त्वा चावश्यकं कर्म निःससार द्रुतं गृहात् ।। ययौ तदनुसारेण प्रसमीक्ष्य चतुर्दिशम् ।। २१ ।। ध्यायन्ती चरणाम्भोजं श्रीकृष्णस्य महात्मनः ।। तेजसा च द्योतयन्ती सद्रत्नसारभूषतैः ।। २२ ।। बहिर्बभूवुस्तास्त्रस्ता वरेण हृतचेतनाः ।। कुलधर्मं परित्यज्य निशंकाः काममोहिताः ।। २३ ।। त्रयस्त्रिंशद्वयस्याश्च ताः सुशीलादयः स्मृताः ।। राधिकायाः प्रियतमा गोपीनां प्रवरा ययुः ।।२४।। तासां पश्चाद्ययुर्गोप्यस्तासां संख्या निबोध मे।। समा वेषेण वयसा रूपेण च गुणेन च ।।२५।। ययुः सुशीलासंगेन सहस्राणि च षोडश ।। ययुश्चन्द्रमुखी पश्चात्सहस्राणि च षोडश ।। २६ ।। एकादशसहस्राणि माधव्याल्यश्च निर्ययुः ।। जग्मुः कदम्बमालाल्यः स सहस्राणि त्रयोदश ।।२७।। ययुः कुन्तीवयस्याश्च सहस्राणि दश स्मृताः ।। चतुर्दश सहस्राणि ययुस्ता यमुनानुगाः ।।२८।। जाह्नवीसहचारिण्यः सहस्राणि ययुर्नव ।। ययुर्नवसहस्राणि पद्ममुख्याल्य एव च ।।२९।। सावित्र्याल्यः पंचदश सहस्राणि ययुर्व्रजात् ।। पारिजातावयस्याश्च सहस्राणि ययुर्दश ।।4.28.३०।। स्वयंप्रभानुगाः सप्त सहस्राणि ययुर्व्रजात् ।। ययुः सुधामुखीगोप्यः सहस्राणि चतुर्दश ।।३१।। शुभानुगा ययुर्गोप्यः सहस्राणि चतुर्दश ।। पद्मानुगा ययुर्गोप्यः सहस्राणि चतुर्दश ।।३२।। गौरी पद्मा ययुर्गोप्यः सहस्राणि चतुर्दश ।। ययुः सर्वमङ्गलाल्यः सहस्राणि च षोडश ।।३३।। कालिकाल्यो ययुर्गोप्यः सहस्राणि च षोडश ।। निर्ययुः कमलाल्यश्च सहस्राणि त्रयोदश ।। ३४ ।। दुर्गानुगा ययुर्गोप्यः सहस्राणि च षोडश ।। ययुः सरस्वतीपश्चात्सहस्राणि त्रयोदश ।। ३५ ।। प्रजग्मुर्भारतीपश्चात्सहस्राणि दश व्रजात् ।। अपर्णासहचारिण्यः सहस्राणि चतुर्दश ।। ३६ ।। रतिपश्चाद्वयस्याश्च सहस्राणि ययुर्दश ।। गङ्गावयस्याः प्रययुः सहस्राणि चतुर्दश ।। ३७ ।। प्रजग्मुरम्बिकापश्चात्सहस्राणि च षोडश ।। सतीपश्चाद्ययुर्गोप्यः सहस्राणि त्रयोदश ।।३८।। नन्दिनीसहचारिण्यः सहस्राणि ययुर्दश ।। प्रययुः सुन्दरीपश्चात्सहस्राणि त्रयोदश। ।।३९।। ययुः कृष्णप्रियापश्चात्सहस्राणि च षोडश ।। ययुर्मधुमतीपश्चात्सहस्राणि च षोडश।।4.28.४०।। ययुश्चम्पानुगा गोप्यः सहस्राणि त्रयोदश ।। चन्दनाल्यो ययुः पश्चात्सहस्राणि च षोडश ।। ४१।। सर्वा बभूवुरेकत्र तत्र तस्थुः पलं मुदा ।। तत्राययुर्गोपिकाश्च मालाहस्ताश्च काश्चन ।। ४२ ।। चारुचन्दनहस्ताश्च काश्चित्तत्राययुर्व्रजात् ।। श्वेतचामरहस्ताश्च काश्चित्तत्राययुर्मुदा ।। ४३ ।। तत्राययुर्गोपकन्याः काश्चित्कस्तूरिकाकराः ।। तत्राययुर्गोपकन्याः काश्चित्कुंकुमवाहिकाः ।। ४४ ।। काश्चित्तत्राययुगोप्यस्ताम्बूलपात्रवाहिकाः ।। यावत्काञ्चनवस्त्राणां वाहिका गोपकन्यकाः ।। काश्चित्तत्राययुः शीघ्रं यत्र चन्द्रावली मुदा।।४५।। सर्वाश्चैकत्र संभूय सस्मिताश्च मुदान्विताः ।। विधाय राधिकावेषं स्थानाच्च प्रययुर्मुदा।।४६।। चक्रुः पुनः पुनस्ताश्च हरिशब्दजपं पथि ।। प्रापुर्वृन्दावनं रम्यं ददृशू रासमण्डलम्।।४७।। स्वर्गेभ्यः सुन्दरं दृश्यं राकापतिकरान्वितम् ।। सुनिर्जनं कुसुमितं वासितं पुष्पवायुना।।४८।। नारीणां कामजननं मुनिमोहनकारणम् ।। शुश्रुवुस्तत्र ताः सर्वाः पुंस्कोकिलकलध्वनिम् ।। ४९ ।। अतिसूक्ष्मकलं चातिभ्रमराणां मनोहरम् ।। प्रसूनमधुमत्तानां भ्रमरीसङ्गसङ्गिनाम् ।।4.28.५० ।। शुभे क्षणे प्रविवेश राधिका रासमण्डलम् ।। सर्वाभिरालिभिः सार्धं ध्यात्वा कृष्णपदाम्बुजम् ।। ५१ ।। राधामारात्तु संवीक्ष्य कृष्णस्तत्र मुदाऽन्वितः ।। जगामानुव्रजन्प्रीत्या सस्मितो मदनातुरः ।। ५२ ।। मध्यस्थां सखिसङ्घानां रत्नालङ्कारभूषिताम् ।। दिव्यवस्त्रपरीधानां सस्मितां वक्रलोचनाम्।। ५३ ।। गजेन्द्रगामिनीं रम्यां मुनिमानसमोहिनीम्।। नवीनवेषवयसा रूपेणातिमनोहराम् ।।५४।। तलश्रोणिनितम्बानां भारशेषान्वितां पराम् ।। चारुचम्पकवर्णाभां शरच्चन्द्रनिभाननाम् ।। बिभ्रतीं कबरीभारं मालतीमाल्यसंयुतम् ।। ५५ ।। राधा ददर्श श्रीकृष्णं किशोरं श्यामसुन्दरम् ।। नवयौवनसंपन्नं रत्नाभरणभूषितम् ।। ।। ५६ ।। कन्दर्पकोटिलावण्यलीलाधाम मनोहरम् ।। प्राणाधिकां तां पश्यन्तीं पश्यन्तीं वक्रचक्षुषा ।। ९७ ।। परमाद्भुतरूपं च सर्वत्रानुपमं परम् ।। विचित्रवेषं चूडां च बिभ्रतं सस्मितं मुदा ।। ५८ ।। वक्रलोचनकोणेन दर्शंदर्शं पुनःपुनः ।। मुखमाच्छादयाञ्चक्रे व्रीडया सस्मिता सती ।। ५९ ।। मूर्च्छामवाप सा सद्यः कामबाणप्रपीडिता ।। पुलकाञ्चितसर्वाङ्गी बभूव हतचेतना ।। 4.28.६० ।। कटाक्षकामबाणैश्च विद्धः क्रीडारसोन्मुखः ।। मूर्च्छां प्राप्य न पपात तस्थौ स्थाणुसमो हरिः ।।६१।। पपात मुरली तस्य क्रीडाकमलमुज्ज्वलम् ।। द्वितीयं पीतवस्त्रं च शिखिपिच्छं शरीरतः ।।६२।। क्षणेन चेतनां प्राप्य ययौ राधान्तिकं मुदा ।। कृत्वा वक्षसि तां प्रीत्या समाश्लिष्य चुचुम्ब सः ।। ६३ ।। श्रीकृष्णस्पर्शमात्रेण संप्राप्य चेतनां सती ।। प्राणाधिकं प्राणनाथं समाश्लिष्य चुचुम्ब ह ।। ६४ ।। मनो जहार राधायाः कृष्णस्तस्य च सा मुने ।। जगाम राधया सार्धं रसिको रतिमन्दिरम् ।। ६५ ।। रत्नप्रदीपसंयुक्तं रत्नदर्पणसंयुतम् ।। चारुचम्पकशय्याभिश्चन्दनाक्ताभी राजितम् ।। ६६ ।। कर्पूरान्वितताम्बूलैर्भोगद्रव्यैः समन्वितम् ।। उवाच राधया सार्धं कृष्णस्तत्र मुदान्वितः ।। ६७ ।। राधया दत्तताम्बूलं चखाद मधुसूदनः ।। रासेश्वरी कृष्णदत्तं ताम्बूलं बुभुजे मुदा ।। ६८ ।। दत्तं चर्वितताम्बूलं राधायै प्रभुणा मुदा ।। चखाद भक्त्वा सा तूर्णं प्रहस्य मदनातुरा ।। ६९ ।। राधाचर्वितताम्बूलं ययाचे माधवो मुदा ।। न ददौ राधिका भीता पपात चरणाम्बुजे ।। 4.28.७० ।। एतस्मिन्नन्तरे तत्र सकामः सुरतोन्मुखः ।। सुष्वाप राधया सार्धं रतितल्पे मनोहरे ।। ७१ ।। शृङ्गाराष्टप्रकारं च विपरीतादिकं विभुः ।। नखदन्तकराणां च प्रहारं च यथोचितम् ।। ७२ ।। कामशास्त्रेषु यद्गोप्यं चुम्बनाष्टविधं परम् ।। कामिनीनां मनोहारि चकार रसिकेश्वरः ।। ७३ ।। अङ्गैरङ्गानि प्रत्यङ्गैः प्रत्यङ्गानि स्मरातुरः ।। चकाराश्लेषणं तत्र कामुकीनां सुखावहम् ।।७४।। शृङ्गारकुशलौ तौ तु कामशास्त्रसुपण्डितौ ।। रतियुद्धविरामश्च न बभूव द्वयोरपि ।। ७५ ।। एवं गृहे गृहे रम्ये नानामूर्तिं विधाय च।। रेमे गोपाङ्गनाभिश्च सुरम्ये रासमण्डले ।। ७६ ।। गोपीनां नव लक्षाणि गोपानां च तथैव च ।। लक्षाण्यष्टादश मुने युक्तानि रासमण्डले ।। ७७ ।। मुक्तकेशानि नग्नानि विच्छिन्नभूषणानि च ।। वेषोच्छिन्नानि मत्तानि मूर्च्छितानि स्मरेण च ।।७८।। कङ्कणानां किंकिणीनां वलयानां च नारद ।। सद्रत्ननूपुराणां च शब्दयुक्तानि संततम् ।।७९।। एवं कृत्वा स्थलक्रीडां ययुस्तानि जलं मुदा ।। कृत्वा तत्र जलक्रीडां परिश्रान्तानि साम्प्रतम् ।। 4.28.८० ।। तूर्णं जलात्समुत्थाय वासांसि परिधाय च ।। ददृशुर्मुखपद्मानि सद्रत्नदर्पणेषु च ।। ८१ ।। चन्दनागुरुकस्तूरीद्रव्याणि पुष्पमालिकाः ।। मुदा परिदधुस्तानि संप्रापुश्चेतनानि च ।। ।। ८२ ।। सकर्पूरं च ताम्बूलं भुक्त्वा सर्वाणि कौतुकात् ।। ददृशुर्मुखपद्मानि सद्रत्ने दर्पणेऽमले ।। ८३ ।। काचित्कामातुरा कृष्णं बलादाकृष्य कौतुकात् ।। हस्ताद्वंशी निजग्राह वसनं च चकर्ष ह ।। ८४ ।। काचित्कामप्रमत्ता च नग्नं कृत्वा तु माधवम् ।। निजग्राह पीतवस्त्रं परिहस्य पुनर्ददौ ।।८५।। युक्तिं शृण्वित्येवमुक्त्वा काचित्संगृह्य स्वामिनम् ।। चुचुम्ब गण्डे बिम्बोष्ठे समाश्लिष्य पुनःपुनः ।।८६ ।। सस्मितं सकटाक्षं च मुखचन्द्रं स्तनोन्नतम् ।। काचिच्छ्रोणीं सुललितां दर्शयामास कामतः ।। ८७ ।। काचित्कान्तं करे कृत्वा संस्थाप्य श्रोणिदेशतः ।। चकार चूडानिर्माणं मालतीमाल्यसंयुतम् ।।८८।। काचिच्चूडां समाकृष्य मयूरपिच्छकं ददौ ।। गुञ्जामाल्यं च चूडायां वेष्टयामास काचन ।। ८९ ।। प्रददौ स्वामिने कामात्प्रेमवर्धनहेतवे ।। काचित्काञ्चित्समाकृष्य नग्नां कृत्वा तु कामतः ।। 4.28.९० ।। प्रेषयामास कृष्णस्य क्रोडे चन्दनचर्चिते ।। ननृतुश्च जगुः काश्चित्कान्तं कृत्वा तु कामतः ।। ९१ ।। नर्तनं कारयामास तं च काचिद्बलेन च ।। कृष्णश्च वस्त्रं कस्याश्च विचकर्ष कुतूहलात् ।। ९२ ।। कांचित्कृत्वा तु नग्नां च कस्यैचिदंशुकं ददौ ।। कृष्णो राधां समाकृष्य वासयामास वक्षसि।।९३।। तस्याश्च कबरीं रम्यां सुनिर्माणं चकार ह ।। सिन्दूरं च ददौ भाले कस्तूरीं बिन्दुभिः सह ।। ९४ ।। अतिसूक्ष्मं चन्दनेन्दुं कौतुकात्तदधो ददौ ।। पत्रावलीं सुललितां सुकपोले चकार ह ।।९५।। वह्निशुद्धांशुकं चारु परिधार्य्य प्रयत्नतः ।। पदोः सद्रत्नमंजीरे गृहीत्वा चरणाम्बुजे।।९६।। नखनिर्मार्जनं कृत्वा सुन्दरं यावकं ददौ ।। भूषणैर्भूषितां कृत्वा संप्रलिप्यानुलेपनैः ।। ९७ ।। दत्त्वा च मालतीमालां चुचुम्ब च पुनः पुनः ।। चारुलोचनपद्मे च चकाराञ्जनसंयुते ।। ९८ ।। प्रददौ नासिकामध्ये दुर्लभं गजमौक्तिकम्।। श्रोणिदेशे च स्तनयोर्नखच्छिद्रं चकार ह ।।९९।। चकार दन्तदलनं पक्वबिम्बाधरे वरे ।। सरसश्च तटे रम्ये पुष्पोद्याने सुनिर्जने।। 4.28.१०० ।। बहिश्चन्द्रोदये रम्ये पुष्पचन्दनचर्चिते ।। अगुरुचन्दनाक्तेन वायुना सुरभीकृते ।। १०१ ।। भ्रमरध्वनिसंयुक्ते पुंस्कोकिलरुतश्रुते ।। बहुमूर्तीः संविधाय योगिनां परमो गुरुः ।। १०२ ।। पुनश्चकार शृङ्गारं गोपीनां चित्तहारकः ।। किंकिणीनां कङ्कणानां नूपुराणां च नारद ।। १०३ ।। शृङ्गारोद्रेकतस्तत्र बभूव सुन्दरो रवः ।। मूर्च्छामवापुस्ताः सर्वा नवसंगममात्रतः ।। १०४ ।। बभूवुरचलास्पन्दाः पुलकाञ्चितविग्रहाः ।। शृङ्गारविरते भूते संप्रापुश्चेतनां पुनः ।। १०५ ।। नखदन्तप्रहारं च प्रचकार परस्परम् ।। कृष्णः कररुहाघातं ददौ तासां कुचोपरि ।। १०६ ।। श्रोणीदेशे सुकठिने नखचिह्नं चकार ह ।। नीवी विस्रंसिता तासां कबरी क्षुद्रघण्टिका ।। १०७ ।। दूरीभूतं सुवसनं सुवेषं सुमनोहरम् ।। आलिङ्गनं नवविधं चुम्बनाष्टविधं मुदा ।। १०८ ।। शृङ्गारं षोडशविधं चकार रसिकेश्वरः ।। अङ्गैरङ्गानि प्रत्यङ्गैः प्रत्यङ्गानि च योषिताम् ।। १०९ ।। चकारालिङ्गनं प्रीत्या कामुकीनां च कामुकः ।। नारीणां षोडश कलाः शृङ्गारस्तत्प्रमाणकः ।। ।। 4.28.११० ।। कलाभेदेन तद्भेदं कामशास्त्रविदो विदुः ।। प्राकृतं द्वादशविधं चकार रसिकेश्वरः ।। १११ ।। निरूपितं कामशास्त्रे चकारेशस्ततोऽधिकम् ।। क्रीडारम्भे च मध्ये च विरतौ कर्म योषिताम् ।। ११२ ।। प्रीत्यर्थमपि कर्तव्यं चकारेशस्ततोऽधिकम् ।। गोपीकङ्कणरेखाभिः पादालक्तकचिह्नितः ।। शुशुभे कृष्णदेहश्च यथाऽद्रिर्गैरिकेण च ।। ११३ ।। एवंभूते पूर्णराससंभूते रासमण्डले ।। समाजग्मुः सुराः सर्वे सकलत्राश्च सानुगाः ।। ११४ ।। सुवर्णस्यन्दनस्थाश्च कौतुकात्स्वगणावृताः ।। पुलकाञ्चितसर्वाङ्गाः कामबाणप्रपीडिताः ।। ११५ ।। ऋषयो मुनयश्चैव सिद्धाश्च पितरस्तथा ।। विद्याधराश्च गन्धर्वा यक्षराक्षसकिन्नराः ।। सस्त्रीकाश्च समाजग्मुर्ददृशुश्च मुदाऽन्विताः ।। ११६ ।। दिव्यस्यन्दनमारुह्य शातकौम्भविनिर्मितम् ।। सुशोभितं च मणिना रत्नसारपरिच्छदम् ।। ११७ ।। वह्निशुद्धांशुकेनैव वेष्टितं सुमनोहरम् ।। श्वेतचामरयुक्तं च सद्रत्नदर्पणाम्बुजम् ।। ११८ ।। शतचक्रं चित्रयुक्तं मनोयायि मनोहरम् ।। सद्रत्नसारनिर्माणकलशोज्ज्वलशेखरम् ।। ११९ ।। समाजगाम भगवान्पार्वत्या सह शंकरः ।। वामपार्श्वे महाकालो दक्षिणे नन्दिकेश्वरः ।। 4.28.१२० ।। पुरतः कार्तिकेयश्च स्वयं देवो गणेश्वरः ।। पिङ्गलाक्षादयः सर्वे पार्षदाः परितस्तयोः ।। १२१ ।। क्षेत्रपालादयः सर्वे तथाऽष्टौ भैरवेश्वराः ।। वक्षःस्थलस्थिता दुर्गा सस्मिता वक्रलोचना ।। १२२ ।। भारत्या सह ब्रह्मा च शातकौम्भरथस्थितः।। वामे सप्तर्षयस्तस्य दक्षिणे सनकादयः ।।१२३।। सुवर्णस्यन्दनस्थश्च धर्मः साक्षी च कर्मणाम्।। वक्षस्थलस्थिता तस्य मूर्तिः स्मेरानना सती ।। १२४ ।। पश्यन्ती पूर्णरासं च सकामा वक्रलोचना ।। परितः पार्षदाः सर्वे ज्वलन्तो ब्रह्मतेजसा ।। १२५ ।। शच्या सह महेन्द्रश्च रोहिण्या च कलानिधिः ।। स्वाहा सार्द्धं स्वयं वह्निः सूर्यश्च संज्ञया सह ।। १२६ ।। समाजगाम कामश्च रतिं कृत्वा च वक्षसि ।। सर्वे ग्रहाश्च दिक्पाला आजग्मुः सकलत्रकाः ।। १२७ ।। आकाशस्थाश्च ददृशुः सरासं रासमण्डलम् ।। केचिच्च मुमुहुस्तत्र मूर्च्छामापुश्च केचन ।। १२८ ।। मुहूर्तं च सुराः सर्वे सस्मिताश्च मुदाऽन्विताः।। चन्दनद्रववृष्टिं च पुष्पवृष्टिं च चिक्षिपुः।।१२९।। कस्तूरीयुक्तमाल्यानां वृष्टिं चक्रुर्मुनीश्वराः।। रासं दृष्ट्वा देवपत्न्यः कामबाणप्रपीडिताः।।4.28.१३०।। स्थले रतिरसं कृत्वा जगाम यमुनाजलम् ।। राधया सह कृष्णश्च पूर्णब्रह्म सनातनः ।। १३१ ।। गोपीभिः सह जग्मुश्च मायाः श्रीकृष्णरूपिकाः ।। प्रपीडिताः कामबाणैः क्रीडां चक्रुर्जले मुदा ।। १३२ ।। जलं ददौ राधिकायै सकामो माधवः स्वयम् ।। ददौ सा च माधवाय कामार्तायाञ्जलित्रयम् ।। १३३ ।। वस्त्रं जग्राह तस्याश्च सा च नग्ना बभूव ह ।। मालां चिच्छेद कबरीं चकार शिथिलां हरिः ।। १३४ ।। सिन्दूरपक्षकं लुप्तं वेषं च जलताडनैः ।। भ्रूविचित्रमोष्ठरागं लुप्तं कज्जललोचनम् ।। १३५ ।। तां च नग्नां समाश्लिष्य निममज्ज जले हरिः ।। प्रकृत्याऽभ्यन्तरे क्रीडां सुतस्थौ च तया सह ।।१३६।। तां च नग्नां दर्शयित्वा गोपिकां क्रीडया नताम् ।। सस्मितां प्रेरयामास दूरतो यमुनाजले ।। १३७ ।। सा वेगेन समुत्थाय बलाज्जग्राह माधवम्।। गृहीत्वा मुरलीं कोपात्प्रेरयामास दूरतः ।। १३८ ।। गृहीत्वा पीतवसनं तं चकार दिगम्बरम् ।। वनमालां च चिच्छेद ददौ तोयं पुनः पुनः ।। १३९ ।। हरिं पुनः समाकृष्य प्रेषयामास पाथसि ।। गभीरे स्रोतसि मुने निममज्ज जगत्पतिः ।। 4.28.१४० ।। उत्थाय माधवः शीघ्रं तां गृहीत्वा प्रहस्य च ।। कृत्वा वक्षसि नग्नां च चुचुम्ब च पुनःपुनः।। एवं ता मूर्तयः सर्वा गोपीभिः सह कौतुकात् ।। क्रीडां विचक्रुर्यमुनातीरनीरे मनोहरे ।। १४२ ।। तीरं गत्वा तया सार्धं हरिर्नग्नश्च मग्नया ।। सा तं ययाचे वसनं स च तां सस्मितां सतीम् ।।१४३।। राधिकायै ददौ वस्त्रं रम्यां मालां च माधवः ।। प्रददौ हरये वस्त्रं वंशी रासेश्वरी तथा ।।१४४।। चन्दनागुरुकस्तूरीं सर्वाङ्गे कुङ्कुमान्विताम्।। कृष्णस्य परया भक्त्या ददौ श्रोणिस्थितस्य च ।। १४५ ।। निर्माय चूडां ललितां कामिनीं चित्तमोहिनीम्।। शोभनैर्मालतीमाल्यैश्चकार वेष्टनं पुनः ।। १४६ ।। श्रीकृष्णो राधिकायाश्च कबरीं सुमनोहराम् ।। कृत्वा कुण्डलसंस्कारं निर्ममे पत्रकावलीम् ।। १४७ ।। ददौ ललाटे सिन्दूरं कस्तूरीबिन्दुभिः सह ।। तदधश्चन्दनेन्दुं च सुसूक्ष्मं सुमनोहरम् ।। १४८ ।। नखाङ्गं स्तनयोरूर्वोरुरस्येव घनं मुदा ।। दत्त्वा तां वासयामास वह्निशुद्धांशुकेन वै ।। १४९ ।। चन्दनागुरुकस्तूरीकुङ्कुमानां द्रवेण सः ।। कृत्वा वक्षसि संलिप्य चुचुम्ब च मुहुर्मुहुः ।। 4.28.१५० ।। पुनराश्लेषणं कृत्वा ददौ मालां गले पुनः ।। भूषणैर्भूषितां कृत्वा मञ्जीरचरणे ददौ ।। १५१ ।। अलक्तकं चरणयोर्नखेषु च ददौ पुनः ।। एवं गोपाश्च गोपीनां विदधौ च पृथक्पृथक् ।। १५२ ।। पुनः प्रजग्मुस्ता मत्ताः सुन्दरं रासमण्डलम्।। पूर्णेन्दुचन्द्रिकायुक्तं रतियोग्यं सुनिर्जनम् ।।१५३।। माधवीकेतकीकुन्दमालतीनां मनोहरैः ।। चम्पयूथीमल्लिकानां पुष्पैश्च सुरभीकृतम् ।। १५४ ।। दृष्ट्वा च स्फुटितं पुष्पं चयनं कर्तुमीश्वरी ।। गोपीर्नियोजयामास कौतुकेन च राधिका ।। १५५ ।। काश्चिन्नियोजयामास मालानिर्माणकर्मणि ।। काश्चित्ताम्बूलसज्जेषु काश्चिञ्चन्दनघर्षणे।।।१५६।। माला चन्दनताम्बूलं गोपीदत्तं च सुन्दरी ।। ददौ कृष्णाय संप्रीत्या सस्मिता वक्रलोचना ।।१५७।। काश्चिन्नियोजनं चक्रुः कृष्णसङ्गीतकर्मणि ।। मृदङ्गमुरजादीनां वादनेषु च काश्चन ।। १५८ ।। एवं रासे रतिं कृत्वा लीलया हरिणा सह ।। विजहार च सर्वत्र निर्जनेषु मनोहरम् ।। १५९ ।। पुष्पोद्यानेषु रम्येषु सरसां च तटेषु च ।। कन्दरे कन्दरे रम्ये नदेषु च नदीषु च ।। 4.28.१६० ।। अतीव निर्जनस्थाने श्मशाने गिरिगह्वरे ।। वाञ्छितेषु च नारीणां त्रयस्त्रिंशद्वनेषु च ।। १६१ ।। भाण्डीरे श्रीवने रम्ये कदम्बकानने तथा ।। तुलसीकानने कुन्दवने चम्पककानने ।।१६२।। निम्बारण्ये मधुवने जम्बीरकानने तथा ।। नालिकेरवने पूगवने च कदलीवने ।। १६३ ।। बदरीकानने बिल्ववने नारिङ्गकानने ।। अश्वत्थकानने वंशवने दाडिमकानने ।। १६४ ।। मन्दारकानने तालवने चूतवने तथा ।। केतकीकाननेऽशोकवने खर्जूरकानने ।। १६५ ।। आम्रातकवने जम्बूगहने शालकानने ।। कटके कानने पद्मवने जातिवने मुने ।। १६६ ।। न्यग्रोधगहने घोरे तथा श्रीखण्डकानने ।। प्रहृष्टकेसरवने सर्वतोऽपि विलक्षणे ।। १६७ ।। एवं रेमे कौतुकेन कामात्त्रिंशद्दिवानिशम् ।। तथाऽपि मानसं पूर्णं न च किंचिद्बभूव ह ।। १६८ ।। न कामिनीनां कामश्च शृङ्गारेण निवर्तते ।। अधिकं वर्धते शश्वद्यथाऽग्निर्घृतधारया ।। १६९ ।। जग्मुर्देवाः स्वगेहं च देव्यश्च मुनयस्तथा ।। ते सर्वे प्रशशंसुश्च विस्मयं च ययुर्मुदा ।। 4.28.१७० ।। गेहे गेहे नृपेन्द्राणां लेभिरे जन्म भारते ।। दग्धाः कामाग्निनांऽशेन देव्यः शृङ्गारलालसाः ।। १७१ ।। इति श्रीब्रह्मवैवर्त्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे रासक्रीडाप्रस्तावो नाम अष्टाविंशोऽध्यायः ।। २८ ।।
nārada uvāca || triṣu māseṣvatīteṣu tāsāṃ ca hariṇā saha || vada kena prakāreṇa babhūva tanusaṃgamaḥ ||1|| vṛndāvanaṃ kiṃprakāraṃ kiṃvidhaṃ rāsamaṇḍalam || harirekastāśca bahvyaḥ kena krīḍā babhūva ha || 2 || kutūhalaṃ bhavati me idaṃ śrotuṃ navaṃ navam || kathayasva mahābhāga puṇyaśravaṇakīrtana || 3 || kathā purāṇasārāṇāṃ rāsayātrā hareraho || harilīlāḥ pṛthivyāṃ tu sarvāḥ pratimanoharāḥ || 4 || sūta uvāca || nāradasya vacaḥ śrutvā ṛṣirnārāyaṇaḥ svayam || prahasya suprasannāsyaḥ pravaktumupacakrame || 5 || śrīnārāyaṇa uvāca || ekadā śrīharirnaktaṃ vanaṃ vṛndāvanaṃ yayau || śubhe śuklatrayodaśyāṃ pūrṇe candrodaye mune || 6 || yūthikāmālatīkundamādhavīpuṣpavāyunā || vāsitaṃ kalanādena madhubhrāṇāṃ manoharam || 7 || navapallavasaṃyuktaṃ puṃskokilarutaśrutam || navalakṣarāsavāsasaṃyuktaṃ sumanoharam || 8 || candanāgurukastūrīkuṃkumena suvāsitam || karpūrānvitatāmbūlabhogadravyasamanvitam ||9 || prasūnaiścampakānāṃ ca kastūrīcandanānvitaiḥ|| ratiyogyairviracitairnānātalpaiḥ suśobhitam || 4.28.10 || dīptaṃ ratnapradīpaiśca dhūpena surabhīkṛtam || nānāpuṣpaiśca racitaṃ mālājālairvirājitam || 11 || parito vartulākāraṃ tatraiva rāsamaṇḍalam || candanāgurukastūrīkuṃkumena susaṃskṛtam || 12|| puṣpodyānaiḥ puṣpitaiśca yuktakrīḍāsarovaraiḥ|| haṃsakāraṇḍavākīrṇairjalakukkuṭakūjitaiḥ || 13 || krīḍanīyaiḥ sundaraiśca surataśramahāribhiḥ || śuddhasphaṭikasaṃkāśatoyapūrṇaiḥ sunirmalaiḥ || 14|| dadhipūrṇaśukladhānyajalairnirmañchanīkṛtam || rambhāstambhasamūhena sundareṇa suśobhitam || 15 || āmrapallavayuktena sūtrabandhena cāruṇā || bhūṣitaṃ maṃgalaghaṭaiḥ sindūracandanānvitaiḥ||16|| mālatīmālyasaṃyuktairnārikelaphalānvitaiḥ|| sa rāsamaṇḍalaṃ dṛṣṭvā jahāsa madhusūdanaḥ||17|| cakāra tatra kutukādvinodamuralīravam || gopīnāṃ kāmukīnāṃ ca kāmavardhanakāraṇam || 18 || tacchrutvā rādhikā sadyo mumoha madanāturā || babhūva sthāṇuvaddehā dhyānaikatānamānasā || 19 || kṣaṇena cetanāṃ prāpya punaḥ śuśrāva sā dhvanim || uvāsa sā samuttasthau samudvignā punaḥ punaḥ || 4.28.20 || tyaktvā cāvaśyakaṃ karma niḥsasāra drutaṃ gṛhāt || yayau tadanusāreṇa prasamīkṣya caturdiśam || 21 || dhyāyantī caraṇāmbhojaṃ śrīkṛṣṇasya mahātmanaḥ || tejasā ca dyotayantī sadratnasārabhūṣataiḥ || 22 || bahirbabhūvustāstrastā vareṇa hṛtacetanāḥ || kuladharmaṃ parityajya niśaṃkāḥ kāmamohitāḥ || 23 || trayastriṃśadvayasyāśca tāḥ suśīlādayaḥ smṛtāḥ || rādhikāyāḥ priyatamā gopīnāṃ pravarā yayuḥ ||24|| tāsāṃ paścādyayurgopyastāsāṃ saṃkhyā nibodha me|| samā veṣeṇa vayasā rūpeṇa ca guṇena ca ||25|| yayuḥ suśīlāsaṃgena sahasrāṇi ca ṣoḍaśa || yayuścandramukhī paścātsahasrāṇi ca ṣoḍaśa || 26 || ekādaśasahasrāṇi mādhavyālyaśca niryayuḥ || jagmuḥ kadambamālālyaḥ sa sahasrāṇi trayodaśa ||27|| yayuḥ kuntīvayasyāśca sahasrāṇi daśa smṛtāḥ || caturdaśa sahasrāṇi yayustā yamunānugāḥ ||28|| jāhnavīsahacāriṇyaḥ sahasrāṇi yayurnava || yayurnavasahasrāṇi padmamukhyālya eva ca ||29|| sāvitryālyaḥ paṃcadaśa sahasrāṇi yayurvrajāt || pārijātāvayasyāśca sahasrāṇi yayurdaśa ||4.28.30|| svayaṃprabhānugāḥ sapta sahasrāṇi yayurvrajāt || yayuḥ sudhāmukhīgopyaḥ sahasrāṇi caturdaśa ||31|| śubhānugā yayurgopyaḥ sahasrāṇi caturdaśa || padmānugā yayurgopyaḥ sahasrāṇi caturdaśa ||32|| gaurī padmā yayurgopyaḥ sahasrāṇi caturdaśa || yayuḥ sarvamaṅgalālyaḥ sahasrāṇi ca ṣoḍaśa ||33|| kālikālyo yayurgopyaḥ sahasrāṇi ca ṣoḍaśa || niryayuḥ kamalālyaśca sahasrāṇi trayodaśa || 34 || durgānugā yayurgopyaḥ sahasrāṇi ca ṣoḍaśa || yayuḥ sarasvatīpaścātsahasrāṇi trayodaśa || 35 || prajagmurbhāratīpaścātsahasrāṇi daśa vrajāt || aparṇāsahacāriṇyaḥ sahasrāṇi caturdaśa || 36 || ratipaścādvayasyāśca sahasrāṇi yayurdaśa || gaṅgāvayasyāḥ prayayuḥ sahasrāṇi caturdaśa || 37 || prajagmurambikāpaścātsahasrāṇi ca ṣoḍaśa || satīpaścādyayurgopyaḥ sahasrāṇi trayodaśa ||38|| nandinīsahacāriṇyaḥ sahasrāṇi yayurdaśa || prayayuḥ sundarīpaścātsahasrāṇi trayodaśa| ||39|| yayuḥ kṛṣṇapriyāpaścātsahasrāṇi ca ṣoḍaśa || yayurmadhumatīpaścātsahasrāṇi ca ṣoḍaśa||4.28.40|| yayuścampānugā gopyaḥ sahasrāṇi trayodaśa || candanālyo yayuḥ paścātsahasrāṇi ca ṣoḍaśa || 41|| sarvā babhūvurekatra tatra tasthuḥ palaṃ mudā || tatrāyayurgopikāśca mālāhastāśca kāścana || 42 || cārucandanahastāśca kāścittatrāyayurvrajāt || śvetacāmarahastāśca kāścittatrāyayurmudā || 43 || tatrāyayurgopakanyāḥ kāścitkastūrikākarāḥ || tatrāyayurgopakanyāḥ kāścitkuṃkumavāhikāḥ || 44 || kāścittatrāyayugopyastāmbūlapātravāhikāḥ || yāvatkāñcanavastrāṇāṃ vāhikā gopakanyakāḥ || kāścittatrāyayuḥ śīghraṃ yatra candrāvalī mudā||45|| sarvāścaikatra saṃbhūya sasmitāśca mudānvitāḥ || vidhāya rādhikāveṣaṃ sthānācca prayayurmudā||46|| cakruḥ punaḥ punastāśca hariśabdajapaṃ pathi || prāpurvṛndāvanaṃ ramyaṃ dadṛśū rāsamaṇḍalam||47|| svargebhyaḥ sundaraṃ dṛśyaṃ rākāpatikarānvitam || sunirjanaṃ kusumitaṃ vāsitaṃ puṣpavāyunā||48|| nārīṇāṃ kāmajananaṃ munimohanakāraṇam || śuśruvustatra tāḥ sarvāḥ puṃskokilakaladhvanim || 49 || atisūkṣmakalaṃ cātibhramarāṇāṃ manoharam || prasūnamadhumattānāṃ bhramarīsaṅgasaṅginām ||4.28.50 || śubhe kṣaṇe praviveśa rādhikā rāsamaṇḍalam || sarvābhirālibhiḥ sārdhaṃ dhyātvā kṛṣṇapadāmbujam || 51 || rādhāmārāttu saṃvīkṣya kṛṣṇastatra mudā'nvitaḥ || jagāmānuvrajanprītyā sasmito madanāturaḥ || 52 || madhyasthāṃ sakhisaṅghānāṃ ratnālaṅkārabhūṣitām || divyavastraparīdhānāṃ sasmitāṃ vakralocanām|| 53 || gajendragāminīṃ ramyāṃ munimānasamohinīm|| navīnaveṣavayasā rūpeṇātimanoharām ||54|| talaśroṇinitambānāṃ bhāraśeṣānvitāṃ parām || cārucampakavarṇābhāṃ śaraccandranibhānanām || bibhratīṃ kabarībhāraṃ mālatīmālyasaṃyutam || 55 || rādhā dadarśa śrīkṛṣṇaṃ kiśoraṃ śyāmasundaram || navayauvanasaṃpannaṃ ratnābharaṇabhūṣitam || || 56 || kandarpakoṭilāvaṇyalīlādhāma manoharam || prāṇādhikāṃ tāṃ paśyantīṃ paśyantīṃ vakracakṣuṣā || 97 || paramādbhutarūpaṃ ca sarvatrānupamaṃ param || vicitraveṣaṃ cūḍāṃ ca bibhrataṃ sasmitaṃ mudā || 58 || vakralocanakoṇena darśaṃdarśaṃ punaḥpunaḥ || mukhamācchādayāñcakre vrīḍayā sasmitā satī || 59 || mūrcchāmavāpa sā sadyaḥ kāmabāṇaprapīḍitā || pulakāñcitasarvāṅgī babhūva hatacetanā || 4.28.60 || kaṭākṣakāmabāṇaiśca viddhaḥ krīḍārasonmukhaḥ || mūrcchāṃ prāpya na papāta tasthau sthāṇusamo hariḥ ||61|| papāta muralī tasya krīḍākamalamujjvalam || dvitīyaṃ pītavastraṃ ca śikhipicchaṃ śarīrataḥ ||62|| kṣaṇena cetanāṃ prāpya yayau rādhāntikaṃ mudā || kṛtvā vakṣasi tāṃ prītyā samāśliṣya cucumba saḥ || 63 || śrīkṛṣṇasparśamātreṇa saṃprāpya cetanāṃ satī || prāṇādhikaṃ prāṇanāthaṃ samāśliṣya cucumba ha || 64 || mano jahāra rādhāyāḥ kṛṣṇastasya ca sā mune || jagāma rādhayā sārdhaṃ rasiko ratimandiram || 65 || ratnapradīpasaṃyuktaṃ ratnadarpaṇasaṃyutam || cārucampakaśayyābhiścandanāktābhī rājitam || 66 || karpūrānvitatāmbūlairbhogadravyaiḥ samanvitam || uvāca rādhayā sārdhaṃ kṛṣṇastatra mudānvitaḥ || 67 || rādhayā dattatāmbūlaṃ cakhāda madhusūdanaḥ || rāseśvarī kṛṣṇadattaṃ tāmbūlaṃ bubhuje mudā || 68 || dattaṃ carvitatāmbūlaṃ rādhāyai prabhuṇā mudā || cakhāda bhaktvā sā tūrṇaṃ prahasya madanāturā || 69 || rādhācarvitatāmbūlaṃ yayāce mādhavo mudā || na dadau rādhikā bhītā papāta caraṇāmbuje || 4.28.70 || etasminnantare tatra sakāmaḥ suratonmukhaḥ || suṣvāpa rādhayā sārdhaṃ ratitalpe manohare || 71 || śṛṅgārāṣṭaprakāraṃ ca viparītādikaṃ vibhuḥ || nakhadantakarāṇāṃ ca prahāraṃ ca yathocitam || 72 || kāmaśāstreṣu yadgopyaṃ cumbanāṣṭavidhaṃ param || kāminīnāṃ manohāri cakāra rasikeśvaraḥ || 73 || aṅgairaṅgāni pratyaṅgaiḥ pratyaṅgāni smarāturaḥ || cakārāśleṣaṇaṃ tatra kāmukīnāṃ sukhāvaham ||74|| śṛṅgārakuśalau tau tu kāmaśāstrasupaṇḍitau || ratiyuddhavirāmaśca na babhūva dvayorapi || 75 || evaṃ gṛhe gṛhe ramye nānāmūrtiṃ vidhāya ca|| reme gopāṅganābhiśca suramye rāsamaṇḍale || 76 || gopīnāṃ nava lakṣāṇi gopānāṃ ca tathaiva ca || lakṣāṇyaṣṭādaśa mune yuktāni rāsamaṇḍale || 77 || muktakeśāni nagnāni vicchinnabhūṣaṇāni ca || veṣocchinnāni mattāni mūrcchitāni smareṇa ca ||78|| kaṅkaṇānāṃ kiṃkiṇīnāṃ valayānāṃ ca nārada || sadratnanūpurāṇāṃ ca śabdayuktāni saṃtatam ||79|| evaṃ kṛtvā sthalakrīḍāṃ yayustāni jalaṃ mudā || kṛtvā tatra jalakrīḍāṃ pariśrāntāni sāmpratam || 4.28.80 || tūrṇaṃ jalātsamutthāya vāsāṃsi paridhāya ca || dadṛśurmukhapadmāni sadratnadarpaṇeṣu ca || 81 || candanāgurukastūrīdravyāṇi puṣpamālikāḥ || mudā paridadhustāni saṃprāpuścetanāni ca || || 82 || sakarpūraṃ ca tāmbūlaṃ bhuktvā sarvāṇi kautukāt || dadṛśurmukhapadmāni sadratne darpaṇe'male || 83 || kācitkāmāturā kṛṣṇaṃ balādākṛṣya kautukāt || hastādvaṃśī nijagrāha vasanaṃ ca cakarṣa ha || 84 || kācitkāmapramattā ca nagnaṃ kṛtvā tu mādhavam || nijagrāha pītavastraṃ parihasya punardadau ||85|| yuktiṃ śṛṇvityevamuktvā kācitsaṃgṛhya svāminam || cucumba gaṇḍe bimboṣṭhe samāśliṣya punaḥpunaḥ ||86 || sasmitaṃ sakaṭākṣaṃ ca mukhacandraṃ stanonnatam || kācicchroṇīṃ sulalitāṃ darśayāmāsa kāmataḥ || 87 || kācitkāntaṃ kare kṛtvā saṃsthāpya śroṇideśataḥ || cakāra cūḍānirmāṇaṃ mālatīmālyasaṃyutam ||88|| kāciccūḍāṃ samākṛṣya mayūrapicchakaṃ dadau || guñjāmālyaṃ ca cūḍāyāṃ veṣṭayāmāsa kācana || 89 || pradadau svāmine kāmātpremavardhanahetave || kācitkāñcitsamākṛṣya nagnāṃ kṛtvā tu kāmataḥ || 4.28.90 || preṣayāmāsa kṛṣṇasya kroḍe candanacarcite || nanṛtuśca jaguḥ kāścitkāntaṃ kṛtvā tu kāmataḥ || 91 || nartanaṃ kārayāmāsa taṃ ca kācidbalena ca || kṛṣṇaśca vastraṃ kasyāśca vicakarṣa kutūhalāt || 92 || kāṃcitkṛtvā tu nagnāṃ ca kasyaicidaṃśukaṃ dadau || kṛṣṇo rādhāṃ samākṛṣya vāsayāmāsa vakṣasi||93|| tasyāśca kabarīṃ ramyāṃ sunirmāṇaṃ cakāra ha || sindūraṃ ca dadau bhāle kastūrīṃ bindubhiḥ saha || 94 || atisūkṣmaṃ candanenduṃ kautukāttadadho dadau || patrāvalīṃ sulalitāṃ sukapole cakāra ha ||95|| vahniśuddhāṃśukaṃ cāru paridhāryya prayatnataḥ || padoḥ sadratnamaṃjīre gṛhītvā caraṇāmbuje||96|| nakhanirmārjanaṃ kṛtvā sundaraṃ yāvakaṃ dadau || bhūṣaṇairbhūṣitāṃ kṛtvā saṃpralipyānulepanaiḥ || 97 || dattvā ca mālatīmālāṃ cucumba ca punaḥ punaḥ || cārulocanapadme ca cakārāñjanasaṃyute || 98 || pradadau nāsikāmadhye durlabhaṃ gajamauktikam|| śroṇideśe ca stanayornakhacchidraṃ cakāra ha ||99|| cakāra dantadalanaṃ pakvabimbādhare vare || sarasaśca taṭe ramye puṣpodyāne sunirjane|| 4.28.100 || bahiścandrodaye ramye puṣpacandanacarcite || agurucandanāktena vāyunā surabhīkṛte || 101 || bhramaradhvanisaṃyukte puṃskokilarutaśrute || bahumūrtīḥ saṃvidhāya yogināṃ paramo guruḥ || 102 || punaścakāra śṛṅgāraṃ gopīnāṃ cittahārakaḥ || kiṃkiṇīnāṃ kaṅkaṇānāṃ nūpurāṇāṃ ca nārada || 103 || śṛṅgārodrekatastatra babhūva sundaro ravaḥ || mūrcchāmavāpustāḥ sarvā navasaṃgamamātrataḥ || 104 || babhūvuracalāspandāḥ pulakāñcitavigrahāḥ || śṛṅgāravirate bhūte saṃprāpuścetanāṃ punaḥ || 105 || nakhadantaprahāraṃ ca pracakāra parasparam || kṛṣṇaḥ kararuhāghātaṃ dadau tāsāṃ kucopari || 106 || śroṇīdeśe sukaṭhine nakhacihnaṃ cakāra ha || nīvī visraṃsitā tāsāṃ kabarī kṣudraghaṇṭikā || 107 || dūrībhūtaṃ suvasanaṃ suveṣaṃ sumanoharam || āliṅganaṃ navavidhaṃ cumbanāṣṭavidhaṃ mudā || 108 || śṛṅgāraṃ ṣoḍaśavidhaṃ cakāra rasikeśvaraḥ || aṅgairaṅgāni pratyaṅgaiḥ pratyaṅgāni ca yoṣitām || 109 || cakārāliṅganaṃ prītyā kāmukīnāṃ ca kāmukaḥ || nārīṇāṃ ṣoḍaśa kalāḥ śṛṅgārastatpramāṇakaḥ || || 4.28.110 || kalābhedena tadbhedaṃ kāmaśāstravido viduḥ || prākṛtaṃ dvādaśavidhaṃ cakāra rasikeśvaraḥ || 111 || nirūpitaṃ kāmaśāstre cakāreśastato'dhikam || krīḍārambhe ca madhye ca viratau karma yoṣitām || 112 || prītyarthamapi kartavyaṃ cakāreśastato'dhikam || gopīkaṅkaṇarekhābhiḥ pādālaktakacihnitaḥ || śuśubhe kṛṣṇadehaśca yathā'drirgairikeṇa ca || 113 || evaṃbhūte pūrṇarāsasaṃbhūte rāsamaṇḍale || samājagmuḥ surāḥ sarve sakalatrāśca sānugāḥ || 114 || suvarṇasyandanasthāśca kautukātsvagaṇāvṛtāḥ || pulakāñcitasarvāṅgāḥ kāmabāṇaprapīḍitāḥ || 115 || ṛṣayo munayaścaiva siddhāśca pitarastathā || vidyādharāśca gandharvā yakṣarākṣasakinnarāḥ || sastrīkāśca samājagmurdadṛśuśca mudā'nvitāḥ || 116 || divyasyandanamāruhya śātakaumbhavinirmitam || suśobhitaṃ ca maṇinā ratnasāraparicchadam || 117 || vahniśuddhāṃśukenaiva veṣṭitaṃ sumanoharam || śvetacāmarayuktaṃ ca sadratnadarpaṇāmbujam || 118 || śatacakraṃ citrayuktaṃ manoyāyi manoharam || sadratnasāranirmāṇakalaśojjvalaśekharam || 119 || samājagāma bhagavānpārvatyā saha śaṃkaraḥ || vāmapārśve mahākālo dakṣiṇe nandikeśvaraḥ || 4.28.120 || purataḥ kārtikeyaśca svayaṃ devo gaṇeśvaraḥ || piṅgalākṣādayaḥ sarve pārṣadāḥ paritastayoḥ || 121 || kṣetrapālādayaḥ sarve tathā'ṣṭau bhairaveśvarāḥ || vakṣaḥsthalasthitā durgā sasmitā vakralocanā || 122 || bhāratyā saha brahmā ca śātakaumbharathasthitaḥ|| vāme saptarṣayastasya dakṣiṇe sanakādayaḥ ||123|| suvarṇasyandanasthaśca dharmaḥ sākṣī ca karmaṇām|| vakṣasthalasthitā tasya mūrtiḥ smerānanā satī || 124 || paśyantī pūrṇarāsaṃ ca sakāmā vakralocanā || paritaḥ pārṣadāḥ sarve jvalanto brahmatejasā || 125 || śacyā saha mahendraśca rohiṇyā ca kalānidhiḥ || svāhā sārddhaṃ svayaṃ vahniḥ sūryaśca saṃjñayā saha || 126 || samājagāma kāmaśca ratiṃ kṛtvā ca vakṣasi || sarve grahāśca dikpālā ājagmuḥ sakalatrakāḥ || 127 || ākāśasthāśca dadṛśuḥ sarāsaṃ rāsamaṇḍalam || kecicca mumuhustatra mūrcchāmāpuśca kecana || 128 || muhūrtaṃ ca surāḥ sarve sasmitāśca mudā'nvitāḥ|| candanadravavṛṣṭiṃ ca puṣpavṛṣṭiṃ ca cikṣipuḥ||129|| kastūrīyuktamālyānāṃ vṛṣṭiṃ cakrurmunīśvarāḥ|| rāsaṃ dṛṣṭvā devapatnyaḥ kāmabāṇaprapīḍitāḥ||4.28.130|| sthale ratirasaṃ kṛtvā jagāma yamunājalam || rādhayā saha kṛṣṇaśca pūrṇabrahma sanātanaḥ || 131 || gopībhiḥ saha jagmuśca māyāḥ śrīkṛṣṇarūpikāḥ || prapīḍitāḥ kāmabāṇaiḥ krīḍāṃ cakrurjale mudā || 132 || jalaṃ dadau rādhikāyai sakāmo mādhavaḥ svayam || dadau sā ca mādhavāya kāmārtāyāñjalitrayam || 133 || vastraṃ jagrāha tasyāśca sā ca nagnā babhūva ha || mālāṃ ciccheda kabarīṃ cakāra śithilāṃ hariḥ || 134 || sindūrapakṣakaṃ luptaṃ veṣaṃ ca jalatāḍanaiḥ || bhrūvicitramoṣṭharāgaṃ luptaṃ kajjalalocanam || 135 || tāṃ ca nagnāṃ samāśliṣya nimamajja jale hariḥ || prakṛtyā'bhyantare krīḍāṃ sutasthau ca tayā saha ||136|| tāṃ ca nagnāṃ darśayitvā gopikāṃ krīḍayā natām || sasmitāṃ prerayāmāsa dūrato yamunājale || 137 || sā vegena samutthāya balājjagrāha mādhavam|| gṛhītvā muralīṃ kopātprerayāmāsa dūrataḥ || 138 || gṛhītvā pītavasanaṃ taṃ cakāra digambaram || vanamālāṃ ca ciccheda dadau toyaṃ punaḥ punaḥ || 139 || hariṃ punaḥ samākṛṣya preṣayāmāsa pāthasi || gabhīre srotasi mune nimamajja jagatpatiḥ || 4.28.140 || utthāya mādhavaḥ śīghraṃ tāṃ gṛhītvā prahasya ca || kṛtvā vakṣasi nagnāṃ ca cucumba ca punaḥpunaḥ|| evaṃ tā mūrtayaḥ sarvā gopībhiḥ saha kautukāt || krīḍāṃ vicakruryamunātīranīre manohare || 142 || tīraṃ gatvā tayā sārdhaṃ harirnagnaśca magnayā || sā taṃ yayāce vasanaṃ sa ca tāṃ sasmitāṃ satīm ||143|| rādhikāyai dadau vastraṃ ramyāṃ mālāṃ ca mādhavaḥ || pradadau haraye vastraṃ vaṃśī rāseśvarī tathā ||144|| candanāgurukastūrīṃ sarvāṅge kuṅkumānvitām|| kṛṣṇasya parayā bhaktyā dadau śroṇisthitasya ca || 145 || nirmāya cūḍāṃ lalitāṃ kāminīṃ cittamohinīm|| śobhanairmālatīmālyaiścakāra veṣṭanaṃ punaḥ || 146 || śrīkṛṣṇo rādhikāyāśca kabarīṃ sumanoharām || kṛtvā kuṇḍalasaṃskāraṃ nirmame patrakāvalīm || 147 || dadau lalāṭe sindūraṃ kastūrībindubhiḥ saha || tadadhaścandanenduṃ ca susūkṣmaṃ sumanoharam || 148 || nakhāṅgaṃ stanayorūrvorurasyeva ghanaṃ mudā || dattvā tāṃ vāsayāmāsa vahniśuddhāṃśukena vai || 149 || candanāgurukastūrīkuṅkumānāṃ draveṇa saḥ || kṛtvā vakṣasi saṃlipya cucumba ca muhurmuhuḥ || 4.28.150 || punarāśleṣaṇaṃ kṛtvā dadau mālāṃ gale punaḥ || bhūṣaṇairbhūṣitāṃ kṛtvā mañjīracaraṇe dadau || 151 || alaktakaṃ caraṇayornakheṣu ca dadau punaḥ || evaṃ gopāśca gopīnāṃ vidadhau ca pṛthakpṛthak || 152 || punaḥ prajagmustā mattāḥ sundaraṃ rāsamaṇḍalam|| pūrṇenducandrikāyuktaṃ ratiyogyaṃ sunirjanam ||153|| mādhavīketakīkundamālatīnāṃ manoharaiḥ || campayūthīmallikānāṃ puṣpaiśca surabhīkṛtam || 154 || dṛṣṭvā ca sphuṭitaṃ puṣpaṃ cayanaṃ kartumīśvarī || gopīrniyojayāmāsa kautukena ca rādhikā || 155 || kāścinniyojayāmāsa mālānirmāṇakarmaṇi || kāścittāmbūlasajjeṣu kāściñcandanagharṣaṇe|||156|| mālā candanatāmbūlaṃ gopīdattaṃ ca sundarī || dadau kṛṣṇāya saṃprītyā sasmitā vakralocanā ||157|| kāścinniyojanaṃ cakruḥ kṛṣṇasaṅgītakarmaṇi || mṛdaṅgamurajādīnāṃ vādaneṣu ca kāścana || 158 || evaṃ rāse ratiṃ kṛtvā līlayā hariṇā saha || vijahāra ca sarvatra nirjaneṣu manoharam || 159 || puṣpodyāneṣu ramyeṣu sarasāṃ ca taṭeṣu ca || kandare kandare ramye nadeṣu ca nadīṣu ca || 4.28.160 || atīva nirjanasthāne śmaśāne girigahvare || vāñchiteṣu ca nārīṇāṃ trayastriṃśadvaneṣu ca || 161 || bhāṇḍīre śrīvane ramye kadambakānane tathā || tulasīkānane kundavane campakakānane ||162|| nimbāraṇye madhuvane jambīrakānane tathā || nālikeravane pūgavane ca kadalīvane || 163 || badarīkānane bilvavane nāriṅgakānane || aśvatthakānane vaṃśavane dāḍimakānane || 164 || mandārakānane tālavane cūtavane tathā || ketakīkānane'śokavane kharjūrakānane || 165 || āmrātakavane jambūgahane śālakānane || kaṭake kānane padmavane jātivane mune || 166 || nyagrodhagahane ghore tathā śrīkhaṇḍakānane || prahṛṣṭakesaravane sarvato'pi vilakṣaṇe || 167 || evaṃ reme kautukena kāmāttriṃśaddivāniśam || tathā'pi mānasaṃ pūrṇaṃ na ca kiṃcidbabhūva ha || 168 || na kāminīnāṃ kāmaśca śṛṅgāreṇa nivartate || adhikaṃ vardhate śaśvadyathā'gnirghṛtadhārayā || 169 || jagmurdevāḥ svagehaṃ ca devyaśca munayastathā || te sarve praśaśaṃsuśca vismayaṃ ca yayurmudā || 4.28.170 || gehe gehe nṛpendrāṇāṃ lebhire janma bhārate || dagdhāḥ kāmāgnināṃ'śena devyaḥ śṛṅgāralālasāḥ || 171 || iti śrībrahmavaivartte mahāpurāṇe śrīkṛṣṇajanmakhaṇḍe nārāyaṇanāradasaṃvāde rāsakrīḍāprastāvo nāma aṣṭāviṃśo'dhyāyaḥ || 28 ||
English translation
Proposal of Rasallla Narada said- You kindly tell me how the cowherdesses could have a union with Krsna after three months.
fijiycfiit iiWMu^dH.i What is the type of Vrndavana and what is the form of Rdsamandalal Krsna was one and the cowherdesses were many; then how could the divine dance be possible?.
O virtuous one, it is quite auspicious to recite or listen to your name. I am getting anxious to listen to the subject. You tell me.
The divine dance of lord is the tattvas of the Puranas and all the divine places of Hari on earth are quite interesting.
Stita said- On hearing the words of Narada, the sage Narayana delightfully spoke with a smile on his face.
at once. Now she felt hysterical again and again.
Leaving aside all her jobs, she moved out of her house. Looking on all sides she started following the direction of the tune of the flute and proceeded on.
Devoting her mind to the feet of lord Krsna, she was moving on. She was illumining all the directions with the lustre of her gem«studded Her friends also lost their senses on hearing the tune of the flute. Getting infested with passion all the cowherdesses discarding all the family traditions moved on.
ddfkviS'y m: f9llHK4l: TpT:l Out of all the cowherdesses, friendly to Radha, the thirty three names are well known. Out of them Suslla was quite prominent who was following her.
The number of cowherdesses who followed them is being mentioned by me. You listen to it.
All of them were clad in similar costumes and were of the same age, beauty and virtues.
Sixteen thousand cowherdesses were following Susila. CandramukhI was also followed by sixteen thousand cowherdesses.
Madhavi was followed by eleven thousand cowherdesses. Kadambamala was followed by KuntI was followed by ten thousand cowherdesses. Yamuna was followed by Jahnavl had nine thousand cowherdesses with her and CandramukhI had also an equal number of them with her.
qiRtsinVd: IT^WlfuT Savitrl was followed by fifteen thousand cowherdesses. Parijata was followed by ten Svayamprabha was followed by seven thousand cowherdesses. Sudhamukhi had fourteen thousand cowherdesses with her.
Subha had fourteen thousand cowherdesses with her and Padma was accompanied by an equal number of cowherdesses.
Gaurlpadma had also fourteen thousand cowherdesses with her while Sarvamahgala was accompanied by sixteen thousand of them.
Kalika too had sixteen thousand cowherdesses while Kamala had thirteen thousand of them.
Durga while Sarasvatl had thirteen thousand of Bharatl had ten thousand cowherdesses, while Apama had fourteen thousand cowherdesses with her. Rati had ten thousand of cowherdesses with her while Gahga had fourteen thousand of Ambika was followed by sixteen thousand cowherdesses and Satl was followed by thirteen Nandinl was followed by ten thousand cowherdesses and Sundarl was followed by thirteen thousand of them.
Krsnapriya had sixteen thousand cowherdesses while Madhumatl also had an equal number of them with her.
Campa was followed by thirteen thousand cowherdesses while Candana had sixteen thousand of cowherdesses with her.
All of them assembled there and for sometime they stood there delightfully. Some of the cowherdesses carried garlands of flowers in their Some of the cowherdesses had carried the sandal-paste from Vraja. Some of them carried the white fly-whisks with them.
Elf: 3TOT?Er ^RvK'jIM gRiii'ktsii Some of the cowherdesses carried kasturl with them. Some of the cowherdesses carried saffron with them. Some of the cowherdesses carried caskets of betel besides the gold and costumes.
Some of them reached the place where Radha was delightfully standing. All of them collected there and with their minds filled with joy and the faces smiling, they decorated Radha and blissfully moved forward. On the way they recited the name of lord Hari and while doing so they reached Vmdavana and saw the charming Rdsamandala which was looking more beautiful than heaven itself, having been filled with the rays of the moon.
It was a completely secluded place, filled with flowers, where the fragrant cool breeze was blowing which could increase the passion of the ladies and could infatuate even the sages with passion. All of them heard the sweet tune of cuckoos besides the fine hissing sound of the black-wasps. It looked quite pleasant.
All the black-wasps had become intoxicated with the extracting of the nectar from the flowers with their females. Thereafter Radha in the auspicious time devoted her mind to the lotus¬ like feet of lord Krsna together with all the cowherdesses and then entered the Rdsamandala. The lord was extremely delighted at finding Radha with him.
Getting infatuated with passion, smilingly he followed them. Radha was walking surrounded by the cowherdesses and her body was adorned with all the gem-studded ornaments and she was clad in the divine garments. Smilingly she looked at her beloved and moved on slowly like the lord of the elephant. The beautiful Radha could attract even the minds of the sages.
In her new costumes and new decoration she looked extremely charming. Her breasts and pelvic region filled her with fatigue. She had the complexion of beautiful campaka flowers and had the face resembling the full moon of the winter season. Her hair was decorated with the garland of jasmine flowers. She looked at lord Krsna who was of tender age and had the dark complexion; he was quite youthful and adorned with gem-studded ornaments and looked more beautiful than crores of the gods of love. Radha looked at Krsna with passionate eyes, while Krs na looked at Radha, his beloved in the same way.
The beauty of her body could not be defined.
He was delightfully smiling, clad in astonishing costumes and wearing a crown.
Looking at Krsna with side-glances again and again, Radha covered her face with the cloth.
She was then immensely infatuated with love and fainted. All the limbs of her body felt emotional and she lost her senses.
Lord Hari on the other hand getting ready for the love-sport and feeling injured with the side- glances of Radha did not get fainted but on the other hand he stood erect like the log of wood.
The flute held in his hand, together with the lotus of the play, pitdmbara and the peacock feathers started shaking. In a moment, infatuated with love, he moved towards Radhika and embraced, her implanting a kiss on her face.
With the touch of lord Krsna, Radha regained consciousness and also embraced him tightly Krsna stole away the mind of Radha and Radha did so with Krsna's heart. Thereafter, the passionate lord Hari went to the pleasure-house together with Radha.
The place was illuminated with lamps of gems and several mirrors were found there. The pleasure house had a large number of beds made of campaka flowers and sprinkled with the It had enough of betels with camphor and other materials required for use for the purpose.
Krsna resided with Radha there cheerfully.
Madhusudana chewed the betel offered to him by Radha and similarly Radha chewed the betel offered by Krsna.
Delightfully Krsna gave to Mdha his used betel offered to her which was received devotedly by Radha smiling and then put it in her Thereafter lord Krsna demanded the used betel from Radha which she never gave to Krsna but getting afraid, she fell on the feet of lord Krsna.
In the meantime, Krsna, infatuated with passion, lied down with Radha on the beautiful The lord enjoyed the love-sports with Radha in eight types of opposite directions, using has nails, teeth and hands.
Both of them were well-versed in the love- sport and the art of making love and as such their love-sport was not coming to an end.
Similarly lord Krsna appearing in various chambers in human form enjoyed the company of all the cowherdesses in the charming While enjoying love-sports with Radha inside the chamber, he also did so outside it. He embraced the cowherdesses in the Rasamandala O sage there were nine lakhs, of cowherds and nine lakhs of cowherdesses in the Rasamandala making a total of eighteen lakhs.
They had dishevelled hair bare bodies, broken ornaments, disarranged costumes and getting intoxicated, they fainted with passion.
O Narada, the sound from their armlets, small bells from the waist bands, bangles and the anklets made of gems were creating a melodious He also implanted on her eight types of kisses as prescribed in the treatise of love (Kemasastra).
The passionate Krsna united all the limbs of Radha with those of his own and also embraced her which is always desired by the passionate firar era TTfenrarfr Tii5raH.ii<i Thus enjoying the love-sport on the grounds they went into the water. They enjoyed water- sport for a long time.
Then all of them came out from the water and putting on the robes, they started looking at the mirrors of gems.
Thereafter they regained consciousness.
Applying sandal-paste, aguru, kasturl and other cosmetics they were adorned with the garland of Thereafter all the cowherdesses chewing the betels with camphor started looking at the mirrors.made of gems.
Some of the cowherdesses curiously dragged Krsna by force and started snatching away his ^ flute and costumes. ^ Some of the passionate cowherdesses unrobed | lord Krsna and snatched away his lower garment | and after cutting jokes with him they returned the same to him.
One of them said, Listen to a way out. Thus speaking the cowherdess caught hold of the lord and implanted a kiss on his face with her lips resembling the wood apple, embracing him again and again.
Some of them smilingly cast side-glances displaying their developed breasts and the pelvic Some of them caught hold of the lord and seated him on their bodies and offered him the garland of jasmine flowers.
Some of them snatched away his tuft and placed a peacock feather in it. Some of them encircled his tuft with the garland of flowers.
Some of them handed over the lord to another cowherdess to increase her passion; some of them dragged the lord and with a passionate mind, unrobing him took him in the lap applying the sandal-paste on his body. Someone started dancing and singing before the lord.
Someone made the lord to dance fdVcibly.
Krsna on the other hand snatched away the robes of someone and unrobing her gave away the costumes to some one else. Thereafter lord Krsna pulled Radha towards himself and embraced her.
gjgft w -gRrafut?i Thereafter he decorated the body of someone with the spots of vermilion and kastiirl.
He made her hair and arranged it like a moon.
Her cheeks were painted like the beautiful tree He then clad her in beautiful garments purified by fire and adored her lotus-like feet with the best of anklets studded with gems.
W n T t H THT ^ JT: JT:l Cleaning the nails, the paint was applied on the feet. She was then adored with all the ornaments and the sandal-paste was applied on her body. Then holding the garland of jasmine flowers, it was placed round her neck, implanting a kiss on her cheek. The collyrium was applied to her lotus-like eyes.
The nose was decorated with the jewel. The breasts were decorated with the marks of the Then a bite was implanted with teeth on the lips which resembled the ripe wood apple. They enjoyed the love-sport in a secluded place in an orchard on the bank of the lake. Thereafter lord Krsna went back to Rdsamandala and performed the divine dance there.
The moon rays filled the outside of the Rdsamandala. The fragrant flowers, the sandal- paste, aguru and sandal added fragrance to the cool breeze and the group of black wasps created a hissing sound. The cuckoos issued sweet notes.
Lord Krspa the teacher of the yogis, who stole away the hearts of the cowherdesses took to many human bodies and again decorated all the cowherdesses. O Narada the sound of small bells, anklets started emerging and all the cowherdesses fainted as a result of the first encounter of the love-sport.
They were lying still and inert and their bodies were feeling emotional. Getting free from the love-sport they regained consciousness.
Their breasts were scratched and injured by lord Krsna with his nails and teeth.
Their stiff pelvic regions were carved with the nails and all the small bells of the waist-bands and the hair were loosened.
i r s rdH( ii^nii rramssfHfT ]fl??TT diijj'chini ^ g;Tggi:i The beautiful costumes and the pleasant appearance were disturbed. Krsna the lord of the love-sport delightfully embraced them in nine different ways and implanted on other bodies kisses in eight different ways and decorated them in sixteen ways. He embraced the damsels tightly uniting all their limbs with his own. There are sixteen types of the rays of the ladies and they were decorated accordingly.
The people well-versed in the scriptures of love were unaware of different kinds of them.
The passionate Krsna applied twelve types of cosmetics to them.
Wing: fTT: irg^.-i Lord Krsna enjoyed love-sports as is prescribed in the Kdmasastra, Whatever types of make-up was requited in the beginning, in the middle or the end of the love-sport by the cowherdesses, the lord used much more than that. With the scratches of the armlets of the cowherdesses and the paint of the feet, the body of lord Krsna looked quite beautiful like the charm of the mountain of red orchard. Thus with the completion of the divine dance all the gods together with their attendants end families reached the Rdsaman^ala with curiosity. They were mounted over the chariots of gold and were surrounded by their attendants.
They were filled with passion and their hairs stood at ends. All the ascetics the sages, the siddha, the manes, Vidyadhara, Gandharvas, Yaksas, Mksasas and Kinnaras also arrived there Lord Siva accompanied by Parvati also arrived there mounted over the chariot of gold. The chariot was inlaid with diamonds and the gems, it was covered with beautiful cloth and had white fly- whisks and had the stops of gems. It had a hundred wheels which were beautifully painted.
It moved with the speed of the mind, the top of the chariot was decorated with the pitcher made of gems which were illumining. Mahakala was lodged to the left of Siva while Nandikesvara appeared to his right.
Karttikeya and Ganesa were lodged in the front, Pihgalaksa and other attendant were lodged towards the feet.
All the ksetrapalas and eight bhairavas were also there, Durga with a smiling face, casting a side-glance was lodged at the chest of Siva.
Brahma the creator of the universe also arrived there with a Bharat! mounted over a golden chariot, the Saptarsis were lodged to his left while Sanaka and other sages were lodged to the Dharma the witness of all the deeds, was also mounted over a golden chariot. A smiling image of Sat! was implanted on his chest.
yrSIT W c*iellRrRl:l She was casting a side-glance on her lord, getting infested with passion. Dharma was surrounded by the attendants who emitted divine lustre. Similarly Indra accompanied by his spouse, the moon accompanied by RohinL Agni accompanied by Svaha and Surya accompanied by Sahjna were also present there.
with Rati and Dikpalas and all the stars together with their spouses also arrived All of them were witnessing the divine dance of Rasamandala remaining in the sky. Some of them were Infested with passion while others were fainted.
For a period of two ghadls, all the gods kept on smiling delightfully and started raining, flowers and sandal-paste.
The sages, dropped the rain of the garland of flowers, scented with kasturl. Looking at the divine dance in Rdsamandal all the spouses of the gods were infested with passion.
Thereafter Purna-Brahman and eternal Krsna after enjoying the love-sport with R3dha on the ground entered the water of the Yamuna.
The illusion of lord Krsna accompanied the cowherdesses. All of them getting infested with passion started enjoying the water-sport with The passionate Madhava himself offered water to Radhika who in turn offered water thrice to Madhava in her hand-cups.
Thereafter the lord unrobed Radhika broke her garland and unmade the locks of her hair.
He splashed so much of water over Radhika that her entire make-up was washed out. The eye-brows looked surprising, the paintings of the lips and the collyrium of the eyes were also washed out.
The lord embraced the unrobed Radhika and went beneath the water and enjoying the water sport again emerged over-the water.
Radhika who was bending because of love- sport and was smiling getting unrobed, was dragged by Krsna an the water and displaying her reflection in the water of Yamuna, he took her out of it. The Radhika also caught hold of Krsna forcefully with a jump and snatching away his flute, she dragged him in anger for a long She also unrobed him taking away his pltdmbara and also broke away the vanamdld.
She then started splashing water over him again and again. Thereafter Radhika dragged Hari in the deep water who was drowned there.
Thereafter Madhava got up at once and caught hold of Radhika and smilingly embraced her implanting kisses on her again and again.
Similarly, all the images of lord Krsna behaved similarly with all other cowherdesses in the waters of Yamuna.
Thereafter, the unrobed Krsna and Radha reached the bank of the Yamuna. Radha then begged for her costumes from Krsna smilingly.
w wit rT ■qraar;i Thereafter Madhava returned to RadhikS all her costumes and the beautiful garments, who intum returned the robes of Krsna together with the flute.
tal 'f ii i fard ' iw She than painted the body of Krsna with sandal-paste, aguru, saffron and kasturl.
Thereafter Radha decorated the hair of lord Krs na who influences the cowherdesses and tied the garland of jasmine flowers on his head.
Thereafter lord Krsna also arranged a beautiful hair-do for Radha and painted her cheeks with He decorated her forehead with the spot of kasturl and vermilion and under the same, a small spot of sandal-paste was also painted.
m t sfwd i TO II He then made the marks with his nails on the breasts and this and clad her in sanctified Applying the sandal-paste, aguru, kasturl and saffron over her body. He embraced her implanting kisses again and again.
Again embracing her, he if adorned her neck with a necklace and other ornaments on the body besides anklets on the feet.
Her nails and feet were again painted with red- core. Similarly the reflections of the lord also decorated the cowherdesses separately.
T tItT: TVRmi3c^H,l Thereafter, the intoxicated cowherdesses reached the Rasamandala which was filled with the rays of the moon and was located at a The fragrance of mddhavl, ketakl, kunda, mdlatl, campaka and jasmine flowers was spread over the entire Rasamandala, Finding the beautiful flowers there Radhika deputed some of the cowherdesses for collecting the flowers.
Some of them were asked to make the garments and some of them were asked to make the betels while others were asked to make the Radhika looked with side-glances and wearing smile on her face, she offered the sandal-paste and betels to Krsna lovingly which were handed over to her by the cowherdesses.
Some of the cowherdesses started playing on musical instruments together with Krsna and some were engaged in musical drum.
Thus Radhika enjoying the company of Krsna in the Rdsamandala and the love-sports roamed about in the beautiful secluded places with She roamed about with Krsna in beautiful flower orchards, the banks of the lakes, mountain caves, charming rivers and rivulets, completely deserted places, cremation grounds, the caves of the mountains and the thirty three forests which are desire to be visited by the ladies. These include Bhandira-vana, Sri-vana, the beautiful Madhu-vana, citron-forest, coconut-forest, betel- nut-forest, banana-forest, jujubi-forest, wood- apple-forest orange forest, Asvattha forest, bamboo forest, pomegranate forest, Mandara forest, tala forest, mango forest, asoka forest, palm forest, mango-forest, hog-plum-forest, silk- fruity forest, teak-wood forest, thorny forest, lotus forest, jasmine forest, thick forest, Srikhanda forest and the most surprising and developed saffron forest. They roamed about in
these, forests for thirty days and nights but their mind was still not satisfied.
The mind of the passionate damsels is never satisfied with the love-sports but they become more and more desirous for the same as the ghee in flames the fire.
All the gods and goddesses and the sages were quite surprised with the divine dance and praising if they left for their abodes. Many of the passionate goddesses took the birth on earth in royal families with the hope of enjoying the lave
Chapter-aligned complete witnesses. Sanskrit Wikisource revision 312760 (2021-06-21T02:18:56Z); Shanti Lal Nagar English scan pages n1096–n1108: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n1096/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.