Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 26
Sourceनारद उवाच ।। द्वादशीलङ्घने दोषः श्रुतस्त्वन्मुखतो मुने ।। पराभवो मुनेश्चैव नृपत्राणं हरेरहो ।। १ ।। अधुना श्रोतुमिच्छामि सर्वेषामीप्सितं च मे ।। एकादशीव्रतस्यास्य विधानं वद निश्चितम् ।। २ ।। अहो श्रुतौ श्रुतं किंचिन्मतभेदान्न निश्चितम् ।। श्रुतीनां कारणमुखाच्छ्रोतुं कौतूहलं मम ।। ३ ।। नारायण उवाच ।। एकादशीव्रतमिदं देवानामपि दुर्लभम् ।। श्रीकृष्णप्रीतिजनकं तपः श्रेष्ठं तपस्विनाम् ।।४।। देवानां च यथा कृष्णो देवीनां प्रकृतिर्यथा ।। आश्रमाणां यथा विप्रो वैष्णवानां यथा शिवः ।।५।। यथा गणेशः पूज्यानां यथा वाणी विपश्चिताम् ।। शास्त्राणां च यथा वेदास्तीर्थानां जाह्नवी यथा ।।६।। तैजसानां यथा स्वर्णं प्राणिनां वैष्णवो यथा ।। धनानां च यथा विद्या सङ्गिनां च यथा प्रिया ।।७।। प्रमथानां यथा रुद्रः श्रेयसां च यथा मतिः।। आत्मा यथेन्द्रियाणां च चञ्चलानां यथा मनः ।।८।। गुरुस्त्रीणां यथा माता बन्धूनां च यथा पतिः ।। बलिष्ठानां यथा दैवं कालः कलयतां यथा ।।९।। सुशीलं चैव मित्राणां शत्रूणां रुग्यथा मुने ।। यथा कीर्तिः कीर्तिमतां गृहिणां च यथा गृहम् ।। 4.26.१०।। यथा खलो हिंसकानां दुष्टानां चैव पुंश्चली ।। तेजस्विनां ग्रहेशश्च सहिष्णूनां यथा क्षितिः ।। ११ ।। यथाऽमृतं भक्षणानां दाहकानां यथाऽनलः ।। यथा श्रीर्धनदातॄणां सतीनां च यथा सती ।। १२ ।। प्रजेशानां यथा ब्रह्मा सरितां सागरो यथा ।। यथा साम श्रुतीनां च गायत्री छन्दसां यथा ।।१३।। वृक्षाणां च यथाऽश्वत्थः पुष्पाणां तुलसी यथा ।। यथा मार्गो हि मासानामृतूनां च यथा मधुः ।। १४ ।। आदित्यानां यथा सूर्यो रुद्राणां शंकरो यथा।। यथा भीष्मो वसूनां च वर्षाणां भारतं यथा ।। १५ ।। देवर्षीणां यथा त्वं च ब्रह्मर्षीणां यथा भृगुः ।। नृपाणां च यथा रामः सिद्धानां कपिलो यथा ।। १६ ।। यथा सनत्कुमारश्च योगिनां ज्ञानिनां वरः ।। ऐरावतो गजेन्द्राणां पशूनां शरभो यथा ।। १७ ।। यथा हिमाद्रिः शैलानां मणीनां कौस्तुभो यथा ।। सरस्वती नदीनां च यथा पुण्यस्वरूपिणी ।। १८ ।। गन्धर्वाणां चित्ररथो यथा श्रेष्ठश्च नारद ।। यथा कुबेरो यक्षाणां सुमाली रक्षसां यथा ।। १९ ।। यथा श्रेष्ठा च नारीणां शतरूपा वरा परा ।। मनूनां च यथा श्रेष्ठः स्वयं स्वायंभुवो मनुः ।।4.26.२०।। सुन्दरीणां यथा रम्भा यथा माया च मायिनाम् ।। एकादशीव्रतमिदं व्रतानां च वरं तथा ।।२१।। कर्तव्यं च चतुर्णां च वर्णानां नित्यमेव च ।। यतीनां वैष्णवानां ब्राह्मणानां विशेषतः ।। २२ ।। सत्यं सर्वाणि पापानि ब्रह्महत्यादिकानि च ।। सन्त्येवौदनमाश्रित्य श्रीकृष्णव्रतवासरे ।। २३ ।। भुक्त्वैतानि च पापानि यो भुङ्क्ते तत्र मन्दधीः ।। इहातिपातकी सोऽपि यात्यन्ते नरकं ध्रुवम्।।२४।। एकादशीप्रमाणानि युगसंख्याकृतानि च ।। कुम्भीपाके महाघोरे स्थित्वा चण्डालतां व्रजेत्।।२९।। गलितव्याधियुक्तश्च ततः सप्तसु जन्मसु।। पश्चान्मुक्तो भवेत्पापादित्याह कमलोद्भवः ।।२९।। इत्येवं कथितं ब्रह्मन्यो दोषस्तत्र भोजने ।। द्वादशीलङ्घने दोषो मयोक्तश्च श्रुतः पुरा ।।२७।। दशमीलङ्घने दोषं निबोध कथयामि ते ।। पुरा श्रुतो धर्मवक्त्राद्वेदसारोद्धृतोऽपि च ।।२८।। दशमीं यः कलामात्रां मूढोऽज्ञानेन लङ्घयेत् ।। याति श्रीस्तद्गृहात्तूर्णं शापं दत्त्वा तु दारुणम् ।।२९।। इह तद्वंशहानिश्च यशोहानिर्भवेद्ध्रुवम् ।। अन्ते मन्वन्तरशतमन्धकूपे वसेद्द्विज ।।4.26.३०।। दशम्येकादशी वापि द्वादशी यत्र वासरे ।। तत्र भुक्त्वा परदिने उपोष्य व्रतमाचरेत् ।।३१।। द्वादश्यां च व्रतं कृत्वा त्रयोदश्यां च पारणम् ।। द्वादशीलङ्घने दोषो व्रतिनां तन्न विद्यते ।। ३२ ।। संपूर्णैकादशी यत्र प्रभाते किंचिदेव सा।। तत्रोपोष्या द्वितीया च परा चेद्यदि वर्धते ।।३३।। षष्टिदण्डात्मिका यत्र प्रभाते च तिथित्रयम् ।। कुर्वन्ति गृहिणः पूर्वं चैव यत्यादयस्तथा ।।३४।। परत्रानशनं कृत्वा नित्यकृत्यं समाचरेत् ।। व्रते जागरणं सर्वं पूर्वत्रैवाचरेद्बुधः ।।३५।। तत्पूर्वदिवसे नित्यं व्रते कृत्वा परेऽहनि ।। एकादश्यां व्यतीतायां पारणं तु समाचरेत् ।। ३६ ।। वैष्णवानां यतीनां च विधवानां तथैव च ।। सर्वाः समा उपोष्यास्ता भिक्षूणां ब्रह्मचारिणाम् ।। ३७ ।। शुक्लामेव तु कुर्वन्ति गृहिणो वैष्णवेतराः ।। न कृष्णालङ्घने दोषस्तेषां वेदेषु नारद ।। ३८ ।। शयनीबोधिनीमध्ये या कृष्णैकादशी भवेत् ।। सैवोपोष्या गृहस्थेन नान्या कृष्णा कदाचन ।।३९।। इत्येवं कथितो ब्रह्मन्निर्णयोऽयं श्रुतौ श्रुतः ।। व्रतस्यास्य विधानं च निबोध कथयामि ते ।। 4.26.४० ।। कृत्वा हविष्यं पूर्वाह्णे न च भुङ्क्ते पुनर्जलम् ।। एकाकी कुशशय्यायां नक्तं शयनमाचरेत् ।। ४१ ।। ब्राह्मे मुहूर्ते चोत्थाय प्रातःकृत्यं विधाय च ।। नित्यकृत्यं विधायाथ ततः स्नानं समाचरेत् ।। ।। ४२ ।। व्रतोपवासं संकल्प्य श्रीकृष्णप्रीतिपूर्वकम् ।। कृत्वा सन्ध्यां तर्पणं च विधायाह्निकमाचरेत् ।। ४३ ।। नित्यपूजां दिने कृत्वा व्रतद्रव्यं समाहरेत् ।। कृत्वा षोडशोपचारं प्रदृष्टं विधिबोधितम् ।। ४४ ।। आसनं वसनं पाद्यमर्घ्यं पुष्पानुलेपनम् ।। धूपं दीपं च नैवेद्यं यज्ञसूत्रं च भूषणम् ।। ४५ ।। गन्धं स्नानीयताम्बूले मधुपर्कं पुनर्जलम् ।। एतान्याहृत्य दिवसे व्रतं नक्तं समाचरेत् ।। ४६ ।। उपविश्यासने पूतो धृत्वा धौतेयवाससी ।। आचम्य श्रीहरिं नत्वा स्वस्तिवाचनमाचरेत्।। ४७ ।। आरोप्य मङ्गलघटं धान्याधारे शुभे क्षणे ।। फलशाखाचंदनाक्तं वेदोक्तं मुनिभिर्मुदा ।।४८।। देवषट्कं समावाह्य पृथग्धान्यैः समाचरेत् ।। पूजां पञ्चोपचारैश्च प्रकृष्टैश्च विचक्षणः ।। ४९ ।। गणेश्वरं दिनकरं वह्निं विष्णुं शिवं शिवाम् ।। संपूज्यैतान्प्रणम्याथ व्रतं कुर्याद्धरिं स्मरन् ।। 4.26.५० ।। नाराध्य देवषट्कं च यदि कर्म समाचरेत् ।। नित्यं नैमित्तिकं चापि तत्सर्वं निष्फलं भवेत् ।। ५१ ।। इत्येवं कथितं सर्वं व्रताङ्गभूतमेव च ।। कण्वशाखोक्तमिष्टं च व्रतं शृणु महामुने ।।५२ ।। सामवेदोक्तध्यानेन ध्यात्वा कृष्णं परात्परम् ।। पुष्पं च शिरसि न्यस्य पुनर्ध्यानं समाचरेत् ।।९३।। ध्यानं शृणु निगूढं च सर्वेषामपि वाञ्छितम् ।। न प्रकाश्यमभक्ताय भक्तप्राणाधिकं परम् ।।५४ ।। नवीननीरदो यद्वच्छ्यामसुन्दरविग्रहम् ।। शरत्पार्वणचन्द्राभाविनिन्द्यास्यमनुत्तमम् ।। ५५ ।। शरत्सूर्योदयाब्जानां प्रभामोचनलोचनम्।। स्वांगसौंदर्यशोभाभी रत्नभूषणभूषितम् ।।५६।। गोपीलोचनकोणैश्च प्रसन्नैरतिसूचकैः ।। शश्वन्निरीक्ष्यमाणं तत्प्राणैरिव विनिर्मितम् ।। ५७ ।। रासमण्डलमध्यस्थं रासोल्लाससमुत्सुकम्।। राधावक्त्रशरच्चन्द्रसुधापानचकोरकम्।।५८।। कौस्तुभेन मणीन्द्रेण वक्षःस्थलसमुज्ज्वलम्।। पारिजातप्रसूनानां मालाजालैर्विराजितम् ।। ५९ ।। सद्रत्नसारनिर्माणं किरीटोज्ज्वलशेखरम् ।। विनोदमुरलीन्यस्तहस्तं पूज्यं सुरासुरैः ।। 4.26.६० ।। ध्यानासाध्यं दुराराध्यं ब्रह्मादीनां च वन्दितम् ।। कारणं कारणानां यस्तमीश्वरमहं भजे ।। ६१ ।। ध्यात्वाऽनेन तमावाह्य चोपहाराणि षोडश ।। दत्त्वा संपूजयेद्भक्त्या मन्त्रैरेभिश्च नारद ।। ६२ ।। आसनं स्वर्णनिर्माणं रत्नसारपरिच्छदम् ।। नानाचित्र विचित्राढ्यं गृह्यतां परमेश्वर ।। ६३ ।। वह्निप्रक्षालितं वस्त्रं निर्मितं विश्वकर्मणा ।। मूल्यानिर्वचनीयं च गृह्यतां राधिकापते ।। ।। ६४ ।। पादप्रक्षालनार्हं च सुवर्णपात्रसंस्थितम् ।। सुवासितं शीतलं च गृह्यतां करुणानिधे ।। ६५ ।। इदमर्घ्यं पवित्रं च शङ्खतोयसमन्वितम् ।। पुष्पदूर्वाचन्दनाक्तं गृह्यतां भक्तवत्सल ।। ६६ ।। सुवासितं शुक्लपुष्पं चन्दनागुरुसंयुतम् ।। सद्यस्ते प्रीतिजनकं गृह्यतां सर्वकारण ।। ६७ ।। चन्दनागुरुकस्तूरीकुङ्कुमोशीरमुत्तमम् ।। सर्वेप्सितमिदं कृष्ण गृह्यतामनुलेपनम् ।। ६८ ।। रसो वृक्षविशेषस्य नानाद्रव्यसमन्वितः।। सुगन्धियुक्तः सुखदो धूपोऽयं प्रतिगृह्यताम् ।। ६९ ।। दिवानिशं सुप्रदीप्तो रत्नसारविनिर्मितः ।। पुनर्ध्वान्तनाशबीजं दीपोऽयं प्रतिगृह्यताम् ।। 4.26.७० ।। नानाविधानि द्रव्याणि स्वादूनि सुरभीणि च ।। चोष्यादीनि पवित्राणि स्वात्माराम प्रगृह्यताम् ।।७१।। सावित्रीग्रन्थिसयुक्तं स्वर्णतन्तुविनिर्मितम् ।। गृह्यतां देवदेवेश रचितं चारु कारुणा।।७२।। अमूल्यरत्नरचितं सर्वा वयवभूषणम्।। त्विषा जाज्वल्यमानं च गृह्यतां नन्दनन्दन।।७३।। प्रधानो वर्णनीयश्च सर्वमङ्गलकर्मणि ।। प्रगृह्यतां दीनबन्धो गन्धोऽयं मङ्गलप्रदः ।।७४।। धात्री श्रीफलपत्रोत्थं विष्णुतैलं मनोहरम्।। वाञ्छितं सर्वलोकानां भगवन्प्रतिगृह्यताम् ।।७५।। वाञ्छनीयं च सर्वेषां कर्पूरादिसुवासितम्।। मया निवेदितं नाथ ताम्बूलं प्रतिगृह्यताम्।।७६।। सर्वेषां प्रीतिजनकं सुमिष्टं मधुरं मधु।। सद्रत्नसारपात्रस्थं गोपीकान्त प्रगृह्यताम् ।। ७७ ।। निर्मलं जाह्नवीतोयं सुपवित्रं सुवासितम् ।। पुनराचमनीयं च गृह्यतां मधुसूदन ।। ७८ ।। इति षोडशोपचारान्दत्त्वा भक्तो मुदाऽन्वितः ।। मन्त्रेणानेन पुष्पाणि माल्यं दत्त्वा प्रयत्नतः ।।७९।। नानाप्रकारपुष्पैश्च ग्रथितं शुक्लतन्तुना ।। प्रवरं भूषणानां च माल्यं च गृह्यतां प्रभो ।। 4.26.८० ।। इति पुष्पाञ्जलिं दद्यान्मूलमन्त्रेण च व्रती ।। कुर्यात्तत्स्तवनं भक्त्या पुटाञ्जलियुतः सुधीः ।। ८१ ।। भक्त उवाच ।। हे कृष्ण राधिकानाथ करुणासागर प्रभो ।। संसारसागरे घोरे मामुद्धर भयानके ।। ८२ ।। शतजन्मकृतायासादुद्विग्नस्य मम प्रभो ।। स्वकर्मपाशनिगडैर्बद्धस्य मोक्षणं कुरु ।। ८३ ।। प्रणतं पादपद्मे ते पश्य मां शरणागतम् ।। भवपाशभयाद्भीतं पाहि त्वं शरणागतम् ।। ८४ ।। भक्तिहीनं क्रियाहीनं विधिहीनं च वेदतः ।। वस्तुमन्त्रविहीनं यत्तत्संपूर्णं कुरु प्रभो ।। ८९ ।। वेदोक्तविहिताऽज्ञानात्स्वाङ्गहीने च कर्मणि ।। त्वन्नामोच्चारणेनैव सर्वं पूर्णं भवेद्धरे।।८६।। इति स्तुत्वा तं प्रणम्य दत्त्वा विप्राय दक्षिणाम् ।। महोत्सवं विधायाथ कुर्याज्जागरणं व्रती ।।८७।। कृत्वा व्रतोपवासं च यदि निद्रां निषेवते ।। पुनरेव जलं भुङ्क्ते व्रतार्धफलभाग्भवेत् ।। ८८ ।। यत्नेन च हविष्यान्नं सकृदेव समाचरेत् ।। मन्त्रेणानेन विप्रेन्द्र श्रीकृष्णचरणं स्मरन् ।। ८९ ।। अन्नं हि प्राणिनां प्राणा ब्रह्मणा निर्मितं पुरा ।। देहि मे विष्णुरूपं त्वं व्रतोपवासयोः फलम् ।। 4.26.९० ।। एवं यः कुरुते भक्त्या भारते व्रतमुत्तमम् ।। पूर्वान्सप्त परान्सप्त स्वात्मानमुद्धरेद्ध्रुवम् ।।९१।। मातरं भ्रातरं चैव श्वश्रूं च श्वशुरं सुताम् ।। जामातरं तथा भृत्यमुद्धरेन्निश्चितं नरः ।। ९२ ।। इत्येवं कथितं विप्र श्रीकृष्णचरितव्रतम् ।। सुखदं मोक्षदं सारमपरं कथयामि ते ।। ।। ९३ ।। इति श्रीब्रह्मववर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे एकादशीव्रतनिरूपणं नाम षड्विंशोऽध्यायः ।। ।। २६ ।।
nārada uvāca || dvādaśīlaṅghane doṣaḥ śrutastvanmukhato mune || parābhavo muneścaiva nṛpatrāṇaṃ hareraho || 1 || adhunā śrotumicchāmi sarveṣāmīpsitaṃ ca me || ekādaśīvratasyāsya vidhānaṃ vada niścitam || 2 || aho śrutau śrutaṃ kiṃcinmatabhedānna niścitam || śrutīnāṃ kāraṇamukhācchrotuṃ kautūhalaṃ mama || 3 || nārāyaṇa uvāca || ekādaśīvratamidaṃ devānāmapi durlabham || śrīkṛṣṇaprītijanakaṃ tapaḥ śreṣṭhaṃ tapasvinām ||4|| devānāṃ ca yathā kṛṣṇo devīnāṃ prakṛtiryathā || āśramāṇāṃ yathā vipro vaiṣṇavānāṃ yathā śivaḥ ||5|| yathā gaṇeśaḥ pūjyānāṃ yathā vāṇī vipaścitām || śāstrāṇāṃ ca yathā vedāstīrthānāṃ jāhnavī yathā ||6|| taijasānāṃ yathā svarṇaṃ prāṇināṃ vaiṣṇavo yathā || dhanānāṃ ca yathā vidyā saṅgināṃ ca yathā priyā ||7|| pramathānāṃ yathā rudraḥ śreyasāṃ ca yathā matiḥ|| ātmā yathendriyāṇāṃ ca cañcalānāṃ yathā manaḥ ||8|| gurustrīṇāṃ yathā mātā bandhūnāṃ ca yathā patiḥ || baliṣṭhānāṃ yathā daivaṃ kālaḥ kalayatāṃ yathā ||9|| suśīlaṃ caiva mitrāṇāṃ śatrūṇāṃ rugyathā mune || yathā kīrtiḥ kīrtimatāṃ gṛhiṇāṃ ca yathā gṛham || 4.26.10|| yathā khalo hiṃsakānāṃ duṣṭānāṃ caiva puṃścalī || tejasvināṃ graheśaśca sahiṣṇūnāṃ yathā kṣitiḥ || 11 || yathā'mṛtaṃ bhakṣaṇānāṃ dāhakānāṃ yathā'nalaḥ || yathā śrīrdhanadātṝṇāṃ satīnāṃ ca yathā satī || 12 || prajeśānāṃ yathā brahmā saritāṃ sāgaro yathā || yathā sāma śrutīnāṃ ca gāyatrī chandasāṃ yathā ||13|| vṛkṣāṇāṃ ca yathā'śvatthaḥ puṣpāṇāṃ tulasī yathā || yathā mārgo hi māsānāmṛtūnāṃ ca yathā madhuḥ || 14 || ādityānāṃ yathā sūryo rudrāṇāṃ śaṃkaro yathā|| yathā bhīṣmo vasūnāṃ ca varṣāṇāṃ bhārataṃ yathā || 15 || devarṣīṇāṃ yathā tvaṃ ca brahmarṣīṇāṃ yathā bhṛguḥ || nṛpāṇāṃ ca yathā rāmaḥ siddhānāṃ kapilo yathā || 16 || yathā sanatkumāraśca yogināṃ jñānināṃ varaḥ || airāvato gajendrāṇāṃ paśūnāṃ śarabho yathā || 17 || yathā himādriḥ śailānāṃ maṇīnāṃ kaustubho yathā || sarasvatī nadīnāṃ ca yathā puṇyasvarūpiṇī || 18 || gandharvāṇāṃ citraratho yathā śreṣṭhaśca nārada || yathā kubero yakṣāṇāṃ sumālī rakṣasāṃ yathā || 19 || yathā śreṣṭhā ca nārīṇāṃ śatarūpā varā parā || manūnāṃ ca yathā śreṣṭhaḥ svayaṃ svāyaṃbhuvo manuḥ ||4.26.20|| sundarīṇāṃ yathā rambhā yathā māyā ca māyinām || ekādaśīvratamidaṃ vratānāṃ ca varaṃ tathā ||21|| kartavyaṃ ca caturṇāṃ ca varṇānāṃ nityameva ca || yatīnāṃ vaiṣṇavānāṃ brāhmaṇānāṃ viśeṣataḥ || 22 || satyaṃ sarvāṇi pāpāni brahmahatyādikāni ca || santyevaudanamāśritya śrīkṛṣṇavratavāsare || 23 || bhuktvaitāni ca pāpāni yo bhuṅkte tatra mandadhīḥ || ihātipātakī so'pi yātyante narakaṃ dhruvam||24|| ekādaśīpramāṇāni yugasaṃkhyākṛtāni ca || kumbhīpāke mahāghore sthitvā caṇḍālatāṃ vrajet||29|| galitavyādhiyuktaśca tataḥ saptasu janmasu|| paścānmukto bhavetpāpādityāha kamalodbhavaḥ ||29|| ityevaṃ kathitaṃ brahmanyo doṣastatra bhojane || dvādaśīlaṅghane doṣo mayoktaśca śrutaḥ purā ||27|| daśamīlaṅghane doṣaṃ nibodha kathayāmi te || purā śruto dharmavaktrādvedasāroddhṛto'pi ca ||28|| daśamīṃ yaḥ kalāmātrāṃ mūḍho'jñānena laṅghayet || yāti śrīstadgṛhāttūrṇaṃ śāpaṃ dattvā tu dāruṇam ||29|| iha tadvaṃśahāniśca yaśohānirbhaveddhruvam || ante manvantaraśatamandhakūpe vaseddvija ||4.26.30|| daśamyekādaśī vāpi dvādaśī yatra vāsare || tatra bhuktvā paradine upoṣya vratamācaret ||31|| dvādaśyāṃ ca vrataṃ kṛtvā trayodaśyāṃ ca pāraṇam || dvādaśīlaṅghane doṣo vratināṃ tanna vidyate || 32 || saṃpūrṇaikādaśī yatra prabhāte kiṃcideva sā|| tatropoṣyā dvitīyā ca parā cedyadi vardhate ||33|| ṣaṣṭidaṇḍātmikā yatra prabhāte ca tithitrayam || kurvanti gṛhiṇaḥ pūrvaṃ caiva yatyādayastathā ||34|| paratrānaśanaṃ kṛtvā nityakṛtyaṃ samācaret || vrate jāgaraṇaṃ sarvaṃ pūrvatraivācaredbudhaḥ ||35|| tatpūrvadivase nityaṃ vrate kṛtvā pare'hani || ekādaśyāṃ vyatītāyāṃ pāraṇaṃ tu samācaret || 36 || vaiṣṇavānāṃ yatīnāṃ ca vidhavānāṃ tathaiva ca || sarvāḥ samā upoṣyāstā bhikṣūṇāṃ brahmacāriṇām || 37 || śuklāmeva tu kurvanti gṛhiṇo vaiṣṇavetarāḥ || na kṛṣṇālaṅghane doṣasteṣāṃ vedeṣu nārada || 38 || śayanībodhinīmadhye yā kṛṣṇaikādaśī bhavet || saivopoṣyā gṛhasthena nānyā kṛṣṇā kadācana ||39|| ityevaṃ kathito brahmannirṇayo'yaṃ śrutau śrutaḥ || vratasyāsya vidhānaṃ ca nibodha kathayāmi te || 4.26.40 || kṛtvā haviṣyaṃ pūrvāhṇe na ca bhuṅkte punarjalam || ekākī kuśaśayyāyāṃ naktaṃ śayanamācaret || 41 || brāhme muhūrte cotthāya prātaḥkṛtyaṃ vidhāya ca || nityakṛtyaṃ vidhāyātha tataḥ snānaṃ samācaret || || 42 || vratopavāsaṃ saṃkalpya śrīkṛṣṇaprītipūrvakam || kṛtvā sandhyāṃ tarpaṇaṃ ca vidhāyāhnikamācaret || 43 || nityapūjāṃ dine kṛtvā vratadravyaṃ samāharet || kṛtvā ṣoḍaśopacāraṃ pradṛṣṭaṃ vidhibodhitam || 44 || āsanaṃ vasanaṃ pādyamarghyaṃ puṣpānulepanam || dhūpaṃ dīpaṃ ca naivedyaṃ yajñasūtraṃ ca bhūṣaṇam || 45 || gandhaṃ snānīyatāmbūle madhuparkaṃ punarjalam || etānyāhṛtya divase vrataṃ naktaṃ samācaret || 46 || upaviśyāsane pūto dhṛtvā dhauteyavāsasī || ācamya śrīhariṃ natvā svastivācanamācaret|| 47 || āropya maṅgalaghaṭaṃ dhānyādhāre śubhe kṣaṇe || phalaśākhācaṃdanāktaṃ vedoktaṃ munibhirmudā ||48|| devaṣaṭkaṃ samāvāhya pṛthagdhānyaiḥ samācaret || pūjāṃ pañcopacāraiśca prakṛṣṭaiśca vicakṣaṇaḥ || 49 || gaṇeśvaraṃ dinakaraṃ vahniṃ viṣṇuṃ śivaṃ śivām || saṃpūjyaitānpraṇamyātha vrataṃ kuryāddhariṃ smaran || 4.26.50 || nārādhya devaṣaṭkaṃ ca yadi karma samācaret || nityaṃ naimittikaṃ cāpi tatsarvaṃ niṣphalaṃ bhavet || 51 || ityevaṃ kathitaṃ sarvaṃ vratāṅgabhūtameva ca || kaṇvaśākhoktamiṣṭaṃ ca vrataṃ śṛṇu mahāmune ||52 || sāmavedoktadhyānena dhyātvā kṛṣṇaṃ parātparam || puṣpaṃ ca śirasi nyasya punardhyānaṃ samācaret ||93|| dhyānaṃ śṛṇu nigūḍhaṃ ca sarveṣāmapi vāñchitam || na prakāśyamabhaktāya bhaktaprāṇādhikaṃ param ||54 || navīnanīrado yadvacchyāmasundaravigraham || śaratpārvaṇacandrābhāvinindyāsyamanuttamam || 55 || śaratsūryodayābjānāṃ prabhāmocanalocanam|| svāṃgasauṃdaryaśobhābhī ratnabhūṣaṇabhūṣitam ||56|| gopīlocanakoṇaiśca prasannairatisūcakaiḥ || śaśvannirīkṣyamāṇaṃ tatprāṇairiva vinirmitam || 57 || rāsamaṇḍalamadhyasthaṃ rāsollāsasamutsukam|| rādhāvaktraśaraccandrasudhāpānacakorakam||58|| kaustubhena maṇīndreṇa vakṣaḥsthalasamujjvalam|| pārijātaprasūnānāṃ mālājālairvirājitam || 59 || sadratnasāranirmāṇaṃ kirīṭojjvalaśekharam || vinodamuralīnyastahastaṃ pūjyaṃ surāsuraiḥ || 4.26.60 || dhyānāsādhyaṃ durārādhyaṃ brahmādīnāṃ ca vanditam || kāraṇaṃ kāraṇānāṃ yastamīśvaramahaṃ bhaje || 61 || dhyātvā'nena tamāvāhya copahārāṇi ṣoḍaśa || dattvā saṃpūjayedbhaktyā mantrairebhiśca nārada || 62 || āsanaṃ svarṇanirmāṇaṃ ratnasāraparicchadam || nānācitra vicitrāḍhyaṃ gṛhyatāṃ parameśvara || 63 || vahniprakṣālitaṃ vastraṃ nirmitaṃ viśvakarmaṇā || mūlyānirvacanīyaṃ ca gṛhyatāṃ rādhikāpate || || 64 || pādaprakṣālanārhaṃ ca suvarṇapātrasaṃsthitam || suvāsitaṃ śītalaṃ ca gṛhyatāṃ karuṇānidhe || 65 || idamarghyaṃ pavitraṃ ca śaṅkhatoyasamanvitam || puṣpadūrvācandanāktaṃ gṛhyatāṃ bhaktavatsala || 66 || suvāsitaṃ śuklapuṣpaṃ candanāgurusaṃyutam || sadyaste prītijanakaṃ gṛhyatāṃ sarvakāraṇa || 67 || candanāgurukastūrīkuṅkumośīramuttamam || sarvepsitamidaṃ kṛṣṇa gṛhyatāmanulepanam || 68 || raso vṛkṣaviśeṣasya nānādravyasamanvitaḥ|| sugandhiyuktaḥ sukhado dhūpo'yaṃ pratigṛhyatām || 69 || divāniśaṃ supradīpto ratnasāravinirmitaḥ || punardhvāntanāśabījaṃ dīpo'yaṃ pratigṛhyatām || 4.26.70 || nānāvidhāni dravyāṇi svādūni surabhīṇi ca || coṣyādīni pavitrāṇi svātmārāma pragṛhyatām ||71|| sāvitrīgranthisayuktaṃ svarṇatantuvinirmitam || gṛhyatāṃ devadeveśa racitaṃ cāru kāruṇā||72|| amūlyaratnaracitaṃ sarvā vayavabhūṣaṇam|| tviṣā jājvalyamānaṃ ca gṛhyatāṃ nandanandana||73|| pradhāno varṇanīyaśca sarvamaṅgalakarmaṇi || pragṛhyatāṃ dīnabandho gandho'yaṃ maṅgalapradaḥ ||74|| dhātrī śrīphalapatrotthaṃ viṣṇutailaṃ manoharam|| vāñchitaṃ sarvalokānāṃ bhagavanpratigṛhyatām ||75|| vāñchanīyaṃ ca sarveṣāṃ karpūrādisuvāsitam|| mayā niveditaṃ nātha tāmbūlaṃ pratigṛhyatām||76|| sarveṣāṃ prītijanakaṃ sumiṣṭaṃ madhuraṃ madhu|| sadratnasārapātrasthaṃ gopīkānta pragṛhyatām || 77 || nirmalaṃ jāhnavītoyaṃ supavitraṃ suvāsitam || punarācamanīyaṃ ca gṛhyatāṃ madhusūdana || 78 || iti ṣoḍaśopacārāndattvā bhakto mudā'nvitaḥ || mantreṇānena puṣpāṇi mālyaṃ dattvā prayatnataḥ ||79|| nānāprakārapuṣpaiśca grathitaṃ śuklatantunā || pravaraṃ bhūṣaṇānāṃ ca mālyaṃ ca gṛhyatāṃ prabho || 4.26.80 || iti puṣpāñjaliṃ dadyānmūlamantreṇa ca vratī || kuryāttatstavanaṃ bhaktyā puṭāñjaliyutaḥ sudhīḥ || 81 || bhakta uvāca || he kṛṣṇa rādhikānātha karuṇāsāgara prabho || saṃsārasāgare ghore māmuddhara bhayānake || 82 || śatajanmakṛtāyāsādudvignasya mama prabho || svakarmapāśanigaḍairbaddhasya mokṣaṇaṃ kuru || 83 || praṇataṃ pādapadme te paśya māṃ śaraṇāgatam || bhavapāśabhayādbhītaṃ pāhi tvaṃ śaraṇāgatam || 84 || bhaktihīnaṃ kriyāhīnaṃ vidhihīnaṃ ca vedataḥ || vastumantravihīnaṃ yattatsaṃpūrṇaṃ kuru prabho || 89 || vedoktavihitā'jñānātsvāṅgahīne ca karmaṇi || tvannāmoccāraṇenaiva sarvaṃ pūrṇaṃ bhaveddhare||86|| iti stutvā taṃ praṇamya dattvā viprāya dakṣiṇām || mahotsavaṃ vidhāyātha kuryājjāgaraṇaṃ vratī ||87|| kṛtvā vratopavāsaṃ ca yadi nidrāṃ niṣevate || punareva jalaṃ bhuṅkte vratārdhaphalabhāgbhavet || 88 || yatnena ca haviṣyānnaṃ sakṛdeva samācaret || mantreṇānena viprendra śrīkṛṣṇacaraṇaṃ smaran || 89 || annaṃ hi prāṇināṃ prāṇā brahmaṇā nirmitaṃ purā || dehi me viṣṇurūpaṃ tvaṃ vratopavāsayoḥ phalam || 4.26.90 || evaṃ yaḥ kurute bhaktyā bhārate vratamuttamam || pūrvānsapta parānsapta svātmānamuddhareddhruvam ||91|| mātaraṃ bhrātaraṃ caiva śvaśrūṃ ca śvaśuraṃ sutām || jāmātaraṃ tathā bhṛtyamuddharenniścitaṃ naraḥ || 92 || ityevaṃ kathitaṃ vipra śrīkṛṣṇacaritavratam || sukhadaṃ mokṣadaṃ sāramaparaṃ kathayāmi te || || 93 || iti śrībrahmavavarte mahāpurāṇe śrīkṛṣṇajanmakhaṇḍe nārāyaṇanāradasaṃvāde ekādaśīvratanirūpaṇaṃ nāma ṣaḍviṃśo'dhyāyaḥ || || 26 ||
English translation
Performing of Ekada^-vrato Narada said- O sage, I have heard from you the blemish one earns by the elapse of DvadasL Which enshrines the defeat of the sage and the rescue of the king. Presently I would like to listen about your desire. You kindly spell out to me the details of performing of Ekddasi-vrata.
Whatever had been provided in the Vedas cannot be taken for granted because of controversies; therefore I intend to listen the same from your mouth who happens to be the cause of srutis.
Narayana said - The Ekddasi-vrata beyond the reach of gods, it represents the love of Sri Krsna and the tapas of the tapasvls, As is Sri Krsna among the gods, Prakrti among the goddesses, Brahmana among the varnas, Siva among the Vaisnavas, Ganesa among the adorables, speech among the intellectuals, Vedas among the holy scriptures, the gold among the glittering elements, Vaisnava among the creatures, Vidya among the treasures, the wife among the companions, Rudra among the ganaSy intelligence among the welfares, soul among the organs of senses, the mind among the unstable things, mother among the teachers, the husband among the relatives, the destiny among the powerful beings, the gods of death among those who could never be averted.
w lUT TfifeiT wrft wi The good nature among Ae friend, the disease among the enemies, the glory among the glorious people, the house among the householders, the wicked persons among the killers, the wicked women among the wicked persons, the sun among those containing lustre, the earth among those who tolerate everything, the nectar among the eatables, the fire among the things which bum, LaksmI among the bestowers of riches, Parvatl among the chaste-ladies, Brahma among the Prajapatis, the ocean among the rivers, Samaveda among the Vedas, GSyatrl among the chandas, the pipala tree among the trees, TulasI among the flowers, Margasirsa among the months, spring among the seasons, Surya among the Adityas, ^iva among the Rudras, Bhisma among the Vasus, Bharata among the varsas, Narada among the divine ascetic, Bhrgu among the Brahmarsis, Rama among the king, Kapila among the siddhas, Sanatkumara among the
yogis, Airavata among the elephants, Sarabha among the animals, Himalaya among the mountains, kaustubha among the gems, Sarasvatl among the rivers.
Citraratha among the Gandharvas, Kubera among the Yaksas, Sumall among the Raksasas, the beautiful ^atarilpa among the women, Svayambhuva Manu among the Manus, Rambha among the beautiful damsels, Bhagavatl among the goddesses of illusion, similarly the Ekadasi- vrata is best of all the vratas.
luiraTTT tt sugiunqj fgvlq(i:iR^ii This vrata should be performed by all the four varnas alike. It should particular be performed by the Brahmanas.
All the sire like Brahmahatyd and others reside in the cooked rice during the Ekddasi- Therefore, the one who consumes the cooked rice on that day, he contributes to all the sins.
Becoming a great sinner on the earth, he ultimately falls the hell.
For eleven yugas he has to remain in the kumbhipaka hell and thereafter he is bom as a He suffers with leprosy for seven births and thereafter he is relieved of the sins. This has been ordained by Brahma.
O Brahman, I have narrated to you about the sin one earns by consuming food on Ekadasi day and the sin one earns by crossing the Dvadas'i day and has already been explained by me which you have already listened.
Now I am going to tell you the sin one earns by crossing the tenth day {Dasaml-tithi). I had been enlightened on this by Dharma in earlier times which had been the essence of the Vedas.
The foolish person who crosses the tenth day even by fraction, the goddess Lak^ml deserts his house leaving him.
His progeny is put to harm in this birth together with his glory. Ultimately falls into the andhakupa hell for a hundred manvantams, The day on which the Dasaml Ekadasi and Dvadasi fall, one should take his food on that day and fast during the next day.
While performing vrata of Dvadas'i one should break it on Trayodas'J day. In that case, one does not earn the sin of crossing the Dvadasi-tithi. In spite of there being Ekadasi on one day and on the next day if there is little of Dvadasi in the early morning, than the second day the fast should be continued. In case the tithi is extended to sixty dandas and in the early morning there is the on conglomeration of three tithis, in that case, a house-holder should perform vrata on the earlier day and not the yatis.
The fast should be observed on the next day carrying on other daily routine. In case the Ekadasi, falls on two consecutive days, one should perform the vrata and the night awakening on the first night itself after performing vrata on the first day one should break his fast on the neat day after the elapse of The Vaisnavas, the yatis, the widows, the beggars and Brahmacaris should all performed the Ekddasl-vrata.
The people other than the Vaisnavas should performed Ekadasi-rata of the bright fortnight and while doing so they do not earn the sin of crossing the Ekadasi-iiihi according to the The Krsna-Janma Ekadast falling between Harisayani and Haribodhinl Ekadasl should be observed by the householder who should keep the fast on that day and not on other Ekadasi days falling in the black fortnight.
O Brahman, thus I have spoken to you everything about the Ekadasl-vrata which has been prescribed in the Vedas, now I narrate to you the details of its performance.
On the tenth day in the early morning, after coming havisya food, one should not take even water the second time. One should sleep on the mat of kusa during the night alone.
Thereafter getting up in the early morning in the Brahmamuhurta, he should purify himself from all the daily routines like taking of bath, etc.
Thereafter one should take a vow before lord Krs na for the observing of the fast. Then performing sandhya, one should complete all the daily routines and the adorations. Performing the puja he should collect the material required for performing the vrata including the sixteen types of material prescribed in the scriptures.
The sixteen types of materials include dsana, the clothes, padya, arghya, flowers, sandal-paste, fragrance, water for bathing, betel, madhuparka and the water for sipping. Collecting all these materials during the day one should perform the vrata during the night.
Getting seated over a pure seat he should clad himself into new garments. After sipping he should bow in reverence to lord Hari and then He should concentrate the welfare pitcher on the fried paddy and the neck of the pitcher should be adorned with mango leaves and some fruits. The kalasas should then be painted with sandal-paste and one should perform the adoration as prescribed in the Vedas by the seers.
Thereafter he should invoke six gods on the six bundles of the paddy and then should adore them with best of the five-fold material. The six gods are Ganesa, Surya, Agni, Visnu, Siva and Parvatl. One should recite the name of Hari after adoring them all and then start the vrata.
In case anyone observes the vrata without performing the daily pujd and other connected details, his entire effort becomes infructuous.
Thus O great sage, I have explained to you the details about the performing of the vrata which have been prescribed in the Kanvasakha. Now you listen about the desired vrata.
One should meditate upon lord Krsna according to the hymns prescribed in Samaveda, placing flowers on his head and than concentrate his mind. You listen to me about the extremely deep dhyanam which is desired by all. It should not be revealed to non-believers, but it is dearer to the devotees than their lives.
The body of Sri Krsna has the complexion of the new clouds and is quite beautiful. His face is like the full-moon of the winter season and the best of all.
His eyes resembled the blossomed lotus flower of the winter season. His body was adorned with various types of ornaments studded with gems, which add to the beauty of his body.
The eyes of the delightful cowherdesses always looked at him with side-glances continuously, as if the body of the lord was created out of the lives of the cowherdesses.
He is enshrined in the middle of the Rdsamandala and is quite anxious to perform the divine dance and he is looking at the lotus-like face of Radha which resembles the full moon of the winter season, like the partridge bird.
ssrnraTKT jOTTKt d i r<dH.i His chest is adorned with kaustubha-gcm and the garland of Pdrijdta flowers; his forehead is adorned with the kirita-mukuta studded with the best of gems. He playfully holds the flute in his hand and is adored by the gods and demons alike. He is difficult to achieve even with deep meditation. The gods like Brahma and others adore him. He happens to be the cause of all the causes. I adore the lord.
O Narada, thus meditating upon the lord, he should invoke him and should adore him reciting mantras with devotion.
O Parmesvara, you kindly accept the dsana which is made of gold studded with the best of gems and decorated with paintings.
O lord of Radhika, you kindly accept the costumes prepared by Visvakarma, which are invaluable and are pure like fire. O merciful one, for washing your feet, you accept this cool water contained in the golden pitcher.
O beloved of the devotees, you kindly accept this auspicious arghya contained in the base of O cause of everything, you kindly accept the sandal-paste and aguru besides the white O lord Krsna, you accept this paste made of sandal, aguru, kasturl and saffron besides khasa, which is desired by all.
You kindly accept the incense which has been created out of the juice of a special tree, mixed with various materials, fragrance and is quite You kindle this lamp of gems which bums throughout the day and night and is the cause for removing all the darkness. O lord, who roams in the soul, you kindly accept all the delicious eatables which are quite tasteful and are scented.
O lord of the gods, you kindly accept this yajnopavita which has been sanctified with the knot of Gayatrl mantra and is made of the gold by excellent artisans.
O son of Nanda, you accept these costly ornaments of gold studded with the best of gems which are illumining and can adore all the limbs of the body.
O merciful for the down-trodden, you accept this fragrance which is the best of all the auspicious ones, praise-worthy and bestows O lord, you kindly accept this Visnu-oil which has been prepared from the myrobalan and the leaves of the wood apples and is quite pleasant and desired by all.
O lord, you kindly accept this betel which has been scented with camphor and is liked by all which is offered by me.
O lord of the cowherdesses, you kindly accept this honey which increases love, is quite sweet and is contained in several vases of gems.
O lord Madhusudana, you kindly accept this extremely purified water for sipping which contains fragrance and the water of the Gahga.
wfoT RRi WW: I I'a <? 11 Thus the devotee should perform the sixteen¬ fold adoration and should offer the garland of flowers. O lord Krsna, you kindly accept the garland of white flowers which have been entwined in a white cord.
Thus a wise devotee should offer the flowers filled in the hand-cups and adore the lord The devotee said- O Krspa, O lord of Radhika, O lord, you are the ocean of mercy and protect me from the terrible ocean or the universe, helping me to cross it.
O lord, I am upset because of my suffering for hundreds of births and I am bound in the fetters of the sins emanating from my own deeds. You kindly redeem me.
I am falling at your feet, you look at a person like me who has taken refuge with you. I am entangled with the human bondages of the universe and I have come to take refuge with you. You kindly protect me.
O lord, I am devoid of devotion, am I actionless, devoid of the Vedic knowledge, the riches and the mantras; therefore, you kindly make me complete.!
O lord Hari, unaware of the provisions of the Vedas I have performed the adoration which may be having some short-comings in performance or the reciting of names, which should be overlooked by you.
Thus reciting the prayers to the lord and bowing before him one should offer daksind to the Brahmanas and the performer should remain awake during the night with rejoicing.
In case anyone goes to sleep while performing the vrata or drinks water then half of its merit is O best of the Brahmana, reciting the name of the lotus-like feet of lord Krsna, one should take the food left over from the yajna.
I 3l?r infRRt RMT?r?ItIIT JTTI O food, you are the form of Vi§nu and were created by Brahma in the form of life; therefore you bestow on me the reward for my performing the vrata and fasting.
TJpt RT: R5RRT sRTgrTR^I Thus one should perform the vrata with devotion on the land of Bharata and one who does so, redeems seven earlier and seven coming The person who performs the vrata redeems his mother, brother, mother-in-law, father-in-law, daughter and even the servants.
O Brahmana, I have narrated to you the story of lord Krsna which is quite pleasant, provides welfare and salvation; now you listen to another
Chapter-aligned complete witnesses. Sanskrit Wikisource revision 123521 (2017-09-30T15:13:33Z); Shanti Lal Nagar English scan pages n1071–n1078: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n1071/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.