Skip to main content

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 23

Chapter 23

Unit 166 of 276Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 23Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 231 source entries

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 23

Source

नारद उवाच ।। केन पापेन बलिजो गर्दभत्वमवाप ह ।। दुर्वासाः केन दोषेण शशाप दानवेश्वरम् ।। १ ।। केन पुण्येन वा नाथ बलिनः श्रीहरेः पदम् ।। सहसैकत्वमुक्तिं च संप्राप दानवाधिपः ।। २ ।। मुने सर्वं सुविस्तार्य वद संदेहभञ्जन ।। अहो कविमुखे काव्यं नूत्नंनूत्नं पदेपदे ।। ३ ।। श्रीनारायण उवाच ।। शृणु वत्स प्रवक्ष्येऽहमितिहासं पुरातनम् ।। पुरा श्रुतं धर्मवक्त्रात्पर्वते गन्धमादने ।। ४ ।। पाद्मकल्पे च वृत्तान्तं विचित्रं सुमनोहरम् ।। नारायणकथोपेतं कर्णपीयूषमुत्तमम् ।। ५ ।। यत्र कल्पे कथा चेयं तत्र त्वमुपबर्हणः ।। आकल्पजीवी सश्रीकः सुन्दरः स्थिरयौवनः ।। ६ ।। पंचाशत्कामिनीनां च पतिः शृङ्गारतत्परः ।। वरेण ब्रह्मणस्त्वं च सुकण्ठो गायनेश्वरः ।। ७ ।। अनुक्षणं पपुस्तास्ते सुन्दरं मुखपङ्कजम् ।। निमेषरहिताः सर्वाः कामबाणप्रपीडिताः ।। ८ ।। तासां प्राणैश्च घटितो विधिना त्वमिव श्रुतम् ।। दिवानिशं सहचरा न जीवन्ति त्वया विना ।। ।। ९ ।। पुष्पोद्याने च रहसि स्थानेस्थाने मनोरमे ।। गह्वरेषु च शैलानां कन्दरेषु नदीषु च ।। 4.23.१० ।। काननेषु च रम्येषु श्मशाने जन्तुवर्जिते ।। यथामनोरथं ताश्च क्रीडां चक्रुस्त्वया सह ।। ११ ।। तदा दैवाद्विधेः शापाद्भूत्वा दासीसुतो भवान् ।। अधुना ब्रह्मणः पुत्रो वैष्णवोच्छिष्टभोजनात् ।। १२ ।। असंख्यकल्पजीवी च वैष्णवप्रवरो महान् ।। ज्ञानदृष्ट्या सर्वदर्शी प्रिय शिष्यश्च धूर्जटेः ।। १३ ।। तस्य कल्पस्य वृत्तान्तं मुने मत्तो निशामय ।। विस्तार्य दैत्यवृत्तांतं कथयामि सुधोपमम् ।।१४।। एकदैव बलेः पुत्रो नाम्ना साहसिको बली ।। स्वतेजसा सुराञ्जित्वा प्रतस्थे गन्धमादनम् ।। १९ ।। चन्देनोक्षितसर्वाङ्गो रत्नभूषणभूषितः ।। रत्नसिंहासनस्थश्च बहुसैन्यसमन्वितः ।। १६ ।। एतस्मिन्नन्तरे तेन पथा याति तिलोत्तमा ।। रूपेणाप्सरसां श्रेष्ठा नानावेषविधायिनी ।। १७ ।। चारुचम्पकवर्णाभा रत्नाभरणभूषिता ।। नवयौवनसम्पन्ना कामबाणप्रपीडिता ।। १८ ।। ईषद्धास्य प्रसन्नास्या दिव्यवस्त्रं सुबिभ्रती ।। वक्रभूभङ्गयुक्ता सा गजेन्द्रमन्दगामिनी ।। १९ ।। स्तनमूरुं मुखेन्दुं च दृष्ट्वा साहसिको युवा ।। वायुना मुक्तवस्त्रायास्तस्या मूर्च्छामवाप ह ।। 4.23.२० ।। सा ददर्श बलेः पुत्रमतीव सुमनोहरम् ।। प्रफुल्लमालतीमालां बिभ्रतं नवयौवनम् ।। २१ ।। शरत्पार्वणचन्द्रास्यं सुस्मितं सुमनोहरम् ।। दृष्ट्वा तं विस्मिता कामात्कटाक्षं च चकार सा ।। २२ ।। क्रीडायै चन्द्रलोकं च गच्छन्ती चन्द्रकामुकी ।। तस्थौ केन च्छलेनैव मत्ता शृङ्गारलालसा ।। २३ ।। दर्शंदर्शं च तस्यास्य प्रहस्य वक्रचक्षुषा ।। मुखस्याच्छादनं चक्रे वाससा सा पुनःपुनः ।। २४ ।। पुलकांकितसर्वाङ्गं धर्मकर्मसमन्वितम् ।। बभूव काममत्ताया योनौ कण्डूयनं जलम् ।। २५ ।। विसस्मार शशधरं बलिपुत्रमनोरथा ।। अहो को वेद भुवने दुर्ज्ञेयं पुंश्चलीमनः ।। २६ ।। पुंश्चल्यां यो हि विश्वस्तो विधिना स विडम्बितः ।। बहिष्कृतश्च यशसा धर्मेण स्वकुलेन च।।२७।। वाञ्छितं नूतनं प्राप्य विनश्यति पुरातनम् ।। तदा स्वकर्मसाध्या सा को वा तस्याः प्रियोऽप्रियः ।।२८।। दैवे कर्मणि पैत्र्ये च पुत्रे बन्धौ न भर्तरि ।। दारुणं पुंश्चलीचित्तं सदा शृङ्गारकर्मणि ।। २९ ।। प्राणाधिकं रतिज्ञं साऽमृतदृष्ट्या च पुंश्चली ।। रत्नप्रदं रत्नविज्ञं विषदृष्ट्या हि पश्यति ।। 4.23.३० ।। सर्वेषां स्थलमस्त्येव पुंश्चलीनां न कुत्रचित् ।। दारुणा पुंश्चली जातिर्नरघातिभ्य एव च ।।३१।। निष्कृतिः सर्वभोगान्ते सर्वेषामस्ति निश्चितम्।। न पुंश्चलीनां विप्रेन्द्र यावच्चन्द्रदिवाकरौ ।। ३२ ।। अन्यासां कामिनीनां च कीटं हन्तुं च या दया ।। सा नास्ति पुंश्चलीनां तु कान्तं हन्ति पुरातनम् ।। ३३ ।। कान्तं दृष्ट्वा हिनस्त्येव सोपायेनावलीलया ।। रतिज्ञं नूतनं प्राप्य विषतुल्यं पुरातनम् ।। ३४ ।। पृथिव्यां यानि पापानि पुंश्चलीष्वेव भारते ।। तिष्ठन्ति ताभ्यो न पराः पापिष्ठाः सन्ति केचन ।। ३९ ।। पुंश्चलीपरिपक्वान्नं सर्वपातकनिश्चितम् ।। दैवे कर्मणि पैत्र्ये च न देयं च तथा जलम् ।। ३६ ।। अन्नं विष्ठा जलं मूत्रं पुंश्चलीनां च निश्चितम् ।। दत्त्वा पितृभ्यो देवेभ्यो भुक्त्वा च नरकं व्रजेत् ।।३७।। शतवर्षं कालसूत्रे पचत्येव सुदारुणे ।। घोरान्धकारे कृमयस्तं दशन्ति दिवानिशम्।।।। ३८ ।। पुंश्चल्यन्नं च यो भुङ्क्ते दैवाद्यदि नराधमः ।। सप्तजन्मकृतं पुण्यं तस्य नश्यति निश्चितम् ।। ३९ ।। आयुः श्रीयशसां हानिरिह लोके परत्र च ।। तस्माद्यत्नाद्रक्षणीयं पाकपात्रं कलत्रकम् ।। 4.23.४० ।। पुंश्चलीदर्शने पुण्यं यात्रासिद्धिर्भवेद्ध्रुवम् ।। स्पर्शने च महापापं तीर्थस्नानाद्विशुध्यति ।। ४१ ।। स्नानं दानं व्रतं चैव जपश्च देवपूजनम् ।। निष्फलं पुंश्चलिनां च भारते जीवनं वृथा ।।।। ४२ ।। कथितं कुलटाख्यानं दुर्ज्ञेयं च यथागमम् ।। संवादं च तयोस्तत्र प्रकृतं शृणु नारद ।। ४३ ।। स पुनश्चेतनां प्राप्य तां दृष्ट्वैव बलेः सुतः ।। कामातुरः प्रमत्तश्च जगाम कुलटान्तिकम् ।। ४४ ।। उवाच कुटिलापाङ्गी पीनश्रोणिपयोधराम् ।। व्रीडया वाससा वक्त्रमाच्छन्नं कुर्वती मुदा ।। ४९ ।। साहसिक उवाच ।। कासि त्वं कस्य कन्यासि कस्य कान्तासि कामिनि ।। स्वयं क्व यासि कं सुभ्रूः पुण्यवन्तं मनोहरम् ।। ४६ ।। कल्पान्ते तपसा पूतं भोक्तुं त्वामेव सुन्दरि ।। यं तं यासि याहि सा त्वं भृत्यं मां कर्तुमर्हसि ।।४७।। क्रीणीहि रतिपुण्येन मां भृत्यं रतिलोलुपम् ।। शृङ्गारलोलुपा त्वं च शृङ्गारं देहि कामुकि ।। ४८ ।। त्वया सह ममाश्लेषो विधिना च विनिर्मितः ।। निरूपितं यत्तेनैव वार्यते केन तत्प्रिये ।। ४९ ।। वाक्यं पीयूषसदृशं सस्मितं वद सुन्दरि ।। शीघ्रं भुजलतापाशैर्बन्धनं कुरु निर्जने ।।4.23.५० ।। आसनं देहि कल्याणि स्वोरुं कनकसन्निभम्।। स्तनमण्डलकुम्भं च पात्रयोग्यं प्रदर्शय।।५१।। तीक्ष्णास्त्रेण कटाक्षेण जर्जरं कुरु भामिनि ।। कामसर्पक्षतं पादस्पर्शनेनारुजं कुरु ।। ५२।। अधरोष्ठामृतं स्वादु देहि मे क्षुधिताय च ।। पक्वदाडिमबीजाभं दन्तं दर्शय सुन्दरम।५३। गम्भीरनाभिं त्रिवलीं द्रष्टुमिच्छामि सुन्दरि ।। नीवीप्रमोक्षणं कर्तुमिच्छा मे वर्तते सदा ।।५४।। श्रोणीं पश्यामि ललितां मुनिमानसमोहिनीम् ।। शरन्मध्याह्नपद्मानां प्रभामोचनलोचनाम् ।। ५५ ।। शरत्पार्वणचन्द्रास्यं प्रसन्नं च प्रदर्शय ।। सा च तद्वचनं श्रुत्वा तमुवाच स्मरातुरा ।। ५६ ।। दृष्ट्वाऽऽर्त कामबाणेन मानसंक्षयकामिनी ।। तिलोत्तमोवाच।। पतिस्त्वत्सदृशो नाथ कामिनीनां मनीषितः ।। ५७ ।। बलिपुत्रोऽसि धर्मिष्ठो रूपवान्गुणवान्युवा ।। शृङ्गारनिपुणः कान्तः कामशास्त्रविशारदः।५८।। सदा मनोज्ञः स्त्रीणां त्वं सुवेषश्च स्वभावतः।। सुवेषं सुन्दरं शान्तं कान्तं दान्तमरोगिणम्।।५९।। शृङ्गारज्ञं गुणज्ञं त्वां युवानं रसिकं शुचिम् ।। स्त्रीमनोज्ञं दयालुं च बलिष्ठं सन्तमीश्वरम्।। दातारमनुरक्तं च कान्तमिच्छति कामिनी।।4.23.६०।। एते सर्वे गुणाः कान्त सन्ति कान्ते त्वयि ध्रुवम्।। त्वां न वाञ्छन्ति याः कान्तास्ता अविज्ञाश्च वञ्चिताः ।।६१।। संतोषं ते करिष्यामि समागम्य विधोर्गृहात्।। वेषं कृत्वा तु चन्द्रार्थं यात्राऽद्य तस्य कामिनी ।। अन्याश्लेषणमात्रेण भविता धर्मलङ्घना ।। ६२ ।। याश्च धर्मान्न रक्षन्ति तासां च जीवनं वृथा ।। चन्द्राश्लेषं न जानन्ति यास्ता मूढाः प्रकीर्तिताः ।। ता एव मातृगर्भस्था न प्राज्ञाः पौरुषै रसैः ।। ६३ ।। स्ववैद्यौमदनश्चन्द्रो मरुत्वान्नलकूबरः ।। एभिर्नालिङ्गिता यास्ता वञ्चिता रतिकर्मभिः ।। ६४ ।। दिवानिशं मानसं मे तेषां क्रीडां च चिन्तयेत् ।। विशेषतः कामदेवो निपुणो रतिकर्मणि ।। ६५ ।। चन्द्रशृङ्गारमाश्लेषमालापममृताधिकम् ।। अद्य तस्य रतिदिनं तेन तच्चिन्तयेन्मनः ।। ६६ ।। तिलोत्तमावचः श्रुत्वा जहास बलिनन्दनः ।। सकामश्च सपुलकस्तामुवाच रहःस्थले ।। ६७ ।। साहसिक उवाच ।। ब्रह्मणा निर्मिता त्वं च कौतुकेन तिलोत्तमे ।। अतो वरा चाप्सरसां विदग्धरसिकेश्वरी ।। ६८ ।। सुन्दोपसुन्दयोर्नाशः निमित्तेन प्रयत्नतः ।। सर्वरूपगुणाधारा विधिना च कृता पुरा ।। ६९ ।। सर्वं जानासि सर्वज्ञे विज्ञा सुरतकर्मणि ।। हर्षेण श्रोतुमिच्छामि वद वो मानसं वचः ।।4.23.७०।। अतिप्रियश्च को वा च कः स्वभावो वरानने ।। अवश्यं गोपनीयं च श्रोतुमिच्छामि सुन्दरि ।। ।।७१ ।। गन्धर्वाणां सुराणां च राज्ञां पुण्यवतामपि।। सर्वेषां प्राणतुल्या त्वमेषु ते कः परः प्रियः ।।७२ ।। असुरस्य वचः श्रुत्वा प्रहस्य सा तिलोत्तमा।। मुखमाच्छादनं चक्रे विलोक्य वक्रचक्षुषा ।। ७३ ।। सत्यं सारमन्तरस्थमव्यक्तमतिगोपनम् ।। उवाच मानसं वाक्यमज्ञातं विदुषामपि ।। ७४ ।। ।। तिलोत्तमोवाच ।। ।। कथनीयं साहसिक पुंश्चलीनां मनोवचः ।। स्त्रीजातीनां च सर्वासामुपहासकरं परम् ।। ७५ ।। सर्वेषामपि दुर्ज्ञेयं चरितं योषितामपि ।। विशेषतोऽपि दुर्ज्ञेयं पुंश्चलीनां मनोवचः ।। ७६ ।। वेदवेदाङ्गशास्त्रान्तं सर्वं जानाति पंडितः ।। कान्त नांतं विजानाति दिशामाकाशयोषिताम्।। ७७ ।। विषादप्यप्रियो वृद्धो रत्नादपि च योषिताम् ।। युवा सर्वस्वहर्ता चेत्प्राणेभ्योऽपि परः प्रियः ।।७८।। युवानं सुन्दरं दृष्ट्वा ह्यार्ता भवति पुंश्चली ।। विशेषतः सुवेषं च दृष्ट्वैव हतचेतना ।। ७९ ।। निमेषरहिता तस्य लोचनाभ्यां पिबेन्मुखम् ।। योनौ जलं क्षरेत्तस्याः सद्यः कुण्डूयनं भवेत् ।। 4.23.८० ।। मनोऽतिलोलमस्थैर्यं सर्वाङ्गानि चकम्पिरे ।। जडीभूतं शरीरं च प्रदग्धं मदनानलात् ।। ८१ ।। संप्राप्य तं चेद्रहसि साऽऽलापं कुरुते स्फुटम् ।। सकटाक्षं स्मेरवक्त्रं दर्शयित्वा पुनः पुनः ।। ८२ ।। तथा यदि वशं कर्तुं न शशाक जितेन्द्रियम् ।। स्वमङ्गं दर्शयित्वा तमन्तर्वाक्यं स्फुटं वदेत् ।। ८३ ।। दुःसाध्ये नायके दुःखं भवेदाजन्मजन्मनि ।। तत्तुल्यं तत्परं प्राप्य तं विस्मरति पुंश्चली ।। ८४ ।। पुंश्चलीनामप्रियः कः कः प्रियो वा महीतले ।। योऽतिशृङ्गारनिपुणः स च प्राणाधिकः प्रियः ।। ८५ ।। पूर्वजारं पतिं पुत्रं भ्रातरं पितरं प्रसूम् ।। विशिष्टं नूतनं प्राप्य सर्वं त्यजति लीलया ।। ८६ ।। न दानेन न मानेन सत्येन स्तवनेन वा ।। नोपकारेण प्रीत्या वा सा साध्या सुरतिं विना ।।८७।। शयने भोजने चापि स्वप्ने ज्ञाने दिवानिशम् ।। नित्यं सत्पुरुषाश्लेषं स्मरन्ति कुलटा स्त्रियः ।।।। ८८ ।। शृङ्गारनिपुणानां च ध्यानसाध्या चिरं परम्।। दारुणा पुंश्चली जातिः प्रार्थयेच्च नवंनवम् ।।८९।। सर्वासां कुलटानां च चरित्रं कथितं मया ।। अकथ्यं गोपनीयं च मम हृद्वचनं शृणु।।4.23.९०।। मम सन्ति प्रियतरा गन्धर्वेषु सुरेषु च।। युवानो रतिशूराश्च कामशास्त्रविशारदाः ।।९१।। विशेषतः शशधरे स्नेहो मे विद्यते परः ।। ततोऽतिरिक्तः सर्वस्मादपि कामः प्रियो मम ।।९२।। प्रियो मे कामसदृशो न भूतो न भविष्यति ।। स्मरस्य स्मरणात्तूर्णं सुस्निग्धं मानसं मम ।। ९३ ।। इत्येवं कथितं सर्वमात्मनो योषितामपि ।। आज्ञां कुरु महाराज यास्यामि चन्द्रसन्निधिम् ।।९४ ।। चन्द्रस्थानात्तव स्थानं समागत्य सुनिश्चितम्।। संतोषं तव दैत्येन्द्र करिष्यामि न संशयः ।। ९९ ।। श्रुत्वैवं बलिपुत्रश्च जहासोच्चैः पुनः पुनः ।। सा वक्रचक्षुषाऽऽलोक्य तं जहास स्मरातुरा।। ९६ ।। छलेन दर्शयामास कठिनं स्तनयोर्युगम् ।। चारुचम्पकवर्णाभं वर्तुलं पीनमुच्छ्रितम् ।। ९७ ।। श्रोणीं सुकठिनां रम्यां रम्भास्तम्भविनिन्दिनीम् ।। सकटाक्षं स्मेरमुख कपोलं पुलकाञ्चितम् ।। ९८ ।। रहःस्थानं समासाद्य कामेन हतचेतना ।। पुलकाञ्चितसर्वाङ्गी लोचनाभ्यां पपौ मुखम् ।। ९९ ।। तस्य रूपं च वेषं च दर्शंदर्शं पुनःपुनः ।। मुखस्याच्छादनं भावात्कुर्वर्ती सूक्ष्मवाससा ।। 4.23.१०० ।। अतिकामातुरां दृष्ट्वा सुप्राज्ञो बलिनन्दनः ।। पप्रच्छ कामिनां कामी भावं विज्ञातुमुत्सुकः ।। १०१ ।। साहसिक उवाच ।। किं करिष्यसि मां सत्यं वद पङ्कजलोचने।। कार्यान्तरं करिष्यामि सुचिरं स्थातुमक्षमः ।।१०२।। कामिनीषु बलात्कारो न धर्मो धर्मिणां प्रिये।। विशेषतोऽतिविदुषां नास्माकं स्वकुलोचितः ।। १०३ ।। शृङ्गारं देहि वा गच्छ रतिं कर्तुं सुरान्तिके ।। कः क्षमो वा वशीकर्तुं पुंश्चलीं बहुगामिनीम् ।। १०४ ।। दानवस्य वचः श्रुत्वा शुष्ककण्ठोष्ठतालुका ।। आत्मानमधमंमन्या भिद्यमाना स्मरास्त्रतः ।। १०५ ।। तिलोत्तमोवाच ।। ।। कथमेवं ब्रूहि त्वं मे कान्तः प्राणाधिकः प्रियः ।। कथं वा कोपयुक्तोऽसि कुरु कार्यं मनीषितम् ।। १०६ ।। त्वामेवं विमुखं कृत्वा यामि चन्द्रान्तिकं यदि ।। तवाभिशापात्तत्रैव सद्यो विघ्नो भविष्यति ।। १०७ ।। विहारं कुरु भद्रं ते करिष्यति हरिः स्वयम् ।। पदेपदे शुभं तस्य यः स्त्रीमानं च रक्षति ।।१ ०८।। अवमन्य स्त्रियं मूढो यो याति पुरुषाधमः ।। पदेपदे तदशुभं करोति पार्वती सती ।। १०९ ।। तिलोत्तमावचः श्रुत्वा जहास बलिनन्दनः ।। कामशास्त्रेषु निष्णातस्तद्भावं बुबुधे सुधीः ।। 4.23.११० ।। भावं विज्ञाय भावज्ञः कामशास्त्रविशारदः ।। करे धृत्वा समाश्लिष्य चुचुम्ब मुखपङ्कजम् ।। १११ ।। जगाम च तया सार्धं गन्धमादनगह्ररम् ।। ददर्श तत्र गत्वा च स्थानं जन्तुविवर्जितम् ।। ११२ ।। संस्थाप्य रत्नदीपांश्च धूपं च सुमनोहरम् ।। शय्यां रतिकरीं कृत्वा सुष्वाप च तया सह ।। ११३ ।। नानाप्रकारशृङ्गारं चकार काममोहितः ।। तिलोत्तमा तं बुबुधे सुरादपि विचक्षणम् ।। ११४ ।। विपरीतरतौ तुष्टा बभूव रसिकेश्वरी ।। दिवानिशं न बुबुधे नवसंगममूर्च्छिता ।। ११५ ।। तिलोत्तमा कामभावाद्बलिपुत्रमुवाच ह।। कृत्वा वक्षसि प्राणेशं स्तनयोरन्तरे मुदा ।। ११६ ।। तिलोत्तमोवाच ।। कदा द्रक्ष्याम्यहं कान्त मुखचन्द्रं मनोहरम् ।। एवंभूतं शुभदिनं कदा मे भविता पुनः ।। ११७ ।। अयि किं रूपमाश्चर्यं गुणो वा तव दानव ।। ध्रुवं शृङ्गारनिपुणस्त्वत्परो नास्ति कश्चन ।।११८।। मां विस्मरसि कालेन पुरुषः षट्पदो यथा ।। स्त्रीणां सत्पुरुषाश्लेष आजीवं मनसि स्थितः ।। ११९ ।। सत्संगमः शुभदिने पुण्यात्पुण्यवतां भवेत् ।। सद्विच्छेदो दुःखहेतुर्मरणादतिरिच्यते ।।4.23.१२०।। पीयूषभोजनात्स्वर्गवासादपि च दुर्लभः ।। सत्संगमः सुखमयोऽप्यसत्सङ्गो विषाधिकः ।। १२१ ।। क्षणं तिष्ठ महाराज पुनरालिंगनं कुरु ।। त्वया सार्धं मम प्राणा यास्यन्ति चेतसा सह ।।१२२।। इत्येवमुक्त्वा कुलटा कृत्वा वक्षसि सादरम् ।। पुमंगसंगोत्पुलका मूर्च्छामाप सुखेन च ।। १२३ ।। कुलटालिंगनालापात्सोऽतिकामी बभूव ह ।। यथा दीप्तः कृष्णवर्त्मा वर्धते हविषाऽधिकम् ।। १२४ ।। पुनश्चकार शृंगारमसुरोऽष्टविधं मुने ।। चुंबनं च नवविधं यथास्थाने यथोचितम् ।। १२५ ।। नखदन्तकरैः क्रीडां चकार विविधां पुनः ।। किंकिणीनां कंकणानां बभूव शब्द उल्बणः ।। मुनेर्दुर्वाससस्तेन ध्यानभङ्गो बभूव ह ।। १२६ ।। अदृष्टस्य तयोस्तत्र वल्मीकाच्छादितस्य च ।। योगासनं कुर्वतश्च गन्धमादनगह्वरे ।। १२७ ।। ध्यायतश्चरणांभोजं कृष्णस्य परमात्मनः ।। न पपात तयोर्दृष्टिः समीपस्थे महामुनौ ।। कामात्मनोर्न हि ज्ञानं कामेन हतचेतसोः ।। १२८ ।। सहसा चेतनां प्राप्य प्रज्वलन्ब्रह्मतेजसा ।। ददर्श पुरतस्तौ तु मुनिरुन्मील्य लोचने ।। १२९ ।। दिवानिशं न जानन्तौ संयुक्तौ काममोहितौ ।। दृष्ट्वा चुकोप तेजस्वी रुद्रांशो भगवान्विभुः ।। 4.23.१३० ।। उवाच तौ विहारान्ते रक्तपङ्कजलोचनः ।। ध्यानप्राप्तपदाम्भोजविच्छेदोद्विग्नमानसः ।। १३१ ।। दुर्वासा उवाच ।। उत्तिष्ठ गर्दभाकार निर्लज्ज पुरुषाधम ।। भक्तप्रधानस्य बलेः पुत्रः पशुसमप्रभः ।। १३२ ।। देवो वा मानवो वाऽपि दैत्यगन्धर्वराक्षसाः ।। लज्जां कुर्वन्ति सततं स्वजातौ च पशून्विना ।। १३३ ।। ज्ञानलज्जाविहीना च खरजातिर्विशेषतः ।। तस्मात्त्वं दानवश्रेष्ठ खरयोनिं व्रजाधुना ।। १३४ ।। तिलोत्तमे त्वमुत्तिष्ठ लज्जाहीना च पुंश्चली ।। एतादृशी स्पृहा दैत्ये व्रज योनिं च दानवीम् ।। १३५ ।। इत्येवमुक्त्वा स मुनिस्तस्थौ तत्र रुषा ज्वलन् ।। तौ च तुष्टुवतुर्भीतावुत्थाय व्रीडितौ मुनिम ।। १३६ ।। साहसिक उवाच ।। त्वं ब्रह्मा त्वं च विष्णुश्च त्वं च साक्षान्महेश्वरः ।। हुताशनस्त्वं सूर्यश्च सृष्टिस्थित्यन्तकारकः ।।१३७।। क्षमापराधं भगवन्कृपां कुरु कृपानिधे ।। मूढापराधं सततं यः क्षमेत्स सदीश्वरः ।। १३८ ।। इत्येवमुक्त्वा दैत्येन्द्रो रुरोदोच्चैः पुरो मुनेः ।। कृत्वा तृणानि दशने पपात चरणाम्बुजे ।। १३९ ।। तिलोत्तमोवाच ।। हे नाथ करुणासिन्धो दीनबन्धो कृपां कुरु ।। विधिसृष्टौ च सर्वेषां मूढा स्त्रीजातिरेव च ।। 4.23.१४० ।। ततोऽतिमत्ता कुलटा सदा कामातुरा परा ।। लज्जाभीतिश्चेतना च न सन्ति कामुके विभो ।। १४१ ।। इत्युक्त्वा रोदनं कृत्वा जगाम शरणं मुनेः ।। विना विपत्तौ केषांचिज्ज्ञानं भवति भूतले ।। तयोर्दृष्ट्वा च वैकल्यं बभूव करुणा मुनेः ।। १४२ ।। दुर्वासा उवाच ।। अतिशापः प्रसादो वा भवेद्दैवेन दानव ।। सत्कीर्तिरपकीर्तिर्वा प्राक्तनप्रभवा ध्रुवम् ।। १४३ ।। विष्णुभक्तबलेः पुत्रः सद्वंशप्रभवो जनः ।। जनकाद्विष्णुभक्तोऽसि जानामि त्वां सुनिश्चितम् ।। १४४ ।। जनकस्य स्वभावो हि जन्ये तिष्ठति निश्चितम् ।। यथा श्रीकृष्णपादाङ्कः कालीयवंशमस्तके ।। १४५ ।। संप्राप्य गार्दभीं योनिं वत्स निर्वाणतां व्रज ।। पूर्वं कृष्णार्चनफलं न हि लुप्तं सतां चिरात् ।। १४६ ।। वृन्दारण्यं तालवनं व्रज शीघ्रं व्रजान्तिकम् ।। प्राणांस्त्यक्त्वा हरेश्चक्रान्मुक्तिं प्राप्स्यसि निश्चितम् ।। १४७ ।। तिलोत्तमे भारते त्वं बाणपुत्री भविष्यसि ।। श्रीकृष्णपौत्रश्लेषेण पुनः पूता भविष्यसि ।। १४८ ।। इत्येवमुक्त्वा स मुनिर्विरराम महामुने ।। तौ जग्मतुर्यथास्थानं प्रणम्य मुनिपुंगवम् ।। १४९ ।। इत्युक्तं सर्ववृत्तान्तं दैत्यस्य खरजन्मनः ।। तिलोत्तमा बाणपुत्री ह्युषाऽनिरुद्धकामिनी ।। 4.23.१५० ।।

nārada uvāca || kena pāpena balijo gardabhatvamavāpa ha || durvāsāḥ kena doṣeṇa śaśāpa dānaveśvaram || 1 || kena puṇyena vā nātha balinaḥ śrīhareḥ padam || sahasaikatvamuktiṃ ca saṃprāpa dānavādhipaḥ || 2 || mune sarvaṃ suvistārya vada saṃdehabhañjana || aho kavimukhe kāvyaṃ nūtnaṃnūtnaṃ padepade || 3 || śrīnārāyaṇa uvāca || śṛṇu vatsa pravakṣye'hamitihāsaṃ purātanam || purā śrutaṃ dharmavaktrātparvate gandhamādane || 4 || pādmakalpe ca vṛttāntaṃ vicitraṃ sumanoharam || nārāyaṇakathopetaṃ karṇapīyūṣamuttamam || 5 || yatra kalpe kathā ceyaṃ tatra tvamupabarhaṇaḥ || ākalpajīvī saśrīkaḥ sundaraḥ sthirayauvanaḥ || 6 || paṃcāśatkāminīnāṃ ca patiḥ śṛṅgāratatparaḥ || vareṇa brahmaṇastvaṃ ca sukaṇṭho gāyaneśvaraḥ || 7 || anukṣaṇaṃ papustāste sundaraṃ mukhapaṅkajam || nimeṣarahitāḥ sarvāḥ kāmabāṇaprapīḍitāḥ || 8 || tāsāṃ prāṇaiśca ghaṭito vidhinā tvamiva śrutam || divāniśaṃ sahacarā na jīvanti tvayā vinā || || 9 || puṣpodyāne ca rahasi sthānesthāne manorame || gahvareṣu ca śailānāṃ kandareṣu nadīṣu ca || 4.23.10 || kānaneṣu ca ramyeṣu śmaśāne jantuvarjite || yathāmanorathaṃ tāśca krīḍāṃ cakrustvayā saha || 11 || tadā daivādvidheḥ śāpādbhūtvā dāsīsuto bhavān || adhunā brahmaṇaḥ putro vaiṣṇavocchiṣṭabhojanāt || 12 || asaṃkhyakalpajīvī ca vaiṣṇavapravaro mahān || jñānadṛṣṭyā sarvadarśī priya śiṣyaśca dhūrjaṭeḥ || 13 || tasya kalpasya vṛttāntaṃ mune matto niśāmaya || vistārya daityavṛttāṃtaṃ kathayāmi sudhopamam ||14|| ekadaiva baleḥ putro nāmnā sāhasiko balī || svatejasā surāñjitvā pratasthe gandhamādanam || 19 || candenokṣitasarvāṅgo ratnabhūṣaṇabhūṣitaḥ || ratnasiṃhāsanasthaśca bahusainyasamanvitaḥ || 16 || etasminnantare tena pathā yāti tilottamā || rūpeṇāpsarasāṃ śreṣṭhā nānāveṣavidhāyinī || 17 || cārucampakavarṇābhā ratnābharaṇabhūṣitā || navayauvanasampannā kāmabāṇaprapīḍitā || 18 || īṣaddhāsya prasannāsyā divyavastraṃ subibhratī || vakrabhūbhaṅgayuktā sā gajendramandagāminī || 19 || stanamūruṃ mukhenduṃ ca dṛṣṭvā sāhasiko yuvā || vāyunā muktavastrāyāstasyā mūrcchāmavāpa ha || 4.23.20 || sā dadarśa baleḥ putramatīva sumanoharam || praphullamālatīmālāṃ bibhrataṃ navayauvanam || 21 || śaratpārvaṇacandrāsyaṃ susmitaṃ sumanoharam || dṛṣṭvā taṃ vismitā kāmātkaṭākṣaṃ ca cakāra sā || 22 || krīḍāyai candralokaṃ ca gacchantī candrakāmukī || tasthau kena cchalenaiva mattā śṛṅgāralālasā || 23 || darśaṃdarśaṃ ca tasyāsya prahasya vakracakṣuṣā || mukhasyācchādanaṃ cakre vāsasā sā punaḥpunaḥ || 24 || pulakāṃkitasarvāṅgaṃ dharmakarmasamanvitam || babhūva kāmamattāyā yonau kaṇḍūyanaṃ jalam || 25 || visasmāra śaśadharaṃ baliputramanorathā || aho ko veda bhuvane durjñeyaṃ puṃścalīmanaḥ || 26 || puṃścalyāṃ yo hi viśvasto vidhinā sa viḍambitaḥ || bahiṣkṛtaśca yaśasā dharmeṇa svakulena ca||27|| vāñchitaṃ nūtanaṃ prāpya vinaśyati purātanam || tadā svakarmasādhyā sā ko vā tasyāḥ priyo'priyaḥ ||28|| daive karmaṇi paitrye ca putre bandhau na bhartari || dāruṇaṃ puṃścalīcittaṃ sadā śṛṅgārakarmaṇi || 29 || prāṇādhikaṃ ratijñaṃ sā'mṛtadṛṣṭyā ca puṃścalī || ratnapradaṃ ratnavijñaṃ viṣadṛṣṭyā hi paśyati || 4.23.30 || sarveṣāṃ sthalamastyeva puṃścalīnāṃ na kutracit || dāruṇā puṃścalī jātirnaraghātibhya eva ca ||31|| niṣkṛtiḥ sarvabhogānte sarveṣāmasti niścitam|| na puṃścalīnāṃ viprendra yāvaccandradivākarau || 32 || anyāsāṃ kāminīnāṃ ca kīṭaṃ hantuṃ ca yā dayā || sā nāsti puṃścalīnāṃ tu kāntaṃ hanti purātanam || 33 || kāntaṃ dṛṣṭvā hinastyeva sopāyenāvalīlayā || ratijñaṃ nūtanaṃ prāpya viṣatulyaṃ purātanam || 34 || pṛthivyāṃ yāni pāpāni puṃścalīṣveva bhārate || tiṣṭhanti tābhyo na parāḥ pāpiṣṭhāḥ santi kecana || 39 || puṃścalīparipakvānnaṃ sarvapātakaniścitam || daive karmaṇi paitrye ca na deyaṃ ca tathā jalam || 36 || annaṃ viṣṭhā jalaṃ mūtraṃ puṃścalīnāṃ ca niścitam || dattvā pitṛbhyo devebhyo bhuktvā ca narakaṃ vrajet ||37|| śatavarṣaṃ kālasūtre pacatyeva sudāruṇe || ghorāndhakāre kṛmayastaṃ daśanti divāniśam|||| 38 || puṃścalyannaṃ ca yo bhuṅkte daivādyadi narādhamaḥ || saptajanmakṛtaṃ puṇyaṃ tasya naśyati niścitam || 39 || āyuḥ śrīyaśasāṃ hāniriha loke paratra ca || tasmādyatnādrakṣaṇīyaṃ pākapātraṃ kalatrakam || 4.23.40 || puṃścalīdarśane puṇyaṃ yātrāsiddhirbhaveddhruvam || sparśane ca mahāpāpaṃ tīrthasnānādviśudhyati || 41 || snānaṃ dānaṃ vrataṃ caiva japaśca devapūjanam || niṣphalaṃ puṃścalināṃ ca bhārate jīvanaṃ vṛthā |||| 42 || kathitaṃ kulaṭākhyānaṃ durjñeyaṃ ca yathāgamam || saṃvādaṃ ca tayostatra prakṛtaṃ śṛṇu nārada || 43 || sa punaścetanāṃ prāpya tāṃ dṛṣṭvaiva baleḥ sutaḥ || kāmāturaḥ pramattaśca jagāma kulaṭāntikam || 44 || uvāca kuṭilāpāṅgī pīnaśroṇipayodharām || vrīḍayā vāsasā vaktramācchannaṃ kurvatī mudā || 49 || sāhasika uvāca || kāsi tvaṃ kasya kanyāsi kasya kāntāsi kāmini || svayaṃ kva yāsi kaṃ subhrūḥ puṇyavantaṃ manoharam || 46 || kalpānte tapasā pūtaṃ bhoktuṃ tvāmeva sundari || yaṃ taṃ yāsi yāhi sā tvaṃ bhṛtyaṃ māṃ kartumarhasi ||47|| krīṇīhi ratipuṇyena māṃ bhṛtyaṃ ratilolupam || śṛṅgāralolupā tvaṃ ca śṛṅgāraṃ dehi kāmuki || 48 || tvayā saha mamāśleṣo vidhinā ca vinirmitaḥ || nirūpitaṃ yattenaiva vāryate kena tatpriye || 49 || vākyaṃ pīyūṣasadṛśaṃ sasmitaṃ vada sundari || śīghraṃ bhujalatāpāśairbandhanaṃ kuru nirjane ||4.23.50 || āsanaṃ dehi kalyāṇi svoruṃ kanakasannibham|| stanamaṇḍalakumbhaṃ ca pātrayogyaṃ pradarśaya||51|| tīkṣṇāstreṇa kaṭākṣeṇa jarjaraṃ kuru bhāmini || kāmasarpakṣataṃ pādasparśanenārujaṃ kuru || 52|| adharoṣṭhāmṛtaṃ svādu dehi me kṣudhitāya ca || pakvadāḍimabījābhaṃ dantaṃ darśaya sundarama|53| gambhīranābhiṃ trivalīṃ draṣṭumicchāmi sundari || nīvīpramokṣaṇaṃ kartumicchā me vartate sadā ||54|| śroṇīṃ paśyāmi lalitāṃ munimānasamohinīm || śaranmadhyāhnapadmānāṃ prabhāmocanalocanām || 55 || śaratpārvaṇacandrāsyaṃ prasannaṃ ca pradarśaya || sā ca tadvacanaṃ śrutvā tamuvāca smarāturā || 56 || dṛṣṭvā''rta kāmabāṇena mānasaṃkṣayakāminī || tilottamovāca|| patistvatsadṛśo nātha kāminīnāṃ manīṣitaḥ || 57 || baliputro'si dharmiṣṭho rūpavānguṇavānyuvā || śṛṅgāranipuṇaḥ kāntaḥ kāmaśāstraviśāradaḥ|58|| sadā manojñaḥ strīṇāṃ tvaṃ suveṣaśca svabhāvataḥ|| suveṣaṃ sundaraṃ śāntaṃ kāntaṃ dāntamarogiṇam||59|| śṛṅgārajñaṃ guṇajñaṃ tvāṃ yuvānaṃ rasikaṃ śucim || strīmanojñaṃ dayāluṃ ca baliṣṭhaṃ santamīśvaram|| dātāramanuraktaṃ ca kāntamicchati kāminī||4.23.60|| ete sarve guṇāḥ kānta santi kānte tvayi dhruvam|| tvāṃ na vāñchanti yāḥ kāntāstā avijñāśca vañcitāḥ ||61|| saṃtoṣaṃ te kariṣyāmi samāgamya vidhorgṛhāt|| veṣaṃ kṛtvā tu candrārthaṃ yātrā'dya tasya kāminī || anyāśleṣaṇamātreṇa bhavitā dharmalaṅghanā || 62 || yāśca dharmānna rakṣanti tāsāṃ ca jīvanaṃ vṛthā || candrāśleṣaṃ na jānanti yāstā mūḍhāḥ prakīrtitāḥ || tā eva mātṛgarbhasthā na prājñāḥ pauruṣai rasaiḥ || 63 || svavaidyaumadanaścandro marutvānnalakūbaraḥ || ebhirnāliṅgitā yāstā vañcitā ratikarmabhiḥ || 64 || divāniśaṃ mānasaṃ me teṣāṃ krīḍāṃ ca cintayet || viśeṣataḥ kāmadevo nipuṇo ratikarmaṇi || 65 || candraśṛṅgāramāśleṣamālāpamamṛtādhikam || adya tasya ratidinaṃ tena taccintayenmanaḥ || 66 || tilottamāvacaḥ śrutvā jahāsa balinandanaḥ || sakāmaśca sapulakastāmuvāca rahaḥsthale || 67 || sāhasika uvāca || brahmaṇā nirmitā tvaṃ ca kautukena tilottame || ato varā cāpsarasāṃ vidagdharasikeśvarī || 68 || sundopasundayornāśaḥ nimittena prayatnataḥ || sarvarūpaguṇādhārā vidhinā ca kṛtā purā || 69 || sarvaṃ jānāsi sarvajñe vijñā suratakarmaṇi || harṣeṇa śrotumicchāmi vada vo mānasaṃ vacaḥ ||4.23.70|| atipriyaśca ko vā ca kaḥ svabhāvo varānane || avaśyaṃ gopanīyaṃ ca śrotumicchāmi sundari || ||71 || gandharvāṇāṃ surāṇāṃ ca rājñāṃ puṇyavatāmapi|| sarveṣāṃ prāṇatulyā tvameṣu te kaḥ paraḥ priyaḥ ||72 || asurasya vacaḥ śrutvā prahasya sā tilottamā|| mukhamācchādanaṃ cakre vilokya vakracakṣuṣā || 73 || satyaṃ sāramantarasthamavyaktamatigopanam || uvāca mānasaṃ vākyamajñātaṃ viduṣāmapi || 74 || || tilottamovāca || || kathanīyaṃ sāhasika puṃścalīnāṃ manovacaḥ || strījātīnāṃ ca sarvāsāmupahāsakaraṃ param || 75 || sarveṣāmapi durjñeyaṃ caritaṃ yoṣitāmapi || viśeṣato'pi durjñeyaṃ puṃścalīnāṃ manovacaḥ || 76 || vedavedāṅgaśāstrāntaṃ sarvaṃ jānāti paṃḍitaḥ || kānta nāṃtaṃ vijānāti diśāmākāśayoṣitām|| 77 || viṣādapyapriyo vṛddho ratnādapi ca yoṣitām || yuvā sarvasvahartā cetprāṇebhyo'pi paraḥ priyaḥ ||78|| yuvānaṃ sundaraṃ dṛṣṭvā hyārtā bhavati puṃścalī || viśeṣataḥ suveṣaṃ ca dṛṣṭvaiva hatacetanā || 79 || nimeṣarahitā tasya locanābhyāṃ pibenmukham || yonau jalaṃ kṣarettasyāḥ sadyaḥ kuṇḍūyanaṃ bhavet || 4.23.80 || mano'tilolamasthairyaṃ sarvāṅgāni cakampire || jaḍībhūtaṃ śarīraṃ ca pradagdhaṃ madanānalāt || 81 || saṃprāpya taṃ cedrahasi sā''lāpaṃ kurute sphuṭam || sakaṭākṣaṃ smeravaktraṃ darśayitvā punaḥ punaḥ || 82 || tathā yadi vaśaṃ kartuṃ na śaśāka jitendriyam || svamaṅgaṃ darśayitvā tamantarvākyaṃ sphuṭaṃ vadet || 83 || duḥsādhye nāyake duḥkhaṃ bhavedājanmajanmani || tattulyaṃ tatparaṃ prāpya taṃ vismarati puṃścalī || 84 || puṃścalīnāmapriyaḥ kaḥ kaḥ priyo vā mahītale || yo'tiśṛṅgāranipuṇaḥ sa ca prāṇādhikaḥ priyaḥ || 85 || pūrvajāraṃ patiṃ putraṃ bhrātaraṃ pitaraṃ prasūm || viśiṣṭaṃ nūtanaṃ prāpya sarvaṃ tyajati līlayā || 86 || na dānena na mānena satyena stavanena vā || nopakāreṇa prītyā vā sā sādhyā suratiṃ vinā ||87|| śayane bhojane cāpi svapne jñāne divāniśam || nityaṃ satpuruṣāśleṣaṃ smaranti kulaṭā striyaḥ |||| 88 || śṛṅgāranipuṇānāṃ ca dhyānasādhyā ciraṃ param|| dāruṇā puṃścalī jātiḥ prārthayecca navaṃnavam ||89|| sarvāsāṃ kulaṭānāṃ ca caritraṃ kathitaṃ mayā || akathyaṃ gopanīyaṃ ca mama hṛdvacanaṃ śṛṇu||4.23.90|| mama santi priyatarā gandharveṣu sureṣu ca|| yuvāno ratiśūrāśca kāmaśāstraviśāradāḥ ||91|| viśeṣataḥ śaśadhare sneho me vidyate paraḥ || tato'tiriktaḥ sarvasmādapi kāmaḥ priyo mama ||92|| priyo me kāmasadṛśo na bhūto na bhaviṣyati || smarasya smaraṇāttūrṇaṃ susnigdhaṃ mānasaṃ mama || 93 || ityevaṃ kathitaṃ sarvamātmano yoṣitāmapi || ājñāṃ kuru mahārāja yāsyāmi candrasannidhim ||94 || candrasthānāttava sthānaṃ samāgatya suniścitam|| saṃtoṣaṃ tava daityendra kariṣyāmi na saṃśayaḥ || 99 || śrutvaivaṃ baliputraśca jahāsoccaiḥ punaḥ punaḥ || sā vakracakṣuṣā''lokya taṃ jahāsa smarāturā|| 96 || chalena darśayāmāsa kaṭhinaṃ stanayoryugam || cārucampakavarṇābhaṃ vartulaṃ pīnamucchritam || 97 || śroṇīṃ sukaṭhināṃ ramyāṃ rambhāstambhavinindinīm || sakaṭākṣaṃ smeramukha kapolaṃ pulakāñcitam || 98 || rahaḥsthānaṃ samāsādya kāmena hatacetanā || pulakāñcitasarvāṅgī locanābhyāṃ papau mukham || 99 || tasya rūpaṃ ca veṣaṃ ca darśaṃdarśaṃ punaḥpunaḥ || mukhasyācchādanaṃ bhāvātkurvartī sūkṣmavāsasā || 4.23.100 || atikāmāturāṃ dṛṣṭvā suprājño balinandanaḥ || papraccha kāmināṃ kāmī bhāvaṃ vijñātumutsukaḥ || 101 || sāhasika uvāca || kiṃ kariṣyasi māṃ satyaṃ vada paṅkajalocane|| kāryāntaraṃ kariṣyāmi suciraṃ sthātumakṣamaḥ ||102|| kāminīṣu balātkāro na dharmo dharmiṇāṃ priye|| viśeṣato'tividuṣāṃ nāsmākaṃ svakulocitaḥ || 103 || śṛṅgāraṃ dehi vā gaccha ratiṃ kartuṃ surāntike || kaḥ kṣamo vā vaśīkartuṃ puṃścalīṃ bahugāminīm || 104 || dānavasya vacaḥ śrutvā śuṣkakaṇṭhoṣṭhatālukā || ātmānamadhamaṃmanyā bhidyamānā smarāstrataḥ || 105 || tilottamovāca || || kathamevaṃ brūhi tvaṃ me kāntaḥ prāṇādhikaḥ priyaḥ || kathaṃ vā kopayukto'si kuru kāryaṃ manīṣitam || 106 || tvāmevaṃ vimukhaṃ kṛtvā yāmi candrāntikaṃ yadi || tavābhiśāpāttatraiva sadyo vighno bhaviṣyati || 107 || vihāraṃ kuru bhadraṃ te kariṣyati hariḥ svayam || padepade śubhaṃ tasya yaḥ strīmānaṃ ca rakṣati ||1 08|| avamanya striyaṃ mūḍho yo yāti puruṣādhamaḥ || padepade tadaśubhaṃ karoti pārvatī satī || 109 || tilottamāvacaḥ śrutvā jahāsa balinandanaḥ || kāmaśāstreṣu niṣṇātastadbhāvaṃ bubudhe sudhīḥ || 4.23.110 || bhāvaṃ vijñāya bhāvajñaḥ kāmaśāstraviśāradaḥ || kare dhṛtvā samāśliṣya cucumba mukhapaṅkajam || 111 || jagāma ca tayā sārdhaṃ gandhamādanagahraram || dadarśa tatra gatvā ca sthānaṃ jantuvivarjitam || 112 || saṃsthāpya ratnadīpāṃśca dhūpaṃ ca sumanoharam || śayyāṃ ratikarīṃ kṛtvā suṣvāpa ca tayā saha || 113 || nānāprakāraśṛṅgāraṃ cakāra kāmamohitaḥ || tilottamā taṃ bubudhe surādapi vicakṣaṇam || 114 || viparītaratau tuṣṭā babhūva rasikeśvarī || divāniśaṃ na bubudhe navasaṃgamamūrcchitā || 115 || tilottamā kāmabhāvādbaliputramuvāca ha|| kṛtvā vakṣasi prāṇeśaṃ stanayorantare mudā || 116 || tilottamovāca || kadā drakṣyāmyahaṃ kānta mukhacandraṃ manoharam || evaṃbhūtaṃ śubhadinaṃ kadā me bhavitā punaḥ || 117 || ayi kiṃ rūpamāścaryaṃ guṇo vā tava dānava || dhruvaṃ śṛṅgāranipuṇastvatparo nāsti kaścana ||118|| māṃ vismarasi kālena puruṣaḥ ṣaṭpado yathā || strīṇāṃ satpuruṣāśleṣa ājīvaṃ manasi sthitaḥ || 119 || satsaṃgamaḥ śubhadine puṇyātpuṇyavatāṃ bhavet || sadvicchedo duḥkhaheturmaraṇādatiricyate ||4.23.120|| pīyūṣabhojanātsvargavāsādapi ca durlabhaḥ || satsaṃgamaḥ sukhamayo'pyasatsaṅgo viṣādhikaḥ || 121 || kṣaṇaṃ tiṣṭha mahārāja punarāliṃganaṃ kuru || tvayā sārdhaṃ mama prāṇā yāsyanti cetasā saha ||122|| ityevamuktvā kulaṭā kṛtvā vakṣasi sādaram || pumaṃgasaṃgotpulakā mūrcchāmāpa sukhena ca || 123 || kulaṭāliṃganālāpātso'tikāmī babhūva ha || yathā dīptaḥ kṛṣṇavartmā vardhate haviṣā'dhikam || 124 || punaścakāra śṛṃgāramasuro'ṣṭavidhaṃ mune || cuṃbanaṃ ca navavidhaṃ yathāsthāne yathocitam || 125 || nakhadantakaraiḥ krīḍāṃ cakāra vividhāṃ punaḥ || kiṃkiṇīnāṃ kaṃkaṇānāṃ babhūva śabda ulbaṇaḥ || munerdurvāsasastena dhyānabhaṅgo babhūva ha || 126 || adṛṣṭasya tayostatra valmīkācchāditasya ca || yogāsanaṃ kurvataśca gandhamādanagahvare || 127 || dhyāyataścaraṇāṃbhojaṃ kṛṣṇasya paramātmanaḥ || na papāta tayordṛṣṭiḥ samīpasthe mahāmunau || kāmātmanorna hi jñānaṃ kāmena hatacetasoḥ || 128 || sahasā cetanāṃ prāpya prajvalanbrahmatejasā || dadarśa puratastau tu munirunmīlya locane || 129 || divāniśaṃ na jānantau saṃyuktau kāmamohitau || dṛṣṭvā cukopa tejasvī rudrāṃśo bhagavānvibhuḥ || 4.23.130 || uvāca tau vihārānte raktapaṅkajalocanaḥ || dhyānaprāptapadāmbhojavicchedodvignamānasaḥ || 131 || durvāsā uvāca || uttiṣṭha gardabhākāra nirlajja puruṣādhama || bhaktapradhānasya baleḥ putraḥ paśusamaprabhaḥ || 132 || devo vā mānavo vā'pi daityagandharvarākṣasāḥ || lajjāṃ kurvanti satataṃ svajātau ca paśūnvinā || 133 || jñānalajjāvihīnā ca kharajātirviśeṣataḥ || tasmāttvaṃ dānavaśreṣṭha kharayoniṃ vrajādhunā || 134 || tilottame tvamuttiṣṭha lajjāhīnā ca puṃścalī || etādṛśī spṛhā daitye vraja yoniṃ ca dānavīm || 135 || ityevamuktvā sa munistasthau tatra ruṣā jvalan || tau ca tuṣṭuvaturbhītāvutthāya vrīḍitau munima || 136 || sāhasika uvāca || tvaṃ brahmā tvaṃ ca viṣṇuśca tvaṃ ca sākṣānmaheśvaraḥ || hutāśanastvaṃ sūryaśca sṛṣṭisthityantakārakaḥ ||137|| kṣamāparādhaṃ bhagavankṛpāṃ kuru kṛpānidhe || mūḍhāparādhaṃ satataṃ yaḥ kṣametsa sadīśvaraḥ || 138 || ityevamuktvā daityendro rurodoccaiḥ puro muneḥ || kṛtvā tṛṇāni daśane papāta caraṇāmbuje || 139 || tilottamovāca || he nātha karuṇāsindho dīnabandho kṛpāṃ kuru || vidhisṛṣṭau ca sarveṣāṃ mūḍhā strījātireva ca || 4.23.140 || tato'timattā kulaṭā sadā kāmāturā parā || lajjābhītiścetanā ca na santi kāmuke vibho || 141 || ityuktvā rodanaṃ kṛtvā jagāma śaraṇaṃ muneḥ || vinā vipattau keṣāṃcijjñānaṃ bhavati bhūtale || tayordṛṣṭvā ca vaikalyaṃ babhūva karuṇā muneḥ || 142 || durvāsā uvāca || atiśāpaḥ prasādo vā bhaveddaivena dānava || satkīrtirapakīrtirvā prāktanaprabhavā dhruvam || 143 || viṣṇubhaktabaleḥ putraḥ sadvaṃśaprabhavo janaḥ || janakādviṣṇubhakto'si jānāmi tvāṃ suniścitam || 144 || janakasya svabhāvo hi janye tiṣṭhati niścitam || yathā śrīkṛṣṇapādāṅkaḥ kālīyavaṃśamastake || 145 || saṃprāpya gārdabhīṃ yoniṃ vatsa nirvāṇatāṃ vraja || pūrvaṃ kṛṣṇārcanaphalaṃ na hi luptaṃ satāṃ cirāt || 146 || vṛndāraṇyaṃ tālavanaṃ vraja śīghraṃ vrajāntikam || prāṇāṃstyaktvā hareścakrānmuktiṃ prāpsyasi niścitam || 147 || tilottame bhārate tvaṃ bāṇaputrī bhaviṣyasi || śrīkṛṣṇapautraśleṣeṇa punaḥ pūtā bhaviṣyasi || 148 || ityevamuktvā sa munirvirarāma mahāmune || tau jagmaturyathāsthānaṃ praṇamya munipuṃgavam || 149 || ityuktaṃ sarvavṛttāntaṃ daityasya kharajanmanaḥ || tilottamā bāṇaputrī hyuṣā'niruddhakāminī || 4.23.150 ||

English translation

Curse to Tilottama and the sons of Bali by Narada said- For what sin the son of Bali was turned into a donkey and for what reason Durvasa pronounced a curse on the king of the O lord, the son of Bali who happened to be the best of those in the giver of charities, by what merit achieved the place of lord Krsna, known as O sage, O remover of the doubts, you kindly speak out to me everything in detail. The poetry in the mouth of a poet looks like new at every Narayana said- O son in this connection I will narrated to you and ancient and historical story which was told to me at Gandhamadana mountain by Brahma himself.

This auspicious and charming story relates to the Pddma-kalpa, The one should listens to the story of Narayana with his own ears which like the nectar.

The kalpa to which the story relates, during that time you happened to be a Gandharva named Upabarhana. You had the age of a kalpa.

You were endowed with all the riches, quite beautiful and youthful.

Being the husband of fifty damsels, you were always engaged in love-sports. With the boon of Brahma you had achieved a beautiful throat and you happened to be the king. All the passionate damsels stared at you with position. The destiny had endowed you with many virtues and no one could equation earth. They always accompanied you and could never separate from you even for a mount.

They enjoyed your love-sports in secluded ravines, the rivers, beautiful wild cremation grounds having no creatures.

At that point of time with the curse of Brahma, you had to be bom as the son of a maid-servant and with influence of your serving the best of the food to the Brahmanas. Currently you happen to be the son of Brahma.

Presently you happen to be the loving pupil of lord Siva and will live for innumerable kalpas, becoming great, the best of Vaisnavas, you can have the universal vision, because of your eternal O sage, you listen to the story which relates to that kalpa from me, I am telling you should story of the demon in detail which is like nectar.

Once a Sahasika, the son of valorous Bali conquered the gods with his prowess and visited the GandhamSdana mountain. All his limbs were painted with sandal-p'aste. He was adorned with all the gem-studded ornaments and was seated on the gem-studded lion-throne. A vast army accompanied him. In the meantime Tilottama was passing on that route. She was quite beautiful and the best of the apsards. Clad in various types of costumes. She was having the charming complexion of campaka flowers, adorned with all the ornaments and was fully youthful and passionate.

She wore a serene smile on her face and was clad im divine garments. She had curved eye¬ brows and walked like the king of elephants Suddenly she was disrobed with the blowing of the wind, keeping bare for breasts and thighs.

Looking at her face, the son of Bali was fainted.

The beautiful apsara, looked at the young son of Bali who was quite beautiful, wearing the blossomed garland of Malatl flowers, quite youthful, having the face like the full moon of the winter season, wearing a serene smile on his face and was quite charming. At the look of the son of Bali she was surprised and looking with side-glances she was filled with passion.

Becoming the beloved of the moon, Tilottama was moving towards his abode for the conjugal pleasure. But getting desirous of an active love- sports she looked at him again and again with side-glances and smiled keeping the piece of cloth on her mouth, cfc-rRRflBn ^ r m i The son of Bali who was well-versed in the Dharma and the duties felt overwhelmed and on the other hand getting immensely desirous of the king, the apsara's vagina started fluttering and the waters oozed out of it.

Getting desirous of the son of Bali she forgot about the moon. Alas, who could read the conduct of the wicked women.

f? fgfinT it fefRaTTti A person who believes the wicked women, is deceived by his fortune and is deprived of his glory, righteousness and his own race, Finding a desired person she forgets the old lover. Then she can the controlled by the appropriate action. No one is dear or enemy to The mind of the wicked women is never devoted in the adoration of gods or the manes, the sin, the brothers or even the husband. Such a wicked women like the person who are well- versed in the act of love sports and looks at them with desirous eyes but the person who offer her the gems they are treated by hare like the poison.

Everyone has same piece in the universe but the wicked women does not have any place anywhere. The wicked women are more danger than the human killers.

O best of Brahmanas, after enjoying all the pleasures everyone achieves salvation but the wicked women can never achieve salvation till the sun and. the moon last. The wicked women does not have the compassion for killing her old lower as the one has at the time of killing as He prefer a new lover everytime and the old one is considered by him like a poison and destroys him making great efforts.

All the sins on the earth reside in the body of a wicked women there is no sinner greater than The food cooked by a wicked women is mixed with all the sins and as such it is unfit to be offer to the gods or the manes. The water offered by her is also not acceptable by them. The food of the wicked women is treated like the refuge and the water like the urine. By offering the same to the gods and the manes and the one who himself consumed it has to fall in the hell.

He falls in the kdlasutra hell up to a hundred years-where he has to suffer for long. In the darkness his body is bitten by the insects, Therefore, the one who consumed the food of the wicked women even unknowingly, all his merits of the seven births disappear.

Besides his life and glory are jeopardising in the present and the future births therefore the cooking vases as well as the house wife should be properly saved.

If one comes across a wicked women at the time of starting the journey he becomes successful, but with the very touch of her body, one earns a great sin, which can be purified only by having a dip at the holy places. The life, bath, charity, vrata, japam and the adoration of gods of a wicked women is of no consequence.

O Narada, thus I have narrated to you the position of a degraded women according to the scriptures. Now you listen to the conversation of both of them.

On regaining consciousness the son of Bali became passionate at the sight of TilottamS and getting so infested he went to the apsara.

She looked with side-glances, had stiff pelvic region and the breasts and was covering her face with a cloth delightfully displaying shyness. At that point of time he spoke to the apsard.

Sahasika said- "O damsel, who are you, who is your father and whose beloved are you?

Having beautiful eye-brows, who is the virtuous person to whom you are going to visit.

The person, whose company you are going to enjoy he most home performed tapas up to the end of the kalpa purifying you can go but-can also take me as your slave.

You can purchase a passionate lover like me by offering the flowers, you are greedy for the love-sports and as such you offer your company O dear one, Brahma had already ordained my union with you, therefore who else can stop it O beautiful one, now you speak out your nectar-like words wearing a smile on your face.

You entangle me with your creeper like arms in this lonely forest.

O virtuous one, you offer your gold like thighs to me as a seat and display your breasts resembling the pitchers.

O damsel, with the sharp side-glances you injure my heart and with the touch of your body you heal of the wounds created by the passion of You let we taste the nectar of your lips since I am quite hungry and show me your teeth which happen to be like the beautiful seeds of O beautiful one, I intend to have a look at your deep navel and three lines ever your belly. I am always desirous of untying your undergarment.

I am looking at your beautiful pelvic region which attracts even the sages and also your eyes which resemble the fully blossomed lotus flower of the winter season.

You show me your delightful face resembling the full moon of the winter season. At these words of the demon the damsel who was filled with passion finding him so passionate, spoke to Tilottama said- O lord, the damsels live a husband like you, you are son of Bali, quite religious, beautiful, virtuous, young and well- versed in the love-sports, you are clad in beautiful garments and are charming by nature A damsel is always desirous of such a husband who is clad in the best of garments, is beautiful, peaceful, shining beloved, possessing beautiful teeth, healthy, well-versed in the love-sports, possessing all the virtues, young, attractive, auspicious, known by the damsels, merciful, strong, charitable and loveable.

O beloved one, you have all the qualities of a good husband. Such of the damsels who are not dcsifous of you are unwise and deprived.

I shall satisfy you after returning from the house of the moon and I am now proceeding towards his abode.

In case I enjoy company of others today I are sure to call from dharma because such of the women who do not fellow dharma their lives are of no consequence.

The one who does not relish the embrace of the moon, she indeed is a foolish lady. She looks as if, she is still in the womb of her mother and is unaware of the manhood.

Such of the damsels who have not embraced Asvinikumara, Kamadeva, moon the wind god and Nalakubara, they should be considered as having been deprived of the performing of love- My mind always goes for the moments, I had spent in their company. The god of love is specialised in love-sports. The embrace of the moon and a sweet word, are sweeter than the nectar. Therefore I have to spend this day in his company. I am, therefore, thinking about him.

On hearing the words of Tilottama the demon was overwhelmed is passion. He took away the apsard in a secluded place and said.

Sahasika said- O Tilottama, Brahma has created you playfully, That is why you are the base of the apsards, quite clever and well-versed in the love-sports.

TRRqfT: I In the earlier times Brahma had created you with much efforts for the destruction of Sunda and Upsunda.

O all knowledgeable one, you know everything and you are quite clever in the love- sports. you speak to me about your mind. I want to listen to you.

T: -R xT 3mmiir: f5?r:ii<imi It is difficult to judge as to who happens to be the beloved of the loose women and who is disliked hen This is quite difficult. But the one who is well-versed in the love-sport is liked her more than her life.

On coming across a new friend the forgets their old friend, the,msband, the son, the brother, father and mother and leaves them in no time.

Without enjoying the love-sport they cannot be controlled by any type of prayers, extending of grace and the making of love.

The degraded women whether they are sleeping, eating food, while in dream or awake, during day or night always aspire for the embrace of nice people.

They are over-powered by the person well- versed in the art of making love and that to quite easily. The loose women always remain desirous of new persons and as such their class is quite I have narrated to you the conduct of the degraded women now you listen to the feeling of my mind which are quite secret.

Only he is liked by me the post of all the Gandharvas and the gods who is quite young and is best in love-sport.

But I feel specially attracted towards the moon because I love him specifically and thereafter the god of love is quite dear to me.

He one else would be as dear to me as the god of love. At the very mention of the name of the god of love, may mind feels overwhelmed. Thus I have spoken to you the secret of any mind as well as that of the women in general. O king, now you kindly permit me. I shall go to the O demon, after returning from the abode of the moon, I will come to you and please you. There is no doubt about it.

On hearing this the son of Bali started laughing aloud. The passionate damsel also getting infatuated with passion started looking at him with side-glances, smiling at the same time.

Thereafter she displayed her breasts, which had the lustre of the beautiful campaka flower and were quite round, stiff and well-developed.

They were quite bare, pleasant and she also displayed her pelvic region which resembled the trunk of the banana tree. Thereafter she displayed her beautiful smiling face with charming cheeks.

Thereafter in the secluded place, the passionate woman who was overwhelmed with love started staring at the beauty of the demon.

While looking at the beauty of the demon prince getting filled with passion, she covered her face with a piece of cloth.

Finding her getting so passionate, the son of Bali spoke to her since he was anxious to know about the mind of the damsel.

Sahasika said- O lotus-eyed one, what will you do? You tell me truthfully. I shall than attend to some other work. I am unable to weight for O dear, it is not proper for noble people to use force with the damsels. It is specially unbecoming of the learned people like us.

You either enjoy my company or proceed to the abode of the moon because who can control a loose women who visits many peopled.

On hearing the words of the demon, her palate, throat and tongue tried up, getting infatuated with the passion she felt injured and thought herself to be quite a degraded one.

TT Mi on iq^: ftRt:I Tilottama said- Why are you talking like this?

You are dearer to me than my life. Why are you getting angry? You do whatever you like.

In case I visits the moon disregarding you, than I shall have to face obstruction because of your curse.

You can therefore enjoy my company and the lord will surely bless you. He happens to be the one who protects the honour of all. His every step gets auspicious.

Rgg gt grfg i Such a degraded person who moves disregarding the women, the chaste goddess ParvatT creates difficulties for him at every step.

On hearing the words of Tilottama, the demon who was well-versed in the art of making love started laughing. He could understand her grg 1 g^ gig?!: giig?iTgrfg 9 nTg:i The demon who was well-versed in knowing the feelings of others beside being well-versed in the art of making love, held the hand of Tilottama and embraced her implanting kisses on her face. He than took her in a deserted cave on the Gandhamadana mountain and enjoyed her company at that place where the lamps were burning together with incense and the place was best for the purpose.

Getting infested with passion he enjoyed her company variously and Tilottama started considering him more intelligent than the gods.

The passionate women was satisfied with the perverted sex enjoyed by her in the company of the demon. Getting absorbed in the new found love-sport she last the knowledge of the position of the day and night.

Thereafter the passionate Tilottama holding his hand against her breast said.

Tilottama said- O my beloved, when shall it be possible for me to see your face again, when j shall that auspicious day arrive.

O demon, you possess the surprising type of: beauty and qualities. You are well-versed in the art of making love and there is no one better than | you on the earth.

You will forgot me as the black-wasps forget extracting the nectar of the flower). But the company of the nice people always remains in the mind of the noble women.

By keeping company with the noble people on auspicious days the meritorious people earn the merit. Separation from a noble person is the cause of grief and versed than the death.

The company of noble people and the nectar¬ like food are better than residing in the heaven beside being pleasant and inaccessible. And the company of the wicked people serves as a O great king, you wait for sometime and hold me in embrace. Evidently my life will also depart with your departure.

Thus speaking that wicked women again held him against her breasts. Getting pleased with the company of the demon, she was fainted.

With the embrace of the wicked women and in conversation with her, he became more passionate and he became more wild like pouring of the ghee increases the flames. Thereafter the demon enjoyed her company in difficult ways and appropriately implanted the kisses in nine He played with his nails, teeth and hands variously. At that point of time the small bells of the waist-band and the armlets created sweet With all these activities, the meditation of the sage Durvasa was disturbed, who was covered with the mud on his entire body.

He was meditating in a cave of Gandhamadana mountain upon the lotus-like feet of lordKrsna.

Both the passionate one's could not spot the sage though they were quite close to him and had almost lost all the senses.

When his meditation was disturbed the sage who possesses the divine lustre opened his eyes and found them both there.

Both of them getting infatuated with passion had become unconsciousness about the day and night. Finding them there DurvasS bom out of the ams'a of Rudra was immensely enraged.

Since he was engrossed in the devotion at the lotus-like feet of lord Krsna was disturbed and his eyes became red like the red lotus flowers.

Thereafter, the sage spoke to them.

Durvasa said- O degraded and shameless person having the form of a donkey get up. You are behaving in such degraded maimer inspite of your being the son of Bali a great devotee of Vis nu. You are behaving like an animal. Leaving aside the animals, all the gods, humans, the demons, Gandharvas and Raksasas, always I observe shyness in their races.

The donkeys of course are unmindful of the shame; therefore O best of the demons, let you be bom as a donkey at once.

O Tilottama, you are also shameless and a loose women. When you are so attracted towards a demon you go and reborn as a demoness. The sage who was burning in rage kept quiet after speaking this. Both of them were ashamed and they started offering prayer to the sage.

Sahasika said- You happen to be Brahma, Vis nu and Mahesvara besides Agni and Surya. You happen to be the preserver and the destroyer of the universe.

O lord, forgive for my sins. O merciful one, you shower your mercy on me, the one who forgives a foolish person for his sins, he is treated as a tme lord.

Thus speaking the demon, started crying aloud in pressure of the sage and holding a straw in his teeth, he fell down on the lotus-like feet of the Tilottama said- O lord, O ocean of mercy, protector of the down- trodden be compassionate on us. The females happen to be the worst creation of Brahma.

rTSSTT 4i if V^ (RT IT?

Chapter-aligned complete witnesses. Sanskrit Wikisource revision 122982 (2017-09-24T14:07:06Z); Shanti Lal Nagar English scan pages n1040–n1051: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n1040/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.