Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 22
Source।।श्रीनारायण उवाच ।। एकदा राधिकानाथो बलेन सह बालकैः ।। जगाम तत्तालवनं परिपक्वफलान्वितम् ।। १ ।। वृक्षाणां रक्षिता दैत्यः खर रूपी च धेनुकः।। कोटिसिंहसमबलो देवानां दर्पनाशनः ।।२।। शरीरं पर्वतसमं कूपतुल्ये च लोचने ।। ईषापंक्तिसमा दन्तास्तुण्डं पर्वतगह्वरम् ।। ३ ।। शतहस्तपरिमिता जिह्वा लोला भयानका ।। कासारसदृशी नाभिः शब्दस्तस्य भयानकः ।। ४ ।। दृष्ट्वा तालवनं बाला हर्षमापुरनिन्दिताः ।। कौतुकात्कृष्णमूचुस्ते स्मेराननसरोरुहाः ।। ५ ।। बाला ऊचुः ।। हे कृष्ण करुणासिन्धो दीन बन्धो जगत्पते ।। महाबल बलभ्रातः समस्तबलिनां वर ।। ६ ।। अवधानं कुरु विभो क्षणार्द्धं नो निवेदने ।। क्षुधितानां शिशूनां च भक्तानां भक्तवत्सल ।। ७ ।। स्वादूनि सुन्दराण्येव पश्य तालफलानि च ।। भङ्क्तुं चालयितुं वृक्षान्पातितुं च फलानि च ।। ८ ।। नानावर्णानि पुष्पाणि पक्वानि दुर्लभानि च ।। आज्ञां करोषि चेत्कृष्ण चेष्टां कर्त्तु वयं क्षमाः ।।९।। किं त्वत्र दैत्यो बलवान्खररूपी च धेनुकः ।। अजितस्त्रिदशैः सर्वैर्महाबलपराक्रमः ।। 4.22.१० ।। दुर्निवार्यश्च सर्वेषां कंसस्य सचिवो महान् ।। हिंसकः सर्वजन्तूनां वनानामस्ति रक्षिता ।। ११ ।। सुविचार्य जगत्कान्त वद नो वदतां वर ।। युक्तं कार्यमयुक्तं वा कर्तव्यमथ वा न वा ।। १२ ।। बालकानां वचः श्रुत्वा भगवान्मधुसूदनः ।। उवाच मधुरं बालान्वचनं तत्सुखावहम् ।। १३ ।। श्रीकृष्ण उवाच ।। किं वो दैत्याद्भयं बाला यूयं मत्सहचारिणः ।। वृक्षान्भङ्क्त्वा चालयित्वा फलानि खादताभयम् ।। १४ ।। श्रीकृष्णाज्ञां समादाय बालका बलशालिनः ।। उत्पेतुर्वृक्षशिखरं क्षुधिताश्च फलार्थिनः ।। १५ ।। नानाप्रकारवर्णानि स्वादूनि सुन्दराणि च ।। फलानि पातयामासुः परिपक्वानि नारद ।। १६ ।। केचिद्बभञ्जुर्वृक्षाश्च चालयामासुरेव च ।। केचित्कोलाहलं चकुर्ननृतुस्तत्र केचन ।। १७ ।। अवरुह्य तरुभ्यश्च बालका बलशालिनः ।। फलान्यादाय गच्छन्तो ददृशुर्दैत्यपुङ्गवम् ।। १८ ।। महाबलं महाकायं घोरं गर्दभरूपिणम् ।। आगच्छन्तं महावेगात्कुर्वन्तं शब्दमुल्बणम् ।। १९ ।। तं दृष्ट्वा रुरुदुः सर्वे फलानि तत्यजुर्भिया ।। कृष्णकृष्णेति शब्दं च प्रचक्रुर्बहुधा भृशम् ।। 4.22.२० ।। अस्मान्रक्ष समागच्छ हे कृष्ण करुणानिधे ।। हे सङ्कर्षण नो रक्ष प्राणा नो यान्ति दानवात्।।२१।। हे कृष्ण हे कृष्ण हरे मुरारे गोविन्द दामोदर दीनबन्धो।। गोपीशगोपेश भवार्णवेऽस्मा ननन्त नारायण रक्ष रक्ष ।।२२।। भयेऽभये वाथ शुभेऽशुभे वा सुखेषु दुःखेषु च दीननाथ ।। त्वया विनाऽन्यं शरणं भवार्णवे न नोऽस्ति हे माधव रक्ष रक्ष।।२३।। जयजय गुणसिन्धो कृष्ण भक्तैकबन्धो बहुतरभययुक्तान्बालकान्रक्ष रक्ष ।। जहि दनुजकुलानामीशमस्माक मन्तं सुरकुलबलदर्पं वर्धयेमं निहत्य ।। २४ ।। बालानां विक्लवं दृष्ट्वा बलेन सह माधवः ।। आजगाम शिशुस्थानं भयहा भक्त वत्सलः ।। २५ ।। भयं नास्ति भयं नास्तीत्युक्त्वा दुद्राव सत्वरम् ।। ईषद्धास्यप्रसन्नास्यो निर्भयं दत्तवाञ्छिशून् ।। २६ ।। दृष्ट्वा कृष्णं बलं बाला ननृतुर्विजहुर्भयम् ।। हरिस्मृतिश्चाभयदा सर्वमङ्गलदायिका।।२७।। श्रीकृष्णो दानवं दृष्ट्वा ग्रसन्तं पुरतः शिशून्।। बलं संबोध्य बलिनमुवाच मधुसूदनः ।। २८ ।। श्रीकृष्ण उवाच ।। दानवो बलिपुत्रोऽयं नाम्ना साहसिको बली ।। गर्दभो ब्रह्मशापेन शप्तो दुर्वाससा पुरा ।।२९।। पापिष्ठो मम वध्योऽयं महाबलपराकमः ।। अहमेनं वधिष्यामि त्वं रक्ष बालकान्बल ।।4.22.३०।। आदाय बालकान्सर्वान्दूरं गच्छेत्युवाच ह ।। तान्गृहीत्वा बलः शीघ्रं जगाम त्वरयाज्ञया ।। ३१ ।। दृष्ट्वा कृष्णं दानवेन्द्रो महाबलपराक्रमः ।। जग्रास लीलया कोपाज्ज्वलदग्निशिखोपमम् ।। ३२ ।। बभूवातिदाहयुक्तो मर्तुकामोऽतितेजसा ।। उज्जग्रास पुनर्दैत्यो विभुं तेजस्विनं भिया ।।३३।। उज्झितं सन्तमीशं च दृष्ट्वा दैत्यो मुमोच ह।। अतीव सुन्दरं शान्तं ज्वलन्तं ब्रह्मतेजसा ।।३४।। कृष्णदर्शनमात्रेण बभूवास्य पुरा स्मृतिः ।। आत्मानं बुबुधे कृष्णं जगतां कारणं परम् ।। ३५ ।। तेजःस्वरूपमीशं तं दृष्ट्वा तुष्टाव दानवः ।। यथागमं यथाजन्म गुणातीतं श्रुतेः परम् ।। ३६ ।। दानव उवाच ।। वामनोऽसि त्वमंशेन मत्पितुर्यज्ञभिक्षुकः ।। राज्यहर्ता च श्रीहर्ता सुतलस्थलदायकः ।। ३७ ।। बलिर्भक्तिवशो वीरः सर्वेशो भक्तवत्सलः ।। शीघ्रं त्वं हिन्धि मां पापं शापाद्गर्दभरूपिणम् ।। ३८ ।। मुनेर्दुर्वाससः शापादीदृशं जन्म कुत्सितम् ।। मृत्युरुक्तश्च मुनिना त्वत्तो मम जगत्पते ।। ३९ ।। षोडशारेण चक्रेण सुतीक्ष्णेनातितेजसा ।। जहि मां जगतां नाथ सद्भक्तिं कुरु मोक्षद ।।4.22.४०।। त्वमंशेन वराहश्च समुद्धर्तुं वसुन्धराम् ।। वेदानां रक्षिता नाथ हिरण्याक्षनिषूदनः ।। ४१ ।। त्वं नृसिंहः स्वयं पूर्णो हिरण्यकशिपोर्वधे ।। प्रह्रादानुग्रहार्थाय देवानां रक्षणाय च ।। ।। ४२ ।। त्वं च वेदोद्धारकर्ता मीनांशेन दयानिधे ।। नृपस्य ज्ञानदानाय रक्षायै सुरविप्रयोः ।। ४३ ।। शेषाधारश्च कूर्मस्त्वमंशेन सृष्टिहेतवे ।। विश्वाधारश्च विश्वस्त्वमंशेनापि सहस्रधृक् ।।४४।। रामो दाशरथिस्त्वं च जानक्युद्धारहेतवे ।। दशकन्धरहन्ता च सिन्धौ सेतुविधायकः ।।४५।। कलया परशुरामश्च जमदग्निसुतो महान् ।। त्रिःसप्तकृत्वो भूपानां निहन्ता जगतीपते ।। ४६ ।। अंशेन कपिलस्त्वं च सिद्धानां च गुरोर्गुरुः ।। मातृज्ञानप्रदाता च योगशास्त्रविधायकः ।। ४७ ।। अंशेन ज्ञानिनां श्रेष्ठो नरनारायणावृषी ।। त्वं च धर्मसुतो भूत्वा लोकविस्तारकारकः ।।४८।। अधुना कृष्णरूपस्त्वं परिपूर्णतमः स्वयम् ।। सर्वेषामवताराणां बीजरूपः सनातनः ।। ४९ ।। यशोदाजीवनो नित्यो नन्दैकानन्दवर्धनः ।। प्राणाधिदेवो गोपीनां राधाप्राणाधिकप्रियः ।।4.22.५०।। वसुदेवसुतः शान्तो देवकीदुःखभञ्जनः ।। अयोनिसंभवः श्रीमान्पृथिवीभारहारकः ।। ५१ ।। पूतनायै मातृगतिं प्रदाता च कृपानिधिः ।। बककेशिप्रलम्बानां ममापि मोक्षकारकः ।। ५२ ।। स्वेच्छामय गुणातीत भक्तानां भयभञ्जन ।। प्रसीद राधिकानाथ प्रसीद कुरु मोक्षणम् ।। ।।५३।। हे नाथ गार्दभीयोनेः समुद्धर भवार्णवात्।। मूर्खस्त्वद्भक्तपुत्रोऽहं मामुद्धर्तुं त्वमर्हसि ।। ५४ ।। वेदा ब्रह्मादयो यं च मुनीन्द्राः स्तोतुमक्षमाः ।। किं स्तौमि तं गुणातीतं पुरा दैत्योऽधुना खरः ।।५५।। एवं कुरु कृपासिन्धो येन मे न भवेज्जनुः ।। दृष्ट्वा पादारविन्दं ते कः पुनर्भवनं व्रजेत् ।।५६।। ब्रह्मा स्तोता खरः स्तोता नोपहासितुमर्हसि।। सदीश्वरस्य विज्ञस्य योग्यायोग्ये समा कृपा ।। ५७ ।। इत्येवमुक्त्वा दैत्येन्द्रस्तस्थौ च पुरतो हरेः ।। प्रसन्नवदनः श्रीमानतितुष्टो बभूव ह ।।५८।। इदं दैत्यकृतं स्तोत्रं नित्यं भक्त्या च यः पठेत् ।। सालोक्यसार्ष्टिसामीप्यं लीलया लभते हरेः।।५९।। इह लोके हरेर्भक्तिमन्ते दास्यं सुदुर्लभम्।। विद्यां श्रियं सुकवितां पुत्रपौत्रान्यशो लभेत् ।। 4.22.६० ।। श्रीनारायण उवाच ।। श्रुत्वाऽनुमेने दैत्येन्द्रस्तवनं करुणानिधिः ।। कथं करोमि संहारमीदृशं भक्तमित्यहो ।। ।।६१।। अनुमन्य स्मृतिं तस्य संजहार हरिः स्वयम् ।। न हि युक्तो वधः स्तोतुर्दुर्वक्तुर्विधिरीश्वरात् ।।६२।। दानवो मायया विष्णोर्विसस्मार पुनः स्वकम्।। दुरुक्तिस्तत्कण्ठदेशे ह्यधिष्ठानं चकार ह।।६३।। उवाच श्रीहरिं दैत्यः कोपात्प्रस्फुरिताधरः ।। मुने सद्यो मर्तुकामो दैवग्रस्तो विचेतनः ।।६४।। दैत्य उवाच।। ध्रुवं त्वं मर्तुकामोऽसि दुर्बुद्धे मानवार्भक ।। अद्य प्रस्थापयिष्यामि त्वामहं यममन्दिरम् ।। ।।६५।। आयासि जीवनाकाङ्क्षी मम तालवनं शिशो।। न यास्यसि पुनर्गेहं बान्धवं न हि द्रक्ष्यसि ।।६६।। न कंसो न जरासन्धो नरको न समो मम ।। देवाः कम्पन्ति मे नित्यं के चान्ये मत्समा भुवि ।।६७।। नहि संहारकर्ता च मां संहर्तुं क्षमः शिवः ।। न च ब्रह्मा न विष्णुश्च न मृत्युः काल एव च ।।६८।। मम तालतरून्भङ्क्त्वा पातयित्वा फलानि च ।। अहंकरोषि सहसा किमहो कस्य तेजसा ।। ६९ ।। कस्त्वं वद बटो सत्यं कमनीयोऽतिसुन्दरः ।। दुर्लभं जीवनं दातुं मह्यं कथमिहागतः ।।4.22.७० ।। इत्युक्त्वा मस्तके कृत्वा प्रेरयित्वा तु तं बली ।। दूरतः पातयामास श्रीकृष्णं मरणोन्मुखः ।। ७१ ।। पातयित्वा च तं भूमौ विषाणाभ्यां जघान सः ।। कृष्णाङ्गस्पर्शमात्रेण तद्विषाणे बभञ्जतुः ।।७२।। दैत्यो भग्नविषाणश्च तमीशं कोपयन्मुने ।। जग्रास चर्वणं कर्तुं भग्नदन्तो बभूव ह ।। ७३ ।। तेजसा दग्धवक्त्रश्च तमुज्जग्राह तत्क्षणे ।। जज्वाल व्यथितः कोपाद्ददार खुरतो महीम् ।। ७४ ।। चूर्णयित्वा तु लांगूलं शब्दं कृत्वा भयानकम् ।। स जगाम शिशुस्थानं दुद्रुवुर्बालका भिया ।। ७९।। बलं च प्रेरयामास मस्तकेन महाबली ।। बलो मुष्टिं ददौ तस्मै मूर्च्छामाप ततोऽसुरः ।।७६।। क्षणेन चेतनां प्राप्य जगाम हरिसन्निधिम् ।। बलमुष्ट्या च व्यथितः पुनर्मूर्च्छामवाप सः ।। ७७ ।। पुनश्च चेतनां प्राप्य समुत्तस्थौ व्यथाकुलः ।। उत्ससर्ज बृहल्लेडं मूत्रं च भयमाप ह ।।७८।। क्षणात्संधिक्षणं प्राप्य महाबलपराक्रमः ।। कृत्वा शिरसि गोविन्दं चूर्णयामास दानवः ।। ७९ ।। पातयामास भूमौ तं चूर्णयित्वा पुनःपुनः ।। उत्पाट्य तालवृक्षं तं ताडयामास माधवः ।।4.22.८०।। यथा खड्गप्रहारेण दानवस्य भवेद्व्यथा ।। तथा बभूव दैत्यस्य तालवृक्षस्य ताडनात् ।।८१।। । गोवर्धनं समुत्पाट्य घातयामास तं विभुः ।। पपात वेगाच्छैलेन्द्रस्तस्योपरि महामुने ।।८२।। पर्वतस्य प्रहारेण मूर्च्छामाप महाबलः।। । बभूव जर्जराङ्गश्च रुधिरं च समुद्वमन् ।। ८३ ।। क्षणेन चेतनां प्राप्य समुत्तस्थौ रुषाऽसुरः ।। गृहीत्वा पर्वतश्रेष्ठं प्रेरयामास माधवम् । ।। ८४ ।। दृष्ट्वा शैलमुत्पतन्तं वेगेन मधुसूदनः ।। जग्राह दक्षिणकरे यथेक्षुदण्डवत्प्रभुः ।। ८५ ।। पूर्वस्थाने पर्वतं तं स्थापयामास कौतुकात् ।। गृहीत्वा दैत्यकर्णाग्रं पातयामास दूरतः ।। ८६ ।। उत्पत्य च महावेगाच्चकार वेष्टनं हरेः ।। पृथिवीं घर्षयामास तीक्ष्णाग्रेण खुरेण च ।। ८७ ।। प्रगृह्य श्रीहरिं वेगात्कृत्वा मूर्ध्नि महासुरः ।। उत्पपात मनोयायी लीलया लक्षयोजनम् ।। ८८ ।। प्रहरं च तयोर्युद्धं निर्लक्षे च बभूव ह ।। ततो गृहीत्वा श्रीकृष्णं पपात धरणीतले ।। ८९ ।। पुनर्मुहूर्तं युद्धं च बभूव भूतले तयोः ।। मुदा हरिः प्रशशंस प्रहस्य दानवेश्वरम् ।। 4.22.९० ।। मद्भक्तस्य बलेः पुत्रं धन्यं तज्जीवनं परम्।। स्वस्त्यस्तु ते दानवेन्द्र वत्स निर्वाणतां व्रज ।। ९१ ।। मद्दर्शनं स्वस्तिबीजं परं निर्वाणकारणम् ।। सर्वाधिकं सर्वपरं लभ स्थानं मनोहरम् ।। ९२ ।। इत्येवमुक्त्वा श्रीकृष्णः सस्मार चक्रमुत्तमम् ।। सूर्यकोटिसमं दीप्त्या जग्राह तत्सुदर्शनम् ।।९३।। चिक्षेप भ्रामयित्वा च षोडशारमनुत्तमम् ।। चिच्छेद लीलयाऽवध्यं ब्रह्मविष्णुमहेश्वरैः ।। ९४ ।। पपात मस्तकं भूमौ दानवस्य महात्मनः ।। तेजःसमूह उत्तस्थौ शतसूर्यसमप्रभः।। ९५ ।। विलोक्य हरिलोकं संश्लिष्टं कृष्णपदाम्बुजे ।। संप्राप्य परमं मोक्षमहो दानवपुङ्गवः ।। ९६ ।। गगनस्थाः सुराः सर्वे मुनयश्च भृशं मुदा ।। पारिजातप्रसूनानां चक्रुस्ते तत्र वर्षणम् ।।९७।। नेदुर्दुन्दुभयः स्वर्गे ननृतुश्चाप्सरोगणाः ।। जगुर्गन्धर्वनिकरा स्तुष्टुवुर्मुनयो मुदा ।। ९८ ।। स्तुत्वा जग्मुः सुराः सर्वे मुनयो हर्षविह्वलाः ।। धेनुकस्य वधं दृष्ट्वा तत्राजग्मुश्च बालकाः ।। ९९ ।। बलश्च बलिनां श्रेष्ठस्तुष्टाव पुरुषोत्तमम् ।। तुष्टुवुर्बालकाः सर्वे ननृतुश्च मुदाऽन्विताः ।। 4.22.१०० ।। दत्त्वा कृष्णबलाभ्यां च प्रपक्वानि फलानि च ।। सर्वाणि भक्षयामासुर्बालाः प्रहष्टमानसाः ।। १०१ ।। भुक्त्वा पीत्वा हरिः शीघ्रं बलेन बालकैः सह ।। जगाम स्वालयं ब्रह्मन्निहत्य दानवेश्वरम्।।१०२।। इति श्रीबह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायनारदसंवादे धेनुकवधोनाम द्वाविंशोऽध्यायः ।। २२ ।।
||śrīnārāyaṇa uvāca || ekadā rādhikānātho balena saha bālakaiḥ || jagāma tattālavanaṃ paripakvaphalānvitam || 1 || vṛkṣāṇāṃ rakṣitā daityaḥ khara rūpī ca dhenukaḥ|| koṭisiṃhasamabalo devānāṃ darpanāśanaḥ ||2|| śarīraṃ parvatasamaṃ kūpatulye ca locane || īṣāpaṃktisamā dantāstuṇḍaṃ parvatagahvaram || 3 || śatahastaparimitā jihvā lolā bhayānakā || kāsārasadṛśī nābhiḥ śabdastasya bhayānakaḥ || 4 || dṛṣṭvā tālavanaṃ bālā harṣamāpuraninditāḥ || kautukātkṛṣṇamūcuste smerānanasaroruhāḥ || 5 || bālā ūcuḥ || he kṛṣṇa karuṇāsindho dīna bandho jagatpate || mahābala balabhrātaḥ samastabalināṃ vara || 6 || avadhānaṃ kuru vibho kṣaṇārddhaṃ no nivedane || kṣudhitānāṃ śiśūnāṃ ca bhaktānāṃ bhaktavatsala || 7 || svādūni sundarāṇyeva paśya tālaphalāni ca || bhaṅktuṃ cālayituṃ vṛkṣānpātituṃ ca phalāni ca || 8 || nānāvarṇāni puṣpāṇi pakvāni durlabhāni ca || ājñāṃ karoṣi cetkṛṣṇa ceṣṭāṃ karttu vayaṃ kṣamāḥ ||9|| kiṃ tvatra daityo balavānkhararūpī ca dhenukaḥ || ajitastridaśaiḥ sarvairmahābalaparākramaḥ || 4.22.10 || durnivāryaśca sarveṣāṃ kaṃsasya sacivo mahān || hiṃsakaḥ sarvajantūnāṃ vanānāmasti rakṣitā || 11 || suvicārya jagatkānta vada no vadatāṃ vara || yuktaṃ kāryamayuktaṃ vā kartavyamatha vā na vā || 12 || bālakānāṃ vacaḥ śrutvā bhagavānmadhusūdanaḥ || uvāca madhuraṃ bālānvacanaṃ tatsukhāvaham || 13 || śrīkṛṣṇa uvāca || kiṃ vo daityādbhayaṃ bālā yūyaṃ matsahacāriṇaḥ || vṛkṣānbhaṅktvā cālayitvā phalāni khādatābhayam || 14 || śrīkṛṣṇājñāṃ samādāya bālakā balaśālinaḥ || utpeturvṛkṣaśikharaṃ kṣudhitāśca phalārthinaḥ || 15 || nānāprakāravarṇāni svādūni sundarāṇi ca || phalāni pātayāmāsuḥ paripakvāni nārada || 16 || kecidbabhañjurvṛkṣāśca cālayāmāsureva ca || kecitkolāhalaṃ cakurnanṛtustatra kecana || 17 || avaruhya tarubhyaśca bālakā balaśālinaḥ || phalānyādāya gacchanto dadṛśurdaityapuṅgavam || 18 || mahābalaṃ mahākāyaṃ ghoraṃ gardabharūpiṇam || āgacchantaṃ mahāvegātkurvantaṃ śabdamulbaṇam || 19 || taṃ dṛṣṭvā ruruduḥ sarve phalāni tatyajurbhiyā || kṛṣṇakṛṣṇeti śabdaṃ ca pracakrurbahudhā bhṛśam || 4.22.20 || asmānrakṣa samāgaccha he kṛṣṇa karuṇānidhe || he saṅkarṣaṇa no rakṣa prāṇā no yānti dānavāt||21|| he kṛṣṇa he kṛṣṇa hare murāre govinda dāmodara dīnabandho|| gopīśagopeśa bhavārṇave'smā nananta nārāyaṇa rakṣa rakṣa ||22|| bhaye'bhaye vātha śubhe'śubhe vā sukheṣu duḥkheṣu ca dīnanātha || tvayā vinā'nyaṃ śaraṇaṃ bhavārṇave na no'sti he mādhava rakṣa rakṣa||23|| jayajaya guṇasindho kṛṣṇa bhaktaikabandho bahutarabhayayuktānbālakānrakṣa rakṣa || jahi danujakulānāmīśamasmāka mantaṃ surakulabaladarpaṃ vardhayemaṃ nihatya || 24 || bālānāṃ viklavaṃ dṛṣṭvā balena saha mādhavaḥ || ājagāma śiśusthānaṃ bhayahā bhakta vatsalaḥ || 25 || bhayaṃ nāsti bhayaṃ nāstītyuktvā dudrāva satvaram || īṣaddhāsyaprasannāsyo nirbhayaṃ dattavāñchiśūn || 26 || dṛṣṭvā kṛṣṇaṃ balaṃ bālā nanṛturvijahurbhayam || harismṛtiścābhayadā sarvamaṅgaladāyikā||27|| śrīkṛṣṇo dānavaṃ dṛṣṭvā grasantaṃ purataḥ śiśūn|| balaṃ saṃbodhya balinamuvāca madhusūdanaḥ || 28 || śrīkṛṣṇa uvāca || dānavo baliputro'yaṃ nāmnā sāhasiko balī || gardabho brahmaśāpena śapto durvāsasā purā ||29|| pāpiṣṭho mama vadhyo'yaṃ mahābalaparākamaḥ || ahamenaṃ vadhiṣyāmi tvaṃ rakṣa bālakānbala ||4.22.30|| ādāya bālakānsarvāndūraṃ gacchetyuvāca ha || tāngṛhītvā balaḥ śīghraṃ jagāma tvarayājñayā || 31 || dṛṣṭvā kṛṣṇaṃ dānavendro mahābalaparākramaḥ || jagrāsa līlayā kopājjvaladagniśikhopamam || 32 || babhūvātidāhayukto martukāmo'titejasā || ujjagrāsa punardaityo vibhuṃ tejasvinaṃ bhiyā ||33|| ujjhitaṃ santamīśaṃ ca dṛṣṭvā daityo mumoca ha|| atīva sundaraṃ śāntaṃ jvalantaṃ brahmatejasā ||34|| kṛṣṇadarśanamātreṇa babhūvāsya purā smṛtiḥ || ātmānaṃ bubudhe kṛṣṇaṃ jagatāṃ kāraṇaṃ param || 35 || tejaḥsvarūpamīśaṃ taṃ dṛṣṭvā tuṣṭāva dānavaḥ || yathāgamaṃ yathājanma guṇātītaṃ śruteḥ param || 36 || dānava uvāca || vāmano'si tvamaṃśena matpituryajñabhikṣukaḥ || rājyahartā ca śrīhartā sutalasthaladāyakaḥ || 37 || balirbhaktivaśo vīraḥ sarveśo bhaktavatsalaḥ || śīghraṃ tvaṃ hindhi māṃ pāpaṃ śāpādgardabharūpiṇam || 38 || munerdurvāsasaḥ śāpādīdṛśaṃ janma kutsitam || mṛtyuruktaśca muninā tvatto mama jagatpate || 39 || ṣoḍaśāreṇa cakreṇa sutīkṣṇenātitejasā || jahi māṃ jagatāṃ nātha sadbhaktiṃ kuru mokṣada ||4.22.40|| tvamaṃśena varāhaśca samuddhartuṃ vasundharām || vedānāṃ rakṣitā nātha hiraṇyākṣaniṣūdanaḥ || 41 || tvaṃ nṛsiṃhaḥ svayaṃ pūrṇo hiraṇyakaśiporvadhe || prahrādānugrahārthāya devānāṃ rakṣaṇāya ca || || 42 || tvaṃ ca vedoddhārakartā mīnāṃśena dayānidhe || nṛpasya jñānadānāya rakṣāyai suraviprayoḥ || 43 || śeṣādhāraśca kūrmastvamaṃśena sṛṣṭihetave || viśvādhāraśca viśvastvamaṃśenāpi sahasradhṛk ||44|| rāmo dāśarathistvaṃ ca jānakyuddhārahetave || daśakandharahantā ca sindhau setuvidhāyakaḥ ||45|| kalayā paraśurāmaśca jamadagnisuto mahān || triḥsaptakṛtvo bhūpānāṃ nihantā jagatīpate || 46 || aṃśena kapilastvaṃ ca siddhānāṃ ca gurorguruḥ || mātṛjñānapradātā ca yogaśāstravidhāyakaḥ || 47 || aṃśena jñānināṃ śreṣṭho naranārāyaṇāvṛṣī || tvaṃ ca dharmasuto bhūtvā lokavistārakārakaḥ ||48|| adhunā kṛṣṇarūpastvaṃ paripūrṇatamaḥ svayam || sarveṣāmavatārāṇāṃ bījarūpaḥ sanātanaḥ || 49 || yaśodājīvano nityo nandaikānandavardhanaḥ || prāṇādhidevo gopīnāṃ rādhāprāṇādhikapriyaḥ ||4.22.50|| vasudevasutaḥ śānto devakīduḥkhabhañjanaḥ || ayonisaṃbhavaḥ śrīmānpṛthivībhārahārakaḥ || 51 || pūtanāyai mātṛgatiṃ pradātā ca kṛpānidhiḥ || bakakeśipralambānāṃ mamāpi mokṣakārakaḥ || 52 || svecchāmaya guṇātīta bhaktānāṃ bhayabhañjana || prasīda rādhikānātha prasīda kuru mokṣaṇam || ||53|| he nātha gārdabhīyoneḥ samuddhara bhavārṇavāt|| mūrkhastvadbhaktaputro'haṃ māmuddhartuṃ tvamarhasi || 54 || vedā brahmādayo yaṃ ca munīndrāḥ stotumakṣamāḥ || kiṃ staumi taṃ guṇātītaṃ purā daityo'dhunā kharaḥ ||55|| evaṃ kuru kṛpāsindho yena me na bhavejjanuḥ || dṛṣṭvā pādāravindaṃ te kaḥ punarbhavanaṃ vrajet ||56|| brahmā stotā kharaḥ stotā nopahāsitumarhasi|| sadīśvarasya vijñasya yogyāyogye samā kṛpā || 57 || ityevamuktvā daityendrastasthau ca purato hareḥ || prasannavadanaḥ śrīmānatituṣṭo babhūva ha ||58|| idaṃ daityakṛtaṃ stotraṃ nityaṃ bhaktyā ca yaḥ paṭhet || sālokyasārṣṭisāmīpyaṃ līlayā labhate hareḥ||59|| iha loke harerbhaktimante dāsyaṃ sudurlabham|| vidyāṃ śriyaṃ sukavitāṃ putrapautrānyaśo labhet || 4.22.60 || śrīnārāyaṇa uvāca || śrutvā'numene daityendrastavanaṃ karuṇānidhiḥ || kathaṃ karomi saṃhāramīdṛśaṃ bhaktamityaho || ||61|| anumanya smṛtiṃ tasya saṃjahāra hariḥ svayam || na hi yukto vadhaḥ stoturdurvakturvidhirīśvarāt ||62|| dānavo māyayā viṣṇorvisasmāra punaḥ svakam|| duruktistatkaṇṭhadeśe hyadhiṣṭhānaṃ cakāra ha||63|| uvāca śrīhariṃ daityaḥ kopātprasphuritādharaḥ || mune sadyo martukāmo daivagrasto vicetanaḥ ||64|| daitya uvāca|| dhruvaṃ tvaṃ martukāmo'si durbuddhe mānavārbhaka || adya prasthāpayiṣyāmi tvāmahaṃ yamamandiram || ||65|| āyāsi jīvanākāṅkṣī mama tālavanaṃ śiśo|| na yāsyasi punargehaṃ bāndhavaṃ na hi drakṣyasi ||66|| na kaṃso na jarāsandho narako na samo mama || devāḥ kampanti me nityaṃ ke cānye matsamā bhuvi ||67|| nahi saṃhārakartā ca māṃ saṃhartuṃ kṣamaḥ śivaḥ || na ca brahmā na viṣṇuśca na mṛtyuḥ kāla eva ca ||68|| mama tālatarūnbhaṅktvā pātayitvā phalāni ca || ahaṃkaroṣi sahasā kimaho kasya tejasā || 69 || kastvaṃ vada baṭo satyaṃ kamanīyo'tisundaraḥ || durlabhaṃ jīvanaṃ dātuṃ mahyaṃ kathamihāgataḥ ||4.22.70 || ityuktvā mastake kṛtvā prerayitvā tu taṃ balī || dūrataḥ pātayāmāsa śrīkṛṣṇaṃ maraṇonmukhaḥ || 71 || pātayitvā ca taṃ bhūmau viṣāṇābhyāṃ jaghāna saḥ || kṛṣṇāṅgasparśamātreṇa tadviṣāṇe babhañjatuḥ ||72|| daityo bhagnaviṣāṇaśca tamīśaṃ kopayanmune || jagrāsa carvaṇaṃ kartuṃ bhagnadanto babhūva ha || 73 || tejasā dagdhavaktraśca tamujjagrāha tatkṣaṇe || jajvāla vyathitaḥ kopāddadāra khurato mahīm || 74 || cūrṇayitvā tu lāṃgūlaṃ śabdaṃ kṛtvā bhayānakam || sa jagāma śiśusthānaṃ dudruvurbālakā bhiyā || 79|| balaṃ ca prerayāmāsa mastakena mahābalī || balo muṣṭiṃ dadau tasmai mūrcchāmāpa tato'suraḥ ||76|| kṣaṇena cetanāṃ prāpya jagāma harisannidhim || balamuṣṭyā ca vyathitaḥ punarmūrcchāmavāpa saḥ || 77 || punaśca cetanāṃ prāpya samuttasthau vyathākulaḥ || utsasarja bṛhalleḍaṃ mūtraṃ ca bhayamāpa ha ||78|| kṣaṇātsaṃdhikṣaṇaṃ prāpya mahābalaparākramaḥ || kṛtvā śirasi govindaṃ cūrṇayāmāsa dānavaḥ || 79 || pātayāmāsa bhūmau taṃ cūrṇayitvā punaḥpunaḥ || utpāṭya tālavṛkṣaṃ taṃ tāḍayāmāsa mādhavaḥ ||4.22.80|| yathā khaḍgaprahāreṇa dānavasya bhavedvyathā || tathā babhūva daityasya tālavṛkṣasya tāḍanāt ||81|| | govardhanaṃ samutpāṭya ghātayāmāsa taṃ vibhuḥ || papāta vegācchailendrastasyopari mahāmune ||82|| parvatasya prahāreṇa mūrcchāmāpa mahābalaḥ|| | babhūva jarjarāṅgaśca rudhiraṃ ca samudvaman || 83 || kṣaṇena cetanāṃ prāpya samuttasthau ruṣā'suraḥ || gṛhītvā parvataśreṣṭhaṃ prerayāmāsa mādhavam | || 84 || dṛṣṭvā śailamutpatantaṃ vegena madhusūdanaḥ || jagrāha dakṣiṇakare yathekṣudaṇḍavatprabhuḥ || 85 || pūrvasthāne parvataṃ taṃ sthāpayāmāsa kautukāt || gṛhītvā daityakarṇāgraṃ pātayāmāsa dūrataḥ || 86 || utpatya ca mahāvegāccakāra veṣṭanaṃ hareḥ || pṛthivīṃ gharṣayāmāsa tīkṣṇāgreṇa khureṇa ca || 87 || pragṛhya śrīhariṃ vegātkṛtvā mūrdhni mahāsuraḥ || utpapāta manoyāyī līlayā lakṣayojanam || 88 || praharaṃ ca tayoryuddhaṃ nirlakṣe ca babhūva ha || tato gṛhītvā śrīkṛṣṇaṃ papāta dharaṇītale || 89 || punarmuhūrtaṃ yuddhaṃ ca babhūva bhūtale tayoḥ || mudā hariḥ praśaśaṃsa prahasya dānaveśvaram || 4.22.90 || madbhaktasya baleḥ putraṃ dhanyaṃ tajjīvanaṃ param|| svastyastu te dānavendra vatsa nirvāṇatāṃ vraja || 91 || maddarśanaṃ svastibījaṃ paraṃ nirvāṇakāraṇam || sarvādhikaṃ sarvaparaṃ labha sthānaṃ manoharam || 92 || ityevamuktvā śrīkṛṣṇaḥ sasmāra cakramuttamam || sūryakoṭisamaṃ dīptyā jagrāha tatsudarśanam ||93|| cikṣepa bhrāmayitvā ca ṣoḍaśāramanuttamam || ciccheda līlayā'vadhyaṃ brahmaviṣṇumaheśvaraiḥ || 94 || papāta mastakaṃ bhūmau dānavasya mahātmanaḥ || tejaḥsamūha uttasthau śatasūryasamaprabhaḥ|| 95 || vilokya harilokaṃ saṃśliṣṭaṃ kṛṣṇapadāmbuje || saṃprāpya paramaṃ mokṣamaho dānavapuṅgavaḥ || 96 || gaganasthāḥ surāḥ sarve munayaśca bhṛśaṃ mudā || pārijātaprasūnānāṃ cakruste tatra varṣaṇam ||97|| nedurdundubhayaḥ svarge nanṛtuścāpsarogaṇāḥ || jagurgandharvanikarā stuṣṭuvurmunayo mudā || 98 || stutvā jagmuḥ surāḥ sarve munayo harṣavihvalāḥ || dhenukasya vadhaṃ dṛṣṭvā tatrājagmuśca bālakāḥ || 99 || balaśca balināṃ śreṣṭhastuṣṭāva puruṣottamam || tuṣṭuvurbālakāḥ sarve nanṛtuśca mudā'nvitāḥ || 4.22.100 || dattvā kṛṣṇabalābhyāṃ ca prapakvāni phalāni ca || sarvāṇi bhakṣayāmāsurbālāḥ prahaṣṭamānasāḥ || 101 || bhuktvā pītvā hariḥ śīghraṃ balena bālakaiḥ saha || jagāma svālayaṃ brahmannihatya dānaveśvaram||102|| iti śrībahmavaivarte mahāpurāṇe śrīkṛṣṇajanmakhaṇḍe nārāyanāradasaṃvāde dhenukavadhonāma dvāviṃśo'dhyāyaḥ || 22 ||
English translation
Killing of Dhenukasura wm wrmsR Tirwcray>Ti(^ii?TH.i i? 11 NarSyana said- Once Krsna, the lord of Radhika accompanied by Balabhadra and other boys went to the tdla forest which was filled with ripe fruits. Dhenukasura in the form of a donkey used to guard the forest trees. It possessed the strength of crores of lions and could reduce the pride of the gods to ashes.
gn ff T H T ^v f) It had a mountain like body and both the eyes resembled well. His teeth resembled the plough- shaft and the mouth looked like a mountain cave, his wavering and terrific tongue was a hundred feet in length and his navel looked like a pond.
He uttered a terrific sound.
The boys were delighted at the sight of the tala forest and a smile appeared on their faces, playfully they spoke to Krsna.
The boys said- O Krsna, the ocean of mercy and brother of the down-trodden, the lord of the universe, possessor of great strength, brother of Balabhadra and the best of the boys. O virtuous one, you kindly pay attention to our request for a moment. You love your devotees, all the children are suffering from hunger..
You look at the delicious tala fruits in the forest. We intend to pluck the fruit and make the flowers of various colours to fall on to the earth by shaking the trees together with the ripe fruits.
O Kr§na, if you permit us we can make an But the valorous demon Dhenuka in the form of a donkey is guarding the forest. He is invincible from the gods, is immensely valorous and beyond control. He happens to be the chief minister of (Kaihsa and kills all the creatures.
O lord of the universe, O best of the speakers, you only think over or request carefiilly and tell us whether our effort would be proper or improper. Whether we should make an attempt or not. On hearing the words of the boys, lord Madhusudana spoke to them in quite sweet and said- O boys, when you always live with me then why should you be afraid of a demon; you go shake the tress and breaking them eat the fruit.
Srl Krsna said- He happens to be the son of immensely valorous demon Bali who was cursed in earlier times by Durvasa. With that curse he was turned into a donkey.
giiMifir ^ I? o 11 O Balabhadra, he is extremely sinful and possesses great strength also. Therefore he has to be killed by me. I shall kill him. You better protect these boys.
Accompanied with the boys you move to a distant place. Thereafter Balabhadra at the command of Krsna moved with the boys to a But after swallowing Krsna, the inside of the body of the demoxi started burning because of the immense lustre of the lord; getting terrified the demon vomited out the illustrious lord.
He looked at the lord when he was emerging out of his body being extremely beautifiil, peaceful and having divine lustre. At the sight of Krsna, he was reminded of the events of his earlier birth. He then recognised himself as well as the one who happens to be the cause of the universe. Looking at the illustrious lord he started offering prayer to him.
The demon said- With your amsa ycu appeared in the form of Vamana who became a beggar in the yajna of my fathers; you happen to be the usurper of his kingdom and gloiy and had bestowed the kingship of the under world to my You are devoted to Bali, are quite valorous, the lord of everyone, while your devotees are loved by you; therefore you kindly relieve a sinful person like me from this form of a donkey.
lord of the universe, I had achieved this form because of the curse of Durvasa who had also foretold my about death at your hands.
O lord of the universe, O giver of the salvation, you shoot the extremely sharp cakra or sixteen arrows for killing me and provide me the lord, you had also appeared from your amsa as an incarnation of Varaha and redeemed this earth, saved the Vedas and killed Hiranyaksa.
You are complete Paramatma and killing Hiranyaksipu bestowed your grace on PrahlMa and took to the form of Nrsimha for the protection of the gods.
O ocean of mercy, you appeared from your arhsa in the from of a fish and protected the Vedas and providing knowledge to the king saved the Brahmanas.
You also appeared in the form of a tortoise from your arhsa and also appeared in the from of Sesa and carried the load of the entire universe over your head.
For the redemption of JanakI you were bom as Rama, the son of Dasaratha. Constmcting a bridge on the ocean, you killed Ravana having O lord of the universe, with your rays you appeared as Parasurama the son of Jamadagni, relieved the earth of the Ksatriya kings.
Kapila was bom from your arhs'a who happened to be the teacher of siddhas and was the propounder of Yogasastra bestowing the Jdivine knowledge to his mother. ' Nara-narayana the best of the sages was also bom of your arhsa. In the form of Dharamputra you expanded the universe. \ Presently you have yourself appeared in the from of Krsna and you happen to be the seed of all the eternal incarnations.
You are the life of Yasoda, eternal increase the delight of Nanda the lord of the lives of the cowherdesses and are dearer to Radha than her life you are the son of Vasudeva, peaceful, remover of the pain of DevakT, bom without human contact, possessor of all the riches, remover of the burden of the earth, providing the graceful place to Putana like a mother. You are merciful and are the one who provided salvation to skylark, Kesl, Pralamba and myself You move at will, are beyond qualities, remover or the fear or the devotees, O lord of Radhika, be pleased with me and grant me O lord, you kindly provide salvation to me from the ocean of the universe and the form of a donkey. I happen to be the foolish son of your devotee. You provide redemption to me.
The one whose glory cannot be recited by the Vedas, Brahma and other gods and the sages how can a person like me offer prayer to such a lord, who was earlier a demon and now a O ocean of mercy, now move in such a way by which I shall not have to be bom on earth, who would desire to return to his come after looking at your feet?.
The one who is adored by Brahma, the same lord is being adored by a mere donkey, which is quite laughable because the lord bestows this grace equally on all.
Thus speaking the demon stood before the lord, his face was looking quite graceful and satisfied. The one who recites this sMra composed by the demon he achieves the place of Hari the fortunes and his closeness without much effort. He achieves the devotion of lord during this world and ultimately he attains the inaccessible place of Hari besides learnings, riches, the best of poetry, sons and grandsons beside the glory. Narayana said- the merciful lord on hearing the prayer of the Daitya Kfsna started thinking in his mind as to how to kill such devotee of mine.
Thus thinking the lord himself made his memory to vanish because the one who offers prayer cannot be killed and only the one, who uttered harsh words, is killed by the lord, This has been provided in the scriptures.
Influenced by the illusion of lord Visnu the demon forgot about himself and harsh words dwelt in his throat.
Thereafter the demon desirous of his immediate death, having lost his wisdom, was filled with anger and his lips started fluttering in rage. Me then spoke to lord Hari.
Deity a said- O son of a human, devoid of wisdom you indeed intend to die at my hands. I can dispatched you to the place of Yama today.
O boy, having reached in my tala forest, you want to escape alive. You will not be able to return home nor would you be able to meet your relatives. Kamsa, Jarasandha and Naraka could not be equated with me. Even the gods tremble in fear with the hearing of my name who is there like me on the earth.
Siva the destroyer of the universe cannot destroy me. Even Brahma, Visnu and the god of death are not in a position to cause any harm to Breaking my tala trees and dropping the fruits, on what basis are you feeling so proud. O son, tell me truthfully who are you? You are quite charming and beautiful. Why have you arrived here to offer your life to me? Thus speaking the valorous demon who was standing at the death's door, lifted Kf$na on his head and threw him at a distance, by making him fall on the ground. He them struck him with his horns. But with the touch of the body of Krsna his horns were O sage, after the breaking of the horns, the demon was annoyed and he caught hold of Krsna in order to chew him. But while doing so all his teeth were broken.
With the lustre of Krsna his mouth was burnt out and he swallowed him at once. He than started burning with anger and went on digging earth with his hoofs.
Moving his tail, creating deafening sound he rushed towards the boys who started running cmtsfT: I h9 ^ 11 Thereafter Balabhadra pushed the powerful demon aside and struck him with a fist result of which the demon was fainted.
mctr -^rgrroft otraifH-.i Regaining consciousness in a moment, he went towards the lord and was again fainted with the blow of the fist by Balabhadra. On regaining consciousness he felt painful, but still he got up and in fear he started dropping urine and refuse.
After resting for a while, the valorous and highly strong demon lifted Govinda on his head and started roaming about.
Moving him in a circular manner again and again, he then dropped him on the ground.
Thereafter Madhava uprooted a tala tree and threw it at him.
The pain he had suffered after having been struck at the head, the same amount of pain was felt by him with the striking of the tala tree at The lord than lifted up the Govardhana mountain and threw it at him. O great sage, the king of the mountain fell on the demon with great force.
With the striking of the mountain, the valorous demon was fainted and all. his limbs were wounded. He vomited blood.
After regaining consciousness in a moment, the demon got up at once and lifting up the mountain he threw it at Madhava.
MadhusQdana on the other hand finding the mountain approaching him with great force hold it with right hand like the sugar-cane.
Thereafter he placed the mountain at its original place moulding the ear of the demon in his hand, the lord threw him away at a distance.
The demon took a high jump and than surrounded the lord and thereafter he started digging the earth with the hoofs.
The great asura held the lord with great force, raised him on his head and he went up in the sky up to a lakh of yojanas with the speed of a mind.
They fought in first space for a prahara.
Thereafter Krsna was held by him tightly and he descended on earth.
Thereafter both of them fought for a muhurta on the ground. Thereafter lord Krsna smilingly praised the demon delightfully.
grR ( q clfad t ^11 He said, O best of the demons, you happen to be the son of Bali, who has been a great devotee of mine. Your life is graceful. Therefore we should meet with welfare and redemption.
And audience with me results in the seed of welfare and the salvation. You achieved the best of the places; with good deeds beyond all of The lord while thus speaking remembered the Sudarsana-cakra which was like the crores of suns and illumining. He held that cakra having sixteenth spokes which was illumining like crores of suns. Holding the cakra in his hand he moved it in a circular manner and shot it at the demons. With the striking of cakra, the head of demon was severed who couldn't be killed by Brahma, Visnu and ^iva.
The head of the demon fell down on the ground and looked like the lustre of hundreds of The lustre merging from the demons head, finding the lustre in the feet of the lord rushed towards it and merged in the same. Thus the great Danava achieved salvation.
At that point of time the gods remaining in the sky beside the sages felt delighted and showered The dundhubhis were sounded in the heaven and the apsards started dancing, the Gandharvas started singing and the sages offered prayer.
Balarama the best of the valorous people, also started praising the lord and all the boys started dancing in delight.
The happy boys offered to Balarama and Krs na, the sweet and delicious fruits and consumed them also.
O Brahma, killing the Danava and consuming the fruits Sri Krsna and Balarama together with the boys went back to their abodes.
Chapter-aligned complete witnesses. Sanskrit Wikisource revision 123465 (2017-09-29T02:35:12Z); Shanti Lal Nagar English scan pages n1033–n1040: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n1033/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.