Skip to main content

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 18

Chapter 18

Unit 161 of 276Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 18Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 181 source entries

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 18

Source

।। शौनक उवाच ।। अहो किमद्भुतं सूत रहस्यं सुमनोहरम् ।। श्रुतं कृष्णस्य चरितं सुखदं मोक्षदं परम् ।। १ ।। सूत उवाच ।। श्रुत्वा नगरनिर्माणं नारदो मुनिसत्तमः ।। पप्रच्छ कृष्णचरितमपरं सुमनोहरम् ।। २ ।। नारद उवाच ।। श्रीकृष्णाख्यानचरितं पीयूषमृषिसत्तम ।। ज्ञानसिंधो निगद मां शिष्यं च शरणागतम् ।। ३ ।। नारदस्य वचः श्रुत्वा मुदा नारायणः स्वयम् ।। उवाच परमीशस्य चरितं परमाद्भुतम् ।। ४ ।। श्रीनारायण उवाच ।। एकदा बालकैः सार्धं बलेन सह माधवः ।। जगाम श्रीमधुवनं यमुनातीरनीरजम् ।। ५ ।। विचेरुर्गोसहस्रैश्च चिक्रीडुर्बालकास्तदा ।। विश्रान्तास्तृट्परीताश्च क्षुधा च परिपीडिताः ।। ६ ।। तमूचुर्गोपशिशवः श्रीकृष्णं परया मुदा ।। क्षुदस्मान्बाधते कृष्ण किं कुर्मो ब्रूहि किंकरान्।।७।। शिशूनां वचनं श्रुत्वा तानुवाच दयानिधिः ।। हितं तथ्यं च वचनं प्रसन्नवदनेक्षणः ।।८।। श्रीकृष्ण उवाच ।। बाला गच्छत विप्राणां यज्ञस्थानं सुखावहम् ।। अन्नं याचत ताञ्छीघ्रं ब्राह्मणांश्च क्रतून्मुखान् ।। ९ ।। विप्रा आंगिरसाः सर्वे स्वाश्रमे श्रीवनान्तिके ।। यज्ञं कुर्वन्ति विप्राश्च श्रुतिस्मृतिविशारदाः ।।4.18.१०।। निःस्पृहा वैष्णवाः सर्वे मां यजन्ति मुमुक्षवः। मायया मां न जानन्ति मायामानुषरूपिणम् ।। ११ ।। न चेद्ददति युष्मभ्यमन्नं विप्राः क्रतून्मुखाः ।। तत्कान्ता याचत क्षिप्रं दयायुक्ताः शिशून्प्रति ।। १२ ।। श्रीकृष्णवचनं श्रुत्वा ययुर्बालकपुंगवाः ।। पुरतो ब्राह्मणानां च तस्थुरानम्रकंधराः ।। १३ ।। इत्यूचुर्बालकाः शीघ्रमन्नं दत्त द्विजोत्तमाः ।। न शुश्रुवुर्द्विजाः केचित्केचिच्छ्रुत्वा स्थिताः स्थिताः।।१४।। ते ययू रन्धनागारं ब्राह्मण्यो यत्र पाचिकाः ।। गत्वा बाला विप्रभार्याः प्रणेमुर्नतकन्धराः ।। १९ ।। नत्वोचुर्बालकाः सर्वे विप्रभार्याः पतिव्रताः ।। अन्नं दत्त मातरोऽस्मान्क्षुधार्तान्बालकानपि ।। १६ ।। बालानां वचनं श्रुत्वा दृष्ट्वा तांश्च मनोहरान् ।। पप्रच्छुः सादरं साध्व्यः स्मेराननसरोरुहाः ।।१७।। विप्रपत्न्य ऊचुः ।। के यूयं प्रेषिताः केन कानि नामानि कोविदाः ।। दास्यामोऽन्नं बहुविधं व्यञ्जनैः सहितं वरम् ।। १८ ।। ब्राह्मणीनां वचः श्रुत्वा ता ऊचुस्ते मुदाऽन्विताः ।। स्निग्धा हसन्तः स्फीताश्च सर्वे गोपालबालकाः ।। १९ ।। बाला ऊचुः ।। प्रेषिता रामकृष्णाभ्यां वयं क्षुत्पीडिता भृशम् ।। दत्तान्नं मातरोऽस्मभ्यं क्षिप्रं यामस्तदन्तिकम् ।। 4.18.२० ।। इतो विदूरे भाण्डीरे वनाभ्यन्तरमेव च ।। वटमूले मधुवने वसन्तौ रामकेशवौ ।। २१ ।। विश्रान्तौ क्षुधितौ तौ च याचेतेऽन्नं च मातरः ।। किमु देयमदेयं वा शीघ्रं वदत नोऽधुना ।। २२ ।। गोपानां वचनं श्रुत्वा हृष्टानन्दाश्रुलोचनाः ।। पुलकांकितसर्वांगास्तत्पादाब्जमनोरथाः ।। २३ ।। नानाव्यञ्जनसंयुक्तं शाल्यन्नं सुमनोहरम्।। पायसं पिष्टकं स्वादु दधि क्षीरं घृतं मधु ।। २४ ।। रौप्ये कांस्ये राजते च पात्रे कृत्वा मुदाऽन्विताः ।। ताः सर्वा विप्रपत्न्यश्च प्रययुः कृष्णसन्निधिम् ।। २५ ।। नानामनोरथं कृत्वा मनसा गमनोत्सुकाः ।। पतिव्रतास्ता धन्याश्च श्रीकृष्णदर्शनोत्सुकाः ।। २६ ।। श्रीकृष्णं ददृशुर्गत्वा रामं च सह बालकम् ।। वटमूले वसन्तं तमुडुमध्ये यथोडुपम् ।। २७ ।। श्यामं किशोरवयसं पीतकौशेयवाससम् ।। सुन्दरं सस्मितं शान्तं राधाकान्तं मनोहरम् ।।२८।। शरत्पार्वणचन्द्रास्यं रत्नालंकारभूषितम् ।। रत्नकुण्डलयुग्माभ्यां गण्डस्थलविराजितम् ।। २९ ।। रत्नकेयूरवलयरत्ननूपुरभूषितम् ।। आजानुलम्बितां शुभ्रां बिभ्रतं रत्नमालिकाम् ।। 4.18.३० ।। मालतीमालया कण्ठवक्षःस्थलविराजितम्।। चन्दनागुरुकस्तूरीकुङ्कुमाञ्चितविग्रहम् ।।३१ ।। सुनखं सुकपोलं च पक्व बिम्बाधरं वरम् ।। पक्वदाडिमबीजाभं बिभ्रतं दन्तमुत्तमम् ।। ३२ ।। शिखिपिच्छसमायुक्तं बद्धचूडं परात्परम्।। कदम्बपुष्पयुग्माभ्यां कर्णमूले विराजितम् ।। ३३ ।। ध्यानासाध्यं योगिनां च भक्तानुग्रहकातरम्।। ब्रह्मेशधर्मशेषेन्द्रैः स्तूयमानं मुनीश्वरैः ।। ३४ ।। दृष्ट्वैवमीश्वरं भक्त्या प्रणेमुर्द्विजयोषितः ।। स्वानां ज्ञानानुरूपं च तुष्टुवुर्मधुसूदनम् ।। ३५ ।। विप्रपत्न्य ऊचुः ।। त्वं ब्रह्म परमं धाम निरीहो निरहंकृतिः ।। निर्गुणश्च निराकारः साकारः सगुणः स्वयम् ।।३६।। साक्षिरूपश्च निर्लिप्तः परमात्मा निराकृतिः ।। प्रकृतिः पुरुषस्त्वं च कारणं च तयोः परम्।। ३७।। सृष्टिस्थित्यन्तविषये ये च देवास्त्रयः स्मृताः ।। ते त्वदंशाः सर्वबीजा ब्रह्मविष्णुमहेश्वराः ।। ।। ३८ ।। यस्य लोम्नां च विवरे चाखिलं विश्वमीश्वर।। महाविराण्महाविष्णुस्त्वं तस्य जनको विभो ।। ३९ ।। तेजस्त्वं चापि तेजस्वी ज्ञानं ज्ञानी च तत्परः ।। वेदेऽनिर्वचनीयस्त्वं कस्त्वां स्तोतुमिहेश्वरः ।। 4.18.४० ।। महदादिसृष्टिसूत्रं पञ्चतन्मात्रमेव च ।। बीजं त्वं सर्वशक्तीनां सर्वशक्तिस्वरूपकः ।। ४१ ।। सर्वशक्तीश्वरः सर्वः सर्वशक्त्याश्रयः सदा ।। त्वमनीहः स्वयंज्योतिः सर्वानन्दः सनातनः ।। ४२ ।। अहोऽप्याकारहीनस्त्वं सर्वविग्रहवानपि।। सर्वेंद्रियाणां विषयं जानासि नेन्द्रियी भवान् ।। ४३ ।। सरस्वती जडीभूता यत्स्तोत्रे यन्निरूपणे।। जडीभूतो महेशश्च शेषो धर्मो विधिः स्वयम्।। ४४ ।। पार्वती कमला राधा सावित्री वेदसूरपि ।। वेदश्च जडतां याति के वा शक्ता विपश्चितः ।। ४९ ।। वयं किं स्तवनं कुर्मः स्त्रियः प्राणेश्वरेश्वर ।। प्रसन्नो भव नो देव दीनबन्धो कृपां कुरु।। ।। ४६ ।। इति पेतुश्च ता विप्रपत्न्यस्तच्चरणाम्बुजे ।। अभयं प्रददौ ताभ्यः प्रसन्नवदनेक्षणः ।।४७।। विप्रपत्नीकृतं स्तोत्रं पूजाकाले च यः पठेत् ।। स गतिं विप्रपत्नीनां लभते नात्र संशयः ।। ४८ ।। नारायण उवाच ।। ताः पदाम्भोजपतिता दृष्ट्वा श्रीमधुसूदनः ।। वरं वृणुत कल्याणं भविता चेत्युवाच ह ।। ४९ ।। श्रीकृष्णस्य वचः श्रुत्वा विप्रपन्त्यो मुदाऽन्विताः।। तमूचुर्वचनं भक्त्या भक्तिनम्रात्मकन्धराः ।।4.18.५०।। द्विजपत्न्य ऊचुः ।। वरं कृष्ण न गृह्णीमो नः स्पृहा त्वत्पदाम्बुजे ।। देहि स्वं दास्यमस्मभ्यं दृढां भक्तिं सुदुर्लभाम् ।। ५१ ।। पश्यामोऽनुक्षणं वक्त्रसरोजं तव केशव ।। अनुग्रहं कुरु विभो न यास्यामो गृहं पुनः ।। ५२ ।। द्विजपत्नीवचः श्रुत्वा श्रीकृष्णः करुणानिधिः ।। ओमित्युक्त्वा त्रिलोकेशस्तस्थौ बालकसंसदि।। ५३ ।। प्रदत्तं विप्रपत्नीभिर्मिष्टमन्नं सुधोपमम् ।। बालकान्भोजयित्वा तु स्वयं च बुभुजे विभुः।।५४।। एतस्मिन्नन्तरे तत्र शातकुम्भं रथं परम् ।। ददृशुर्विप्रपत्न्यश्च पतन्तं गगनादहो ।।५५।। रत्नदर्पणसंयुक्तं रत्नसारपरिच्छदम् ।। रत्नस्तम्भैर्निबद्धं च सद्रत्नकलशोज्ज्वलम् ।।५६।। श्वेतचामरसंयुक्तं वह्निशुद्धांशुकान्वितम् ।। पारिजातप्रसूनानां मालाजालैर्विराजितम्।।५७।। शतचक्रसमायुक्तं मनोयायि मनोहरम्।। वेष्टितं पार्षदैर्दिव्यैर्वनमालाविभूषितैः।।।९८ ।। पीतवस्त्रपरीधानै रत्नालंकारभूषितैः ।। नवयौवनसंपन्नैः श्यामलैः सुमनोहरैः ।। ५९ ।। द्विभुजैर्मुरलीहस्तैर्गोपवेषधरैर्वरैः ।। शिखिपिच्छगुञ्जमालाबद्धवक्रिमचूडकैः ।। 4.18.६० ।। अवरुह्य रथात्तूर्णं ते प्रणम्य हरेः पदम् ।। रथमारोहणं कर्तुमूचुर्ब्राह्मणकामिनीः ।। ६१ ।। विप्रभार्या हरिं नत्वा जग्मुर्गोलोकमीप्सितम् ।। बभूवुर्गोपिकाः सद्यस्त्यक्त्वा मानुषविग्रहान् ।। ६२।। हरिश्छायां विनिर्माय तासां च विष्णुमायया ।। प्रस्थापयामास गृहान्ब्राह्मणानां स्वयं विभुः ।। ६३ ।। विप्राश्च भार्या उद्दिश्य परमोद्विग्नमानसाः ।। अन्वेषणं प्रकुर्वन्तो ददृशुः पथि कामिनीः ।। ६४ ।। दृष्ट्वोचुर्ब्राह्मणाः सर्वे तास्ते च विनयान्विताः ।। पुलकाङ्कितसर्वाङ्गाः प्रसन्नवदनेक्षणाः ।। ।। ६५ ।। ब्राह्मणा ऊचुः ।। अहोऽतिधन्या यूयं च दृष्टो युष्माभिरीश्वरः ।। अस्माकं जीवनं व्यर्थं वेदपाठोऽप्यनर्थकः ।। ६६ ।। वेदे पुराणे सर्वत्र विद्वद्भिः परिकीर्तिताः ।। हरेर्विभूतयः सर्वाः सर्वेषां जनको हरिः ।। ६७ ।। तपो जपो व्रतं ज्ञानं वेदा ध्ययनमर्चनम् ।। तीर्थस्नानमनशनं सर्वेषां फलदो हरिः ।। ६८ ।। श्रीकृष्णः सेवितो येन किं तस्य तपसां फलैः ।। प्राप्तः कल्पतरुर्येन किं तस्यान्येन शाखिना ।। ६९ ।। श्रीकृष्णो हृदये यस्य तस्य किं कर्मभिः कृतैः ।। किं वा न सागरस्यैव पौरुषं कूपलङ्घने।। ।।4.18.७०।। इत्येवमुक्त्वा विप्राश्च गृहीत्वा कामिनीवराः ।। आजग्मुः स्वगृहं हृष्टास्ताभिः सार्धं च रेमिरे ।।७१।। तासां ततोऽधिकं प्रेम क्रीडासु सर्वकर्मसु ।। दाक्षिण्यं मायया शक्त्या ब्राह्मणानामतर्कितम् ।।७२।। अथ नारायणः सोऽयं बलेन शिशुभिः सह ।। जगाम स्वालयं तूर्णं पूर्णब्रह्म सनातनः ।।७३।। इत्येवं कथितं सर्वं हरेर्माहात्म्यमुत्तमम् ।। पुरा श्रुतं धर्मवक्त्रात्किं भूयः श्रोतुमिच्छसि ।। ।। ७४ ।। नारद उवाच ।। ऋषीन्द्र केन पुण्येन बभूव विप्रयोषिताम् ।। मुनीन्द्रयोगसिद्धानां दुर्लभा गतिरीश्वरी ।। ७५ ।। इमाः का वा पुण्यवत्यः पुरा तस्थुर्महीतलम् ।। आजग्मुः केन दोषेण वद संदेहभञ्जनम् ।। ७६ ।। ।। श्रीनारायण उवाच।। सप्तर्षीणां रमण्यश्च रूपेणाप्रतिमाः पराः ।। गुणवत्यः सुशीलाश्च धर्मिष्ठाश्च पतिव्रताः ।। ७७ ।। नवीनयौवनाः सर्वाः पीनश्रोणि पयोधराः ।। दिव्यवस्त्रपरीधाना रत्नालंकारभूषिताः ।। ७८ ।। तप्तकाञ्चनवर्णाभाः स्मेराननसरोरुहाः ।। मुनीनां मोहितुं शक्ता मानसं वक्रचक्षुषा ।। ७९ ।। दृष्ट्वा तासां स्तनश्रोणिमुखानि सुन्दराणि च ।। अनलश्चकमे ताश्च मदनानलपीडितः ।। 4.18.८० ।। अग्निस्थानस्थितानां च शिखया सुरतोन्मुखः ।। स्पृष्ट्वा चाङ्गानि तासां च बभूव हृतचेतनः ।। ८१ ।। पतिव्रता न जानन्ति पतिपादाब्जमानसाः ।। अग्निरङ्गानि तासां च दर्शंदर्शं मुमोह च ।। ८२ ।। वह्नेश्च मानसं ज्ञात्वा भगवानङ्गिरा मुनिः ।। शशाप तं चेत्युवाच सर्वभक्षो भवेति ह ।। ८३ ।। वह्निः सचेतनो भूत्वा तुष्टाव मुनिपुंगवम् ।। व्रीडया नम्रवदनश्चकम्पे ब्रह्मतेजसा ।।८४ ।। क्रुद्धो मुनिवरः स्पृष्टाः कामिन्यश्च शशाप ह ।। यात यूयं पापयुक्ता मानुषीं योनिमेव च ।। ८५ ।। भारते ब्राह्मणानां च गृहे लभत जन्म वै ।। करिष्यन्ति विवाहं च युष्माकं कुलजा द्विजाः ।। ८६ ।। श्रुत्वा वाक्यं मुनेस्ताश्च रुरुदुः प्रेमविह्वलाः ।। पुटाञ्जलियुताः सर्वा ऊचुस्तं विदुषां वरम् ।। ८७ ।। मुनिपत्न्य ऊचुः ।। न त्यजास्मान्मुनिश्रेष्ठ निष्पापाश्च पतिव्रताः ।। अजानन्त्यः परस्पृष्टा न च नस्त्यक्तुमर्हसि ।। ८८।। भक्तानां किंकरीणां च न दण्डं कर्तुमर्हसि।। युष्माकं चरणाम्भोजं कदा द्रक्ष्यामहे वयम्।। ।। ८९ ।। खड्गच्छेदाद्वज्रपातात्सर्वप्रहरणान्मुने ।। दारुणः कान्तविच्छेदः साध्वीनां दुःसहः सदा ।। 4.18.९० ।। ब्रह्मिष्ठानां गुणवतां परान्कान्तान्महामुनीन् ।। एवंभूतान्कथं त्यक्त्वा यास्यामः पृथिवीतलम्।।९१।। यास्यामो यदि विप्रेश कदाऽत्रागमनं वद ।। अज्ञानस्पर्शदोषश्च न स्यान्नो विधिबोधितः।। ९२।। अहल्यया पुनः प्राप्तः स्वामीन्द्रस्य प्रधर्षणात् ।। सा संभोगात्पुनः शुद्धा स्पर्शनाद्वर्जिता वयम् ।।९३।। विचारं कुरु धर्मिष्ठ वेदवेदाङ्गपारग।। विश्वकर्तुश्च पुत्रस्त्वं सर्ववेदविदां वर।।९४ ।। अन्येषां च भयात्कान्ता व्रजन्ति शरणं पतिम्।। स्वकान्तभयसंविग्नाः शरणं कं व्रजन्ति ताः ।।९५।। अभयं देहि धर्मिष्ठ भययुक्ताभ्य एव च।। पुत्रे शिष्ये कलत्रे च को दण्डं कर्तुमक्षमः ।। ९६ ।। दुर्बलः सबलो वापि स्ववस्तूनामपीश्वरः ।। स्वद्रव्यविक्रयं कर्तुं न चान्यो रक्षितुं क्षमः ।।९७ ।। कामिनीनां वचः श्रुत्वा दयालुर्मुनिपुंगवः ।। प्रेम्णा रुरोद तासां च निरीक्ष्य मुखपङ्कजम् ।।९८।। वेदवेदाङ्गपारज्ञो ज्ञानिनां योगिनां वरः ।। पत्नीविच्छेदविषये मूर्च्छां प्राप तथापि सः ।।९९।। सर्वे बभूवुः शोकार्ता विरहोद्विग्नमानसाः।। निरीक्ष्य तासां वक्त्राणि तस्थुः पुत्तलिका यथा।। ।। 4.18.१०० ।। कृत्वा विलापं सुचिरं सर्ववेदविदां वरः ।। भ्रातृभिश्च सहालोच्य ता उवाच शुचाऽऽतुरः ।।१०१।। अङ्गिरा उवाच ।। यूयं शृणुत वक्ष्यामि वचनं सत्यमेव च ।। स्वकर्मभोगिनां भोगमाकर्माच्च श्रुतौ श्रुतम् ।। १०२ ।। गतो भोगश्च युष्माकमस्माभिः सह निश्चितम् ।। गते भोगे पुनर्भोगो न हि वेदे निरूपितः ।। १०३ ।। शुभाशुभं च यत्कर्म भारते कृतिभिः सह ।। नाभुक्तं क्षीयते कर्म जन्मकोटिशतैरपि ।। १०४ ।। परभुक्तां च कान्तां च यो भुङ्क्ते स नराधमः ।। स पच्यते कालसूत्रे यावच्चन्द्रदिवाकरौ ।। १०९ ।। न सा दैवे न सा पैत्र्ये पाकार्हा पापसंयुता ।। तस्या आलिंगने भर्ता भ्रष्टश्रीस्तेजसा हतः ।। १०६ ।। देवताः पितरस्तस्य हव्यदाने च तर्पणे ।। सुखिनो न भवन्त्येवमित्याह कमलोद्भवः ।। १०७ ।। तस्माद्यत्नेन भार्याया रक्षणं कुरुते सुधीः ।। अन्यथा पापभाग्भर्ता निश्चितं नरकं व्रजेत् ।। १०८।। पदेपदे सावधानः कान्तां रक्षति पण्डितः ।। न व्रती न स्थली योषा दोषाणां च करण्डिका ।। १०९ ।। कलत्रं पाकपात्रं च सदा रक्षितुमर्हति ।। परस्पर्शादशुद्धां च शुद्धां स्वस्पर्शने सदा ।। 4.18.११० ।। स्वकान्तं च परित्यज्य परं गच्छति याऽधमा ।। कुम्भीपाकं सा प्रयाति यावच्चन्द्रदिवाकरौ ।। १११ ।। तामेव यमदूताश्च संस्थाप्य नरकान्तरे ।। उत्तिष्ठति विदूराच्चेत्कुर्वन्ति दण्डताडनाम् ।। ११२ ।। सर्पप्रमाणाः कीटाश्च तीक्ष्णदंष्ट्राः सुदारुणाः ।। दशन्ति पुंश्चलीं तत्र सततं च दिवानिशम् ।। ११३ ।। विकृताकारशब्दं च करोति शाश्वतं भिया ।। न ममार प्रहारेण सूक्ष्मदेहविधारिणी ।। ११४ ।। मुहूर्तार्धं सुखं भुक्त्वा लोकेऽत्र यशसा हता ।। पतिता परलोके च गतिमेतादृशीं लभेत् ।। ११५ ।। परस्पृष्टा च वै नारी या स्पृहां कुरुते परम् ।। साऽपि दुष्टा परित्याज्या चेत्याह कमलोद्भवः ।। ११६ ।। तस्मान्नारी परैर्यत्नाददृष्टा कृतिभिः कृता ।। असूर्यंपश्या या दाराः शुद्धास्ताश्च पतिव्रताः ।। ११७ ।। स्वच्छन्दगामिनी या च स्वतन्त्रा सूकरीसमा ।। अन्तर्दुष्टा सदा सैव निश्चितं परगामिनी ।। ११८ ।। स्वामिसाध्या च या नारी कुलधर्मभिया स्थिता ।। कान्तेन सार्द्धं सा कान्ता वैकुण्ठं याति निश्चितम् ।। ११९ ।। यात यूयं च पृथिवीं मानुषीं योनिमीप्सिताम् ।। कृष्णदर्शनमात्रेण गोलोकं यास्यथ ध्रुवम् ।।4.18.१२०।। हरिणा निर्मिताश्छाया युष्माकं योगमायया ।। ता विप्रमन्दिरे स्थित्वा चागमिष्यन्ति नो ध्रुवम् ।।१२१।। पुनरंशेन नः पत्न्यो भविष्यथ न संशयः ।। युष्माकं मम शापश्च बभूव च वराधिकः ।। १२२ ।। इत्येवमुक्त्वा स मुनिर्विरराम शुचाऽन्वितः ।। ता आगत्य महीं शापाद्बभूवुर्विप्रयोषितः ।। १२३ ।। दत्त्वाऽन्नं हरये भक्त्या प्रजग्मुर्हरिमन्दिरम् ।। बभूव निश्चितं तासां शापश्च संपदोऽधिकः ।। १२४ ।। निन्द्या नीचा च संपत्तिर्विपत्तिर्महतो वरा ।। अहो सद्यः सतां कोपश्चोपकाराय कल्पते ।। १२५ ।। विना विपत्तेर्महिमा कुतः कस्य भवेद्भुवि ।। भूताः कान्तपरित्यागान्मुक्ता ब्राह्मणयोषितः ।। १२६ ।। इत्येवं कथितं सर्वं हरेश्चरितमुत्तमम् ।। अहो पुण्यवतीनां च मोक्षाख्यानं मनोहरम् ।। १२७ ।। श्रीकृष्णाख्यानं विप्रेन्द्र नूत्नं नूत्नं पदेपदे ।। न हि तृप्तिः श्रुतवतां केन श्रेयसि तृप्यते ।। १२८ ।। यावद्रम्यं तत्कथितं यच्छ्रुतं गुरुवक्त्रतः ।। वद मां वाञ्छितं यत्ते किं भूयः श्रोतुमिच्छसि ।। १२९ ।। नारद उवाच ।। यद्यच्छ्रुतं त्वया पूर्वं गुरुवक्त्रात्कृपानिधे ।। मङ्गलं कृष्णचरितं तन्मे ब्रूहि जगद्गुरो ।। 4.18.१३० ।। सूत उवाच ।। श्रुत्वा देवर्षिवचनमृषिर्नारायणः स्वयम् ।। अपरं कृष्णमाहात्म्यं प्रवक्तुमुपचक्रमे।। १३१ ।। इति श्रीब्रह्मवैवर्ते महापुराण्रे श्रीकृष्णजन्मखण्डे विप्रपत्नीमोक्ष णप्रस्तावोनामाष्टादशोऽध्यायः ।। ।। १८ ।।

|| śaunaka uvāca || aho kimadbhutaṃ sūta rahasyaṃ sumanoharam || śrutaṃ kṛṣṇasya caritaṃ sukhadaṃ mokṣadaṃ param || 1 || sūta uvāca || śrutvā nagaranirmāṇaṃ nārado munisattamaḥ || papraccha kṛṣṇacaritamaparaṃ sumanoharam || 2 || nārada uvāca || śrīkṛṣṇākhyānacaritaṃ pīyūṣamṛṣisattama || jñānasiṃdho nigada māṃ śiṣyaṃ ca śaraṇāgatam || 3 || nāradasya vacaḥ śrutvā mudā nārāyaṇaḥ svayam || uvāca paramīśasya caritaṃ paramādbhutam || 4 || śrīnārāyaṇa uvāca || ekadā bālakaiḥ sārdhaṃ balena saha mādhavaḥ || jagāma śrīmadhuvanaṃ yamunātīranīrajam || 5 || vicerurgosahasraiśca cikrīḍurbālakāstadā || viśrāntāstṛṭparītāśca kṣudhā ca paripīḍitāḥ || 6 || tamūcurgopaśiśavaḥ śrīkṛṣṇaṃ parayā mudā || kṣudasmānbādhate kṛṣṇa kiṃ kurmo brūhi kiṃkarān||7|| śiśūnāṃ vacanaṃ śrutvā tānuvāca dayānidhiḥ || hitaṃ tathyaṃ ca vacanaṃ prasannavadanekṣaṇaḥ ||8|| śrīkṛṣṇa uvāca || bālā gacchata viprāṇāṃ yajñasthānaṃ sukhāvaham || annaṃ yācata tāñchīghraṃ brāhmaṇāṃśca kratūnmukhān || 9 || viprā āṃgirasāḥ sarve svāśrame śrīvanāntike || yajñaṃ kurvanti viprāśca śrutismṛtiviśāradāḥ ||4.18.10|| niḥspṛhā vaiṣṇavāḥ sarve māṃ yajanti mumukṣavaḥ| māyayā māṃ na jānanti māyāmānuṣarūpiṇam || 11 || na ceddadati yuṣmabhyamannaṃ viprāḥ kratūnmukhāḥ || tatkāntā yācata kṣipraṃ dayāyuktāḥ śiśūnprati || 12 || śrīkṛṣṇavacanaṃ śrutvā yayurbālakapuṃgavāḥ || purato brāhmaṇānāṃ ca tasthurānamrakaṃdharāḥ || 13 || ityūcurbālakāḥ śīghramannaṃ datta dvijottamāḥ || na śuśruvurdvijāḥ kecitkecicchrutvā sthitāḥ sthitāḥ||14|| te yayū randhanāgāraṃ brāhmaṇyo yatra pācikāḥ || gatvā bālā viprabhāryāḥ praṇemurnatakandharāḥ || 19 || natvocurbālakāḥ sarve viprabhāryāḥ pativratāḥ || annaṃ datta mātaro'smānkṣudhārtānbālakānapi || 16 || bālānāṃ vacanaṃ śrutvā dṛṣṭvā tāṃśca manoharān || papracchuḥ sādaraṃ sādhvyaḥ smerānanasaroruhāḥ ||17|| viprapatnya ūcuḥ || ke yūyaṃ preṣitāḥ kena kāni nāmāni kovidāḥ || dāsyāmo'nnaṃ bahuvidhaṃ vyañjanaiḥ sahitaṃ varam || 18 || brāhmaṇīnāṃ vacaḥ śrutvā tā ūcuste mudā'nvitāḥ || snigdhā hasantaḥ sphītāśca sarve gopālabālakāḥ || 19 || bālā ūcuḥ || preṣitā rāmakṛṣṇābhyāṃ vayaṃ kṣutpīḍitā bhṛśam || dattānnaṃ mātaro'smabhyaṃ kṣipraṃ yāmastadantikam || 4.18.20 || ito vidūre bhāṇḍīre vanābhyantarameva ca || vaṭamūle madhuvane vasantau rāmakeśavau || 21 || viśrāntau kṣudhitau tau ca yācete'nnaṃ ca mātaraḥ || kimu deyamadeyaṃ vā śīghraṃ vadata no'dhunā || 22 || gopānāṃ vacanaṃ śrutvā hṛṣṭānandāśrulocanāḥ || pulakāṃkitasarvāṃgāstatpādābjamanorathāḥ || 23 || nānāvyañjanasaṃyuktaṃ śālyannaṃ sumanoharam|| pāyasaṃ piṣṭakaṃ svādu dadhi kṣīraṃ ghṛtaṃ madhu || 24 || raupye kāṃsye rājate ca pātre kṛtvā mudā'nvitāḥ || tāḥ sarvā viprapatnyaśca prayayuḥ kṛṣṇasannidhim || 25 || nānāmanorathaṃ kṛtvā manasā gamanotsukāḥ || pativratāstā dhanyāśca śrīkṛṣṇadarśanotsukāḥ || 26 || śrīkṛṣṇaṃ dadṛśurgatvā rāmaṃ ca saha bālakam || vaṭamūle vasantaṃ tamuḍumadhye yathoḍupam || 27 || śyāmaṃ kiśoravayasaṃ pītakauśeyavāsasam || sundaraṃ sasmitaṃ śāntaṃ rādhākāntaṃ manoharam ||28|| śaratpārvaṇacandrāsyaṃ ratnālaṃkārabhūṣitam || ratnakuṇḍalayugmābhyāṃ gaṇḍasthalavirājitam || 29 || ratnakeyūravalayaratnanūpurabhūṣitam || ājānulambitāṃ śubhrāṃ bibhrataṃ ratnamālikām || 4.18.30 || mālatīmālayā kaṇṭhavakṣaḥsthalavirājitam|| candanāgurukastūrīkuṅkumāñcitavigraham ||31 || sunakhaṃ sukapolaṃ ca pakva bimbādharaṃ varam || pakvadāḍimabījābhaṃ bibhrataṃ dantamuttamam || 32 || śikhipicchasamāyuktaṃ baddhacūḍaṃ parātparam|| kadambapuṣpayugmābhyāṃ karṇamūle virājitam || 33 || dhyānāsādhyaṃ yogināṃ ca bhaktānugrahakātaram|| brahmeśadharmaśeṣendraiḥ stūyamānaṃ munīśvaraiḥ || 34 || dṛṣṭvaivamīśvaraṃ bhaktyā praṇemurdvijayoṣitaḥ || svānāṃ jñānānurūpaṃ ca tuṣṭuvurmadhusūdanam || 35 || viprapatnya ūcuḥ || tvaṃ brahma paramaṃ dhāma nirīho nirahaṃkṛtiḥ || nirguṇaśca nirākāraḥ sākāraḥ saguṇaḥ svayam ||36|| sākṣirūpaśca nirliptaḥ paramātmā nirākṛtiḥ || prakṛtiḥ puruṣastvaṃ ca kāraṇaṃ ca tayoḥ param|| 37|| sṛṣṭisthityantaviṣaye ye ca devāstrayaḥ smṛtāḥ || te tvadaṃśāḥ sarvabījā brahmaviṣṇumaheśvarāḥ || || 38 || yasya lomnāṃ ca vivare cākhilaṃ viśvamīśvara|| mahāvirāṇmahāviṣṇustvaṃ tasya janako vibho || 39 || tejastvaṃ cāpi tejasvī jñānaṃ jñānī ca tatparaḥ || vede'nirvacanīyastvaṃ kastvāṃ stotumiheśvaraḥ || 4.18.40 || mahadādisṛṣṭisūtraṃ pañcatanmātrameva ca || bījaṃ tvaṃ sarvaśaktīnāṃ sarvaśaktisvarūpakaḥ || 41 || sarvaśaktīśvaraḥ sarvaḥ sarvaśaktyāśrayaḥ sadā || tvamanīhaḥ svayaṃjyotiḥ sarvānandaḥ sanātanaḥ || 42 || aho'pyākārahīnastvaṃ sarvavigrahavānapi|| sarveṃdriyāṇāṃ viṣayaṃ jānāsi nendriyī bhavān || 43 || sarasvatī jaḍībhūtā yatstotre yannirūpaṇe|| jaḍībhūto maheśaśca śeṣo dharmo vidhiḥ svayam|| 44 || pārvatī kamalā rādhā sāvitrī vedasūrapi || vedaśca jaḍatāṃ yāti ke vā śaktā vipaścitaḥ || 49 || vayaṃ kiṃ stavanaṃ kurmaḥ striyaḥ prāṇeśvareśvara || prasanno bhava no deva dīnabandho kṛpāṃ kuru|| || 46 || iti petuśca tā viprapatnyastaccaraṇāmbuje || abhayaṃ pradadau tābhyaḥ prasannavadanekṣaṇaḥ ||47|| viprapatnīkṛtaṃ stotraṃ pūjākāle ca yaḥ paṭhet || sa gatiṃ viprapatnīnāṃ labhate nātra saṃśayaḥ || 48 || nārāyaṇa uvāca || tāḥ padāmbhojapatitā dṛṣṭvā śrīmadhusūdanaḥ || varaṃ vṛṇuta kalyāṇaṃ bhavitā cetyuvāca ha || 49 || śrīkṛṣṇasya vacaḥ śrutvā viprapantyo mudā'nvitāḥ|| tamūcurvacanaṃ bhaktyā bhaktinamrātmakandharāḥ ||4.18.50|| dvijapatnya ūcuḥ || varaṃ kṛṣṇa na gṛhṇīmo naḥ spṛhā tvatpadāmbuje || dehi svaṃ dāsyamasmabhyaṃ dṛḍhāṃ bhaktiṃ sudurlabhām || 51 || paśyāmo'nukṣaṇaṃ vaktrasarojaṃ tava keśava || anugrahaṃ kuru vibho na yāsyāmo gṛhaṃ punaḥ || 52 || dvijapatnīvacaḥ śrutvā śrīkṛṣṇaḥ karuṇānidhiḥ || omityuktvā trilokeśastasthau bālakasaṃsadi|| 53 || pradattaṃ viprapatnībhirmiṣṭamannaṃ sudhopamam || bālakānbhojayitvā tu svayaṃ ca bubhuje vibhuḥ||54|| etasminnantare tatra śātakumbhaṃ rathaṃ param || dadṛśurviprapatnyaśca patantaṃ gaganādaho ||55|| ratnadarpaṇasaṃyuktaṃ ratnasāraparicchadam || ratnastambhairnibaddhaṃ ca sadratnakalaśojjvalam ||56|| śvetacāmarasaṃyuktaṃ vahniśuddhāṃśukānvitam || pārijātaprasūnānāṃ mālājālairvirājitam||57|| śatacakrasamāyuktaṃ manoyāyi manoharam|| veṣṭitaṃ pārṣadairdivyairvanamālāvibhūṣitaiḥ|||98 || pītavastraparīdhānai ratnālaṃkārabhūṣitaiḥ || navayauvanasaṃpannaiḥ śyāmalaiḥ sumanoharaiḥ || 59 || dvibhujairmuralīhastairgopaveṣadharairvaraiḥ || śikhipicchaguñjamālābaddhavakrimacūḍakaiḥ || 4.18.60 || avaruhya rathāttūrṇaṃ te praṇamya hareḥ padam || rathamārohaṇaṃ kartumūcurbrāhmaṇakāminīḥ || 61 || viprabhāryā hariṃ natvā jagmurgolokamīpsitam || babhūvurgopikāḥ sadyastyaktvā mānuṣavigrahān || 62|| hariśchāyāṃ vinirmāya tāsāṃ ca viṣṇumāyayā || prasthāpayāmāsa gṛhānbrāhmaṇānāṃ svayaṃ vibhuḥ || 63 || viprāśca bhāryā uddiśya paramodvignamānasāḥ || anveṣaṇaṃ prakurvanto dadṛśuḥ pathi kāminīḥ || 64 || dṛṣṭvocurbrāhmaṇāḥ sarve tāste ca vinayānvitāḥ || pulakāṅkitasarvāṅgāḥ prasannavadanekṣaṇāḥ || || 65 || brāhmaṇā ūcuḥ || aho'tidhanyā yūyaṃ ca dṛṣṭo yuṣmābhirīśvaraḥ || asmākaṃ jīvanaṃ vyarthaṃ vedapāṭho'pyanarthakaḥ || 66 || vede purāṇe sarvatra vidvadbhiḥ parikīrtitāḥ || harervibhūtayaḥ sarvāḥ sarveṣāṃ janako hariḥ || 67 || tapo japo vrataṃ jñānaṃ vedā dhyayanamarcanam || tīrthasnānamanaśanaṃ sarveṣāṃ phalado hariḥ || 68 || śrīkṛṣṇaḥ sevito yena kiṃ tasya tapasāṃ phalaiḥ || prāptaḥ kalpataruryena kiṃ tasyānyena śākhinā || 69 || śrīkṛṣṇo hṛdaye yasya tasya kiṃ karmabhiḥ kṛtaiḥ || kiṃ vā na sāgarasyaiva pauruṣaṃ kūpalaṅghane|| ||4.18.70|| ityevamuktvā viprāśca gṛhītvā kāminīvarāḥ || ājagmuḥ svagṛhaṃ hṛṣṭāstābhiḥ sārdhaṃ ca remire ||71|| tāsāṃ tato'dhikaṃ prema krīḍāsu sarvakarmasu || dākṣiṇyaṃ māyayā śaktyā brāhmaṇānāmatarkitam ||72|| atha nārāyaṇaḥ so'yaṃ balena śiśubhiḥ saha || jagāma svālayaṃ tūrṇaṃ pūrṇabrahma sanātanaḥ ||73|| ityevaṃ kathitaṃ sarvaṃ harermāhātmyamuttamam || purā śrutaṃ dharmavaktrātkiṃ bhūyaḥ śrotumicchasi || || 74 || nārada uvāca || ṛṣīndra kena puṇyena babhūva viprayoṣitām || munīndrayogasiddhānāṃ durlabhā gatirīśvarī || 75 || imāḥ kā vā puṇyavatyaḥ purā tasthurmahītalam || ājagmuḥ kena doṣeṇa vada saṃdehabhañjanam || 76 || || śrīnārāyaṇa uvāca|| saptarṣīṇāṃ ramaṇyaśca rūpeṇāpratimāḥ parāḥ || guṇavatyaḥ suśīlāśca dharmiṣṭhāśca pativratāḥ || 77 || navīnayauvanāḥ sarvāḥ pīnaśroṇi payodharāḥ || divyavastraparīdhānā ratnālaṃkārabhūṣitāḥ || 78 || taptakāñcanavarṇābhāḥ smerānanasaroruhāḥ || munīnāṃ mohituṃ śaktā mānasaṃ vakracakṣuṣā || 79 || dṛṣṭvā tāsāṃ stanaśroṇimukhāni sundarāṇi ca || analaścakame tāśca madanānalapīḍitaḥ || 4.18.80 || agnisthānasthitānāṃ ca śikhayā suratonmukhaḥ || spṛṣṭvā cāṅgāni tāsāṃ ca babhūva hṛtacetanaḥ || 81 || pativratā na jānanti patipādābjamānasāḥ || agniraṅgāni tāsāṃ ca darśaṃdarśaṃ mumoha ca || 82 || vahneśca mānasaṃ jñātvā bhagavānaṅgirā muniḥ || śaśāpa taṃ cetyuvāca sarvabhakṣo bhaveti ha || 83 || vahniḥ sacetano bhūtvā tuṣṭāva munipuṃgavam || vrīḍayā namravadanaścakampe brahmatejasā ||84 || kruddho munivaraḥ spṛṣṭāḥ kāminyaśca śaśāpa ha || yāta yūyaṃ pāpayuktā mānuṣīṃ yonimeva ca || 85 || bhārate brāhmaṇānāṃ ca gṛhe labhata janma vai || kariṣyanti vivāhaṃ ca yuṣmākaṃ kulajā dvijāḥ || 86 || śrutvā vākyaṃ munestāśca ruruduḥ premavihvalāḥ || puṭāñjaliyutāḥ sarvā ūcustaṃ viduṣāṃ varam || 87 || munipatnya ūcuḥ || na tyajāsmānmuniśreṣṭha niṣpāpāśca pativratāḥ || ajānantyaḥ paraspṛṣṭā na ca nastyaktumarhasi || 88|| bhaktānāṃ kiṃkarīṇāṃ ca na daṇḍaṃ kartumarhasi|| yuṣmākaṃ caraṇāmbhojaṃ kadā drakṣyāmahe vayam|| || 89 || khaḍgacchedādvajrapātātsarvapraharaṇānmune || dāruṇaḥ kāntavicchedaḥ sādhvīnāṃ duḥsahaḥ sadā || 4.18.90 || brahmiṣṭhānāṃ guṇavatāṃ parānkāntānmahāmunīn || evaṃbhūtānkathaṃ tyaktvā yāsyāmaḥ pṛthivītalam||91|| yāsyāmo yadi vipreśa kadā'trāgamanaṃ vada || ajñānasparśadoṣaśca na syānno vidhibodhitaḥ|| 92|| ahalyayā punaḥ prāptaḥ svāmīndrasya pradharṣaṇāt || sā saṃbhogātpunaḥ śuddhā sparśanādvarjitā vayam ||93|| vicāraṃ kuru dharmiṣṭha vedavedāṅgapāraga|| viśvakartuśca putrastvaṃ sarvavedavidāṃ vara||94 || anyeṣāṃ ca bhayātkāntā vrajanti śaraṇaṃ patim|| svakāntabhayasaṃvignāḥ śaraṇaṃ kaṃ vrajanti tāḥ ||95|| abhayaṃ dehi dharmiṣṭha bhayayuktābhya eva ca|| putre śiṣye kalatre ca ko daṇḍaṃ kartumakṣamaḥ || 96 || durbalaḥ sabalo vāpi svavastūnāmapīśvaraḥ || svadravyavikrayaṃ kartuṃ na cānyo rakṣituṃ kṣamaḥ ||97 || kāminīnāṃ vacaḥ śrutvā dayālurmunipuṃgavaḥ || premṇā ruroda tāsāṃ ca nirīkṣya mukhapaṅkajam ||98|| vedavedāṅgapārajño jñānināṃ yogināṃ varaḥ || patnīvicchedaviṣaye mūrcchāṃ prāpa tathāpi saḥ ||99|| sarve babhūvuḥ śokārtā virahodvignamānasāḥ|| nirīkṣya tāsāṃ vaktrāṇi tasthuḥ puttalikā yathā|| || 4.18.100 || kṛtvā vilāpaṃ suciraṃ sarvavedavidāṃ varaḥ || bhrātṛbhiśca sahālocya tā uvāca śucā''turaḥ ||101|| aṅgirā uvāca || yūyaṃ śṛṇuta vakṣyāmi vacanaṃ satyameva ca || svakarmabhogināṃ bhogamākarmācca śrutau śrutam || 102 || gato bhogaśca yuṣmākamasmābhiḥ saha niścitam || gate bhoge punarbhogo na hi vede nirūpitaḥ || 103 || śubhāśubhaṃ ca yatkarma bhārate kṛtibhiḥ saha || nābhuktaṃ kṣīyate karma janmakoṭiśatairapi || 104 || parabhuktāṃ ca kāntāṃ ca yo bhuṅkte sa narādhamaḥ || sa pacyate kālasūtre yāvaccandradivākarau || 109 || na sā daive na sā paitrye pākārhā pāpasaṃyutā || tasyā āliṃgane bhartā bhraṣṭaśrīstejasā hataḥ || 106 || devatāḥ pitarastasya havyadāne ca tarpaṇe || sukhino na bhavantyevamityāha kamalodbhavaḥ || 107 || tasmādyatnena bhāryāyā rakṣaṇaṃ kurute sudhīḥ || anyathā pāpabhāgbhartā niścitaṃ narakaṃ vrajet || 108|| padepade sāvadhānaḥ kāntāṃ rakṣati paṇḍitaḥ || na vratī na sthalī yoṣā doṣāṇāṃ ca karaṇḍikā || 109 || kalatraṃ pākapātraṃ ca sadā rakṣitumarhati || parasparśādaśuddhāṃ ca śuddhāṃ svasparśane sadā || 4.18.110 || svakāntaṃ ca parityajya paraṃ gacchati yā'dhamā || kumbhīpākaṃ sā prayāti yāvaccandradivākarau || 111 || tāmeva yamadūtāśca saṃsthāpya narakāntare || uttiṣṭhati vidūrāccetkurvanti daṇḍatāḍanām || 112 || sarpapramāṇāḥ kīṭāśca tīkṣṇadaṃṣṭrāḥ sudāruṇāḥ || daśanti puṃścalīṃ tatra satataṃ ca divāniśam || 113 || vikṛtākāraśabdaṃ ca karoti śāśvataṃ bhiyā || na mamāra prahāreṇa sūkṣmadehavidhāriṇī || 114 || muhūrtārdhaṃ sukhaṃ bhuktvā loke'tra yaśasā hatā || patitā paraloke ca gatimetādṛśīṃ labhet || 115 || paraspṛṣṭā ca vai nārī yā spṛhāṃ kurute param || sā'pi duṣṭā parityājyā cetyāha kamalodbhavaḥ || 116 || tasmānnārī parairyatnādadṛṣṭā kṛtibhiḥ kṛtā || asūryaṃpaśyā yā dārāḥ śuddhāstāśca pativratāḥ || 117 || svacchandagāminī yā ca svatantrā sūkarīsamā || antarduṣṭā sadā saiva niścitaṃ paragāminī || 118 || svāmisādhyā ca yā nārī kuladharmabhiyā sthitā || kāntena sārddhaṃ sā kāntā vaikuṇṭhaṃ yāti niścitam || 119 || yāta yūyaṃ ca pṛthivīṃ mānuṣīṃ yonimīpsitām || kṛṣṇadarśanamātreṇa golokaṃ yāsyatha dhruvam ||4.18.120|| hariṇā nirmitāśchāyā yuṣmākaṃ yogamāyayā || tā vipramandire sthitvā cāgamiṣyanti no dhruvam ||121|| punaraṃśena naḥ patnyo bhaviṣyatha na saṃśayaḥ || yuṣmākaṃ mama śāpaśca babhūva ca varādhikaḥ || 122 || ityevamuktvā sa munirvirarāma śucā'nvitaḥ || tā āgatya mahīṃ śāpādbabhūvurviprayoṣitaḥ || 123 || dattvā'nnaṃ haraye bhaktyā prajagmurharimandiram || babhūva niścitaṃ tāsāṃ śāpaśca saṃpado'dhikaḥ || 124 || nindyā nīcā ca saṃpattirvipattirmahato varā || aho sadyaḥ satāṃ kopaścopakārāya kalpate || 125 || vinā vipattermahimā kutaḥ kasya bhavedbhuvi || bhūtāḥ kāntaparityāgānmuktā brāhmaṇayoṣitaḥ || 126 || ityevaṃ kathitaṃ sarvaṃ hareścaritamuttamam || aho puṇyavatīnāṃ ca mokṣākhyānaṃ manoharam || 127 || śrīkṛṣṇākhyānaṃ viprendra nūtnaṃ nūtnaṃ padepade || na hi tṛptiḥ śrutavatāṃ kena śreyasi tṛpyate || 128 || yāvadramyaṃ tatkathitaṃ yacchrutaṃ guruvaktrataḥ || vada māṃ vāñchitaṃ yatte kiṃ bhūyaḥ śrotumicchasi || 129 || nārada uvāca || yadyacchrutaṃ tvayā pūrvaṃ guruvaktrātkṛpānidhe || maṅgalaṃ kṛṣṇacaritaṃ tanme brūhi jagadguro || 4.18.130 || sūta uvāca || śrutvā devarṣivacanamṛṣirnārāyaṇaḥ svayam || aparaṃ kṛṣṇamāhātmyaṃ pravaktumupacakrame|| 131 || iti śrībrahmavaivarte mahāpurāṇre śrīkṛṣṇajanmakhaṇḍe viprapatnīmokṣa ṇaprastāvonāmāṣṭādaśo'dhyāyaḥ || || 18 ||

English translation

Desire for redemption of a Brahma^a said - O Suta, this is an astonishing type of story of lord Krsna which is quite secret and provides welfare besides salvation.

Suta said > Hearing about the construction of the city, Narada the best of the sages, enquired about the other story about lord Krsna.

Narada said - O best of the sages, O ocean of knowledge, I have arrived to take refuge under your feet and as your pupil also, therefore, you kindly continue to narrate the nectar-like story of lord Krspa.

On hearing the words of NSrada, NarSyana himself started narrating the astonishing annal of lord Kr?pa.

Narayana said - Once Madhava accompanied by Baladeva and other boys went to Madhuvana on the bank of Yamuna which was created as an island on its bank.

All the boys started roaming about in that place together with thousands of cows. After getting tired they felt hungry and thirsty and all of them spoke to Krsna, "O Krsna we are feeling extremely hungry; we are your attendants, tell us what should be done?".

On hearing the words of the boys, Krsna with a delightful face being the ocean of mercy, spoke to them the truthful words.

Sri Kfsna said- O boys, you go to the place of of the Brahmanas and ask them for food from them when they might be engaged in performing the yq/na. The sages like Afigira and other Brahmapas well-versed in the scriptures are engaged in the performing of the yajna. They are all Vai§nava and are performing the yajna for achieving salvation, but they are unable to realise about me, because of the illusion.

In case the Brahmanas do not give away food to you being engaged in the performing of the yajna, then you can go to their wives, who are always compassionate on children.

On hearing the words of Kr§na, all the boys reached there and bowing in reverence to the Brahmanas stood there.

The boys said - O best of the Brahmanas, you give us food at once. But many of them did not hear those words while others stood there attentively in spite of listening to them.

Thereafter the boys went to the kitchen where the Brahmana women were cooking the food and bowed in reverence to them.

Offering their salutations to the chaste Brahmana women, the boys said, "O mothers, we are suffering from hunger and therefore give us On hearing the words of the boys, they looked at them who were quite charming, smiling with lotus-like faces. The chaste ladies then asked them respectfully.

The Brahmana women said - ”0 intelligent boys, who are you? Who has sent you? What are your names? We shall serve you food with several other delicious dishes." On hearing the words of the ladies, all the boys laughed with delight and said.

The boys said - "O mothers, we have been sent here by Rama and Krsna, we are extremely hungry. You give us food. We have to return to them immediately. Both Baladeva and Krsna are seated under the shade of a banyan tree in Madhuvana located in Bhandira forest, a little distance away from this place. O mothers, they are quite peaceful, besides being hungry and thirsty and are demanding food. Do you want to give us or not; you tell us frankly.".

On hearing the words of the cowherds, the eyes of the ladies were filled with joy and their hair on the body stood on end because they were desirous of having a look at the lotus-like feet of the lord.

They arranged food in plates of gold and silver besides the flowers and delightfully carried the same to them. The food contained boiled rice, milk mixed with rice, tasteful curd, milk, ghee and honey which they carried to lord Krsna.

Such of the chaste ladies are quite graceful who go for an audience with Krsna preserving many desires in their mind.

Reaching there, they found Krsna and Balartoa seated there with other boys under the shade of the banyan tree. They looked as if the moon was surrounded by the stars, he had a dark-complexion, was of tender age, wore a yellow silken garment, had a smiling face; was peaceful and shining being the lord of Radha.

He had the face resembling the full moon of the winter season and was adorned with the gem- studded ornaments, a pair of kundalas was adorning his ears.

He had on his person the gem-studded annlets, wristlets and anklets and he wore a long garland of forest flowers falling up to the knees. He was wearing the garland of jasmine flowers on his neck and the chest. His body was plastered with sandal-paste, aguru, kasturl and saffron; his nose and cheeks were quite beautiful. The lips resembled the ripe wood-apples and the line of teeth resembled the ripe seeds of the He had a peacock feather placed on his head and the flowers of kadamba adorned his ears.

Lord Krsna who happens to be beyond the reach of the yogis but he always remains anxious to shower his grace on his devotees. Brahma, Siva, Dharma, Sesa, Indra and the sages always offer prayers to him. Looking at such a type of lord, the wives of the Brahmanas bowed to him in The Brahmana women said - O lord, you are Brahman, the eternal abode, without desires, pride, qualities, formless and with form, without qualities, witness of all, uninvolved, the great soul, formless besides being Prakrti and Purusa.

You happen to be the cause of both of them.

Though Brahma, Visnu and Siva are known to create, preserve and destroy the universe, they also happen to be your own aths'a.

O lord, you are the Virat form of Mahavisnu in whose hair-pits of the body all the globes are You possess lustre, knowledge and are the form of knowledge. It has been described in the Vedas that you are the one, who is beyond description, who can be competent enough to recite your glory?.

You are mahat and the form of the globe, pancatanmdtrds, the seed of all the tejas, a form of all the tejaSy the lord of all the tejas and the abode of all the tejas. You are beyond desires, self-illumining, blissful and eternal. Being formless, you also possess several fonns. You are beyond the organ of senses though you are well aware of the subject of each one of them.

The one, by describing whose glory and highlighting whose tattvas even Sarasvatl becomes dumb-folded, besides Siva, Sesa, Dharma and even Brahma, besides Parvati, Laks ml, Radha, Savitri, the creation of the Vedas; therefore who can offer prayers to you.

fexi: 3iiul?<4t?ciT:i O lord of our lives, we are only women; what can we offer you as a prayer? O lord of the drown-trodden, O lord, be happy and graceful to Thus speaking all the ladies fell at the feet of the lord. Thereafter the delightful lord assured them all protection.

The one who recites this stotra of the wives of the Brahmanas at the time of performing puja, achieves high place. There is no doubt about it.

Narayana said - Finding the ladies falling at his feet Madhusudana said - ''You ask for a You will meet with all the welfare.

On hearing the words of Sri Krsna, die wives of the Brahmanas delightfully stood there with their mind filled with devotion and said to Krsna.

The wives of the Brahmanas said - Krsna, we are not interested in a boon, we are the followers of your lotus-like feet; therefore you kindly grant us the inaccessible slavehood of your feet.

O Kesava, we should always look at your lotus-like face. O virtuous one, be compassionate on us, we do not intend to go back to our abodes.

feiiiHlcfg: g.6uiif^Ri:i The compassionate Krsna, the lord of the three worlds, listened to the words of the Brahmana wives and said, "All right". He then sat there in the company of the boys.

gg wfwt xg wi;i Lord Krsna then made the boys to consume the sweet and delicious food and himself also did so. In the meantime the wives of the Brahmana found that an astonishing type of chariot was descending from the sky. It had the mirrors of gems and diamonds. It had the gem-studded pillars, shining with beautiful kalasas, the white fly-whisks, the best of the silken costumes and it was decorated with the garlands of Pdrijdta It had a hundred wheels and could move with the speed of the mind. The beautiful chariot was surrounded by the attendants wearing a long garland of lotus flowers, clad in a yellow lower garment and adorned with gem-studded ornaments. They were all young having a dark- complexion, quite pleasant to look at, having two arms, holding a flute in the hand and appearing in the best of the costumes of cowherds. Their hair was well-arranged on the head with a peacock feather appearing at the top.

The attendants descended from the chariot and bowed at the feet of the lord and asked the Brahmana women to mount on the chariot.

The Brahmana women bowing at the feet of lord Krsna went to the Goloka and shedding their human bodies, they were turned into the foims of cowherds in the Goloka.

Thereafter the lord created the shadow Brahmana women and sent them back to their abodes in place of the original ones.

The Brahmanas getting annoyed were searching for them in their abodes. In the meantime, they came across the shadow Brahmana women on the path.

All the Brahmanas felt emotional by looking at them and their faces blossomed like the lotus flowers. They spoke to the Brahmana women quite meekly.

The Brahmana said - "All of you are quite graceful because you have had an audience with the lord. The lives of us people are of no consequence, besides the reciting of the Vedas. It has been ordained in the Vedas and the Puranas by the intellectuals that the entire universe is the tejas of the lord.

It is the lord alone, who bestows the reward of the tapas, recitation, performing of vrata, knowledge, recitation of the Vedas, performing of pujd, visiting of the sacred places and the performing of vratas besides fasting.

Whosoever has adored lord Krsna, would not be in need of the reward for performing his tapas. When one gets the kalpavrksa, then he no more requires the ordinary trees.

fHRT fg? gnffir #:i The one, in whose heart lord Krsna dwells, does not need to perform any deeds. The one, who has drunk the ocean, the digging of a well is of no consequence for him." Thus speaking, the Brahmanas returned to their respective abodes together with all the damsels and enjoyed their By enjoying their company, the Brahmanas were much more delighted as compared to their earlier enjoyment. But the truth about the excess of the same, the Brahmanas could not realise.

Thereafter, lord Krsna, accompanied by Balabhadra and other cowherds returned to their Thus I have narrated to you the best of the glory of the lord which I had heard in earlier times from the mouth of Dhanna. What else do you want to listen to?.

Narada said - O best of the sages, with the influence of whose merit, the Brahmana women achieved that stage which is inaccessible to the sages, yogis and siddhas.

What were the virtuous women in their earlier births and for what crime did they reach the earth? You kindly remove this doubt of mine.

Narayana said - These women happened to be the spouses of Saptarsis and were quite beautiful, virtuous, meek, religious-minded and chaste.

All of them were youthful with stiff breasts and developed pelvic region, clad in divine garments and adorned with gem-studded ornaments, having the complexion of molten gold, their faces resembled the full-blown lotus flowers and looked with side-glances, attracting the minds of even the great sages.

Looking at their beautiful breasts, the pelvic region and the face, the god of fire was infatuated with passion and desired for them.

Then the god of fire touched limb of beautiful women who were at the place of fire with the flames and fainted as a result thereof.

The damsels who were devoted, to their husbands could not know the trick. On the other hand the god of fire was infatuated with passion at the sight of their bodies.

Realising the mind of the god of fire, the sage Ahgira pronounced a curse on him saying, "You should consume everything thereafter.".

Regaining consciousness the god of fire prayed to the sage variously with his head cast down with shame and started trembling for fear of his eternal lustre.

The angry sage pronounced a curse on the damsels who were touched by Agni, that they should be bom as humans in the house of Brahmanas. They were to be married to Brahmanas of a high race.

On hearing the words of the sage the damsels started crying and with folded hands they spoke to the foremost of the learned persons.

The wives of the sages said - "O best of the sages, you have disowned us though we are sinless and chaste. We have been touched without our knowledge and as such you need not disown us.

It is not proper for you to punish your devotees like this. When shall we again look at your lotus-like feet?.

O sage, the disowning of a chaste lady by her husband is like cutting her into pieces with a sword or the falling of vajra or attacking with O virtuous sage, engrossed in Brahman, separating us from such a chaste husband like you, how shall we roam about on earth?.

O best of Brahmanas, in case we move on to the earth then when shall it be possible for us to return here. It is almost established that we shall not earn the sin of an act done by us p: jm: iraiSuiit^i Ahalya, after getting involved with Indra, was owned again by Gautama. She was purified even after enjoying sex with Indra but we on the other hand shall be disowned simply for the reason of being touched.

O religious one, being well-versed in the Vedas and post-Vedic literature, you just think over it. O best of the those well-versed in the Vedas, you happen to be the son of the creator of the universe.

Getting afraid of others a woman goes to her husband; where shall she take refuge?.

O religious one, you provide protection to us who are getting fearful. Everyone is competent enough to punish his son, pupils and the wife.

The owner of a commodity whether he is weak or strong, can sell it and no one else can On hearing the words of the damsels, the sage looked at their lotus-like faces and with his mind infatuated with love, he started crying.

Though he was welhversed in Vedic and post- Vedic literature, the best of the intellectuals and the yogis, he lost his senses, getting separated from his wives.

All the people were disturbed and felt gloomy, because of the separation; all of them were dumb found like puppets, looking at them, Ahgira, the sage, who was well-versed in the Vedic and post-Vedic literature, started lamenting. Thereafter he consulted his brothers and feeling grief-stricken, he spoke to the Ahgira said - I am going to tell you the truth which you please listen to. I have heard from the Vedas that one has to face the result of the deeds performed by him.

Actually the time for your association with me has come to an end. This is certain. After the end of the pleasure one does not have to enjoy the same. This has been ordained in the Vedas.

In the land of Bharata all the good or bad deeds are performed by the people and unless their rewards are faced, they do not get destroyed even after the lapse of hundreds of births.

The one who enjoys the wife of others, is considered to be a degraded one. He falls into the kalasutra hell till the age of the sun and the Such a woman is prevented from cooking food for the gods or the manes. Her husband even achieves a degraded position embracing her.

The gods and manes do not feel happy by the offerings made by her. This has been ordained by Therefore the intellectuals protect their wives with great efforts, otherwise the husband would become degraded and fall into the hell.

wfl ^ gtrfegjTi I I An intelligent person getting alert protects his wife at every step because a damsel attracts many blames unmindful of vratas or places.

Therefore, one should always protect the women and the cooking vases, because they get polluted with the touch of others and by the touch of her husband she always remains pure.

In case a degraded woman who disregarding her own husband, visits some other men, she falls into the kumbhlp&ka hell up to the life of the sun and the moon.

The messengers of Yama then throw her in another hell and if she wants to come out of it, she is punished with the strikes of rods.

The terrific insects of the size of snakes and having terrific fangs bite the degraded women continuously day and night.

TT T imi UH I^ I II Such a woman cries in pain but she does not die by the stroke because of her having an astral For a moment's pleasure on earth, she destroys her grace and also receives hostile treatment after death. The women who have been touched by some other person or desires for someone else, are also to be disowned; this had been ordained by Brahma.

Therefore the intellectuals have ordained that the women should be protected from the evil eye of others. Such of the women are considered to be quite chaste, who look at the sun through a TjrinfTRti I 11 The one, who roams about at will independently, is bom as a female pig. The wicked women who enjoy the company of others are indeed degraded in all respects.

The one who remains under the control of her husband because of the fear of the family tradition, indeed goes to Vaikuntha with her All of you should go to the earth and be bom in human race. Getting an audience with Sri Kfs na, you would get purified and achieve Goloka.

in ftsicgiTjTSSJifMbyp^ Lord Krsna would create your shadow body with the illusion of Yogamaya and would send them to your respective homes. Thereafter, you would all reach my place.

n: n?=nl nfgraar n Then again you would become my spouses; there is no doubt about it. This curse of mine would indeed be the more beneficial to you than Thus speaking, the sage got infatuated with grief and the damsels reached the earth, where they became the wives of the Brahmanas.

After serving the food to the lord, all of them reached Goloka and they were relieved of the curse. Thus they were benefited by the curse pronounced by the sage.

It is a curse to own the riches of a degraded person and it is a boon to have the curse of a noble person. The anger of the wise people bestows welfare in one way or the other.

Without coming face to face with the danger on earth who can achieve greatness? After having been disowned by the husband, the wives of the Brahmanas achieved salvation.

I have narrated to you the best of the stories of lord Krsna which includes the achieving of salvation by the virtuous women.

O best of the Brahmanas, the story of Krsna appears to be new at every step which does not fully satisfy the listeners. Who could be satisfied with the welfare?.

Whatever had been heard by me from the mouth of my teacher, the same has been related by me. Now what else do you want to listen to from me? You tell me what is desired by you.

Narada said - 0 compassionate one, O teacher of the universe, you kindly narrate to me the story of Sr! Krsna, whatever had been heard by you from your teacher, Suta said - On listening to the words of Narada, the great sage, the sage Narayana started narrating the sto^y of lord Krsna which bestows great merit.

Chapter-aligned complete witnesses. Sanskrit Wikisource revision 123094 (2017-09-26T02:36:42Z); Shanti Lal Nagar English scan pages n988–n998: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n988/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.