Skip to main content

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 8

Chapter 8

Unit 151 of 276Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 8Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 81 source entries

Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 8

Source

।। नारद उवाच ।। ।। जन्माष्टमीव्रतं ब्रूहि व्रतानां व्रतमुत्तमम् ।। फलं जयंतीयोगस्य सामान्येनैव सांप्रतम् ।। १ ।। को वा दोषोऽप्यकरणे भोजनो वा महामुने ।। उपवासफलं किं वा जयंत्यां च सुसंमतम् ।। २ ।। व्रतं पूजाविधानं च संयमस्य च सांप्रतम् ।। उपवासपारणयोः सुविचार्य वद प्रभो ।। ३ ।। ।। नारायण उवाच ।। ।। कृत्वा हविष्यं सप्तम्यां संयतः पारणे तथा ।। अरुणोदयवेलायां समुत्थाय परेऽहनि ।। ४ ।। प्रातःकृत्य संविधाय स्नात्वा संकल्पमाचरेत् ।। व्रतोपवासयोर्ब्रह्मञ्छ्रीकृष्णप्रीतिहेतुकम् ।। ५ ।। मन्वादिदिवसे प्राप्ते यत्फलं स्नानपूजनैः ।। फलं भाद्रपदेऽष्टम्यां भवेत्कोटिगुणं द्विज ।। ६ ।। तस्यां तिथौ वारिमात्रं पितॄणां यः प्रयच्छति ।। गयाश्राद्धं कृतं तेन शताब्दं नात्र संशयः ।। ७ ।। स्नात्वा नित्यक्रियां कृत्वा निर्माय सूतिकागृहम् ।। लोहखंडवह्निजालैर्युक्तं रक्षकसंघकैः।। ।। ८ ।। तत्र द्रव्यं बहुविधं नाभिच्छेदनकर्तनम् ।। धात्रीस्वरूपां नारीं च यत्नतः स्थापयेद्बुधः ।। ९ ।। पूजाद्रव्याणि चारूणि सोपचाराणि षोडश ।। फलान्यष्टौ च मिष्टानि द्रव्याण्येव हि नारद ।। 4.8.१० ।। जातीफलं च कंकोलं दाडिमं श्रीफलं तथा ।। नारिकेरं च जंबीरं कूष्मांडं च सुवाससम् ।। ११ ।। आसनं वसनं पाद्यं मधुपर्कं तथैव च ।। अर्घ्यमाचनीयं च स्नानीयं शयनं तथा ।।१२ ।। गंधं पुष्पं च नैवेद्यं तांबूलमनुलेपनम् ।। धूपदीपौ भूषणं वै चोपचारांश्च षोडश ।। १३ ।। पादप्रक्षालनं कृत्वा धृत्वा धौते च वाससी ।। आचम्य चासने स्थित्वा स्वस्तिवाचनपूर्वकम् ।। १४ ।। घटस्यारोपणं कृत्वा संपूज्य पंच देवताः ।। घटे ह्यावाहनं कृत्वा श्रीकृष्णं परमेश्वरम् ।। १५ ।। वसुदेवं देवकीं च यशोदां नंदमेव च ।। रोहिणीं बलदेवं च षष्ठीदेवीं वसुंधराम् ।। १६ ।। रोहिणीं ब्राह्मणीं चैव अष्टमीं स्थानदेवताम् ।। अश्वत्थाम्ना सह बलिं हनुमंतं विभीषणम् ।। १७ ।। कृपं परशुरामं च वेदव्यासं मृकंडकम् ।। सर्वस्यावाहनं कृत्वा ध्यानं कुर्याद्धरेस्तदा ।। १६ ।। पुष्पकं मस्तके न्यस्य पुनर्ध्यायेद्विचक्षणः ।। ध्यानं च सामवेदोक्तं शृणु वक्ष्यामि नारद ।। १९ ।। ब्रह्मणा कथितं पूर्वं कुमाराय महात्मने ।। 4.8.२० ।। बालं नीलांबुजाभमतिशयरुचिरं स्मेरवक्त्रांबुजं तं ब्रह्मेशानंतधर्मैः कतिकतिदिवसैः स्तूयमानं परं यत् ।। ध्यानासाध्यमृषीन्द्रैर्मुनिगणमनुजैः सिद्धसंघैरसाध्यं योगींद्राणामचिंत्यमतिशयमतुलं साक्षिरूपं भजेऽहम् ।। २१ ।। ध्यात्वा पुष्पं च दत्त्वा च तत्सर्वं च निवेदयेत् ।। एवं व्रती व्रतं कुर्याच्छृणु मंत्रक्रमं मुने ।। २२ ।। आसनं सर्वशोभाढ्यं सद्रत्नमणिनिर्मितम्।। विचित्रं च विचित्रेण गृह्यतां शोभनं हरे ।। २३ ।। वसनं वह्निशौचं च निर्मितं विश्वकर्मणा ।। प्रतप्तस्वर्णखचितं चित्रितं गृह्यतां हरे ।। २४ ।। पादप्रक्षालनार्थं च स्वर्णपात्रस्थितं जलम् ।। पवित्रं निर्मलं चारु पाद्यं च गृह्यतां हरे ।। २५ ।। मधुसर्पिर्दधिक्षीरं शर्करासंयुतं परम् ।। स्वर्णपात्रस्थितं देयं स्नानार्थं गृह्यतां हरे ।। २६ ।। दूर्वाक्षतं शुक्लपुष्पं स्वच्छतोयसमन्वितम् ।। चंदनागुरुकस्तूरीसहितं गृह्यतां हरे ।। २७ ।। सुस्वादु स्वच्छतोयं च वासितं गंधवस्तुना ।। शुद्धमाचमनीयं च गृह्यतां परमेश्वर ।। २८ ।। गंधद्रव्यसमायुक्तं विष्णो तैलं सुवासितम् ।। आमलक्या द्रवं चैव स्नानीयं गृह्यतां हरे ।। २९ ।। सद्रत्नमणिसारेण रचितां सुमनोहराम् ।। छादितां सूक्ष्मवस्त्रेण शय्यां च गृह्यतां हरे ।। 4.8.३० ।। चूर्णं च वृक्षभेदानां मूलानां द्रवसंयुतम् ।। कस्तूरीद्रवसंयुक्तं गन्धं च गृह्यतां हरे ।। ३१ ।। पुष्पं सुगंधियुक्तं च संयुक्तं कुंकुमेन च ।। सुप्रियं सर्वदेवानां सांप्रतं गृह्यतां हरे ।। ३२ ।। गृह्यतां स्वस्तिकोक्तं च मिष्टद्रव्यसमन्वितम् ।। सुपक्वफलसंयुक्तं नैवेद्यं गृह्यतां हरे ।। ३३ ।। लड्डुकं मोदकं चैव सर्पिः क्षीरं गुडं मधु ।। नवोद्धृतं दधि तक्रं नैवेद्यं गृह्यतां हरे ।। ३४ ।। शीतलं शर्करायुक्तं क्षीरस्वादुसुपक्वकम् ।। तांबूलं भोगसारं च कर्पूरादिसमन्वितम् ।। ३५ ।। भक्त्या निवेदितमिदं गृह्यतां परमेश्वर ।। चन्दनागुरु कस्तूरीकुंकुमद्रवसंयुतम् ।। ३६ ।। अबीरचूर्णं रुचिरं गृह्यतां परमेश्वर ।। तरुभेदरसोत्कर्षो गंधयुक्तोऽग्निना सह ।। ३७ ।। सुप्रियः सर्वदेवानां धूपोऽयं गृह्यतां हरे ।। घोरांधकारनाशैकहेतुरेव शुभावहः ।। ३८ ।। सुप्रदीपो दीप्तिकरो दीपोऽयं गृह्यतां हरे ।। पवित्रं निर्मलं तोयं कर्पूरादिसमायुतम् ।। ३९ ।। जीवनं सर्वबीजानां पानार्थं गृह्यतां हरे ।। नानापुष्पसमायुक्तं ग्रथितं सूक्ष्मतंतुना ।। 4.8.४० ।। शरीरभूषणवरं माल्यं च प्रतिगृह्यताम् ।। दत्त्वा देयानि द्रव्याणि पूजोपयोगितानि च ।। ४१ ।। व्रतस्थानस्थितं द्रव्यं हरये देयमेव च ।। फलानि तरुबीजानि स्वादूनि सुंदराणि च ।। ४२ ।। वंशवृद्धिकराण्येव गृह्यतां परमेश्वर ।। आवाहितांश्च देवांश्च प्रत्येकं पूजयेद्व्रती ।। ४३ ।। तान्पूज्य भक्तिभावेन दद्यात्पुष्पांजलित्रयम् ।। सुनंदनंदकुमुदान्गोपान्गोपीश्च राधिकाम् ।। ४४ ।। गणेशं कार्त्तिकेयं च ब्रह्माणं च शिवं शिवाम् ।। लक्ष्मीं सरस्वतीं चैव दिक्पालांश्च ग्रहांस्तथा ।। ४५ ।। शेषं सुदर्शनं चैव पार्षदप्रवरांस्तथा।। सम्पूज्य सर्वदेवांश्च प्रणम्य दंडवद्भुवि ।। ब्राह्मणेभ्यश्च नैवेद्यं दत्त्वा दद्याच्च दक्षिणाम् ।। ४६ ।। कथां च जन्माध्यायोक्तां शृणुयाद्भक्ति भावतः ।। तदा कुशासने स्थित्वा कुर्याज्जागरणं व्रती ।। ४७ ।। प्रभाते चाह्निकं कृत्वा संपूज्य श्रीहरिं मुदा ।। ब्राह्मणान्भोजयित्वा च कारयेद्धरिकीर्तनम् ।। ४८ ।। ।। नारद उवाच ।। ।। व्रतकालव्यवस्थां च वेदोक्तां सर्वसंमताम् ।। वेदार्थं च समालोच्य संहितां च पुरातनीम् ।।४९।। उपवासे जागरणे व्रते किं वा फलं मुने ।। किं वा पापं तत्र भुक्त्वा वद वेदविदां वर ।।4.8.५० ।। ।। श्रीनारायण उवाच ।। ।। अष्टमी कर्क्षसंयुक्ता रात्र्यर्थे यदि दृश्यते ।। स एव मुख्यकालश्च तत्र जातः स्वयं हरिः ।। ५१ ।। जयं पुण्यं च कुरुते जयंती तेन संस्मृता ।। तत्रोपोष्य व्रतं कृत्वा कुर्याज्जागरणं बुधः ।। ५२ ।। सर्वापवादः कालोऽयं प्रधानः सर्वसंमतः ।। इति वेदविदां वाणी चेत्युक्ता वेधसा पुरा ।। ५३ ।। तत्र जागरणं कृत्वा यश्चोपोष्य व्रतं चरेत् ।। कोटिजन्मार्जितात्पापान्मुच्यते नात्र संशयः ।। ५४ ।। वर्जनीया प्रयत्नेन सप्तमीसहिताष्टमी ।। सा सर्क्षापि न कर्तव्या सप्तमीसहिताष्टमी ।। अविद्धायां कऋक्षायां जातो देवकिनंदनः ।। ५५ ।। वेदवेदांगगुप्तेतिविशिष्टं मंगलक्षणे ।। व्यतीते रोहिणीऋक्षे व्रती कुर्याच्च पारणाम् ।। ५६ ।। तिथ्यंते च हरिं स्मृत्वा कृत्वा देवार्चनं व्रती। ।। पारणं पावनं पुंसां सर्वपापप्रणाशनम् ।। ५७ ।। उपवासांगभूतं च फलदं सिद्धिकारणम् ।। सर्वेष्वेवोपवासेषु दिवा पारणमिष्यते ।। ५८ ।। अन्यथा फलहानिः स्यात्कृते धारणपारणे।। न रात्रौ पारणं कुर्यादृते वै रोहिणीव्रतात् ।।५९।। निशायां पारणं कुर्याद्वर्जयित्वा महानिशाम् ।। पूर्वाह्णे पारणं शस्तं कृत्वा विप्रसुरार्चनम् ।। 4.8.६० ।। सर्वेषां संमतं कुर्यादृते वै रोहिणी व्रतम् ।। बुधसोमसमायुक्ता जयंती यदि लभ्यते ।।६१।। न कुर्याद्गर्भवासं च तत्र कृत्वा व्रतं व्रती ।। उदये चाष्टमी किंचिन्नवमी सकला यदि ।। ६२ ।। भवेद्बुधेंदुसंयुक्ता प्राजापत्यर्क्षसंयुता ।। अपिवर्षशतेनापि लभ्यते वा न लभ्यते ।। ६३ ।। व्रतं तत्र व्रती कुर्यात्पुंसां कोटिं समुद्धरेत् ।। नृणां विना व्रतेनापि भक्तानां हीनसंपदाम् ।। ६४ ।। कृतेनैवोपवासेन प्रीतो भवति माधवः ।। भक्त्या नानोपचारेण रात्रौ जागरणेन च ।। ६५ ।। फलं ददाति दैत्यारिर्जयन्तीव्रतसंभवम् ।। वित्तशाठ्यमकुर्वाणः सम्यक्फलमवाप्नुयात् ।।६६।। कुर्वाणो वित्तशाठ्यं च लभते सदृशं फलम् ।। अष्टम्यामथ रोहिण्यां न कुर्यात्पारणं बुधः ।। ६७ ।। हन्यात्पुराकृतं पुण्यं चोपवासार्जितं फलम् ।। तिथिरष्टगुणं हंति नक्षत्रं च चतुर्गुणम् ।। ६८ ।। तस्मात्प्रयत्नतः कुर्यात्तिथिभांते च पारणम् ।। महानिशायां प्राप्तायां तिथिभांतं यदा भवेत् ।। ६९ ।। तृतीयेऽह्नि मुनिश्रेष्ठ पारणं कुरुते बुधः ।। षण्मुहूर्ते व्यतीते तु रात्रावेव महानिशा ।। 4.8.७० ।। लभते ब्रह्महत्यां च तत्र भुक्त्वा च नारद ।। गोमांसविण्मूत्रसमं तांबूलं च फलं जलम् ।। ७१ ।। पुंसामभक्ष्यं शुद्धानामोदनस्य च का कथा ।। त्रियामां रजनी प्राहुस्त्यक्त्वाद्य च चतुष्टयम् ।। ७२ ।। नाडीनां तदुभे सन्ध्ये दिवसाद्यंतसंज्ञिते ।। जन्माष्टम्यां च शुद्धायां कृत्वा जागरणं व्रतम् ।। ७५ ।। शतजन्मकृतात्पापान्मुच्यते नात्र संशयः ।। जन्माष्टम्यां च शुद्धायामुपोष्य केवलं नरः ।। ७४ ।। अश्वमेधफलं तस्य व्रतं जागरणं विना ।। यद्बाल्ये यच्च कौमारे यौवने यच्च वार्धके ।। ७५ ।। सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः ।। श्रीकृष्णजन्मदिवसे यश्च भुक्तं नराधमः ।। ७६ ।। स भवेन्मातृगामी च ब्रह्महत्याशतं लभेत् ।। कोटिजन्मार्जितं पुण्यं तस्य नश्यति निश्चितम् ।। ७७ ।। अनर्हश्चाशुचिः शश्वद्दैवे पित्र्ये च कर्मणि ।। अन्ते वसेत्कालसूत्रे यावच्चंद्रदिवाकरौ ।। ७८ ।। कृमिभिः शूलतुल्यैश्च तीक्ष्णदंष्ट्रैश्च भक्षितः ।। पापी ततः समुत्थाय भारते जन्म चेल्लभेत् ।। ७९ ।। षष्टिवर्षसहस्राणि विष्ठायां च कृमिर्भवेत् ।। गृध्रकोटिसहस्राणि शतजन्मानि सूकरः ।। 4.8.८० ।। श्वापदः शतजन्मानि सृगालः सप्त जन्म च ।। सप्तजन्मसु सर्पश्च काकश्च सप्तजन्मसु ।। ८१ ।। ततो भवेन्नरो मूको गलत्कुष्ठी सदातुरः ।। ततो भवेत्पशुघ्नश्च व्यालग्राही ततो भवेत् ।। ८२ ।। तदंते च भवेद्दस्युर्धर्महीनश्च गृध्रकः ।। ततो भेवत्स रजकस्तैलकारस्ततो भवेत् ।। ८३ ।। ततो भवेद्देवलको ब्राह्मणश्च सदाऽशुचिः ।। उपवासासमर्थश्चेदेकं विप्रं च भोजयेत् ।। ८४ ।। तावद्धनानि वा दद्याद्यद्भुक्तं द्विगुणं भवेत् ।। सहस्रसंमितां देवीं जपेद्वा प्राणसंयमान् ।। ।। ८५ ।। कुर्याद्द्वादशसंख्याकान्यथार्थं तद्व्रते नरः ।। इत्येवं कथितं वत्स श्रुतं यद्धर्मवक्त्रतः ।। व्रतोपवासपूजानां विधानमकृते च यत् ।। ८६ ।। इति श्रीब्रह्मवैवर्ते महापुराणे नारायणनारदसंवादे श्रीकृष्णजन्मखण्डे कृष्णजन्माष्टमीव्रतपूजोपवासनिरूपणं नामा ष्टमोऽध्यायः ।। ८ ।।

|| nārada uvāca || || janmāṣṭamīvrataṃ brūhi vratānāṃ vratamuttamam || phalaṃ jayaṃtīyogasya sāmānyenaiva sāṃpratam || 1 || ko vā doṣo'pyakaraṇe bhojano vā mahāmune || upavāsaphalaṃ kiṃ vā jayaṃtyāṃ ca susaṃmatam || 2 || vrataṃ pūjāvidhānaṃ ca saṃyamasya ca sāṃpratam || upavāsapāraṇayoḥ suvicārya vada prabho || 3 || || nārāyaṇa uvāca || || kṛtvā haviṣyaṃ saptamyāṃ saṃyataḥ pāraṇe tathā || aruṇodayavelāyāṃ samutthāya pare'hani || 4 || prātaḥkṛtya saṃvidhāya snātvā saṃkalpamācaret || vratopavāsayorbrahmañchrīkṛṣṇaprītihetukam || 5 || manvādidivase prāpte yatphalaṃ snānapūjanaiḥ || phalaṃ bhādrapade'ṣṭamyāṃ bhavetkoṭiguṇaṃ dvija || 6 || tasyāṃ tithau vārimātraṃ pitṝṇāṃ yaḥ prayacchati || gayāśrāddhaṃ kṛtaṃ tena śatābdaṃ nātra saṃśayaḥ || 7 || snātvā nityakriyāṃ kṛtvā nirmāya sūtikāgṛham || lohakhaṃḍavahnijālairyuktaṃ rakṣakasaṃghakaiḥ|| || 8 || tatra dravyaṃ bahuvidhaṃ nābhicchedanakartanam || dhātrīsvarūpāṃ nārīṃ ca yatnataḥ sthāpayedbudhaḥ || 9 || pūjādravyāṇi cārūṇi sopacārāṇi ṣoḍaśa || phalānyaṣṭau ca miṣṭāni dravyāṇyeva hi nārada || 4.8.10 || jātīphalaṃ ca kaṃkolaṃ dāḍimaṃ śrīphalaṃ tathā || nārikeraṃ ca jaṃbīraṃ kūṣmāṃḍaṃ ca suvāsasam || 11 || āsanaṃ vasanaṃ pādyaṃ madhuparkaṃ tathaiva ca || arghyamācanīyaṃ ca snānīyaṃ śayanaṃ tathā ||12 || gaṃdhaṃ puṣpaṃ ca naivedyaṃ tāṃbūlamanulepanam || dhūpadīpau bhūṣaṇaṃ vai copacārāṃśca ṣoḍaśa || 13 || pādaprakṣālanaṃ kṛtvā dhṛtvā dhaute ca vāsasī || ācamya cāsane sthitvā svastivācanapūrvakam || 14 || ghaṭasyāropaṇaṃ kṛtvā saṃpūjya paṃca devatāḥ || ghaṭe hyāvāhanaṃ kṛtvā śrīkṛṣṇaṃ parameśvaram || 15 || vasudevaṃ devakīṃ ca yaśodāṃ naṃdameva ca || rohiṇīṃ baladevaṃ ca ṣaṣṭhīdevīṃ vasuṃdharām || 16 || rohiṇīṃ brāhmaṇīṃ caiva aṣṭamīṃ sthānadevatām || aśvatthāmnā saha baliṃ hanumaṃtaṃ vibhīṣaṇam || 17 || kṛpaṃ paraśurāmaṃ ca vedavyāsaṃ mṛkaṃḍakam || sarvasyāvāhanaṃ kṛtvā dhyānaṃ kuryāddharestadā || 16 || puṣpakaṃ mastake nyasya punardhyāyedvicakṣaṇaḥ || dhyānaṃ ca sāmavedoktaṃ śṛṇu vakṣyāmi nārada || 19 || brahmaṇā kathitaṃ pūrvaṃ kumārāya mahātmane || 4.8.20 || bālaṃ nīlāṃbujābhamatiśayaruciraṃ smeravaktrāṃbujaṃ taṃ brahmeśānaṃtadharmaiḥ katikatidivasaiḥ stūyamānaṃ paraṃ yat || dhyānāsādhyamṛṣīndrairmunigaṇamanujaiḥ siddhasaṃghairasādhyaṃ yogīṃdrāṇāmaciṃtyamatiśayamatulaṃ sākṣirūpaṃ bhaje'ham || 21 || dhyātvā puṣpaṃ ca dattvā ca tatsarvaṃ ca nivedayet || evaṃ vratī vrataṃ kuryācchṛṇu maṃtrakramaṃ mune || 22 || āsanaṃ sarvaśobhāḍhyaṃ sadratnamaṇinirmitam|| vicitraṃ ca vicitreṇa gṛhyatāṃ śobhanaṃ hare || 23 || vasanaṃ vahniśaucaṃ ca nirmitaṃ viśvakarmaṇā || prataptasvarṇakhacitaṃ citritaṃ gṛhyatāṃ hare || 24 || pādaprakṣālanārthaṃ ca svarṇapātrasthitaṃ jalam || pavitraṃ nirmalaṃ cāru pādyaṃ ca gṛhyatāṃ hare || 25 || madhusarpirdadhikṣīraṃ śarkarāsaṃyutaṃ param || svarṇapātrasthitaṃ deyaṃ snānārthaṃ gṛhyatāṃ hare || 26 || dūrvākṣataṃ śuklapuṣpaṃ svacchatoyasamanvitam || caṃdanāgurukastūrīsahitaṃ gṛhyatāṃ hare || 27 || susvādu svacchatoyaṃ ca vāsitaṃ gaṃdhavastunā || śuddhamācamanīyaṃ ca gṛhyatāṃ parameśvara || 28 || gaṃdhadravyasamāyuktaṃ viṣṇo tailaṃ suvāsitam || āmalakyā dravaṃ caiva snānīyaṃ gṛhyatāṃ hare || 29 || sadratnamaṇisāreṇa racitāṃ sumanoharām || chāditāṃ sūkṣmavastreṇa śayyāṃ ca gṛhyatāṃ hare || 4.8.30 || cūrṇaṃ ca vṛkṣabhedānāṃ mūlānāṃ dravasaṃyutam || kastūrīdravasaṃyuktaṃ gandhaṃ ca gṛhyatāṃ hare || 31 || puṣpaṃ sugaṃdhiyuktaṃ ca saṃyuktaṃ kuṃkumena ca || supriyaṃ sarvadevānāṃ sāṃprataṃ gṛhyatāṃ hare || 32 || gṛhyatāṃ svastikoktaṃ ca miṣṭadravyasamanvitam || supakvaphalasaṃyuktaṃ naivedyaṃ gṛhyatāṃ hare || 33 || laḍḍukaṃ modakaṃ caiva sarpiḥ kṣīraṃ guḍaṃ madhu || navoddhṛtaṃ dadhi takraṃ naivedyaṃ gṛhyatāṃ hare || 34 || śītalaṃ śarkarāyuktaṃ kṣīrasvādusupakvakam || tāṃbūlaṃ bhogasāraṃ ca karpūrādisamanvitam || 35 || bhaktyā niveditamidaṃ gṛhyatāṃ parameśvara || candanāguru kastūrīkuṃkumadravasaṃyutam || 36 || abīracūrṇaṃ ruciraṃ gṛhyatāṃ parameśvara || tarubhedarasotkarṣo gaṃdhayukto'gninā saha || 37 || supriyaḥ sarvadevānāṃ dhūpo'yaṃ gṛhyatāṃ hare || ghorāṃdhakāranāśaikahetureva śubhāvahaḥ || 38 || supradīpo dīptikaro dīpo'yaṃ gṛhyatāṃ hare || pavitraṃ nirmalaṃ toyaṃ karpūrādisamāyutam || 39 || jīvanaṃ sarvabījānāṃ pānārthaṃ gṛhyatāṃ hare || nānāpuṣpasamāyuktaṃ grathitaṃ sūkṣmataṃtunā || 4.8.40 || śarīrabhūṣaṇavaraṃ mālyaṃ ca pratigṛhyatām || dattvā deyāni dravyāṇi pūjopayogitāni ca || 41 || vratasthānasthitaṃ dravyaṃ haraye deyameva ca || phalāni tarubījāni svādūni suṃdarāṇi ca || 42 || vaṃśavṛddhikarāṇyeva gṛhyatāṃ parameśvara || āvāhitāṃśca devāṃśca pratyekaṃ pūjayedvratī || 43 || tānpūjya bhaktibhāvena dadyātpuṣpāṃjalitrayam || sunaṃdanaṃdakumudāngopāngopīśca rādhikām || 44 || gaṇeśaṃ kārttikeyaṃ ca brahmāṇaṃ ca śivaṃ śivām || lakṣmīṃ sarasvatīṃ caiva dikpālāṃśca grahāṃstathā || 45 || śeṣaṃ sudarśanaṃ caiva pārṣadapravarāṃstathā|| sampūjya sarvadevāṃśca praṇamya daṃḍavadbhuvi || brāhmaṇebhyaśca naivedyaṃ dattvā dadyācca dakṣiṇām || 46 || kathāṃ ca janmādhyāyoktāṃ śṛṇuyādbhakti bhāvataḥ || tadā kuśāsane sthitvā kuryājjāgaraṇaṃ vratī || 47 || prabhāte cāhnikaṃ kṛtvā saṃpūjya śrīhariṃ mudā || brāhmaṇānbhojayitvā ca kārayeddharikīrtanam || 48 || || nārada uvāca || || vratakālavyavasthāṃ ca vedoktāṃ sarvasaṃmatām || vedārthaṃ ca samālocya saṃhitāṃ ca purātanīm ||49|| upavāse jāgaraṇe vrate kiṃ vā phalaṃ mune || kiṃ vā pāpaṃ tatra bhuktvā vada vedavidāṃ vara ||4.8.50 || || śrīnārāyaṇa uvāca || || aṣṭamī karkṣasaṃyuktā rātryarthe yadi dṛśyate || sa eva mukhyakālaśca tatra jātaḥ svayaṃ hariḥ || 51 || jayaṃ puṇyaṃ ca kurute jayaṃtī tena saṃsmṛtā || tatropoṣya vrataṃ kṛtvā kuryājjāgaraṇaṃ budhaḥ || 52 || sarvāpavādaḥ kālo'yaṃ pradhānaḥ sarvasaṃmataḥ || iti vedavidāṃ vāṇī cetyuktā vedhasā purā || 53 || tatra jāgaraṇaṃ kṛtvā yaścopoṣya vrataṃ caret || koṭijanmārjitātpāpānmucyate nātra saṃśayaḥ || 54 || varjanīyā prayatnena saptamīsahitāṣṭamī || sā sarkṣāpi na kartavyā saptamīsahitāṣṭamī || aviddhāyāṃ kaṛkṣāyāṃ jāto devakinaṃdanaḥ || 55 || vedavedāṃgaguptetiviśiṣṭaṃ maṃgalakṣaṇe || vyatīte rohiṇīṛkṣe vratī kuryācca pāraṇām || 56 || tithyaṃte ca hariṃ smṛtvā kṛtvā devārcanaṃ vratī| || pāraṇaṃ pāvanaṃ puṃsāṃ sarvapāpapraṇāśanam || 57 || upavāsāṃgabhūtaṃ ca phaladaṃ siddhikāraṇam || sarveṣvevopavāseṣu divā pāraṇamiṣyate || 58 || anyathā phalahāniḥ syātkṛte dhāraṇapāraṇe|| na rātrau pāraṇaṃ kuryādṛte vai rohiṇīvratāt ||59|| niśāyāṃ pāraṇaṃ kuryādvarjayitvā mahāniśām || pūrvāhṇe pāraṇaṃ śastaṃ kṛtvā viprasurārcanam || 4.8.60 || sarveṣāṃ saṃmataṃ kuryādṛte vai rohiṇī vratam || budhasomasamāyuktā jayaṃtī yadi labhyate ||61|| na kuryādgarbhavāsaṃ ca tatra kṛtvā vrataṃ vratī || udaye cāṣṭamī kiṃcinnavamī sakalā yadi || 62 || bhavedbudheṃdusaṃyuktā prājāpatyarkṣasaṃyutā || apivarṣaśatenāpi labhyate vā na labhyate || 63 || vrataṃ tatra vratī kuryātpuṃsāṃ koṭiṃ samuddharet || nṛṇāṃ vinā vratenāpi bhaktānāṃ hīnasaṃpadām || 64 || kṛtenaivopavāsena prīto bhavati mādhavaḥ || bhaktyā nānopacāreṇa rātrau jāgaraṇena ca || 65 || phalaṃ dadāti daityārirjayantīvratasaṃbhavam || vittaśāṭhyamakurvāṇaḥ samyakphalamavāpnuyāt ||66|| kurvāṇo vittaśāṭhyaṃ ca labhate sadṛśaṃ phalam || aṣṭamyāmatha rohiṇyāṃ na kuryātpāraṇaṃ budhaḥ || 67 || hanyātpurākṛtaṃ puṇyaṃ copavāsārjitaṃ phalam || tithiraṣṭaguṇaṃ haṃti nakṣatraṃ ca caturguṇam || 68 || tasmātprayatnataḥ kuryāttithibhāṃte ca pāraṇam || mahāniśāyāṃ prāptāyāṃ tithibhāṃtaṃ yadā bhavet || 69 || tṛtīye'hni muniśreṣṭha pāraṇaṃ kurute budhaḥ || ṣaṇmuhūrte vyatīte tu rātrāveva mahāniśā || 4.8.70 || labhate brahmahatyāṃ ca tatra bhuktvā ca nārada || gomāṃsaviṇmūtrasamaṃ tāṃbūlaṃ ca phalaṃ jalam || 71 || puṃsāmabhakṣyaṃ śuddhānāmodanasya ca kā kathā || triyāmāṃ rajanī prāhustyaktvādya ca catuṣṭayam || 72 || nāḍīnāṃ tadubhe sandhye divasādyaṃtasaṃjñite || janmāṣṭamyāṃ ca śuddhāyāṃ kṛtvā jāgaraṇaṃ vratam || 75 || śatajanmakṛtātpāpānmucyate nātra saṃśayaḥ || janmāṣṭamyāṃ ca śuddhāyāmupoṣya kevalaṃ naraḥ || 74 || aśvamedhaphalaṃ tasya vrataṃ jāgaraṇaṃ vinā || yadbālye yacca kaumāre yauvane yacca vārdhake || 75 || saptajanmakṛtātpāpānmucyate nātra saṃśayaḥ || śrīkṛṣṇajanmadivase yaśca bhuktaṃ narādhamaḥ || 76 || sa bhavenmātṛgāmī ca brahmahatyāśataṃ labhet || koṭijanmārjitaṃ puṇyaṃ tasya naśyati niścitam || 77 || anarhaścāśuciḥ śaśvaddaive pitrye ca karmaṇi || ante vasetkālasūtre yāvaccaṃdradivākarau || 78 || kṛmibhiḥ śūlatulyaiśca tīkṣṇadaṃṣṭraiśca bhakṣitaḥ || pāpī tataḥ samutthāya bhārate janma cellabhet || 79 || ṣaṣṭivarṣasahasrāṇi viṣṭhāyāṃ ca kṛmirbhavet || gṛdhrakoṭisahasrāṇi śatajanmāni sūkaraḥ || 4.8.80 || śvāpadaḥ śatajanmāni sṛgālaḥ sapta janma ca || saptajanmasu sarpaśca kākaśca saptajanmasu || 81 || tato bhavennaro mūko galatkuṣṭhī sadāturaḥ || tato bhavetpaśughnaśca vyālagrāhī tato bhavet || 82 || tadaṃte ca bhaveddasyurdharmahīnaśca gṛdhrakaḥ || tato bhevatsa rajakastailakārastato bhavet || 83 || tato bhaveddevalako brāhmaṇaśca sadā'śuciḥ || upavāsāsamarthaścedekaṃ vipraṃ ca bhojayet || 84 || tāvaddhanāni vā dadyādyadbhuktaṃ dviguṇaṃ bhavet || sahasrasaṃmitāṃ devīṃ japedvā prāṇasaṃyamān || || 85 || kuryāddvādaśasaṃkhyākānyathārthaṃ tadvrate naraḥ || ityevaṃ kathitaṃ vatsa śrutaṃ yaddharmavaktrataḥ || vratopavāsapūjānāṃ vidhānamakṛte ca yat || 86 || iti śrībrahmavaivarte mahāpurāṇe nārāyaṇanāradasaṃvāde śrīkṛṣṇajanmakhaṇḍe kṛṣṇajanmāṣṭamīvratapūjopavāsanirūpaṇaṃ nāmā ṣṭamo'dhyāyaḥ || 8 ||

English translation

The fasting of Janma$tnii and the merit of the same Narada said-In all the vratas Janmastaml-vmto is considered to be the best of all. You kindly let me know the result of the combination of Jayantl with the same.

O great sage, you kindly let me know the sin earned by not performing the vrata or by eating something on that day. What is the reward for fasting at the time of Jayantl.

O lord, your kindly enlighten me on the vrata, the method of adoration, the discipline the fasting and ending of the fast quite carefully.

O BrShamana, by performing the vrata on the eight day of the black fortnight, one gets the merit of crores of times more than one could ordinary get for performing ordinary vratas.

On that particular day whosoever offers simple water to the a man is equated with performing of the sraddha at Gaya for a hundred years. There is no doubt about it.

After taking the bath and getting free from the daily routine, one should build up a labour-room in which the iron, the sword, fire, the attendant and various types of materials should be kept, besides the scissors, and a mid-wife. O Neared, after performing sixteen type of pujd one should provide eight types of beautiful fruits, seeds, beverages, nutmeg, kamkola, pomegranate, wood apple. Coconut, lemon, melon, best of costumes, asana, clothes, water madhuparka^ arghya^ water for sipping, water for bathing, the bed, fragrance, flowers, naivedya, betel, fragrant paste, incense and ornament. These are the items meant for use in the sixteen type of adoration.

Thereafter washing the feet, wearing clean costumes, one should be seated on the dsana^ sipping the water at the same time. Thereafter reciting svastivdcana^ the pitcher should be consecrated adoring other gods at the same time.

Lord Krsna should be invoked in the pitcher water. Thereafter all the gods including Baladeva, goddess SasthI, earth goddes, a Brahmana lady, astaml, local god, Asvatthama, Parasurama, Vedavyasa and Markandeya should also be invoked. Placing the flowers on the head, the devotees should performed dhydnam, O Narada, 1 am going to enlighten you about the dhydnam which has been prescribed in the Sdmaveda. You listen to it. In the earlier time the same was told by Brahma to the great sage I adore Balamukunda who had the complexion of blue lotus flower and is extremely beautiful and who bears a serene smile always over his face. Brahma, Siva, Sesa and Dharma always adore him, he cannot be achieved by dhydnam alone. And is also beyond the reach of the best of sages, the siddhas and the human being. He is beyond the comprehension even of the great yogis. He happens to be best of all and is the witness of everyone.

O sage, thus meditating upon, one should offer the flowers to him. Thus the devotee should perform the vrata. Now I am going to recite the mantra of same, you please listen to me. O lord Hari, you posses all the glory. You kindly accept the dsana which is studded with the best of gems, jewels and decorated the flowers and I O Hari, I offer the costumes which are pure I like the fire, created by Visvakarma and are I beautifully woven like the gold.

O Hari, you kindly accept the pure water contained in the vase of gold with the spotless water for the sake of cleaning of the feet.

O Hari, I offer you the honey, the curd, milk and sugar combined in a vase for the purpose, you are taking the bath.

O Hari, I offer Dwrvd-grass, rice, white flower, sandal-paste, aguru, kasturl mixed in the water and arghya.

O Paramesvara, I offer the tasteful and fragrant water for sipping.

O Visnu, you kindly accept the fragrant material besides the fragrant oil mixed with the juice of myrobalan for taking bath.

O Hari, you kindly accept this bed which has been built with the best of gems and covered with fine silken cloth.

O Hari, you accept this fragrance which is mixed with the powder of many trees and their O Hari, I offer you the fragrant flowers together with saffron which are liked by all the O Hari, I offer you the sweets and the naivedya together with the beautiful ripe fruits.

O Hari, I offer you the sweet balls, modakas, and ghee, milk raw-sugar {guda\ honey, fresh curd and butter milk as naivedya, O great lord, I offer you the tasteful milk in which the sugar has been mixed and is quite cold. I also offer the betel with devotion which contains camphor and other fragrant materials.

O Paramesvara, you kindly accept the paste consisting of sandal-paste, aguru, kasturi, saffron for apparition on the body.

O Hari, I offer the gum which has been extracted from various types of trees mixed with many fragrant material and is liked by all the gods as incense.

I offer you the lamp which is the form of light and removes all the darkness from the world you kindly accept it.

O Hari, you accept this water for drinking which is quite pure, spotless, sanctified by camphor and happens to be the life of all the creatures. You kindly accept it.

You kindly accept this garland of flowers which has been made from various flowers and has been sewed in the fine cord and serves as an ornament over the body. All other material be offered and all the materials collected for the lord should for adoration should also be offered to O best of the lords, you kindly aceept these fruits whieh are quite tasteful, beautiful and increase the progeny.

Similarly all the gods who are invoked should also be adored. All the gods should be adored with devotion and thereafter three hand-cups filled with flower should be offered.

Thereafter the cowherds named Sunanda, Nanda, Kumuda and the cowherdesses named Radhika should also be adored together with ml, SarasvatT, Dikpalas, nine planet and Sesa, Sudarsana and the attendants of the gods. One should offer reverence to them prostrating before them. Thereafter, Brahmana should be served with naivedya and daksind.

Thereafter one should listen to the story narrated in the chapter of birth. On that very night, the devotee should remain seated on the seat of kusd remaining awake for the night.

Early in the morning getting free from the daily routine, one should adore the lord with a pleasant mind and serve food to the Brahmanas reciting the name of Hari.

Narada said- O sage, you are the best among those well versed in the Vedas. You kindly let me know the merit one achieves after performing the vrata as prescribed in the Vedas, remaining awake and by serving food to the Brahmanas.

You kindly tell me the same.

Narayana said- At the dead of night, the eighth day of the moon, in the RohinI constellation is considered to be the time for the birth of lord The one who performs vrata at that time, becomes victorious besides achieving merit. That is why it has been termed as JayantI also, the intellectual should perform vrata keeping himself awake. This is the time without controversy and is agreed to by all. This is prescribed by those well versed in the Vedas. In the earlier times, it was so proclaimed by Brahma.

The one who keeps himself awake performing the vratUy he is relieved of all the sins earned by him during crores of births and achieves salvation. There is no doubt it.

When Saptami and Astami are combined one should not perform the vrata during that time even when the RohinI constellation is there.

Because lord Krsna the son of DevakI appeared in the unimpaired RohinI constellation.

This particular knowledge is not available in the Vedas and the post-Vedic literature in spite of its being quite of welfare nature and is quite secret. One should break the fast after the RohinI constellation is over at the end of the Astami- tithi. One should adore the lord with devotion and thereafter should break the fast which removes all the sins of the humans and is the part of the vrata and fasting it results in welfare and In all types of fasting, one should end the fast during the day alone because if one does it otherwise, the merit of the vrata is lost.

Except the RohinI vrata, the fast should not be broken during the night, even if someone breaks the fast in the night but he should never do it on After adoring the Brahmanas and the gods, one should break the fast in the forenoon. The fast should be broken after consulting all except the vrata of RohinI.

When the JayantI falls on Monday or Wednesday and if one performs vrata on that day he was never to be bom again.

vjgfg tngg: 11 ^ m I When Astaml is there at the time of day break and during rest of the period, the NavamHithis is there and RohinI Nakstra also is combined with Monday of Wednesday, such a type of combination is achieved after hundreds of years but the one who performs vrata during that period crores of his generations are redeemed.

Such of the people who are poor can achieve all the merits by observing the fast alone and the lord get pleased with them. One should adore the lord with a mind filled with devotion remaining awake during the night and the lord bestows the reward of performing Jayantl-vrata to them. At that point of time, whosoever gives away in charity-without getting miser, he gets the best of the reward. The one who behaves miserly he achieves the reward only in fraction.

If an intellectual is unable to break the fast on the day of Astami in RohinI constellation, he loses the merit of the fasting performed by him even in earlier births.

The tithis destroy the merit to eight times and the constellation deprive a person of the merit four times. Therefore one should try to end the fast by the close of the tithis or the constellation.

O best of the sage, in the case the tithis end at Mahdnisd beside the constellation, in that case the intellectual should break the fast on the third O Narada, after the passing of six muMrtas, the time of Mahdnisd arrives in the night. The one who takes food during that period earns the sin of Brahmahatyd.

The betel, fruits and water offered by him turn into the flesh of cow, refuse and the urine. At that point of time even the best of the food for the humans becomes unfit for consumption, then what to speak of the boiled rice.

Leaving aside the four dan^as of the beginning and the end, the period of night in between them is called Triydmd, before and end of the night there are two sandhyds (day break and evening). Out of these, one is called the day break and the other the evening. By performing the auspicious Janmdsfmi-vrata and remaining awake, a person is relieved of the sin of a hundred births. There is no doubt about it.

At the time of fasting during the auspicious one achieves the merit of performing the Asvamedha sacrifice. Without remaining awake and by performing only the vrata, one is relieved of the sins performed by him during childhood, teen-age, young age, and old age. There is no doubt about it.

Those who consume food during the birthday of Krsna earn the sin of enjoying the company of their mothers and besides earning the sin of crores of their earlier births, they are considered to be unfit for performing religious ceremony for the gods and the manes and have to remain in the kdlasutra hell, till the sun and the moon last. The insect with sharp teeth bite them daily in hell.

Thereafter getting redeemed they are reborn in the land of BhSrata and serve as a cowherds for sixty thousands crores of years, a pig for hundred births, wild animal for hundred births, a jackal for seven births, a snake for seven births, a crow for seven births, and a deaf and dumb person suffering from leprosy. He always remains anxious thereafter. He is there bom as an animal, a wild animal, a snake charmer, a thief, a vulture, a washerman and blacksmith and thereafter he is bom as a temple priest.

If anyone is unable to perfonn the fasting, one should serve food to a Brahmana, besides giving him the money which should suffice for him to Thereafter, he should recite the Gdyatri- mantra a thousand times performing Prdndydma, in this vrata one should recite the mantra twelve I had heard this from the mouth of Dharma and the same has been narrated by me to you and I have also told you the fault one earns for not observing the same.

Chapter-aligned complete witnesses. Sanskrit Wikisource revision 122533 (2017-09-19T02:26:13Z); Shanti Lal Nagar English scan pages n898–n905: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n898/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.