Śrī Kṛṣṇa-janma-khaṇḍa · Chapter 5
Sourceश्रीनारायण उवाच ।। गोलोकं निखिलं दृष्ट्वा देवास्ते हृष्टमानसाः ।। पुनराजग्मू राधायाः प्रधानद्वारमेव च ।। १ ।। सद्रत्नमणिनिर्माणं वेदिकायुग्मसंयुतम् ।। हरिद्राकारमणिना वज्रसंमिश्रितेन च ।। २ ।। अमूल्यरत्नरचितकपाटेन विभूषितम् ।। द्वारे नियुक्तं ददृशुर्वीरभानुमनुत्तमम् ।। ३ ।। रत्नसिंहासनस्थं च रत्नाभरणभूषितम् ।। पीतवस्त्रपरीधानं सद्रत्नमुकुटोज्ज्वलम् ।। ४ ।। द्वारं चित्रविचित्रेण विचित्रं परमाद्भुतम् ।। सर्वं निवेदनं चक्रुर्देवा दौवारिकं मुदा ।। ५ ।। तानुवाच द्वारपालो निःशंकं त्रिदशेश्वरान् ।। नाहं विनाऽऽज्ञया गंतुं दातुं सांप्रतमीश्वरः ।।६।। किंकरान्प्रेषयामास श्रीकृष्णस्थानमेव च ।। हरेरनुज्ञां संप्राप्य ददौ गंतुं सुरान्मुने ।। ७ ।। तं संभाष्य ययुर्देवा द्वितीयं द्वारमुत्तमम् ।। ततोऽधिकं विचित्रं च सुंदरं सुमनोहरम् ।। ५ ।। द्वारे नियुक्तं ददृशुश्चंद्रभानुं च नारद ।। किशोरं श्यामलं चारु स्वर्णवेत्रधरं वरम् ।। ९ ।। रत्नसिंहासनस्थं च रत्नभूषणभूषितम् ।। गोपानां च समूहेन पंचलक्षेण शोभितम् ।। 4.5.१० ।। तं संभाष्य ययुर्देवास्तृतीयं द्वारमुत्तमम् ।। ततोऽतिसुन्दरं चित्रं ज्वलन्तं मणितेजसा ।। ११ ।। द्वारे नियुक्तं ददृशुः सूर्यभानुं च नारद ।। द्विभुजं मुरलीहस्तं किशोरं श्यामसुन्दरम् ।। १२ ।। मणिकुण्डलयुग्मेन कपोलस्थलराजितम् ।। रत्नदंडकरं श्रेष्ठं प्रेष्यं राधेशयोः परम् ।। १३ ।। नवलक्षेण गोपानां वेष्टितं च नृपेंद्रवत् ।। तं संभाष्य ययुर्देवाश्चतुर्थं द्वारमेव च ।।१४।। तेभ्यो विलक्षणं रम्यं सुदीप्तं मणितेजसा ।। अत्यद्भुतविचित्रेण भूषितं सुमनोहरम् ।। १५ ।। द्वारे नियुक्तं ददृशुर्वसुभानुं व्रजेश्वरम् ।। किशोरं सुन्दरवरं मणिदण्डकरं परम् ।। १६ ।। रत्नसिंहासनस्थं च रत्नभूषणभूषितम् ।। पक्वबिंबाधरोष्ठं च सस्मितं सुमनोहरम् ।। १७ ।। तं संभाष्य ययुर्देवा पञ्चमं द्वारमेव च ।। वज्रभित्तिस्थितैश्चित्रविचित्रैर्ज्वलितं परम् ।। १८ ।। द्वारपालं च ददृशुर्देवभानुं च तत्र वै ।। चारु सिंहासनस्थं च रत्नभूषणभूषितम् ।। १९ ।। मयूरपिच्छचूडं च रत्नमालाविभूषितम् ।। कदंबपुष्पसंसक्तसद्रत्नकुण्डलोज्ज्वलम् ।। 4.5.२० ।। चंदनागरुकस्तूरीकुङ्कुमद्रवचर्चितम् ।। नृपेंद्रवरतुल्यं च दशलक्षप्रजान्वितम् ।। २१ ।। तं वेत्रपाणिं संभाष्य ययुर्देवा मुदाऽन्विताः ।। विलक्षणं द्वारषट्कं चित्रराजिविराजितम् ।। २२ ।। वज्रभित्तियुग्मयुक्ते पुष्पमाल्यविभूषिते ।। द्वारे नियुक्तं ददृशुः शुक्रभानुं व्रजेश्वरम् ।। २३ ।। नानालंकारशोभाढ्यं दशलक्षप्रजान्वितम् ।। श्रीखंडपल्लवासक्तकपोलं कुण्डलोज्ज्वलम् ।। २४।। तूर्णं सुरास्तं सभाष्य ययुर्द्वारं च सप्तमम् ।। नानाप्रकारचित्रं च षड्भ्यश्चातिविलक्षणम् ।। २५ ।। द्वारे नियुक्तं ददृशू रत्नभानुं हरेः प्रियम् ।। चंदनोक्षितसर्वांगं पुष्पमालाविभूषितम् ।। भूषितं भूषणै रम्यैर्मणिरत्नमनोहरैः ।। २६ ।। गोपैर्द्वादशलक्षैश्च राजेंद्रमिव राजितम् ।। रत्नसिंहासनस्थं च स्मेराननसरोरुहम् ।। २७ ।। तं वेत्रहस्तं संभाष्य जग्मुर्देवेश्वरा मुदा ।। विचित्रमष्टमं द्वारं सप्तभ्योऽपि विलक्षणम् ।। २८ ।। दौवारिकं ते ददृशुः सुपार्श्वं सुमनोहरम् ।। सस्मितं सुन्दरवरं श्रीखण्डतिलकोज्ज्वलम् ।। २९ ।। बन्धुजीवाधरोष्ठं च रत्नकुण्डलमंडितम् ।। सर्वालंकारशोभाढ्यं रत्नदण्डधरं वरम् ।। 4.5.३० ।। गोपैर्द्वादशलक्षैश्च किशोरैश्च समन्वितम् ।। ततः शीघ्रं ययुर्देवा नवमं द्वारमीप्सितम् ।।३१।। वज्रसद्रत्नरचितं चतुर्वेदिसमन्वितम् ।। अपूर्वचित्ररचितमालजालैर्विराजितम् ।। ३२ ।। द्वारपालं च ददृशुः सुबलं ललिताकृतिम् ।। नानाभूषणशोभाढ्यं भूषणार्हं मनोहरम् ।। ३३ ।। वज्रैर्द्वादशलक्षैश्च संयुक्तं सुमनोहरम् ।। तं दण्डहस्तं सम्भाष्य सुरा द्वारातरं ययुः ।। ३४ ।। विशिष्टं दशमं द्वारं दृष्ट्वा ते विस्मयं ययुः ।। सर्वानिर्वचनीयं चाप्यदृष्टमश्रुतं मुने ।। ३९ ।। ददृशुर्द्वारपालं च सुदामानं च सुन्दरम् ।। अनिवर्चनीयरूपं कृष्णतुल्यं मनोहरम् ।। ३६ ।। गोपविंशतिलक्षाणां समूहैः परिवारितम् ।। तं दण्डहस्तं दृष्ट्वैव जग्मुर्द्वारांतरं सुराः ।। ३७ ।। द्वारमेकादशाख्यं च सुचित्रं महदद्भुतम् ।। द्वारपालं च तत्रस्थं श्रीदामानं व्रजेश्वरम् ।। ३८ ।। राधिकापुत्रतुल्यं च पीतवस्त्रेण भूषितम् ।। अमूल्यरत्नरचितरत्नसिंहासनस्थितम् ।। ३९ ।। अमूल्यरत्नभूषाभिर्भूषितं सुमनोहरम् ।। चन्दनागुरुकस्तूरीकुंकुमेन विराजितम् ।। 4.5.४० ।। गण्डस्थलकपोलार्हसद्रत्नकुण्डलोज्ज्वलम् ।। सद्रत्नश्रेष्ठरचितविचित्रमुकुटोज्ज्वलम् ।। ४१ ।। प्रफुल्लमालतीमालाजालैः सर्वांगभूषितम् ।। कोटिगोपैः परिवृतं राजेन्द्राधिकमुज्ज्वलम् ।। ४२ ।। तं संभाष्य ययुर्द्वारं द्वादशाख्यं सुरा मुदा ।। अमूल्यरत्नरचितवेदिकाभिः समन्वितम् ।। ४३ ।। सर्वेषां दुर्लभं चित्रमदृश्यमश्रुतं मुने ।। वज्रभित्तिस्थितं चित्रं सुन्दरं सुमनोहरम् ।। ४४ ।। द्वारे नियुक्ता ददृशुर्देवा गोपांगना वराः ।। नवयौवनसंपन्ना रत्नाभरणभूषिताः ।। ४५ ।। पीतवस्त्रपरीधानाः कबरीभारभूषिताः ।। सुगंधिमालतीमाला जालैः सर्वांगभूषिताः ।। ४६ ।। रत्नकंकणकेयूररत्ननूपुरभूषिताः ।। रत्नकुंडलयुग्मेन गण्डस्थलविराजिताः ।। ४७ ।। चन्दनागुरु कस्तूरीकुंकुमद्रवचर्चिताः ।। पीनश्रोणीभरानम्रा नितंबाभारपीडिताः ।। ४८ ।। गोपीनां शतकोटीनां श्रेष्ठाः प्रेष्ठा हरेरपि ।। गोपीश्च कोटिशो दृष्ट्वा सुरास्ते विस्मयं ययुः ।। ४९ ।। संभाष्य ता मुदा युक्ता ययुर्द्वारातरं मुने ।। ततश्च क्रमशो विप्र त्रिषु द्वारेषु तत्र वै ।। 4.5.५० ।। गोपांगनानां श्रेष्ठाश्च ददृशुः सुमनोहराः ।। वराणां च वरा रम्या धन्या मान्याश्च शोभनाः ।। ५१ ।। सर्वाः सौभाग्ययुक्ताश्च राधिकायाः प्रियाश्च ताः ।। भूषिता भूषणै रम्यैः प्रोद्भिन्ननवयौवनाः ।। ५२ ।। एवं द्वारत्रयं दृष्ट्वा स्वप्ना ज्ञानाद्भुताश्रुतम् ।। अदृश्यमतिरम्यं चाप्यनिरूप्यं विचक्षणैः ।। ५३ ।। तास्ताः संभाष्य देवास्ते विस्मिता ययुरीश्वराः ।। राधिकाभ्यंतरं द्वारं षोडशाख्यं मनोहरम् ।। ५४ ।। सर्वासां च प्रधानं च गोप्यं गोपांगनागणैः ।। त्रयस्त्रिंशद्वयस्यानां निकरैर्वेष्टितं मुने ।। ५५ ।। तेषामनिर्वचनीयैर्नानागुणसमन्वितैः ।। रूपयौवनसंपन्नै रत्नालंकारभूषितैः ।। ५६ ।। रत्नकंकणकेयूरत्ननूपुरभूषितैः ।। सद्रत्नकिंकिणीजालैमर्ध्यदेशविभूषितैः ।। ५७ ।। रत्नकुंडलयुग्मेन गंडस्थलविराजितैः ।। प्रफुल्लमालतीमालाजालैर्वक्षस्थलोज्ज्वलैः ।। ५८ ।। शरत्पार्वणपद्मानां प्रभां मुष्णन्मुखेंदुभिः ।। पारिजातप्रसूनानां मालाजालेन वेष्टितैः ।। ।। ५९ ।। पक्वबिंबाधरोष्ठैश्च स्मेराननसरोरुहैः ।। पक्वदाडिमबीजाभिः शोभितैर्दंतपंक्तिभिः ।। 4.5.६० ।। चारुचंपकवर्णाभिर्मध्यस्थलकृशैर्मुने ।। गजमौक्तिकयुक्ताभिर्नासिकाभिर्विराजितैः ।। ६१ ।। खगेंद्रचारुचंचूनां शोभामुष्णाभिरेव च ।। गजेंद्रगंडकठिन स्तनभारभरानतैः ।। ६२ ।। पीनश्रोणिभरार्तैश्च मुकुंदपदमानसैः ।। निमेषरहिता देवा द्वारं च ददृशुश्च ताः ।।६३।। लसद्रमणिरत्नैश्च वेदिकायुग्मशोभितम् ।। हरिन्मणीनां स्तंभानां समूहैः संयुतं सदा ।। ६४ ।। सिंदूराकारमणिभिर्मध्यस्थलविराजितैः ।। पारिजात प्रसूनानां मालाजालैर्विभूषितम् ।। ६५ ।। तत्संस्पर्शैर्गंधवाहैः सर्वत्र सुरभीकृतम् ।। दृष्ट्वा तत्परमाश्चर्यं राधिकाभ्यंतरं सुराः ।। ६६ ।। श्रीकृष्णचरणांभोजदर्शनैकमनोरथाः ।। ताः संभाष्य ययुः शीघ्रं पुलकांचितविग्रहाः ।। ६७ ।। भक्त्युद्रेकादश्रुपूर्णाः किंचिन्नम्रात्मकंधराः ।। आरात्ते ददृशुर्देवा राधिकाभ्यंतरं वरम् ।। ६८ ।। मंदिराणां च मध्यस्थं चतुःशालं मनोहरम् ।। अमूल्यरत्नसाराणां सारेण रचितं परम् ।। ६९ ।। नानारत्नमणिस्तंभैर्वज्रयुक्तैश्च भूषितम् ।। पारिजातप्रसूनानां मालाजालैर्विराजितम् ।। 4.5.७० ।। मुक्तासमूहैर्माणिक्यैः श्वेतचामरदर्पणैः ।। अमूल्यरत्नसाराणां कलशैर्भूषितं मुने ।। ७१ ।। पट्टसूत्रग्रंथियुक्तश्रीखंडपल्लवान्वितैः ।। मणिस्तंभसमूहैश्च रम्यप्रांगणभूषितम् ।। ७२ ।। चंदनागुरुकस्तूरीकुंकुमद्रवसंयुतम् ।। शु्क्लधान्यशुक्लपुष्पप्रवालफलतंडुलैः ।। ७३ ।। पर्णदूर्वाक्षतैर्लाजैर्निर्मंछनविभूषितैः ।। फलयुक्तै रत्नकुंभैः सिंदूरकुंकुमान्वितैः ।। ७४ ।। पारिजातप्रसूनानां मालायुक्तैर्विराजितम् ।। प्रसूनाक्तैर्गंधवाहैः सर्वत्र सुरभीकृतम् ।। ७५ ।। सर्वानिर्वचनीयं च यद्द्रव्यमनिरूपितम् ।। ब्रह्मांडे दुर्लभं यद्यद्वस्तुभिस्तैर्विराजितम् ।। ७६ ।। पारिजातप्रसूनानां मालाजालैः सुशोभितम् ।। रत्नशय्यासु ललिताः सूक्ष्मवस्त्रपरिच्छदाः।।७७।। कोटिशो रत्नकुंभाश्च रत्नपात्राणि नारद ।। अमूल्यानि च चारूणि तैस्तैरेव विभूषितम्।।७८।। नानाप्रकारवाद्यानां कलनादैर्निनादितम्।। स्वरयंत्रैश्च वीणाभिर्गोपीसंगीतसुश्रुतम्।। ७९ ।। मोहितं वाद्यशब्दैश्च मृदंगानां च नारद ।। गोपानां कृष्णतुल्यानां समूहैः परिवारितम्।। ।।4.5.८०।। राधासखीनां गोपीनां वृंदैर्वृंदैर्विराजितम् ।। राधाकृष्णगुणोद्रेकपदसंगीतसुश्रुतम्।।८१।। एवमभ्यंतरं दृष्ट्वा बभूवुर्विस्मिताः सुराः।। । शुश्रुवुर्मधुरं गीतं ददृशुर्नृत्यमुत्तमम् ।।८२।। तत्र तस्थुः सुराः सर्वे ध्यानैकतानमानसाः ।। रत्नसिंहासनं रम्यं ददृशुस्त्रिदशेश्वराः ।। ८३ ।। धनुःशतप्रमाणं च परितो वर्तुलाकृतिम्।। सद्रत्नक्षुद्रकलशसमूहैश्च समन्वितम् ।।८४ ।। चित्रपुत्तलिकापुष्पचित्रकाननभूषितम् ।। तत्र तेजःसमूहं च सूर्यकोटिसमप्रभम् ।। ८५ ।। प्रभया ज्वलितं ब्रह्मन्नाश्चर्यं महदद्भुतम् ।। सप्ततालप्रमाणं तद्व्याप्तमूर्ध्वं समन्ततः।।६६।। तेजोमुषं च सर्वेषां महाश्रमविवर्जितम् ।। सर्वव्यापि सर्वबीजं चक्षूरोधकरं परम् ।।८७।। दृष्ट्वा तेजःस्वरूपं च ते देवा ध्यानतत्पराः ।। प्रणेमुः परया भक्त्या भक्तिनम्रात्मकंधराः ।। ८८ ।। परमानन्दसंयोगादश्रुपूर्णविलोचनाः ।। पुलकांकितसर्वांगा वांछापूर्णमनोरथाः ।। ८९ ।। नत्वा तेजःस्वरूपं च तमीशं त्रिदशेश्वराः ।। तत्रोत्थाय ध्यानयुक्ताः प्रतस्थुस्तेजसः पुरः ।। 4.5.९० ।। ध्यात्वैवं जगतां धाता बभूव संपुटांजलिः ।। दक्षिणे शंकरं कृत्वा वामे धर्मं च नारद ।। ९१ ।। भक्त्युद्रेकात्प्रतुष्टाव ध्यानैकतानमानसः ।। परात्परं गुणातीतं परमात्मानमीश्वरम् ।। ९२ ।। ।। ब्रह्मोवाच ।। ।। वरं वरेण्यं वरदं वरदानां च कारणम् ।। कारणं सर्वभूतानां तेजोरूपं नमाम्यहम् ।। ९३ ।। मंगलं मंगलानां च मंगलं मंगलप्रदम् ।। समस्तमंगलाधारं तेजोरूपं नमाम्यहम्।। ९४ ।। स्थितं सर्वत्र निर्लिप्तमात्मरूपं परात्परम् ।। निरीहमवितर्क्यं च तेजोरूपं नमाम्यहम् ।। ९५ ।। सगुणं निर्गुणं ब्रह्म ज्योतीरूपं सनातनम् ।। साकारं च निराकारं तेजोरूपं नमाम्यहम् ।। ९६ ।। तमनिर्वचनीयं च व्यक्तमव्यक्तमेककम् ।। स्वेच्छामयं सर्वरूपं तेजोरूपं नमाम्यहम् ।। ९७ ।। गुणत्रयविभागाय रूपत्रयधरं परम् ।। कलया ते कृताः सर्वे किं जानन्ति श्रुतेः परम् ।। ९८ ।। सर्वाधारं सर्वरूपं सर्वबीजमबीजकम् ।। सर्वांतकमनन्तं च तेजोरूपं नमाम्यहम् ।। ९९ ।। लक्ष्यं षङ्गुणरूपं च वर्णनीयं विचक्षणैः ।। किं वर्णयामि लक्ष्यं च तेजोरूपं नमाम्यहम् ।। 4.5.१०० ।। अशरीरं विग्रहवदिंद्रियं यदतींद्रियम् ।। यदसाक्षि सर्वसाक्षि तेजोरूपं नमाम्यहम् ।। १०१ ।। गमनार्हमपादं यदचक्षुः सर्वदर्शनम् ।। हस्तास्यहीनं यद्भोक्तृ तेजोरूपं नमाम्यहम् ।। १०२ ।। वेदे निरूपितं वस्तु सन्तः शक्ताश्च वर्णितुम् ।। वेदेऽनिरूपितं यत्तत्तेजोरूपं नमाम्यहम् ।। १०३ ।। सर्वेशं यदनीशं यत्सर्वादि यदनादि यत् ।। सर्वात्मकमनात्मं यत्तेजोरूपं नमाम्यहम् ।। १०४ ।। अहं विधाता जगतो वेदानां जनकः स्वयम् ।। पाता धर्मो हरो हर्ता स्तोतुं शक्ता न केऽपि यत् ।। १०५ ।। सेवया तव धर्मोऽयं पालने च निरूपितः।। तवाज्ञया च संहर्ता त्वया काले निरूपिते ।।१०६।। निःशेषोत्पत्तिकर्त्ताऽहं त्वत्पादांभोजसेवया ।। कर्मिणां फलदाता च त्वं भक्तानां च नः प्रभुः ।। १०७ ब्रह्मांडे बिंबसदृशे भूत्वा विषयिणो वयम् ।। एवं कतिविधाः संति तेष्वनन्तेषु सेवकाः ।।१०८।। यथा न संख्या रेणूनां तथा तेषामणीयसाम् ।। सर्वेषां जनकश्चेशो यस्तं स्तोतुं च के क्षमाः ।।१०९।। एकैकलोमविवरे ब्रह्मांडमेकमेककम् ।। यस्यैव महतो विष्णोः षोडशांशस्तवैव सः ।।4.5.११०।। ध्यायंते योगिनः सर्वे तवैतद्रूपमीप्सितम् ।। त्वद्भक्तदास्यनिरताः सेवंते चरणांबुजम् ।। १११ ।। किशोरं सुंदरतरं यक्षं कमनीयकम् ।। मंत्रध्यानानुरूपं च दर्शयास्माकमीश्वर ।। ११२ ।। नवीनजलदश्यामपीतांबरधरं वरम् ।। द्विभुजं मुरलीहस्तं सस्मितं सुमनोहरम् ।। ११३ ।। मयूरपिच्छचूडं च मालतीजालमंडितम् ।। चंदनागुरुकस्तूरीकुङ्कुमद्रवचर्चितम् ।। ११४ ।। अमूल्यरत्नसाराणां सारभूषणभूषितम् ।। अमूल्यरत्नरचितकिरीटमुकुटोज्ज्वलम् ।। ११५ ।। शरत्प्रफुल्लपद्मानां प्रभामोष्यास्यचंद्रकम् ।। पक्वबिंबसमानेन ह्यधरोष्ठेन राजितम् ।। ११६ ।। पक्वदाडिमबीजाभदंतपंक्तिमनोहरम् ।। केलीकदंबमूले च स्थितं रासरसोन्मुखम् ।। ११७ ।। गोपीवक्त्रस्मिततनुं राधावक्षःस्थलस्थितम् ।। एवं वांछितरूपं ते दृष्टुं को वा न चोत्सुकः ।।११८।। इत्येवमुक्त्वा विश्वसृट् प्रणनाम पुनः पुनः ।। एवं स्तोत्रेण तुष्टाव धर्मोऽपि शंकरः स्वयम् ।।११९।। ननाम भूयोभूयश्च साश्रुपूर्णविलोचनः ।। तिष्ठतोऽपि पुनः स्तोत्रं प्रचक्रुस्त्रिदशेश्वराः ।। 4.5.१२० ।। व्याप्तास्तत्राश्रमे सर्वे श्रीकृष्णतेजसा मुने ।। स्तवराजमिमं नित्यं ब्रह्मेशधर्मभिः कृतम् ।। १२१ ।। पूजाकाले हरेरेवं भक्तियुक्तश्च यः पठेत् ।। सुदुर्लभां दृढां भक्तिं निश्चलां लभते हरेः ।। १२२ ।। सुरासुरमुनींद्राणां दुर्लभं दास्यमेव च ।। अणिमादिकसिद्धिं च सालोक्यादि चतुष्टयम् ।।१२३।। इहैव विष्णुतुल्यश्च विख्यातः पूजितो धुवम् ।। वाक्सिद्धिर्मंत्रसिद्धिश्च भवेत्तस्य सुनिश्चितम् ।। १२४ ।। सर्वसौभाम्यसंयुक्तं यशसा पूरितं जगत् ।। पुत्रश्च विद्या कविता निश्चला कमला तथा।।१२५।। पत्नी पतिव्रता साध्वी सुशीला सुस्थिराः प्रजाः ।। कीर्तिश्च चिरकालीना त्वंते कृष्णांतिके गतिः ।। १२६ ।। इति श्रीब्रह्म वैवर्ते महापुराणे श्रीकृष्णजन्मखंडे गोलोकवर्णने श्रीकृष्णस्तोत्रराजपठनं नाम पंचमोऽध्यायः ।। ५ ।।
śrīnārāyaṇa uvāca || golokaṃ nikhilaṃ dṛṣṭvā devāste hṛṣṭamānasāḥ || punarājagmū rādhāyāḥ pradhānadvārameva ca || 1 || sadratnamaṇinirmāṇaṃ vedikāyugmasaṃyutam || haridrākāramaṇinā vajrasaṃmiśritena ca || 2 || amūlyaratnaracitakapāṭena vibhūṣitam || dvāre niyuktaṃ dadṛśurvīrabhānumanuttamam || 3 || ratnasiṃhāsanasthaṃ ca ratnābharaṇabhūṣitam || pītavastraparīdhānaṃ sadratnamukuṭojjvalam || 4 || dvāraṃ citravicitreṇa vicitraṃ paramādbhutam || sarvaṃ nivedanaṃ cakrurdevā dauvārikaṃ mudā || 5 || tānuvāca dvārapālo niḥśaṃkaṃ tridaśeśvarān || nāhaṃ vinā''jñayā gaṃtuṃ dātuṃ sāṃpratamīśvaraḥ ||6|| kiṃkarānpreṣayāmāsa śrīkṛṣṇasthānameva ca || hareranujñāṃ saṃprāpya dadau gaṃtuṃ surānmune || 7 || taṃ saṃbhāṣya yayurdevā dvitīyaṃ dvāramuttamam || tato'dhikaṃ vicitraṃ ca suṃdaraṃ sumanoharam || 5 || dvāre niyuktaṃ dadṛśuścaṃdrabhānuṃ ca nārada || kiśoraṃ śyāmalaṃ cāru svarṇavetradharaṃ varam || 9 || ratnasiṃhāsanasthaṃ ca ratnabhūṣaṇabhūṣitam || gopānāṃ ca samūhena paṃcalakṣeṇa śobhitam || 4.5.10 || taṃ saṃbhāṣya yayurdevāstṛtīyaṃ dvāramuttamam || tato'tisundaraṃ citraṃ jvalantaṃ maṇitejasā || 11 || dvāre niyuktaṃ dadṛśuḥ sūryabhānuṃ ca nārada || dvibhujaṃ muralīhastaṃ kiśoraṃ śyāmasundaram || 12 || maṇikuṇḍalayugmena kapolasthalarājitam || ratnadaṃḍakaraṃ śreṣṭhaṃ preṣyaṃ rādheśayoḥ param || 13 || navalakṣeṇa gopānāṃ veṣṭitaṃ ca nṛpeṃdravat || taṃ saṃbhāṣya yayurdevāścaturthaṃ dvārameva ca ||14|| tebhyo vilakṣaṇaṃ ramyaṃ sudīptaṃ maṇitejasā || atyadbhutavicitreṇa bhūṣitaṃ sumanoharam || 15 || dvāre niyuktaṃ dadṛśurvasubhānuṃ vrajeśvaram || kiśoraṃ sundaravaraṃ maṇidaṇḍakaraṃ param || 16 || ratnasiṃhāsanasthaṃ ca ratnabhūṣaṇabhūṣitam || pakvabiṃbādharoṣṭhaṃ ca sasmitaṃ sumanoharam || 17 || taṃ saṃbhāṣya yayurdevā pañcamaṃ dvārameva ca || vajrabhittisthitaiścitravicitrairjvalitaṃ param || 18 || dvārapālaṃ ca dadṛśurdevabhānuṃ ca tatra vai || cāru siṃhāsanasthaṃ ca ratnabhūṣaṇabhūṣitam || 19 || mayūrapicchacūḍaṃ ca ratnamālāvibhūṣitam || kadaṃbapuṣpasaṃsaktasadratnakuṇḍalojjvalam || 4.5.20 || caṃdanāgarukastūrīkuṅkumadravacarcitam || nṛpeṃdravaratulyaṃ ca daśalakṣaprajānvitam || 21 || taṃ vetrapāṇiṃ saṃbhāṣya yayurdevā mudā'nvitāḥ || vilakṣaṇaṃ dvāraṣaṭkaṃ citrarājivirājitam || 22 || vajrabhittiyugmayukte puṣpamālyavibhūṣite || dvāre niyuktaṃ dadṛśuḥ śukrabhānuṃ vrajeśvaram || 23 || nānālaṃkāraśobhāḍhyaṃ daśalakṣaprajānvitam || śrīkhaṃḍapallavāsaktakapolaṃ kuṇḍalojjvalam || 24|| tūrṇaṃ surāstaṃ sabhāṣya yayurdvāraṃ ca saptamam || nānāprakāracitraṃ ca ṣaḍbhyaścātivilakṣaṇam || 25 || dvāre niyuktaṃ dadṛśū ratnabhānuṃ hareḥ priyam || caṃdanokṣitasarvāṃgaṃ puṣpamālāvibhūṣitam || bhūṣitaṃ bhūṣaṇai ramyairmaṇiratnamanoharaiḥ || 26 || gopairdvādaśalakṣaiśca rājeṃdramiva rājitam || ratnasiṃhāsanasthaṃ ca smerānanasaroruham || 27 || taṃ vetrahastaṃ saṃbhāṣya jagmurdeveśvarā mudā || vicitramaṣṭamaṃ dvāraṃ saptabhyo'pi vilakṣaṇam || 28 || dauvārikaṃ te dadṛśuḥ supārśvaṃ sumanoharam || sasmitaṃ sundaravaraṃ śrīkhaṇḍatilakojjvalam || 29 || bandhujīvādharoṣṭhaṃ ca ratnakuṇḍalamaṃḍitam || sarvālaṃkāraśobhāḍhyaṃ ratnadaṇḍadharaṃ varam || 4.5.30 || gopairdvādaśalakṣaiśca kiśoraiśca samanvitam || tataḥ śīghraṃ yayurdevā navamaṃ dvāramīpsitam ||31|| vajrasadratnaracitaṃ caturvedisamanvitam || apūrvacitraracitamālajālairvirājitam || 32 || dvārapālaṃ ca dadṛśuḥ subalaṃ lalitākṛtim || nānābhūṣaṇaśobhāḍhyaṃ bhūṣaṇārhaṃ manoharam || 33 || vajrairdvādaśalakṣaiśca saṃyuktaṃ sumanoharam || taṃ daṇḍahastaṃ sambhāṣya surā dvārātaraṃ yayuḥ || 34 || viśiṣṭaṃ daśamaṃ dvāraṃ dṛṣṭvā te vismayaṃ yayuḥ || sarvānirvacanīyaṃ cāpyadṛṣṭamaśrutaṃ mune || 39 || dadṛśurdvārapālaṃ ca sudāmānaṃ ca sundaram || anivarcanīyarūpaṃ kṛṣṇatulyaṃ manoharam || 36 || gopaviṃśatilakṣāṇāṃ samūhaiḥ parivāritam || taṃ daṇḍahastaṃ dṛṣṭvaiva jagmurdvārāṃtaraṃ surāḥ || 37 || dvāramekādaśākhyaṃ ca sucitraṃ mahadadbhutam || dvārapālaṃ ca tatrasthaṃ śrīdāmānaṃ vrajeśvaram || 38 || rādhikāputratulyaṃ ca pītavastreṇa bhūṣitam || amūlyaratnaracitaratnasiṃhāsanasthitam || 39 || amūlyaratnabhūṣābhirbhūṣitaṃ sumanoharam || candanāgurukastūrīkuṃkumena virājitam || 4.5.40 || gaṇḍasthalakapolārhasadratnakuṇḍalojjvalam || sadratnaśreṣṭharacitavicitramukuṭojjvalam || 41 || praphullamālatīmālājālaiḥ sarvāṃgabhūṣitam || koṭigopaiḥ parivṛtaṃ rājendrādhikamujjvalam || 42 || taṃ saṃbhāṣya yayurdvāraṃ dvādaśākhyaṃ surā mudā || amūlyaratnaracitavedikābhiḥ samanvitam || 43 || sarveṣāṃ durlabhaṃ citramadṛśyamaśrutaṃ mune || vajrabhittisthitaṃ citraṃ sundaraṃ sumanoharam || 44 || dvāre niyuktā dadṛśurdevā gopāṃganā varāḥ || navayauvanasaṃpannā ratnābharaṇabhūṣitāḥ || 45 || pītavastraparīdhānāḥ kabarībhārabhūṣitāḥ || sugaṃdhimālatīmālā jālaiḥ sarvāṃgabhūṣitāḥ || 46 || ratnakaṃkaṇakeyūraratnanūpurabhūṣitāḥ || ratnakuṃḍalayugmena gaṇḍasthalavirājitāḥ || 47 || candanāguru kastūrīkuṃkumadravacarcitāḥ || pīnaśroṇībharānamrā nitaṃbābhārapīḍitāḥ || 48 || gopīnāṃ śatakoṭīnāṃ śreṣṭhāḥ preṣṭhā harerapi || gopīśca koṭiśo dṛṣṭvā surāste vismayaṃ yayuḥ || 49 || saṃbhāṣya tā mudā yuktā yayurdvārātaraṃ mune || tataśca kramaśo vipra triṣu dvāreṣu tatra vai || 4.5.50 || gopāṃganānāṃ śreṣṭhāśca dadṛśuḥ sumanoharāḥ || varāṇāṃ ca varā ramyā dhanyā mānyāśca śobhanāḥ || 51 || sarvāḥ saubhāgyayuktāśca rādhikāyāḥ priyāśca tāḥ || bhūṣitā bhūṣaṇai ramyaiḥ prodbhinnanavayauvanāḥ || 52 || evaṃ dvāratrayaṃ dṛṣṭvā svapnā jñānādbhutāśrutam || adṛśyamatiramyaṃ cāpyanirūpyaṃ vicakṣaṇaiḥ || 53 || tāstāḥ saṃbhāṣya devāste vismitā yayurīśvarāḥ || rādhikābhyaṃtaraṃ dvāraṃ ṣoḍaśākhyaṃ manoharam || 54 || sarvāsāṃ ca pradhānaṃ ca gopyaṃ gopāṃganāgaṇaiḥ || trayastriṃśadvayasyānāṃ nikarairveṣṭitaṃ mune || 55 || teṣāmanirvacanīyairnānāguṇasamanvitaiḥ || rūpayauvanasaṃpannai ratnālaṃkārabhūṣitaiḥ || 56 || ratnakaṃkaṇakeyūratnanūpurabhūṣitaiḥ || sadratnakiṃkiṇījālaimardhyadeśavibhūṣitaiḥ || 57 || ratnakuṃḍalayugmena gaṃḍasthalavirājitaiḥ || praphullamālatīmālājālairvakṣasthalojjvalaiḥ || 58 || śaratpārvaṇapadmānāṃ prabhāṃ muṣṇanmukheṃdubhiḥ || pārijātaprasūnānāṃ mālājālena veṣṭitaiḥ || || 59 || pakvabiṃbādharoṣṭhaiśca smerānanasaroruhaiḥ || pakvadāḍimabījābhiḥ śobhitairdaṃtapaṃktibhiḥ || 4.5.60 || cārucaṃpakavarṇābhirmadhyasthalakṛśairmune || gajamauktikayuktābhirnāsikābhirvirājitaiḥ || 61 || khageṃdracārucaṃcūnāṃ śobhāmuṣṇābhireva ca || gajeṃdragaṃḍakaṭhina stanabhārabharānataiḥ || 62 || pīnaśroṇibharārtaiśca mukuṃdapadamānasaiḥ || nimeṣarahitā devā dvāraṃ ca dadṛśuśca tāḥ ||63|| lasadramaṇiratnaiśca vedikāyugmaśobhitam || harinmaṇīnāṃ staṃbhānāṃ samūhaiḥ saṃyutaṃ sadā || 64 || siṃdūrākāramaṇibhirmadhyasthalavirājitaiḥ || pārijāta prasūnānāṃ mālājālairvibhūṣitam || 65 || tatsaṃsparśairgaṃdhavāhaiḥ sarvatra surabhīkṛtam || dṛṣṭvā tatparamāścaryaṃ rādhikābhyaṃtaraṃ surāḥ || 66 || śrīkṛṣṇacaraṇāṃbhojadarśanaikamanorathāḥ || tāḥ saṃbhāṣya yayuḥ śīghraṃ pulakāṃcitavigrahāḥ || 67 || bhaktyudrekādaśrupūrṇāḥ kiṃcinnamrātmakaṃdharāḥ || ārātte dadṛśurdevā rādhikābhyaṃtaraṃ varam || 68 || maṃdirāṇāṃ ca madhyasthaṃ catuḥśālaṃ manoharam || amūlyaratnasārāṇāṃ sāreṇa racitaṃ param || 69 || nānāratnamaṇistaṃbhairvajrayuktaiśca bhūṣitam || pārijātaprasūnānāṃ mālājālairvirājitam || 4.5.70 || muktāsamūhairmāṇikyaiḥ śvetacāmaradarpaṇaiḥ || amūlyaratnasārāṇāṃ kalaśairbhūṣitaṃ mune || 71 || paṭṭasūtragraṃthiyuktaśrīkhaṃḍapallavānvitaiḥ || maṇistaṃbhasamūhaiśca ramyaprāṃgaṇabhūṣitam || 72 || caṃdanāgurukastūrīkuṃkumadravasaṃyutam || śukladhānyaśuklapuṣpapravālaphalataṃḍulaiḥ || 73 || parṇadūrvākṣatairlājairnirmaṃchanavibhūṣitaiḥ || phalayuktai ratnakuṃbhaiḥ siṃdūrakuṃkumānvitaiḥ || 74 || pārijātaprasūnānāṃ mālāyuktairvirājitam || prasūnāktairgaṃdhavāhaiḥ sarvatra surabhīkṛtam || 75 || sarvānirvacanīyaṃ ca yaddravyamanirūpitam || brahmāṃḍe durlabhaṃ yadyadvastubhistairvirājitam || 76 || pārijātaprasūnānāṃ mālājālaiḥ suśobhitam || ratnaśayyāsu lalitāḥ sūkṣmavastraparicchadāḥ||77|| koṭiśo ratnakuṃbhāśca ratnapātrāṇi nārada || amūlyāni ca cārūṇi taistaireva vibhūṣitam||78|| nānāprakāravādyānāṃ kalanādairnināditam|| svarayaṃtraiśca vīṇābhirgopīsaṃgītasuśrutam|| 79 || mohitaṃ vādyaśabdaiśca mṛdaṃgānāṃ ca nārada || gopānāṃ kṛṣṇatulyānāṃ samūhaiḥ parivāritam|| ||4.5.80|| rādhāsakhīnāṃ gopīnāṃ vṛṃdairvṛṃdairvirājitam || rādhākṛṣṇaguṇodrekapadasaṃgītasuśrutam||81|| evamabhyaṃtaraṃ dṛṣṭvā babhūvurvismitāḥ surāḥ|| | śuśruvurmadhuraṃ gītaṃ dadṛśurnṛtyamuttamam ||82|| tatra tasthuḥ surāḥ sarve dhyānaikatānamānasāḥ || ratnasiṃhāsanaṃ ramyaṃ dadṛśustridaśeśvarāḥ || 83 || dhanuḥśatapramāṇaṃ ca parito vartulākṛtim|| sadratnakṣudrakalaśasamūhaiśca samanvitam ||84 || citraputtalikāpuṣpacitrakānanabhūṣitam || tatra tejaḥsamūhaṃ ca sūryakoṭisamaprabham || 85 || prabhayā jvalitaṃ brahmannāścaryaṃ mahadadbhutam || saptatālapramāṇaṃ tadvyāptamūrdhvaṃ samantataḥ||66|| tejomuṣaṃ ca sarveṣāṃ mahāśramavivarjitam || sarvavyāpi sarvabījaṃ cakṣūrodhakaraṃ param ||87|| dṛṣṭvā tejaḥsvarūpaṃ ca te devā dhyānatatparāḥ || praṇemuḥ parayā bhaktyā bhaktinamrātmakaṃdharāḥ || 88 || paramānandasaṃyogādaśrupūrṇavilocanāḥ || pulakāṃkitasarvāṃgā vāṃchāpūrṇamanorathāḥ || 89 || natvā tejaḥsvarūpaṃ ca tamīśaṃ tridaśeśvarāḥ || tatrotthāya dhyānayuktāḥ pratasthustejasaḥ puraḥ || 4.5.90 || dhyātvaivaṃ jagatāṃ dhātā babhūva saṃpuṭāṃjaliḥ || dakṣiṇe śaṃkaraṃ kṛtvā vāme dharmaṃ ca nārada || 91 || bhaktyudrekātpratuṣṭāva dhyānaikatānamānasaḥ || parātparaṃ guṇātītaṃ paramātmānamīśvaram || 92 || || brahmovāca || || varaṃ vareṇyaṃ varadaṃ varadānāṃ ca kāraṇam || kāraṇaṃ sarvabhūtānāṃ tejorūpaṃ namāmyaham || 93 || maṃgalaṃ maṃgalānāṃ ca maṃgalaṃ maṃgalapradam || samastamaṃgalādhāraṃ tejorūpaṃ namāmyaham|| 94 || sthitaṃ sarvatra nirliptamātmarūpaṃ parātparam || nirīhamavitarkyaṃ ca tejorūpaṃ namāmyaham || 95 || saguṇaṃ nirguṇaṃ brahma jyotīrūpaṃ sanātanam || sākāraṃ ca nirākāraṃ tejorūpaṃ namāmyaham || 96 || tamanirvacanīyaṃ ca vyaktamavyaktamekakam || svecchāmayaṃ sarvarūpaṃ tejorūpaṃ namāmyaham || 97 || guṇatrayavibhāgāya rūpatrayadharaṃ param || kalayā te kṛtāḥ sarve kiṃ jānanti śruteḥ param || 98 || sarvādhāraṃ sarvarūpaṃ sarvabījamabījakam || sarvāṃtakamanantaṃ ca tejorūpaṃ namāmyaham || 99 || lakṣyaṃ ṣaṅguṇarūpaṃ ca varṇanīyaṃ vicakṣaṇaiḥ || kiṃ varṇayāmi lakṣyaṃ ca tejorūpaṃ namāmyaham || 4.5.100 || aśarīraṃ vigrahavadiṃdriyaṃ yadatīṃdriyam || yadasākṣi sarvasākṣi tejorūpaṃ namāmyaham || 101 || gamanārhamapādaṃ yadacakṣuḥ sarvadarśanam || hastāsyahīnaṃ yadbhoktṛ tejorūpaṃ namāmyaham || 102 || vede nirūpitaṃ vastu santaḥ śaktāśca varṇitum || vede'nirūpitaṃ yattattejorūpaṃ namāmyaham || 103 || sarveśaṃ yadanīśaṃ yatsarvādi yadanādi yat || sarvātmakamanātmaṃ yattejorūpaṃ namāmyaham || 104 || ahaṃ vidhātā jagato vedānāṃ janakaḥ svayam || pātā dharmo haro hartā stotuṃ śaktā na ke'pi yat || 105 || sevayā tava dharmo'yaṃ pālane ca nirūpitaḥ|| tavājñayā ca saṃhartā tvayā kāle nirūpite ||106|| niḥśeṣotpattikarttā'haṃ tvatpādāṃbhojasevayā || karmiṇāṃ phaladātā ca tvaṃ bhaktānāṃ ca naḥ prabhuḥ || 107 brahmāṃḍe biṃbasadṛśe bhūtvā viṣayiṇo vayam || evaṃ katividhāḥ saṃti teṣvananteṣu sevakāḥ ||108|| yathā na saṃkhyā reṇūnāṃ tathā teṣāmaṇīyasām || sarveṣāṃ janakaśceśo yastaṃ stotuṃ ca ke kṣamāḥ ||109|| ekaikalomavivare brahmāṃḍamekamekakam || yasyaiva mahato viṣṇoḥ ṣoḍaśāṃśastavaiva saḥ ||4.5.110|| dhyāyaṃte yoginaḥ sarve tavaitadrūpamīpsitam || tvadbhaktadāsyaniratāḥ sevaṃte caraṇāṃbujam || 111 || kiśoraṃ suṃdarataraṃ yakṣaṃ kamanīyakam || maṃtradhyānānurūpaṃ ca darśayāsmākamīśvara || 112 || navīnajaladaśyāmapītāṃbaradharaṃ varam || dvibhujaṃ muralīhastaṃ sasmitaṃ sumanoharam || 113 || mayūrapicchacūḍaṃ ca mālatījālamaṃḍitam || caṃdanāgurukastūrīkuṅkumadravacarcitam || 114 || amūlyaratnasārāṇāṃ sārabhūṣaṇabhūṣitam || amūlyaratnaracitakirīṭamukuṭojjvalam || 115 || śaratpraphullapadmānāṃ prabhāmoṣyāsyacaṃdrakam || pakvabiṃbasamānena hyadharoṣṭhena rājitam || 116 || pakvadāḍimabījābhadaṃtapaṃktimanoharam || kelīkadaṃbamūle ca sthitaṃ rāsarasonmukham || 117 || gopīvaktrasmitatanuṃ rādhāvakṣaḥsthalasthitam || evaṃ vāṃchitarūpaṃ te dṛṣṭuṃ ko vā na cotsukaḥ ||118|| ityevamuktvā viśvasṛṭ praṇanāma punaḥ punaḥ || evaṃ stotreṇa tuṣṭāva dharmo'pi śaṃkaraḥ svayam ||119|| nanāma bhūyobhūyaśca sāśrupūrṇavilocanaḥ || tiṣṭhato'pi punaḥ stotraṃ pracakrustridaśeśvarāḥ || 4.5.120 || vyāptāstatrāśrame sarve śrīkṛṣṇatejasā mune || stavarājamimaṃ nityaṃ brahmeśadharmabhiḥ kṛtam || 121 || pūjākāle harerevaṃ bhaktiyuktaśca yaḥ paṭhet || sudurlabhāṃ dṛḍhāṃ bhaktiṃ niścalāṃ labhate hareḥ || 122 || surāsuramunīṃdrāṇāṃ durlabhaṃ dāsyameva ca || aṇimādikasiddhiṃ ca sālokyādi catuṣṭayam ||123|| ihaiva viṣṇutulyaśca vikhyātaḥ pūjito dhuvam || vāksiddhirmaṃtrasiddhiśca bhavettasya suniścitam || 124 || sarvasaubhāmyasaṃyuktaṃ yaśasā pūritaṃ jagat || putraśca vidyā kavitā niścalā kamalā tathā||125|| patnī pativratā sādhvī suśīlā susthirāḥ prajāḥ || kīrtiśca cirakālīnā tvaṃte kṛṣṇāṃtike gatiḥ || 126 || iti śrībrahma vaivarte mahāpurāṇe śrīkṛṣṇajanmakhaṃḍe golokavarṇane śrīkṛṣṇastotrarājapaṭhanaṃ nāma paṃcamo'dhyāyaḥ || 5 ||
English translation
NarSyana said- Enjoying the view of the Goloka, the gods delightfully again reached the gate of Radhikas palace.
It was built with the best of gems two seater pedestals, It was studded with the gems of yellow colour besides jewels and the precious stoned They came across a door-keeper name Virabhanu who was quite graceful. He was seated on a gem-studded lion-throne, adorned with ornaments studded with gems, clad in O sage, he sent the messengers to lord Krsna and got his permission. Thereafter he allowed the gods to enter. The gods after getting permission, moved forward and came across another door which was equally beautiful having astonishing type of painting drawn over it.
O N^ada, Candrabhanu was serving there as the gate-keepers who was of tender age, of dark complexion and holding a staff of gold seated on the gem-studded lion-throne. He was adorned with all the gen>studded ornaments and surrounded by five lakhs of cowherds.
Meeting him, the gods reached the third gate which was more beautiful then the previous ones.
It had beautiful paintings and the gem-studded in it were issuing lustre.
O Narada, they found the gate-keeper named Suryabhanu there, who was two-armed and was holding a flute in his hand. He was of tender age, having dark complexions, wearing a couple of kundalas in the ears and had beautiful cheeks. He was holding a staff of gems in his hand, he was the servant of Radhtoadhava eccompanied by nine lakhs of cowherds and was looking like a great king. Informing him the gods reached the fourth gate which was more beautiful then the earlier three and having the lustre of the gems, it was quite large, astonishing and studded with various types of jewels which were quite pleasant to look at. They came across the gate¬ keeper named Vasubhanu there, who looked like the lord of Vraja, quite tender in age, beautiful one and held a gem-studded staff in his hand.
He was seated on a gem- studded lion-throne, adorned with all the gem-studded ornaments, having the lips like the wood-apple fruits. He wore a serene smile on the face and was quite pleasant to look at. Informing him the gods move forward and reached the fifth gate, which was built in the walls of precious stones and had beautiful paintings on the door.
It was guarded by the gate-keepers named Devabhanu who was seated on the gem-studded lion-throne, adorned with all the gem-studded ornaments, wearing a crown of peacock feather adorned with the garland of gems. He wore the beautiful kundalas decorated with the flowers of kadamba. His body was plastered with the paste of sandal, aguru, kasturl and saffron. He, was surrounded by ten lakhs of cowherds and appeared like the lord himself.
Getting permission from him, the gods reached the sixth gate which quite surprising and had several lines of paintings. There were the walls of precious stones all round the place and the garland of lowers were decorating the wall, the gate-keeper was known as Sukrabhanu who was adorned with various types of ornaments and surrounded by ten lakhs of cowherds. He wore the kundalas resembling the tender leaves of sandal-wood. Informing him accordingly, gods moved on to the seventh, gates which was astonishing built and its workmanship was better then all the earlier six gates. The gate was guarded by Ratnabhanu, who was the loving gate-keeper of the lord. All his limbs were plastered with the sandal-paste and was adorned with the garland of flowers and the ornaments of beautiful gems.
He was surrounded by twelve lakhs of cowherds and appeared like a great king seated on the gem-studded lion-throne, wearing a serene smile on the face. Informing the gate-keeper, the god, moved ahead and reached the eight gate which was more astonishing than the earlier They came across the gate-keeper known as to Suparsva and who was smiling gracefully. He bore the tilaka on his forehead, had beautiful lips, adored with gem-studded ornament and held the staff of gems.
He was surrounded by twelve lakhs of young cowherds. Speaking to him, the gods moved on and reached the ninth gate which was standing on the four pedestals made of gems and jewels besides various types of garland of flowers decorating it. The gate-keeper named Subala having the charming appearance was standing there, who was adorned with various types of gems and surrounded by twelve lakhs of cowherds, holding a beautiful staff in his hand.
With this permissions the gods reached the tenth gate which was specially built. Looking at the gate, the gods were immensely surprised. O sage, the gate was beyond description and unheard of.
The gate was guarded by the cowherd named Sudama having astonishing beauty. He resembled lord Krsna in beauty and was surrounded by twenty lakhs of cowherds, holding a staff in his hand. Meeting him the gods reached the eleventh gate which was also quite astonishing in structure and was guarded by the cowherd named ^rldama, as the gate-keepers. He was like the son to Radhika and was clad in yellow garment and adorned with best of valuable gems, seated on a lion-throne which was studded with precious gems. His body was plastered with pleasant sandal-paste, aguru, kasturi and saffron beautiful ear ornaments of gems appeared in his ears. He was also wearing a crown on his head, the garland of blossoming jasmine flower adorned his body and was surrounded by a crores of cowherds.
Informing him the gods moved on to the twelfth gates, which was built with the pedestals made with beautiful gems.
O sage, the walls were constructed with gems and several paintings were pained on them, which were quite inaccessible in nature, beyond vision and unheard of The gods came across the cowherdesses who were deputed there and were quite youthful, adorned with all the gem-studded ornaments clad in yellow lower garment, having beautiful hair on the head and wearing the garland of fragrant jasmine flowers, their bodies were adorned with wristlets and the kuridalas, of gems, their bodies were plastered with sandal-paste, kasturt^ aguru and saffron. They had developed pelvic region as well as the breasts, their number was a hundred crores and were the best in all respect being beloved of lord Krsna. The gods were surprised at their sight.
otI: TiitrarraT; frow gT:i O sage, getting permission from him, the gods moved forward with a pleasant mind. O Brahmana, thus they came across further these cowherdesses on three more gates, who were the best, beautiful, graceful and were fortunate one and were quite close to Radha. They were adorned with beautiful ornaments and their youthfulness was merging out of their bodies.
Thus all the three gates were seen by the gods like a dream and were quite astonishing unheard of, quite beautiful and could hardly be described by the intellectuals. Looking at them and talking with the beautiful damsels, the gods were surprised and ultimately they reached the sixteenth gate which happened to be the main gate of the inner apartment of Radha, it was the best of all the gate and was guarded by only the cowherdesses. The thirty cowherdesses of the age comparable to that of Radha, were guarding the gates their costumes and ornaments were beyond description. They possessed many good qualities besides beauty, youthfulness and were adorned with gem-studded ornaments including the armlets, anklets and wristlets of gems. Their waist-bands were decorated with the best of small-bells their ears were adorned with beautiful ear-ornaments. The garlands of blossoming jasmine flowers were adorning their breasts.
Their faces resembled the full-moon of, the winter seasons the beautiful Pdrijdta flowers were inserted in their hair-do on the heads. They were adorned with various types of ornaments; their lies looked like the ripe wood-apples and wore a serene smile on their faces. Their teeth resembled the ripe pomegranate fruit which added to their beauty. All of them had the beautiful fair-complexion like the campaka flowers. All of them were slander-waisted and their noses were adorned with pearls, Their noses resembled the beak of Garuda and their breasts were stiff like the temples of the elephants, their hips were quite heavy and their mind was attracted towards lord Krsna. For a moment the gods looked at the cowherdesses.
The gate was built on the pedestals of precious gems and there were several pillars of rubies, diamonds sand the red jewels. The gate was decorated with the Pdrijdta flowers and the breeze was blew touching those flower carried their fragrant with it. After looking at the gate of the palace of Radha, all the gods mentally bowed at the feet of lord Krsna and their desire for having an audience with him, around All of them entered the palace with the permission of the friends of Radhika, the hair on their body stood at ends. Their minds were filled with devotion and their eyes were filled with tears, their faces as well as the shoulders were bent down.
Thereafter they had a close look at the inner apartment of Radha, Among the temples, they found is square house. It was decorated with the precious stones.
Besides the beautiful diamonds, gems and jewels were also studded on the pillars in it and decorated with the garlands of Pdrijdta flowers.
O sage, pearls, precious stones, white fly- whisks, mirrors, precious gems were used in the kalasas of the house. Besides the tender leaves of sandal-wood trees were tied intermittently in the silken cord which decorated the place.
It had the heaps of sandal-paste, aguni, kasturi, saffron, white paddy, white flowers, coral, fruits, rice, Dnrvd-grass, scented with fragrant flowers, vermilion, saffron, garlands of Pdrijata flowers, which filled the entire atmosphere with fragrance.
T ufign ' da ' ^HR i The articles which were available there, were beyond description, difficult to get in the universe and inaccessible but were available in that house. There was a bed made in gems and look-quite beautiful. It was covered with a fine silk on cloth.
O Narada, the house was decorated with crores of invaluable and beautiful kalasas of gems and diamonds decorated with vases of gems and the sweet sound of music was emerging from the same. The vznd and other musical instruments were being played upon with the beating or the double drums and their sound was quite pleasant. The songs relating to the glory of Radha and Krsna were being recited.
All the gods felt surprised with the 109k of this astonishing type of houses they listened to the sweet music there and witnessed the best of the dance. All the gods stood there attentively and they felt attracted towards the sound of the music, Thereafter the gods spotted a gem- studded beautiful lion-throne which was as vast as a bow. It looked circular from all the sides.
Various types of small vases made in gems were fixed to it. The astonishing types of puppets, the flowers and the artificial forests were painted in the same. O Brahmana, they witnessed an astonishing type of the mass of lustre which resembled the lustre to crores of suns, it was shining like the divine flames and its glory was spread on the height of seven tala trees. The mass of lustre could snatch away the tejas of all and was pervading the entire dsramas, it was all- pervading, the seed of all and could dazzle the eyes of all.
At the sight of the blissful one, the eyes of all the gods were filled with tears and hair on this body stood and ends. They could have a glimpse of the success ahead. All of them bowed before the mass of lustre. Thereafter all of them got up and went closer to the mass of lustre and looked at it quite carefully.
O Narada, while looking at it carefully the hands of Brahma, the creator of the universe were automatically folded. He made Siva to stand on his right and Dharma to his left and with their mind filled with devotion, all of them started offering prayer to the lord, who is beyond the comprehension of everyone and is the great ort Tt g iRti T H. 1 Brahma said- I bow in reverence to the form of lustre who happens to be the best, bestower of the boons, the cause of the boons and the cause of all the creatures.
He is the one who happens to be the prosperity for all the prosperities, bestower of prosperity and the base of all of them. I bow in reverence to the same lustre.
The one who is all-pervading, uninvolved, the form of Atmana and beyond the comprehension of all, indifferent and the subject of discussion for everyone. I bow in reverence to that lustre.
The one who is of visible and invisible Brahman, the form of flame, eternal and ever lasting, having no qualities as well as possessing all the qualities, I bow in reverence to such a type of lustre. The one who is manifesto beyond description and unmanifest, the supreme one, the one who moves at will and is the form of all. I bow in reverence to such a type of lustre.
He is the one who takes to three forms because of the three qualities {sattva, rajas and tamas).
All the gods have emerged from your rays. You are beyond s'ruti and therefore no one can be aware of your true form.
Therefore the one who is the base of everyone, the form of everyone the cause of everyone's without seed and is the cause of end of everyone and is beyond measures I bow in reverence to the divine lustre like this.
You are the from of all the qualities, the only goal, are discussed by the people of wisdom always but how can I describe your invisible form? I bow in reverence to such a form of tejas.
You are formless as well as with form, having the organ of senses and without them, you have no witness but you serve as a witness of all. 1 therefore adore the form of tejas.
You move at several places without feet, you can see everything without the eyes and can eat without the hands and the mouth, I bow in reverence to that lustre.
WIST gf5ift(i The intellectual are unable to truly visualise the form described in the Vedas but even the Vedas as conceived him beyond description. I, therefore, adore the form of that tejas. You are the one who is the lord of everyone and is otherwise also, the one who happens to be the beginning and end of everything, who happens to be the soul of everyone and also behave otherwise, I adore the form of that tejas.
I am myself the creator of the universe and the Vedas, the protector of Dharma and the destroyer of the universe therefore there is no one else to offer prayer to you.
Dharma was deputed only to serve you. Siva was entrusted at your command to serve as a destroyer for the prescribed period and I have become the creators of the universe because of my serving at your lotus-like feet. Because of you I bestow the reward for the deeds. Therefore you happen to be the lord of the devotees like us.
We are attracted towards the worldly elements in this universe like the word-apple. Similarly there are innumerable devotees of your sin the other globes.
Since the particles of dust and atoms can never be counted similarly the number of your devotees cannot be counted but the one who is the creator of everyone's who can be competent enough to offer prayers to him because the Mahavisnu one in whose hair-pit a complete globe is enshrined happens to be only the sixteenth part of your rays.
All the yogis meditate upon your present, form and with their mind filled with devotion, your devotees always serve at your feet.
Therefore, O lord, you appear before us in your tender, beautiful and attractive form, which is like the new clouds and has dark-complexion, clad in yellow lower garment, having two holding a flute in the hand, wearing a smile on the face, quite harming and the best, wearing a peacock father over the head, decorated with garlands of jasmine flowers, having the sandal- paste plastered over all the limbs. The sandal- paste, kastun, aguru^ and saffron are applied over all the limbs and you are adorned with all the ornaments studded with gem, wearing a kirlt on the head, having the face of the fully blossomed lotus flowers of the winter season and the lips resembling the ripe wood- apples. You are the one having the teeth like the ripe pomegranate seeds, standing under the kadamba tree anxious to perform the divine dance with the cowherdesses, glancing at your smiling face, the one in whose chest Radha
always dwells. Who will not be anxious to have a look at such a charming face of yours?.
Thus speaking Brahma the creator of the universe, started bowing before him again and' again. Similarly, Siva and Dharma also offered prayers to him with their eyes filled with tears and bowing before him again and again. The gods also offered their prayer remaining there. O sage, in that dsrama all the gods were influenced with the lustre of lord Krsna, whosoever will recite this stotra of lord Krsna recited by Brahma, Visnu and Dharma after offering pujd, with devotion daily, he will achieve the inaccessible and deep devotion of the lord.
This is inaccessible to the gods, the demons and the sages and if one gets the slavehood of the lord, all his siddhis including animd and Sdlokya and all the four types of salvation are achieved by him. He is adored in the universe like Visnu and becomes famous like him. He attains success in speech as well as mantras.
ife ■gffer: TTm: i He achieves all the fortunes sound health and his glory spreads in the universe. He achieves sons, knowledge, poetry and the indestructible riches. The goddess LaksmI always resides him.
He becomes chaste and noble and all his people becomes stable. His glory pervades the universe for a long time and ultimately he achieves the abode of lord Krsna.
Chapter-aligned complete witnesses. Sanskrit Wikisource revision 122378 (2017-09-17T09:28:23Z); Shanti Lal Nagar English scan pages n859–n868: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n859/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.