Gaṇapati-khaṇḍa · Chapter 44
Sourceपार्वत्युवाच ।। सर्वे जानन्ति जगति दुर्गां शङ्करकिंकरीम् ।। अपेक्षा रहिता दासी तस्या वै जीवनं वृथा ।। १ ।। ईश्वरस्य समाः सर्वास्तृणपर्वतजातयः ।। दासीपुत्रस्य शिष्यस्य दोषः कस्येति च प्रभो ।। २ ।। विचारं कर्तुमुचितं त्वं च धर्मविदां वरः ।। वीरभद्रः कार्त्तिकेयः पार्षदाः सन्ति साक्षिणः ।।३।। साक्ष्ये मिथ्यां को वदेद्वा द्वावेषां भ्रातरौ समौ ।। साक्ष्ये समे शत्रुमित्रे सतां धर्मनिरूपणे ।। ४ ।। साक्षी सभायां यत्साक्ष्यं जानन्नप्यन्यथा वदेत् ।। कामतः क्रोधतो वाऽपि लोभेन च भयेन च ।। ५ ।। स याति कुम्भीपाकं च निपात्य शतपूरुषम् ।। तैश्च सार्द्धं वसेत्तत्र यावच्चन्द्रदिवाकरम् ।। ६ ।। अहं विबोधितुं शक्ता यन्निर्णेत्री द्वयोरपि ।। तथाऽपि तव साक्षात्तु ममाज्ञा निन्दिता श्रुतौ ।। ७ ।। किंकराणां प्रभा तत्र नृपे वसति संसदि ।। उदिते भास्करे पृथ्व्यां खद्योतो हि यथा प्रभो ।। ८ ।। सुचिरं तपसा प्राप्तं त्वदीयं चरणाम्बुजम् ।। परित्यागभयेनैव सन्ततं भीतया मया ।। ९ ।। यत्किंचित्कोपशोकाभ्यामुक्तं मोहेन तत्परम्।। तत्क्षमस्व जगन्नाथ पुत्रस्नेहाच्च दारुणात् ।। 3.44.१० ।। त्वया यदि परित्यक्ता तदा पुत्रेण तेन किम् ।। साध्व्याः सद्वंशजायाश्च शतपुत्राधिकः पतिः ।। ११ ।। असद्वंशप्रसूता या दुश्शीला ज्ञानवर्जिता ।। स्वामिनं मन्यते नासौ पित्रोर्दोषेण कुत्सिता ।। १२ ।। कुत्सितं पतितं मूढं दरिद्रं रोगिणं जडम् ।। कुलजा विष्णुतुल्यं च कान्तं पश्यति सन्ततम् ।। १३ ।। हुताशनो वा सूर्य्यो वा सर्वतेजस्विनां वरः ।। पतिव्रतातेजसश्च कलां नार्हन्ति षोडशीम्।।१४।। महादानानि पुण्यानि व्रतान्यनशनानि च ।। तपांसि पतिसेवायाः कलां नार्हन्ति षोडशीम्।।१५।। पुत्रोवाऽपि पिता वाऽपि बान्धवोऽथ सहोदरः ।। योषितां कुलजातानां न कश्चित्स्वामिनः समः ।। १६ ।। इत्युक्त्वा स्वामिनं दुर्गा ददर्श पुरतो भृगुम् ।। शम्भोः पदाब्जं सेवन्तं निर्भयं तमुवाच ह।।१७।। पार्वत्युवाच ।। अहो राम महाभाग ब्रह्मवंश्योऽसि पण्डितः ।। पुत्रोऽसि जमदग्नेश्च शिष्यो वै योगिनां गुरोः ।।१८।। माता ते रेणुका साध्वी पद्मांशा सत्कुलोद्भवा ।। मातामहो वैष्णवश्च मातुलश्च ततोऽधिकः ।। । ।। १९ ।। त्वं च रेणुकभूपस्य मनुवंशोद्भवस्य च ।। दौहित्रो मातुलः साधुः शूरो विष्णुपदाश्रयः ।। 3.44.२० ।। कस्य दोषेण दुर्द्धर्षस्त्वं न जानेऽप्यशुद्धधीः ।। येषां दोषैर्जनो दुष्टस्तमृते शुद्धमानसः ।। २१ ।। अमोघं प्राप्य पर्शुं च गुरुं च करुणानिधिम् ।। परीक्षां क्षत्त्रिये कृत्वा बभूवास्य सुते पुनः ।। २२ ।। गुरवे दक्षिणादानमुचितं च श्रुतौ श्रुतम् ।। भग्नो दन्तस्तत्सुतस्य च्छिन्धि मस्तकमप्यहो ।।२३।। गणेश्वरं रणे जित्वा स्थितश्चेदावयोः पुरः ।। स त्वं लब्ध्वाऽऽशिषो लोके पूजितोऽभूर्जगत्त्रये।।२४।। पर्शुनाऽमोघवीर्य्येण शङ्करस्य वरेण च ।। हन्तुं शक्तः सृगालश्च सिंहं शार्दूलमाखुभुक्।।२५।। त्वद्विधं लक्षकोटिं च हन्तुं शक्तो गणेश्वरः ।। जितेन्द्रियाणां प्रवरो नहि हन्ति च मक्षिकाम् ।। २६ ।। तेजसा कृष्णतुल्योऽयं कृष्णांशश्च गणेश्वरः ।। देशश्चान्ये कृष्णकलाः पूजाऽस्य पुरतस्ततः ।। २७ ।। व्रतप्रभावतः प्राप्तः शङ्करस्य वरेण च ।। शोकेनातिकठोरेण नहि सम्पद्विनाऽऽपदम् ।। २८ ।। इत्युक्त्वा पार्वती रोषात्तं रामं हन्तुमुद्यता ।। रामः सस्मार तं कृष्णं प्रणम्य मनसा गुरुम् ।।२९।। एतस्मिन्नन्तरे दुर्गा ददर्श पुरतो द्विजम् ।। अतीव वामनं बालं सूर्य्यकोटिसमप्रभम्।। 3.44.३० ।। शुक्लदन्तं शुक्लवासं शुक्लयज्ञोपवीतिनम् ।। दण्डिनं छत्रिणं चैव सुप्रभं तिलकोज्ज्वलम्।। ।। ३१ ।। दधतं तुलसीमालां सस्मितं सुमनोहरम् ।। रत्नकेयूरवलयं रत्नमालाविभूषितम् ।। ३२ ।। रत्ननूपुरपादं च सद्रत्नमुकुटोज्ज्वलम् ।। रत्नकुण्डलयुग्माढ्यगण्डस्थलविराजितम् ।। ३३ ।। स्थिरमुद्रां दर्शयन्तं भक्तवामकरेण च ।। दक्षिणेऽभयमुद्रां च भक्तेशं भक्तवत्सलम् ।। ३४ ।। बालिकाबालकगणैर्नागरैः सस्मितैर्युतम् ।। कैलासवासिभिः सर्वैरावृद्धैरीक्षितं मुदा ।। ३९ ।। तं दृष्ट्वा सम्भ्रमाच्छम्भुः सभृत्यः सहपुत्रकः ।। मूर्ध्ना भक्त्या प्राणमच्च दुर्गायै दण्डवद्भुवि ।। ३६ ।। आशिषं प्रददौ बालः सर्वेभ्यो वाञ्छितप्रदाम् ।। तं दृष्ट्वा बालकाः सर्वे महाश्चर्य्यं ययुर्भिया ।। ३७ ।। दत्त्वा तस्मै शिवो भक्त्या तूपचारांस्तु षोडश ।। पूजां चकार श्रुत्युक्तां परिपूर्णतमस्य च ।। ३८ ।। तुष्टाव काण्वशाखोक्तस्तोत्रेण नतकन्धरः ।। पुलकाङ्कितसर्वांगो भगवन्तं सनातनम् ।। ।। ३९ ।। रत्नसिंहासनस्थं च प्रावोचच्छङ्करः स्वयम् ।। अतीव तेजसाऽत्यन्तं प्रच्छन्नाकृतिमेव च ।। 3.44.४० ।। शंकर उवाच ।। आत्मारामेषु कुशलप्रश्नोऽतीव विडम्बनम् ।। ते शश्वत्कुशलाधाराः कुशलाः कुशलप्रदाः ।। ४१ ।। अयने सफलं जन्म जीवितं च सुजीवितम् ।। प्राप्तस्त्वमतिथिब्रह्मन्कृष्णसेवाफलोदयात् ।। ४२ ।। परिपूर्णतमः कृष्णो लोकनिस्तारहेतवे ।। पुण्यक्षेत्रे हि कलया भारते च कृपानिधिः ।। ४३ ।। अतिथिः पूजितो येन पूजिताः सर्वदेवताः ।। अतिथिर्यस्य सन्तुष्टस्तस्य तुष्टो हरिः स्वयम् ।।४४।। स्नानेन सर्वतीर्थेषु सर्वदानेन यत्फलम् ।। सर्वव्रतोपवासेन सर्वयज्ञेषु दीक्षया ।। ४५' ।। सर्वैस्तपोभिर्विविधैर्नित्यैर्नैमित्तिकादिभिः ।। तदेवातिथिसेवायाः कलां नार्हन्ति षोडशीम् ।। ४६ ।। अतिथिर्यस्य भग्नाशो याति रुष्टश्च मन्दिरात् ।। कोटिजन्मार्जितं पुण्यं तस्य नश्यति निश्चितम् ।। ४७ ।। स्त्रीगोघ्नश्च कृतघ्नश्च ब्रह्मघ्नो गुरुतल्पगः ।। पितृमातृगुरूणां च निन्दको नरघातकः ।। ४८ ।। सन्ध्याहीनः स्वघाती च सत्यघ्नो हरिनिन्दकः ।। ब्रह्मस्वस्थाप्यहारी च मिथ्यासाक्ष्यप्रदायकः ।। ४९ ।। मित्रद्रोही कृतघ्नश्च वृषवाहश्च सूपकृत् ।। शवदाही ग्रामयाजी ब्राह्मणो वृषलीपतिः ।। 3.44.५० ।। शूद्रश्राद्धान्नभोजी च शूद्रश्राद्धेषु भोजकः ।। कन्याविक्रयकारी च श्रीहरेर्नामविक्रयी ।। ५१ ।। लाक्षामांसतिलानां च लवणस्य तिलस्य च ।। विक्रेता ब्राह्मणश्चैव तुरगाणां गवां तथा ।। ५२ ।। एकादशीकृष्णसेवाहीनो विप्रश्च भारते।। एते महापातकिनस्त्रिषु लोकेषु निन्दिताः।।५३।। कालसूत्रे च नरके पतन्ति ब्रह्मणां शतम् ।। एतेभ्योऽप्यधिकः सोऽपि यश्चातिथिपराङ्मुखः ।। ५४ ।। नारायण उवाच ।। शङ्करस्य वचः श्रुत्वा सन्तुष्टः श्रीहरिः स्वयम् ।। मेघगम्भीरया वाचा तमुवाच जगत्पतिः ।। ९५ ।। विष्णुरुवाच ।। श्वेतद्वीपादागतोऽहं ज्ञात्वा कोलाहलं च वः ।। अस्य रामस्य रक्षार्थं कृष्णभक्तस्य साम्प्रतम् ।। ५६ ।। नैतेषां कृष्णभक्तानामशुभं विद्यते क्वचित् ।। रक्षामि तांश्चक्रहस्तो गुरुमन्यं विना शिव ।। ५७ ।। नाहं पाता गुरौ रुष्टे बलवद्गुरुहेलनम् ।। तत्परः पातकी नास्ति सेवाहीनो गुरोश्च यः ।। ५८ ।। मान्यः पूज्यश्च सर्वेभ्यः सर्वेषां जनको भवेत् ।। अहो यस्य प्रसादेन सर्वान्पश्यति मानवः ।। ५९ ।। जनको जन्मदानाच्च पालनाच्च पिता नृणाम् ।। ततो विस्तारकरणात्कलया स प्रजापतिः ।। 3.44.६० ।। पितुः शतगुणं माता पोषणाद्गर्भधारणात् ।। वन्द्या पूज्या च मान्या च प्रसूस्स्याद्वै वसुन्धरा ।। ६१ ।। मातुः शतगुणं वन्द्यः पूज्यो मान्योऽन्नदायकः ।। यद्विना नश्वरो देहो विष्णुश्च कलयाऽन्नदः ।। ६२ ।। अन्नदातुः शतगुणोऽभीष्टदेवः परः स्मृतः ।। गुरुस्तस्माच्छतगुणो विद्यामन्त्रप्रदायकः ।। ६३ ।। अज्ञानतिमिराच्छन्नं ज्ञानदीपेन चक्षुषा ।। यः सर्वार्थं दर्शयति तत्परो नैव बान्धवः ।।६४।। गुरुदत्तेन मन्त्रेण तपसेष्टसुखं लभेत्।। सर्वज्ञत्वं सर्वसिद्धिं तत्परो नैव बान्धवः।।६५।। सर्वं जयति सर्वत्र विद्यया गुरुदत्तया ।। तस्मात्पूज्यो हि जगति को वा बन्धुस्ततोऽधिकः ।। ६६ ।। विद्यान्धो वा धनान्धो वा यो मूढो न भजेद्गुरुम् ।। ब्रह्महत्यादिभिः पापैः स लिप्तो नात्र संशयः ।। ६७ ।। दरिद्रं पतितं क्षुद्रं नरबुद्ध्याऽऽचरेद्गुरुम् ।। तीर्थस्नातोऽपि न शुचिर्नाधिकारी च कर्मसु ।। ६८ ।। पितरं मातरं भार्य्यां गुरुपत्नीं गुरुं परम् ।। यो न पुष्णाति कापट्यात्स महापातकी शिव ।। ६९ ।। गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।। गुरुरेव परं ब्रह्म गुरुर्भास्कररूपकः ।। 3.44.७० ।। गुरुश्चन्द्रस्तथेन्द्रश्च वायुश्च वरुणोऽनलः ।। सर्वरूपो हि भगवान्परमात्मा स्वयं गुरुः ।। ७१ ।। नास्ति वेदात्परं शास्त्रं नहि कृष्णात्परः सुरः ।। नास्ति गङ्गासमं तीर्थं न पुष्पं तुलसीदलात् ।। ७२ ।। नास्ति क्षमावती भूमेः पुत्रान्नास्त्यपरः प्रियः ।। न च दैवात्परा शक्तिर्नैकादश्याः परं व्रतम् ।। ७३ ।। शालग्रामात्परो यन्त्रो न क्षेत्रं भारतात्परम् ।। परं पुण्यस्थलानां च पुण्यं वृन्दावनं यथा ।। ७४ ।। मोक्षदानां यथा काशी वैष्णवानां यथा शिवः ।। न पार्वत्याः परा साध्वी न गणेशात्परो वशी ।।७५।। न च विद्यासमो बन्धुर्नास्ति कश्चिद्गुरोः परः ।। विद्यादातुः पुत्रदारौ तत्समौ नात्र संशयः ।। ७६ ।। गुरुस्त्रियां च पुत्रे चाप्यभवद्रामहेलनम् ।। परं सम्मार्जनं कर्तुमागतोऽहं तवालयम् ।। ७७ ।। नारायण उवाच ।। इत्येवमुक्त्वा शम्भुं च दुर्गां सम्बोध्य नारद ।। उवाच भगवांस्तत्र सत्यसारं परं वचः ।। ७८ ।। श्रीविष्णुरुवाच ।। शृणु देवि प्रवक्ष्यामि मदीयं वचनं शुभम् ।। नीतियुक्तं वेदसारं परिणामसुखावहम् ।। ७९ ।। यथा ते गजवक्त्रश्च कार्त्तिकेयश्च पार्वति ।। । तथा परशुरामश्च भार्गवो नात्र संशयः ।। 3.44.८० ।। नास्त्येषु स्नेहभेदश्च तव वा शंकरस्य च ।। विचार्य्य सर्वं सर्वज्ञे कुरु मातर्यथोचितम् ।। ८१ ।। पुत्रेण सार्द्धं पुत्रस्य विवादो दैवदोषतः ।। दैवं हन्तुं को हि शक्तो दैवं च बलवत्तरम् ।। ८२ ।। पुत्राभिधानं वेदेषु पश्य वत्से वरानने ।। एकदन्त इति ख्यातं सर्वदेवनमस्कृतम् ।। ८३ ।। पुत्रनामाष्टकं स्तोत्रं सामवेदोक्तमीश्वरि ।। शृणुष्वावहितं मातः सर्वविघ्नहरं परम् ।। ८४ ।। विष्णुरुवाच ।। गणेशमेकदन्तं च हेरम्बं विघ्ननायकम् ।। लम्बोदरं शूर्पकर्णं गजवक्त्रं गुहाग्रजम् ।। ८५ ।। अष्टाख्यार्थं च पुत्रस्य शृणु मातर्हरप्रिये ।। स्तोत्राणां सारभूतं च सर्वविघ्नहरं परम् ।। ८६ ।। ज्ञानार्थवाचको गश्च णश्च निर्वाणवाचकः ।। तयोरीशं परं ब्रह्म गणेशं प्रणमाम्यहम् ।। ८७ ।। एकशब्दः प्रधानार्थो दन्तश्च बलवाचकः ।। बलं प्रधानं सर्वस्मादेकदन्तं नमाम्यहम् ।। ८८ ।। दीनार्थवाचको हेश्च रम्बः पालकवाचकः ।। पालकं दीनलोकानां हेरम्बं प्रणमाम्यहम् ।। ८९ ।। विपत्तिवाचको विघ्नो नायकः खण्डनार्थकः ।। विपत्खण्डनकारं तं प्रणमे विघ्ननायकम् ।। ।। 3.44.९० ।। विष्णुदत्तैश्च नैवेद्यैर्यस्य लम्बं पुरोदरम् ।। पित्रा दत्तैश्च विविधैर्वन्दे लम्बोदरं च तम् ।। ९१ ।। शूर्पाकारौ च यत्कर्णौ विघ्नवारणकारकौ ।। सम्पद्दौ ज्ञानरूपौ च शूर्पकर्णं नमाम्यहम् ।।९२।। विष्णुप्रसादं मुनिना दत्तं यन्मूर्ध्नि पुष्पकम् ।। तद्गजेन्द्रमुखं कान्तं गजवक्त्रं नमाम्यहम् ।।९३ ।। गुहस्याग्रे च जातोऽयमाविर्भूतो हरालये ।। वन्दे गुहाग्रजं देवं सर्वदेवाग्रपूजितम्।। ।। ९४ ।। एतन्नामाष्टकं दुर्गे नानाशक्तियुतं परम् ।। एतन्नामाष्टकं स्तोत्रं नानार्थसहितं शुभम् ।। ९५ ।। त्रिसन्ध्यं यः पठेन्नित्यं स सुखी सर्वतो जयी ।। ततो विघ्नाः पलायन्ते वैनतेयाद्यथोरगाः ।। ९६ ।। गणेश्वरप्रसादेन महाज्ञानी भवेद्ध्रुवम् ।। पुत्रार्थी लभते पुत्रं भार्य्यार्थी कुशलां स्त्रियम् ।।९७।। महाजडः कवीन्द्रश्च विद्यावांश्च भवेद्ध्रुवम् ।। पुत्रस्त्वं पश्य वेदे च तथा कोपं च नो कुरु।। ।। ९८ ।। इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे गणेशस्तोत्रकथनं नाम चतुश्चत्वारिंशत्तमोऽध्यायः ।। ४४ ।।
pārvatyuvāca || sarve jānanti jagati durgāṃ śaṅkarakiṃkarīm || apekṣā rahitā dāsī tasyā vai jīvanaṃ vṛthā || 1 || īśvarasya samāḥ sarvāstṛṇaparvatajātayaḥ || dāsīputrasya śiṣyasya doṣaḥ kasyeti ca prabho || 2 || vicāraṃ kartumucitaṃ tvaṃ ca dharmavidāṃ varaḥ || vīrabhadraḥ kārttikeyaḥ pārṣadāḥ santi sākṣiṇaḥ ||3|| sākṣye mithyāṃ ko vadedvā dvāveṣāṃ bhrātarau samau || sākṣye same śatrumitre satāṃ dharmanirūpaṇe || 4 || sākṣī sabhāyāṃ yatsākṣyaṃ jānannapyanyathā vadet || kāmataḥ krodhato vā'pi lobhena ca bhayena ca || 5 || sa yāti kumbhīpākaṃ ca nipātya śatapūruṣam || taiśca sārddhaṃ vasettatra yāvaccandradivākaram || 6 || ahaṃ vibodhituṃ śaktā yannirṇetrī dvayorapi || tathā'pi tava sākṣāttu mamājñā ninditā śrutau || 7 || kiṃkarāṇāṃ prabhā tatra nṛpe vasati saṃsadi || udite bhāskare pṛthvyāṃ khadyoto hi yathā prabho || 8 || suciraṃ tapasā prāptaṃ tvadīyaṃ caraṇāmbujam || parityāgabhayenaiva santataṃ bhītayā mayā || 9 || yatkiṃcitkopaśokābhyāmuktaṃ mohena tatparam|| tatkṣamasva jagannātha putrasnehācca dāruṇāt || 3.44.10 || tvayā yadi parityaktā tadā putreṇa tena kim || sādhvyāḥ sadvaṃśajāyāśca śataputrādhikaḥ patiḥ || 11 || asadvaṃśaprasūtā yā duśśīlā jñānavarjitā || svāminaṃ manyate nāsau pitrordoṣeṇa kutsitā || 12 || kutsitaṃ patitaṃ mūḍhaṃ daridraṃ rogiṇaṃ jaḍam || kulajā viṣṇutulyaṃ ca kāntaṃ paśyati santatam || 13 || hutāśano vā sūryyo vā sarvatejasvināṃ varaḥ || pativratātejasaśca kalāṃ nārhanti ṣoḍaśīm||14|| mahādānāni puṇyāni vratānyanaśanāni ca || tapāṃsi patisevāyāḥ kalāṃ nārhanti ṣoḍaśīm||15|| putrovā'pi pitā vā'pi bāndhavo'tha sahodaraḥ || yoṣitāṃ kulajātānāṃ na kaścitsvāminaḥ samaḥ || 16 || ityuktvā svāminaṃ durgā dadarśa purato bhṛgum || śambhoḥ padābjaṃ sevantaṃ nirbhayaṃ tamuvāca ha||17|| pārvatyuvāca || aho rāma mahābhāga brahmavaṃśyo'si paṇḍitaḥ || putro'si jamadagneśca śiṣyo vai yogināṃ guroḥ ||18|| mātā te reṇukā sādhvī padmāṃśā satkulodbhavā || mātāmaho vaiṣṇavaśca mātulaśca tato'dhikaḥ || | || 19 || tvaṃ ca reṇukabhūpasya manuvaṃśodbhavasya ca || dauhitro mātulaḥ sādhuḥ śūro viṣṇupadāśrayaḥ || 3.44.20 || kasya doṣeṇa durddharṣastvaṃ na jāne'pyaśuddhadhīḥ || yeṣāṃ doṣairjano duṣṭastamṛte śuddhamānasaḥ || 21 || amoghaṃ prāpya parśuṃ ca guruṃ ca karuṇānidhim || parīkṣāṃ kṣattriye kṛtvā babhūvāsya sute punaḥ || 22 || gurave dakṣiṇādānamucitaṃ ca śrutau śrutam || bhagno dantastatsutasya cchindhi mastakamapyaho ||23|| gaṇeśvaraṃ raṇe jitvā sthitaścedāvayoḥ puraḥ || sa tvaṃ labdhvā''śiṣo loke pūjito'bhūrjagattraye||24|| parśunā'moghavīryyeṇa śaṅkarasya vareṇa ca || hantuṃ śaktaḥ sṛgālaśca siṃhaṃ śārdūlamākhubhuk||25|| tvadvidhaṃ lakṣakoṭiṃ ca hantuṃ śakto gaṇeśvaraḥ || jitendriyāṇāṃ pravaro nahi hanti ca makṣikām || 26 || tejasā kṛṣṇatulyo'yaṃ kṛṣṇāṃśaśca gaṇeśvaraḥ || deśaścānye kṛṣṇakalāḥ pūjā'sya puratastataḥ || 27 || vrataprabhāvataḥ prāptaḥ śaṅkarasya vareṇa ca || śokenātikaṭhoreṇa nahi sampadvinā''padam || 28 || ityuktvā pārvatī roṣāttaṃ rāmaṃ hantumudyatā || rāmaḥ sasmāra taṃ kṛṣṇaṃ praṇamya manasā gurum ||29|| etasminnantare durgā dadarśa purato dvijam || atīva vāmanaṃ bālaṃ sūryyakoṭisamaprabham|| 3.44.30 || śukladantaṃ śuklavāsaṃ śuklayajñopavītinam || daṇḍinaṃ chatriṇaṃ caiva suprabhaṃ tilakojjvalam|| || 31 || dadhataṃ tulasīmālāṃ sasmitaṃ sumanoharam || ratnakeyūravalayaṃ ratnamālāvibhūṣitam || 32 || ratnanūpurapādaṃ ca sadratnamukuṭojjvalam || ratnakuṇḍalayugmāḍhyagaṇḍasthalavirājitam || 33 || sthiramudrāṃ darśayantaṃ bhaktavāmakareṇa ca || dakṣiṇe'bhayamudrāṃ ca bhakteśaṃ bhaktavatsalam || 34 || bālikābālakagaṇairnāgaraiḥ sasmitairyutam || kailāsavāsibhiḥ sarvairāvṛddhairīkṣitaṃ mudā || 39 || taṃ dṛṣṭvā sambhramācchambhuḥ sabhṛtyaḥ sahaputrakaḥ || mūrdhnā bhaktyā prāṇamacca durgāyai daṇḍavadbhuvi || 36 || āśiṣaṃ pradadau bālaḥ sarvebhyo vāñchitapradām || taṃ dṛṣṭvā bālakāḥ sarve mahāścaryyaṃ yayurbhiyā || 37 || dattvā tasmai śivo bhaktyā tūpacārāṃstu ṣoḍaśa || pūjāṃ cakāra śrutyuktāṃ paripūrṇatamasya ca || 38 || tuṣṭāva kāṇvaśākhoktastotreṇa natakandharaḥ || pulakāṅkitasarvāṃgo bhagavantaṃ sanātanam || || 39 || ratnasiṃhāsanasthaṃ ca prāvocacchaṅkaraḥ svayam || atīva tejasā'tyantaṃ pracchannākṛtimeva ca || 3.44.40 || śaṃkara uvāca || ātmārāmeṣu kuśalapraśno'tīva viḍambanam || te śaśvatkuśalādhārāḥ kuśalāḥ kuśalapradāḥ || 41 || ayane saphalaṃ janma jīvitaṃ ca sujīvitam || prāptastvamatithibrahmankṛṣṇasevāphalodayāt || 42 || paripūrṇatamaḥ kṛṣṇo lokanistārahetave || puṇyakṣetre hi kalayā bhārate ca kṛpānidhiḥ || 43 || atithiḥ pūjito yena pūjitāḥ sarvadevatāḥ || atithiryasya santuṣṭastasya tuṣṭo hariḥ svayam ||44|| snānena sarvatīrtheṣu sarvadānena yatphalam || sarvavratopavāsena sarvayajñeṣu dīkṣayā || 45' || sarvaistapobhirvividhairnityairnaimittikādibhiḥ || tadevātithisevāyāḥ kalāṃ nārhanti ṣoḍaśīm || 46 || atithiryasya bhagnāśo yāti ruṣṭaśca mandirāt || koṭijanmārjitaṃ puṇyaṃ tasya naśyati niścitam || 47 || strīgoghnaśca kṛtaghnaśca brahmaghno gurutalpagaḥ || pitṛmātṛgurūṇāṃ ca nindako naraghātakaḥ || 48 || sandhyāhīnaḥ svaghātī ca satyaghno harinindakaḥ || brahmasvasthāpyahārī ca mithyāsākṣyapradāyakaḥ || 49 || mitradrohī kṛtaghnaśca vṛṣavāhaśca sūpakṛt || śavadāhī grāmayājī brāhmaṇo vṛṣalīpatiḥ || 3.44.50 || śūdraśrāddhānnabhojī ca śūdraśrāddheṣu bhojakaḥ || kanyāvikrayakārī ca śrīharernāmavikrayī || 51 || lākṣāmāṃsatilānāṃ ca lavaṇasya tilasya ca || vikretā brāhmaṇaścaiva turagāṇāṃ gavāṃ tathā || 52 || ekādaśīkṛṣṇasevāhīno vipraśca bhārate|| ete mahāpātakinastriṣu lokeṣu ninditāḥ||53|| kālasūtre ca narake patanti brahmaṇāṃ śatam || etebhyo'pyadhikaḥ so'pi yaścātithiparāṅmukhaḥ || 54 || nārāyaṇa uvāca || śaṅkarasya vacaḥ śrutvā santuṣṭaḥ śrīhariḥ svayam || meghagambhīrayā vācā tamuvāca jagatpatiḥ || 95 || viṣṇuruvāca || śvetadvīpādāgato'haṃ jñātvā kolāhalaṃ ca vaḥ || asya rāmasya rakṣārthaṃ kṛṣṇabhaktasya sāmpratam || 56 || naiteṣāṃ kṛṣṇabhaktānāmaśubhaṃ vidyate kvacit || rakṣāmi tāṃścakrahasto gurumanyaṃ vinā śiva || 57 || nāhaṃ pātā gurau ruṣṭe balavadguruhelanam || tatparaḥ pātakī nāsti sevāhīno gurośca yaḥ || 58 || mānyaḥ pūjyaśca sarvebhyaḥ sarveṣāṃ janako bhavet || aho yasya prasādena sarvānpaśyati mānavaḥ || 59 || janako janmadānācca pālanācca pitā nṛṇām || tato vistārakaraṇātkalayā sa prajāpatiḥ || 3.44.60 || pituḥ śataguṇaṃ mātā poṣaṇādgarbhadhāraṇāt || vandyā pūjyā ca mānyā ca prasūssyādvai vasundharā || 61 || mātuḥ śataguṇaṃ vandyaḥ pūjyo mānyo'nnadāyakaḥ || yadvinā naśvaro deho viṣṇuśca kalayā'nnadaḥ || 62 || annadātuḥ śataguṇo'bhīṣṭadevaḥ paraḥ smṛtaḥ || gurustasmācchataguṇo vidyāmantrapradāyakaḥ || 63 || ajñānatimirācchannaṃ jñānadīpena cakṣuṣā || yaḥ sarvārthaṃ darśayati tatparo naiva bāndhavaḥ ||64|| gurudattena mantreṇa tapaseṣṭasukhaṃ labhet|| sarvajñatvaṃ sarvasiddhiṃ tatparo naiva bāndhavaḥ||65|| sarvaṃ jayati sarvatra vidyayā gurudattayā || tasmātpūjyo hi jagati ko vā bandhustato'dhikaḥ || 66 || vidyāndho vā dhanāndho vā yo mūḍho na bhajedgurum || brahmahatyādibhiḥ pāpaiḥ sa lipto nātra saṃśayaḥ || 67 || daridraṃ patitaṃ kṣudraṃ narabuddhyā''caredgurum || tīrthasnāto'pi na śucirnādhikārī ca karmasu || 68 || pitaraṃ mātaraṃ bhāryyāṃ gurupatnīṃ guruṃ param || yo na puṣṇāti kāpaṭyātsa mahāpātakī śiva || 69 || gururbrahmā gururviṣṇurgururdevo maheśvaraḥ || gurureva paraṃ brahma gururbhāskararūpakaḥ || 3.44.70 || guruścandrastathendraśca vāyuśca varuṇo'nalaḥ || sarvarūpo hi bhagavānparamātmā svayaṃ guruḥ || 71 || nāsti vedātparaṃ śāstraṃ nahi kṛṣṇātparaḥ suraḥ || nāsti gaṅgāsamaṃ tīrthaṃ na puṣpaṃ tulasīdalāt || 72 || nāsti kṣamāvatī bhūmeḥ putrānnāstyaparaḥ priyaḥ || na ca daivātparā śaktirnaikādaśyāḥ paraṃ vratam || 73 || śālagrāmātparo yantro na kṣetraṃ bhāratātparam || paraṃ puṇyasthalānāṃ ca puṇyaṃ vṛndāvanaṃ yathā || 74 || mokṣadānāṃ yathā kāśī vaiṣṇavānāṃ yathā śivaḥ || na pārvatyāḥ parā sādhvī na gaṇeśātparo vaśī ||75|| na ca vidyāsamo bandhurnāsti kaścidguroḥ paraḥ || vidyādātuḥ putradārau tatsamau nātra saṃśayaḥ || 76 || gurustriyāṃ ca putre cāpyabhavadrāmahelanam || paraṃ sammārjanaṃ kartumāgato'haṃ tavālayam || 77 || nārāyaṇa uvāca || ityevamuktvā śambhuṃ ca durgāṃ sambodhya nārada || uvāca bhagavāṃstatra satyasāraṃ paraṃ vacaḥ || 78 || śrīviṣṇuruvāca || śṛṇu devi pravakṣyāmi madīyaṃ vacanaṃ śubham || nītiyuktaṃ vedasāraṃ pariṇāmasukhāvaham || 79 || yathā te gajavaktraśca kārttikeyaśca pārvati || | tathā paraśurāmaśca bhārgavo nātra saṃśayaḥ || 3.44.80 || nāstyeṣu snehabhedaśca tava vā śaṃkarasya ca || vicāryya sarvaṃ sarvajñe kuru mātaryathocitam || 81 || putreṇa sārddhaṃ putrasya vivādo daivadoṣataḥ || daivaṃ hantuṃ ko hi śakto daivaṃ ca balavattaram || 82 || putrābhidhānaṃ vedeṣu paśya vatse varānane || ekadanta iti khyātaṃ sarvadevanamaskṛtam || 83 || putranāmāṣṭakaṃ stotraṃ sāmavedoktamīśvari || śṛṇuṣvāvahitaṃ mātaḥ sarvavighnaharaṃ param || 84 || viṣṇuruvāca || gaṇeśamekadantaṃ ca herambaṃ vighnanāyakam || lambodaraṃ śūrpakarṇaṃ gajavaktraṃ guhāgrajam || 85 || aṣṭākhyārthaṃ ca putrasya śṛṇu mātarharapriye || stotrāṇāṃ sārabhūtaṃ ca sarvavighnaharaṃ param || 86 || jñānārthavācako gaśca ṇaśca nirvāṇavācakaḥ || tayorīśaṃ paraṃ brahma gaṇeśaṃ praṇamāmyaham || 87 || ekaśabdaḥ pradhānārtho dantaśca balavācakaḥ || balaṃ pradhānaṃ sarvasmādekadantaṃ namāmyaham || 88 || dīnārthavācako heśca rambaḥ pālakavācakaḥ || pālakaṃ dīnalokānāṃ herambaṃ praṇamāmyaham || 89 || vipattivācako vighno nāyakaḥ khaṇḍanārthakaḥ || vipatkhaṇḍanakāraṃ taṃ praṇame vighnanāyakam || || 3.44.90 || viṣṇudattaiśca naivedyairyasya lambaṃ purodaram || pitrā dattaiśca vividhairvande lambodaraṃ ca tam || 91 || śūrpākārau ca yatkarṇau vighnavāraṇakārakau || sampaddau jñānarūpau ca śūrpakarṇaṃ namāmyaham ||92|| viṣṇuprasādaṃ muninā dattaṃ yanmūrdhni puṣpakam || tadgajendramukhaṃ kāntaṃ gajavaktraṃ namāmyaham ||93 || guhasyāgre ca jāto'yamāvirbhūto harālaye || vande guhāgrajaṃ devaṃ sarvadevāgrapūjitam|| || 94 || etannāmāṣṭakaṃ durge nānāśaktiyutaṃ param || etannāmāṣṭakaṃ stotraṃ nānārthasahitaṃ śubham || 95 || trisandhyaṃ yaḥ paṭhennityaṃ sa sukhī sarvato jayī || tato vighnāḥ palāyante vainateyādyathoragāḥ || 96 || gaṇeśvaraprasādena mahājñānī bhaveddhruvam || putrārthī labhate putraṃ bhāryyārthī kuśalāṃ striyam ||97|| mahājaḍaḥ kavīndraśca vidyāvāṃśca bhaveddhruvam || putrastvaṃ paśya vede ca tathā kopaṃ ca no kuru|| || 98 || iti śrībrahmavaivartte mahāpurāṇe tṛtīye gaṇapatikhaṇḍe nāradanārāyaṇasaṃvāde gaṇeśastotrakathanaṃ nāma catuścatvāriṃśattamo'dhyāyaḥ || 44 ||
English translation
The Stotra of Gane^a ParvatT said - Everyone in the universe knows that Durga happens to be the slave of Siva but when the slave has no importance in the household of the lord, the same becomes of no consequence. O lord, in the abode of Siva all the creatures from a straw to the mountain are treated equally. Then who is at fault? My son or your devotee? You are the best in those well- versed in the dharma; therefore, you kindly think over it. Virabhadra, Karttikeya and all other courtiers are witnesses to the event, though both Ganesa and Karttikeya are brothers but who can speak falsehood at the time of giving witness, because at the time of giving evidence according to dharma both friends and foes are considered to be equal.
In the court, if a witness knowingly, influenced by passion, anger and fear, gives false evidence, he is driven to the kumbhlpdka hell with his hundred generations and has to remain there till the life of the sun and moon lasts.
Though I am unable to take a decision on both of them, still it will not be proper for me to do so when you are there, because in these circumstances any opinion of mine will be deplorable in the Vedas.
O lord, when the king is present in the court, all the courtiers appear like fire-flies before the I have achieved the grace of your feet after performing tapas for a long time. I am, therefore, always apprehensive, lest I might be disowned.
Therefore, O lord of the universe, whatever I have spoken in anger or out of affection of my son, you kindly forgive me for the same. Because in case you disown me, then what shall I do with the sons. Because for the chaste lad^' the husband is more important than hu'idreds of The ladies bom in the low caste or those who are wicked and unwise, do not show due respect to the husband because of the defect in their approach because of their parents, The denounce, the fallen, foolish, poor, those suffering from ailment or the deaf and dumb husband who is always considered by a chaste lady like Visnu. Therefore, fire and even the sun cannot compare with the one-sixteenth ray of the All the great charities, merits, vratas and fasting or the performing of tapas cannot be compared with the sixteenth part of the lady serving her husband with devotion.
For the chaste lady, the son, father, brother and real brother cannot be equated with the said - O lord Parasurama, you are bom in a Brahmana family and are quite well-read.
You are the son of Jamadagni and are the pupil of the teacher of the yogis.
Renuka happens to be your mother who was quite a chaste lady bom out of the arhsa of Kamala (LaksmI), your maternal grandfather was a great Vaisnava and your maternal uncle happens to be superior to him in devotion.
You are the son of the daughter of Renuka of the Manu family, your maternal uncle is quite a noble person besides being valorous and always remains devoted to the feet of lord Visnu.
I am unable to understand the cause of your losing wisdom in such a way. The blame by which one becomes wicked and without that blame one gets purified (has to be taken into After receiving the infallible battle-axe from the teacher who happens to be extremely merciftil, you used the same initially on the Ks atriyas and now you have used it on the son of the teacher.
Thus speaking to the lord, Durga looked at Bhrgu who was serving at the lotus-like feet of lord Siva and was fearless. She said to him.
Giving such a type of daksind the teacher has been well rewarded by you. Presently you have only cut off the tusk of the son of the teacher, now you serve his head also. After defeating Ganesvara in the battle-field you will present yourself in the world as victorious and will also earn blessings from us.
You are not aware that by getting the infallible!
weapons from Siva like the battle-axe and | receiving a boon from him, a jackal can kill a I lion and a mouse can kill even a tiger.
Ganesa is competent to kill lakhs and crores of persons like you but the one who has over¬ powered his organs of senses, will never try to kill even a fly.
The leader of the gams is compared with lord Krsna in lustre and happens to be his arhsa alone.
All other gods happen to be his rays. That is why he is adored first of all.
With the influence of vrata, the boon of Siva and after performing great tapas I had achieved him as my husband because no one can achieve pleasure without pain.
Thus speaking, Parvati got ready to pronounce a curse on Parasurama suffering from mental agony. Finding this, Parasurama feeling panicky at heart, started reciting the name of the lord Krs na in his mind, bowing before the teacher in In the meantime Durga saw a dwarfish boy coming to her having the lustre of crores of suns, having white teeth, clad in white garment and yajnopavUa, holding a staff and an umbrella in his hands. His forehead was painted with bright Tilakam and he wore the rosary of Tulasi. He had a serene smile on his face and looked quite pleasant. He was adorned with armlets of gems besides wristlets and the rosary of gems, he had anklets of gems and his feet were quite charming. He was wearing a beautiful crown on his head and gem-studded kundalas appeared in his ears.
He displayed Sthira-mudra with his left hand and Abhaya-mudra with his right hand to his devotees. He happens to be the lord of his Wearing a serene smile on his face, he was surrounded by the boys and girls of the town. All the dwellers of Kailasa, a group of young and old stared at him.
At the sight of the lord, Siva at once offered his salutation to him with devotion, together with his attendants and sons. Durga also prostrated before him; thereafter the boy blessed all those present there for the fulfilment of their desires.
All the children of the town left the place looking at feeT>Gy-with surprise.
the cows and horses, the Brahmana who does not perform Ekadasi vrata and the one who is deprived of the devotion of lord Krsna are considered to be great sinners in the universe and are therefore denounced everywhere, All of them fall into the kdlasutra hell and remain there up to the age of Brahma. The position of those who make the guest to return disappointed is much verse.
Narayana said - On hearing the words of Siva, the lord was pleased and thereafter, the lord of the universe spoke thundering like the clouds.
Visnu said - Listening to the uproar, I have arrived here from Sveta-dvipa in order to protect Parasurtoa the devotee of lord Krsna.
O Siva, the one who is devoted to lord Krsna has never to face miseries anywhere, I protect him always holding a disk in my hand, barring the one who betrays his teacher.
Because I cannot protect a person who annoys his own teacher, the denouncing of the teacher is a terrific sin. There is no other greater sinner than the one who neglects the adoration of the By his grace a human is in a position to look at everything, he is adorable by all and respectable One becomes the father because of giving birth to a human being or becomes the father because of feeding the child and with the expansion is called Prajapati. The mother is a hundred times more adorable than the father because she carries the child in her womb and feeds it. She is more adorable and respectable.
Not only this, she happens to be the form of the The giver of food is a hundred times more adorable and respectable than the mother because the body perishes without food, the giver of food actually is considered to be the form of lord Vis The family god is more adorable than the giver of food and the teacher is a hundred times more adorable than the family god who bestows knowledge and mantra.
A teacher provides the knowledge of lamp to a person who roams in the darkness of ignorance and makes him realise the truth; therefore there is no other brother greater than him.
After adoring with the mantra provided by the guru, a person achieves the desired pleasure, becomes all knowledgeable and achieves all success; there are, therefore, no other relatives greater than the teacher.
A person becomes victorious with the use of arms from the knowledge achieved by him from his teacher, therefore, there are no other relatives more respectable than the teacher in the universe.
Therefore, blinded with knowledge or riches, if a foolish fellow does not serve the teacher, he earns the sin of Brahmahatya. There is no doubt about it.
Therefore if a person adores a teacher who has become a pauper, has fallen or becomes degraded, he cannot be purified even after taking baths in all the sacred places nor does he get entitled to performing all the religious O ^iva, he who does not maintain his own father, mother, wife, teacher, deceitfully, earns a very great sin. Because the teacher happens to be Brahma, Visnu and Siva besides being the eternal Brahmana and the form of Shrya. Guru also is the form of the moon, Indra the wind-god, Varuna and Agni, The teacher happens to be the form of everything and the great soul.
There is no other scripture greater than the Vedas and no other god greater than lord Krsna.
There is no other holy place greater than the Gahga. There is no other leaf greater than the TulasI leaf. There is no other greater in forgiveness than the earth and there is on one else dearer than the son. There is no other strength greater than the destiny and no other vrata greater than Ekadasu There is no other yantra greater than Sdlagrama and there is no other place more sacred than the land of Bharata and out of other sacred places, there is no other place more auspicious than Vmdavana.
w gjr?Tt '^wiorni i There is no other place providing redemption better than Kasi and among the Vaisnavas, there is no other devotee better than Siva himself.
There is no chaste lady better than Parvatl on earth and there is no other god more self- controlled than Ganesa.
There is no relative greater than the learnings and there is no well-wisher greater than the teacher, the wife of the teacher and the teacher's sons are also comparable with the same. There is no doubt about it. Parasurama has insulted the wife and the son of the teacher, I have arrived here in order to remove the same.
TlcTOTt Tit TO: IIV9d II Narayana said - O Narada, thus speaking addressing Siva and Durga, the lord spoke truthful and the best of the words.
Visnu said - O goddess, I am speaking to you so auspicious words which are quite appropriate and are the essence of the Vedas and would be pleasant in result.
O Parvatl, as you had the sons like Ganesa and Karttikeya, similar is the case with Parasurama, there is no doubt about it. O all knowledgeable mother, you do not have any difference in the love for him, nor does Siva has so. Therefore you think over it and do whatever you consider best.
If there has been a controversy between the two sons, it has developed due to the move of the destiny. Who can avert the mover of the destiny which is all powerful?
O daughter, O damsel, you search in the Vedas and you will find that your son is known with the epithet of Ekadanta (single tusk). He is well known with the same epithet; therefore, O goddess, O mother, you kindly listen to the stotra of Ganesa which has been inscribed in the Visnu said - He is known in the Samaveda as Lambodara, ^urpakarna (the one having the ears like winnowing basket), Gajanana, Guhagraja.
These are the eight names given in the scriptures.
O beloved of loved Siva, O mother, you listen from me to the meaning of the eight names of Ganesa which happen to be the gist of the stotra and remove all obstructions.
tns 1gErttJigTtra):i g stands for knowledge, g stands for redemption. The one who is the lord of both of them is known as Ganesa. I bow in reverence to stands for principal, ^ stands for strength.
Therefore the one who is the foremost of the valorous persons is known as Ekadanta, I bow in reverence to him.
giggj: wisgT^EK:i stands for the poor and ^ stands for protector, therefore the one who protects the poor in the universe, is known as Heramba. stands for obstruction or misfortune and '^71^ stands for the one who removes it. Therefore the one who removes misfortunes is known as Vighnanayaka and I adore him.
The one whose belly became protruding because of the excessive eating of the food provided by lord Visnu or his own father, is known by the name of Lambodara. I bow in reverence to him.
The one whose ears are as large as the winnowing baskets for the removal of obstructions, he has been designated as and also bestows riches and learning.
I bow in reverence to the god.
The one on whose head the garland of Vispu was placed by Indra, I bow in reverence to the same Gajendara having the face of an elephant.
He was bom in the house of Siva earlier than Skanda. Therefore he is known as the elder brother of Skanda and I adore him as such.
O Durga, these eight verses comprise of many s'aktis and different meanings and is a devotional stotra for Ganesa.
The one who recites this stotra thrice a day, enjoys all the worldly pleasures and becomes victorious in the universe like Garuda who always overcomes the serpents.
With the grace of Ganesvara he attains all knowledge and learning, the person desirous of a son gets the son, a person desirous of a wife gets a virtuous wife. " The immensely foolish person becomes a great poet and achieves all the learnings; therefore, O daughter, you look into the Vedas and shed away your anger.
Chapter-aligned complete witnesses. Sanskrit Wikisource revision 122357 (2017-09-16T10:05:53Z); Shanti Lal Nagar English scan pages n806–n813: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n806/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.