Gaṇapati-khaṇḍa · Chapter 40
Sourceनारायण उवाच ।। तं गृहीत्वा तदा विष्णौ वैकुण्ठं च गते सति।। सपुत्रं च सहस्राक्षं जघान भृगुनन्दनः।।१।। कृत्वा युद्धं तु सप्ताहं ब्रह्मास्त्रेण प्रयत्नतः ।। राजा कवचहीनोऽपि सपुत्रश्च पपात ह।। पतिते तु सहस्राक्षे कार्तवीर्य्यार्जुनः स्वयम्।। आजगाम महावीरो द्विलक्षाक्षौहिणीयुतः।। ।।३।। सुवर्णरथमारुह्य रत्नसारपरिच्छदम् ।। नानास्त्रं परितः कृत्वा तस्थौ समरमूर्द्धनि।।४।। समरे तं परशुरामो राजेन्द्रं च ददर्श ह ।। रत्नालंकारभूषाढ्यै राजेन्द्राणां च कोटिभिः ।।५।। रत्नातपत्रभूषाढ्यं रत्नालंकारभूषितम् ।। चन्दनोक्षितसर्वांगं सस्मितं सुमनोहरम् ।। ६ ।। राजा दृष्ट्वा मुनीन्द्रं तमवरुह्म रथादहो ।। प्रणम्य रथमारुह्य तस्थौ नृपगणैः सह ।। ७ ।। ददौ शुभाशिषं तस्मै रामश्च समयोचितम् ।। प्रोवाच च गतार्थं तं स्वर्गं गच्छेति सानुगः।।८।। उभयोः सेनयोर्युद्धमभवत्तत्र नारद ।। पलायिता रामशिष्या भ्रातरश्च महाबलाः ।। क्षतविक्षतसर्वाङ्गाः कार्त्तवीर्य्यप्रपीडिताः ।। ९ ।। नृपस्य शरजालेन रामः शस्त्रभृतां वरः ।। न ददर्श स्वसैन्यं च राजसैन्यं तथैव च ।। 3.40.१० ।। चिक्षेप रामश्चाग्नेयं बभूवाग्निमयं रणे ।। निर्वापयामास राजा वारुणेनैव लीलया ।। ११ ।। चिक्षेप रामो गान्धर्वं शैलसर्पसमन्वितम् ।। वायव्येन महाराजः प्रेरयामास लीलया ।। १२ ।। चिक्षेप रामो नागास्त्रं दुर्निवार्य्यं भयंकरम् ।। गारुडेन महाराजः प्रेरयामास लीलया ।। १३ ।। माहेश्वरं च भगवांश्चिक्षेप भृगुनन्दनः ।। निर्वापयामास राजा वैष्णवास्त्रेण लीलया ।। १४ ।। ब्रह्मास्त्रं चिक्षिपे रामो नृपनाशाय नारद ।। ब्रह्मास्त्रेण च शान्तं तत्प्राणनिर्वापणं रणे ।। १५ ।। दत्तदत्तं च यच्छूलमव्यर्थं मन्त्रपूर्वकम् ।। जग्राह राजा परशुरामनाशाय संयुगे ।। १६ ।। शूलं ददर्श रामश्च शतसूर्य्यसमप्रभम् ।। प्रलयाग्रिशिखोद्रिक्तं दुर्निवार्यं सुरैरपि ।। १७ ।। पपात शूलं समरे रामस्योपरि नारद ।। मूर्च्छामवाप स भृगुः पपात च हरिं स्मरन् ।। १८ ।। पतिते तु तदा रामे सर्वे देवा भयाकुलाः ।। आजग्मुः समरं तत्र ब्रह्मविष्णुमहेश्वराः ।। १९ ।। शङ्करश्च महाज्ञानी महाज्ञानेन लीलया ।। ब्राह्मणं जीवयामास तूर्णं नारायणाज्ञया ।। 3.40.२० ।। भृगुश्च चेतनां प्राप्य ददर्श पुरतः सुरान् ।। प्रणनाम परं भक्त्या लज्जानम्रात्मकन्धरः ।। २१ ।। राजा दृष्ट्वा सुरेशांश्च भक्तिनम्रात्मकन्धरः ।। प्रणम्य शिरसा मूर्ध्ना तुष्टाव च सुरेश्वरान् ।। २२ ।। तत्राजगाम भगवान्दत्तात्रेयो रणस्थलम् ।। शिष्यरक्षानिमित्तेन कृपालुर्भक्तवत्सलः ।। २३ ।। भृगुः पाशुपतास्त्रं च सोऽग्रहीत्कोपसंयुतः ।। दत्तदत्तेन दृष्टेन बभूव स्तम्भितो भृगुः ।।२४।। ददर्श स्तम्भितो रामो राजानं रणमूर्द्धनि ।। नानापार्षदयुक्तेन कृष्णेनाऽऽरक्षितं रणे ।।२५।। सुदर्शनं प्रज्वलन्तं भ्रमणं कुर्वता सदा ।। सस्मितेन स्तुतेनैव ब्रह्मविष्णुमहेश्वरैः ।। ।। २६ ।। गोपालशतयुक्तेन गोपवेषविधारिणा ।। नवीनजलदाभेन वंशीहस्तेन गायता ।। २७ ।। एतस्मिन्नन्तरे तत्र वाग्बभूवाशरीरिणी ।। दत्तेन दत्तं कवचं कृष्णस्य परमात्मनः ।। २८ ।। राज्ञोऽस्ति दक्षिणे बाहौ सद्रत्नगुटिकान्वितम् ।। गृहीतकवचे शम्भौ भिक्षया योगिनां गुरौ ।। २९ ।। तदा हन्तुं नृपं शक्तो भृगुश्चेति च नारद ।। श्रुत्वाऽशरीरिणीं वाणीं शङ्करो द्विजरूपधृक्।। 3.40.३० ।। भिक्षां कृत्वा तु कवचमानीय च नृपस्य च ।। शम्भुना भृगवे दत्तं कृष्णस्य कवचं च यत् ।। ३१ ।। एतस्मिन्नन्तरे देवा जग्मुः स्वस्थानमुत्तमम् ।। प्रत्युवाचापि परशुरामो वै समरे नृपम् ।।३२।। परशुराम उवाच ।। राजेन्द्रोत्तिष्ठ समरं कुरु साहसपूर्वकम् ।। कालभेदे जयो नृणां कालभेदे पराजयः।।३३।। अधीतं विधिवद्दत्तं कृत्स्ना पृथ्वी सुशासिता ।। सम्यक्कृतश्च संग्रामस्त्वयाऽहं मूर्च्छितो ऽधुना।। ३४ ।। जिताः सर्वे च राजेन्द्रा लीलया रावणो जितः ।। जितोऽहं दत्तशूलेन शम्भुना जीवितः पुनः ।। ३५ ।। रामस्य वचनं श्रुत्वा राजा परमधार्मिकः ।। मूर्ध्ना प्रणम्य तं भक्त्या यथार्थोक्तिमुवाच ह ।। ३६ ।। राजोवाच ।। किमधीतं तथा दत्तं का वा पृथ्वी सुशासिता ।। गताः कतिविधा भूपा मादृशा धरणीतले ।। ३७ ।। बुद्धिस्तेजो विक्रमश्च विविधा रणमन्त्रणा ।। श्रीरैश्वर्यं तथा ज्ञानं दानशक्तिश्च लौकिकम् ।। ३८ ।। आचारो विनयो विद्या प्रतिष्ठा परमं तपः ।। सर्वं मनोरमासंगे गतमेव मम प्रभो ।। ३९ ।। सा च स्त्री प्राणतुल्या मे साध्वी पद्मांशसम्भवा ।। यज्ञेषु पत्नी मातेव स्नेहे क्रीडति संगिनी ।।3.40.४०।। आबाल्यात्संगिनी शश्वच्छयने भोजने रणे ।। तां विना प्राणहीनोऽहं विषहीनो यथोरगः ।। ४१ ।। त्वया न दृष्टं युद्धं मे पुरेयं शोचना स्थिता ।। द्वितीया शोचना विप्र हतोऽहं ब्राह्मणेन च ।। ४२ ।। काले सिंहः सृगालं च सृगालः सिंहमेव च ।। काले व्याघ्रं हन्ति मृगो गजेन्द्रं हरिणस्तथा ।। ४३ ।। महिषं मक्षिका काले गरुडं च तथोरगः ।। किङ्करः स्तौति राजेन्द्रं काले राजा च किंकरम्।। ४४ ।। इन्द्रं च मानवः काले काले ब्रह्मा मरिष्यति ।। तिरोभूत्वा सा प्रकृतिः काले श्रीकृष्णविग्रहे ।। ४९ ।। मरिष्यन्ति सुराः सर्वे त्रिलोकस्थाश्चराचराः ।। सर्वे काले लयं यान्ति कालो हि दुरतिक्रमः।।४६।। कालस्य कालः श्रीकृष्णः स्रष्टुः स्रष्टा यथेच्छया।। संहर्ता चैव संहर्तुः पातुः पाता परात्परः।।४७।। महास्थूलात्स्थूलतमः सूक्ष्मात्सूक्ष्मतमः कृशः ।। परमाणुपरः कालः कालस्स्यात्कालभेदकः ।। ४८ ।। यस्य लोमानि विश्वानि स पुमांश्च महाविराट् ।। तेजसा षोडशांशश्च कृष्णस्य परमात्मनः ।।४९।। ततः क्षुद्रविराड् जातः सर्वेषां कारणं परम् ।। यः स्रष्टा च स्वयं ब्रह्मा यन्नाभिकमलोद्भवः ।। 3.40.५० ।। नाभेः कमलदण्डस्य योऽन्तं न प्राप यत्नतः ।। भ्रमणाल्लक्षवर्षं च ततः स्वस्थानसंस्थितः ।। ५१ ।। तपश्चक्रे ततस्तत्र लक्षवर्षं च वायुभुक् ।। ततो ददर्श गोलोकं श्रीकृष्णं च सपार्षदम् ।। ।। ५२ ।। गोपगोपीपरिवृतं द्विभुजं मुरलीधरम् ।। रत्नसिंहासनस्थं च राधावक्षस्थलस्थितम् ।। ५३ ।। दृष्ट्वाऽनुज्ञां गृहीत्वा च प्रणम्य च पुनः पुनः ।। ईश्वरेच्छां च विज्ञाय स्रष्टुं सृष्टिं मनो दधे ।। ५४ ।। यः शिवः सृष्टिसंहर्त्ता स च स्रष्टुर्ललाटजः ।। विष्णुः पाता क्षुद्रविराट् श्वेतद्वीपनिवासकृत् ।। ५५ ।। सृष्टिकारणभूताश्च ब्रह्मविष्णुमहेश्वराः ।। सन्ति विश्वेषु सर्वेषु श्रीकृष्णस्य कलोद्भवाः ।।५६।। तेऽपि देवाः प्राकृतिकाः प्राकृतश्च महाविराट् ।। सर्वप्रसूतिः प्रकृतिः श्रीकृष्णः प्रकृतेः परः ।।५७।। न शक्तः परमेशोऽपि तां शक्तिं प्रकृतिं विना ।। सृष्टिं विधातुं मायेशो न सृष्टिर्मायया विना ।। ५८ ।। सा च कृष्णे तिरोभूय सृष्टिसंहारकारके ।। साऽऽविर्भूता सृष्टिकाले सा च नित्या महेश्वरी ।।५९।। कुलालश्च कटं कर्तुं यथाऽशक्तो मृदं विना।। स्वर्णं विना स्वर्णकारः कुण्डलं कर्तुमक्षमः ।। 3.40.६० ।। सा च शक्तिः सृष्टिकाले पञ्चधा चेश्वरेच्छया ।। राधा पद्मा च सावित्री दुर्गा देवी सरस्वती ।। ६१ ।। प्राणाधिष्ठातृदेवी या कृष्णस्य परमात्मनः ।। प्राणाधिकप्रियतमा सा राधा परिकीर्त्तिता ।। ६२ ।। ऐश्वर्य्याधिष्ठातृदेवी सर्वमङ्गलकारिणी ।। परमानन्दरूपा च सा लक्ष्मीः परिकीर्त्तिता ।।६३।। विद्याधिष्ठातृदेवी या परमेशस्य दुर्लभा ।। या माता वेदशास्त्राणां सा सावित्री प्रकीर्तिता।।६४।। बुद्ध्यधिष्ठातृदेवी या सर्वशक्तिस्वरूपिणी ।। सर्वज्ञानात्मिका सर्वा सा दुर्गा दुर्गनाशिनी ।। ६५ ।। वागधिष्ठातृदेवी या शास्त्रज्ञानप्रदा सदा ।। कृष्णकण्ठोद्भवा सा स्याद्या च देवी सरस्वती।।६६।। पञ्चधाऽऽदौ स्वयं देवी मूलप्रकृतिरीश्वरी ।। ततः सृष्टिक्रमेणैव बहुधा कलया च सा ।। ६७ ।। योषितः प्रकृतेरंशाः पुमांसः पुरुषस्य च ।। मायया सृष्टि काले च तद्विना न भवेद्भवः।।६८।। सृष्टिश्च प्रतिविश्वेषु ब्रह्मन्ब्रह्मोद्भवा सदा ।। पाता विष्णुश्च संहर्त्ता शिवः शश्वच्छिवप्रदः ।।६९।। दत्तदत्तं ज्ञानमिदं राम मह्यं च पुष्करे ।। दीक्षाकाले च माघ्यां च मुनिप्रवरसन्निधौ ।। 3.40.७० ।। इत्युक्त्वा कार्त्तवीर्य्यश्च रामं नत्वा च सस्मितः ।। आरुरोह रथं शीघ्रं गृहीत्वा सशरं धनुः ।। ७१ ।। रामस्ततो राजसैन्यं ब्रह्मास्त्रेण जघान ह ।। नृपं पाशुपतेनैव लीलया श्रीहरिं स्मरन् ।। ७२ ।। एवं त्रिस्सप्तकृत्वश्च क्रमेण च वसुन्धराम् ।। रामश्चकार निर्भूपां लीलया च शिवं स्मरन् ।। ७३ ।। गर्भस्थं मातुरङ्कस्थं शिशुं वृद्धं च मध्यमम् ।। जघान क्षत्रियं रामः प्रतिज्ञापालनाय वै ।। ७४ ।। कार्त्तवीर्य्यश्च गोलोकं त्वगमत्कृष्णसन्निधिम् ।। जगाम तोषात्परशुरामश्च श्रीहरिं स्मरन्।। ७५ ।। त्रिस्सप्तकृत्वो निर्भूपां महीं दृष्ट्वा महेश्वरः ।। रमणं तेन परशुरामं दृष्ट्वा च कातरम् ।। ७६ ।। देवाश्च मुनयो देव्यः सिद्धगन्धर्वकिन्नराः ।। सर्वे चक्रुः पुष्पवृष्टिं राममूर्ध्नि च नारद ।। ७७ ।। स्वर्गे दुन्दुभयो नेदुर्हर्षशब्दो बभूव ह।। यशसा चैव परशुरामस्यापूरितं जगत् ।।७८।। ब्रह्मा भृगुश्च शुक्रश्च वाल्मीकिश्च्यवनस्तथा।। जमदग्निर्ब्रह्मलोकादाजगाम प्रहर्षितः।।७९।। पुलकाञ्चितसर्वाङ्गाः सानन्दाश्च समन्विताः ।। दूर्वापुष्पकराः सर्वे कुर्वन्तो मंगलाशिषः।। ।। 3.40.८० ।। प्रणनाम च तान्रामो दण्डवत्पतितो भुवि ।। क्रोडे चकार ब्रह्माऽऽदौ क्रमात्तातेति संवदन् ।। ८१ ।। तमुवाचाथ परशुरामं ब्रह्मा जगद्गुरुः ।। वेदसारं नीतियुतं परिणामसुखावहम् ।। ८२ ।। ब्रह्मोवाच ।। शृणु राम प्रवक्ष्यामि सर्वसम्पत्करं परम् ।। काण्वशाखोक्तवचनं सत्यं वै सर्वसम्मतम् ।।८३।। पूज्यानामेव सर्वेषामिष्टः पूज्यतमः परः ।। जनको जन्मदानाच्च पालनाच्च पिता स्मृतः ।। ८४ ।। गरीयाञ्जन्मदातुश्च सोऽन्नदाता पिता मुने ।। विनाऽन्नं नश्वरो देहो नित्यं च पितुरुद्भवः ।। ८९ ।। तयोः शतगुणं माता पूज्या मान्या च वन्दिता।। गर्भधारणपोषाभ्यां सैव प्रोक्ता गरीयसी।।८६।। तेभ्यः शतगुणं पूज्योऽभीष्टदेवः श्रुतौ श्रुतः।। ज्ञानविद्यामन्त्रदाताऽभीष्टदेवात्परो गुरुः ।। ८७ ।। गुरुवद्गुरुपुत्रश्च गुरुपत्नी ततोऽधिका ।। देवे रुष्टे गुरू रक्षेद्गुरौ रुष्टे न कश्चन ।। ८८ ।। गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।। गुरुरेव परं ब्रह्म ब्राह्मणेभ्यः प्रियः परः ।। ८९ ।। गुरुर्ज्ञानं ददात्येव ज्ञानं च हरिभक्तिदम् ।। हरिभक्तिप्रदाता यः को वा बन्धुस्ततः परम् ।। 3.40.९० ।। अज्ञानतिमिराच्छन्नो ज्ञानदीपं यतो लभेत् ।। लब्ध्वा च निर्मलं पश्येत्को वा बन्धुस्ततः परः ।। ९१ ।। गुरुदत्तं सुमन्त्रं च जप्त्वा ज्ञानं ततो लभेत् ।। सर्वज्ञत्वाच्च सिद्धिं च को वा बन्धुस्ततोऽधिकः ।। ९२ ।। सुखं जयति सर्वत्र विद्यया गुरुदत्तया ।। यया पूज्योऽपि जगति को वा बन्धुस्ततोऽधिकः ।। ९३ ।। विद्यान्धो वा धनान्धो वा यो मूढो न यजेद्गुरुम् ।। ब्रह्महत्यादिकं पापं लभते नात्र संशयः ।। ९४ ।। दरिद्रं पतितं क्षुद्रं नरबुद्या भजेद्गुरुम् ।। तीर्थस्नातोऽपि न शुचिर्नाधिकारी च कर्मसु ।। ९५ ।। अभीष्टदेवः श्रीकृष्णो गुरुस्ते शङ्करः स्वयम् ।। शरणं गच्छ हे पुत्र देवपूज्यतमं गुरुम् ।। ९६ ।। त्रिस्सप्तकृत्वो निर्भूपा त्वया पृथ्वी कृता यतः ।। प्राप्ता त्वया हरेर्भक्तिस्तं शिवं शरणं व्रज ।। ९७ ।। शिवां च शिवरूपं च शिवदं शिवकारणम् ।। शिवाराध्यं शिवं शान्तं गुरुं त्वं शरणं व्रज ।। ९८ ।। गोलोकनाथो भगवानंशेन शिवरूपधृक् ।। य इष्टदेवः स गुरुस्तमेव शरणं व्रज ।। ९९ ।। आत्मा कृष्णः शिवो ज्ञानं मनोऽहं सर्वजीविषु ।। प्राणा विष्णोस्सा प्रकृतिस्सर्वशक्तियुता सुत ।। 3.40.१००।। ज्ञानदं ज्ञानरूपं च ज्ञानबीजं सनातनम् ।। मृत्युञ्जयं कालकालं तं गुरुं शरणं व्रज ।। १०१ ।। ब्रह्मज्योतिस्स्वरूपं तं भक्तानुग्रहविग्रहम् ।। शरणं व्रज सर्वज्ञं भगवन्तं सनातनम् ।। १०२ ।। प्रकृतिर्लक्षवर्षं च तपस्तप्त्वा यमीश्वरम् ।। कान्तं प्रियपतिं लेभे तं गुरुं शरणं व्रज ।। १०३ ।। इत्युक्त्वा मुनिभिः सार्द्धं जगाम कमलोद्भवः ।। रामश्च गन्तुं कैलासं मनश्चक्रे च नारद ।। १०४ ।। इति श्रीब्रह्मवैवर्त्ते तृतीये गणेशखण्डे नारदनारायणसंवादे भृगोः कैलासगमनोपदेशो नाम चत्वारिंशत्तमोऽध्यायः ।। ४० ।।
nārāyaṇa uvāca || taṃ gṛhītvā tadā viṣṇau vaikuṇṭhaṃ ca gate sati|| saputraṃ ca sahasrākṣaṃ jaghāna bhṛgunandanaḥ||1|| kṛtvā yuddhaṃ tu saptāhaṃ brahmāstreṇa prayatnataḥ || rājā kavacahīno'pi saputraśca papāta ha|| patite tu sahasrākṣe kārtavīryyārjunaḥ svayam|| ājagāma mahāvīro dvilakṣākṣauhiṇīyutaḥ|| ||3|| suvarṇarathamāruhya ratnasāraparicchadam || nānāstraṃ paritaḥ kṛtvā tasthau samaramūrddhani||4|| samare taṃ paraśurāmo rājendraṃ ca dadarśa ha || ratnālaṃkārabhūṣāḍhyai rājendrāṇāṃ ca koṭibhiḥ ||5|| ratnātapatrabhūṣāḍhyaṃ ratnālaṃkārabhūṣitam || candanokṣitasarvāṃgaṃ sasmitaṃ sumanoharam || 6 || rājā dṛṣṭvā munīndraṃ tamavaruhma rathādaho || praṇamya rathamāruhya tasthau nṛpagaṇaiḥ saha || 7 || dadau śubhāśiṣaṃ tasmai rāmaśca samayocitam || provāca ca gatārthaṃ taṃ svargaṃ gaccheti sānugaḥ||8|| ubhayoḥ senayoryuddhamabhavattatra nārada || palāyitā rāmaśiṣyā bhrātaraśca mahābalāḥ || kṣatavikṣatasarvāṅgāḥ kārttavīryyaprapīḍitāḥ || 9 || nṛpasya śarajālena rāmaḥ śastrabhṛtāṃ varaḥ || na dadarśa svasainyaṃ ca rājasainyaṃ tathaiva ca || 3.40.10 || cikṣepa rāmaścāgneyaṃ babhūvāgnimayaṃ raṇe || nirvāpayāmāsa rājā vāruṇenaiva līlayā || 11 || cikṣepa rāmo gāndharvaṃ śailasarpasamanvitam || vāyavyena mahārājaḥ prerayāmāsa līlayā || 12 || cikṣepa rāmo nāgāstraṃ durnivāryyaṃ bhayaṃkaram || gāruḍena mahārājaḥ prerayāmāsa līlayā || 13 || māheśvaraṃ ca bhagavāṃścikṣepa bhṛgunandanaḥ || nirvāpayāmāsa rājā vaiṣṇavāstreṇa līlayā || 14 || brahmāstraṃ cikṣipe rāmo nṛpanāśāya nārada || brahmāstreṇa ca śāntaṃ tatprāṇanirvāpaṇaṃ raṇe || 15 || dattadattaṃ ca yacchūlamavyarthaṃ mantrapūrvakam || jagrāha rājā paraśurāmanāśāya saṃyuge || 16 || śūlaṃ dadarśa rāmaśca śatasūryyasamaprabham || pralayāgriśikhodriktaṃ durnivāryaṃ surairapi || 17 || papāta śūlaṃ samare rāmasyopari nārada || mūrcchāmavāpa sa bhṛguḥ papāta ca hariṃ smaran || 18 || patite tu tadā rāme sarve devā bhayākulāḥ || ājagmuḥ samaraṃ tatra brahmaviṣṇumaheśvarāḥ || 19 || śaṅkaraśca mahājñānī mahājñānena līlayā || brāhmaṇaṃ jīvayāmāsa tūrṇaṃ nārāyaṇājñayā || 3.40.20 || bhṛguśca cetanāṃ prāpya dadarśa purataḥ surān || praṇanāma paraṃ bhaktyā lajjānamrātmakandharaḥ || 21 || rājā dṛṣṭvā sureśāṃśca bhaktinamrātmakandharaḥ || praṇamya śirasā mūrdhnā tuṣṭāva ca sureśvarān || 22 || tatrājagāma bhagavāndattātreyo raṇasthalam || śiṣyarakṣānimittena kṛpālurbhaktavatsalaḥ || 23 || bhṛguḥ pāśupatāstraṃ ca so'grahītkopasaṃyutaḥ || dattadattena dṛṣṭena babhūva stambhito bhṛguḥ ||24|| dadarśa stambhito rāmo rājānaṃ raṇamūrddhani || nānāpārṣadayuktena kṛṣṇenā''rakṣitaṃ raṇe ||25|| sudarśanaṃ prajvalantaṃ bhramaṇaṃ kurvatā sadā || sasmitena stutenaiva brahmaviṣṇumaheśvaraiḥ || || 26 || gopālaśatayuktena gopaveṣavidhāriṇā || navīnajaladābhena vaṃśīhastena gāyatā || 27 || etasminnantare tatra vāgbabhūvāśarīriṇī || dattena dattaṃ kavacaṃ kṛṣṇasya paramātmanaḥ || 28 || rājño'sti dakṣiṇe bāhau sadratnaguṭikānvitam || gṛhītakavace śambhau bhikṣayā yogināṃ gurau || 29 || tadā hantuṃ nṛpaṃ śakto bhṛguśceti ca nārada || śrutvā'śarīriṇīṃ vāṇīṃ śaṅkaro dvijarūpadhṛk|| 3.40.30 || bhikṣāṃ kṛtvā tu kavacamānīya ca nṛpasya ca || śambhunā bhṛgave dattaṃ kṛṣṇasya kavacaṃ ca yat || 31 || etasminnantare devā jagmuḥ svasthānamuttamam || pratyuvācāpi paraśurāmo vai samare nṛpam ||32|| paraśurāma uvāca || rājendrottiṣṭha samaraṃ kuru sāhasapūrvakam || kālabhede jayo nṛṇāṃ kālabhede parājayaḥ||33|| adhītaṃ vidhivaddattaṃ kṛtsnā pṛthvī suśāsitā || samyakkṛtaśca saṃgrāmastvayā'haṃ mūrcchito 'dhunā|| 34 || jitāḥ sarve ca rājendrā līlayā rāvaṇo jitaḥ || jito'haṃ dattaśūlena śambhunā jīvitaḥ punaḥ || 35 || rāmasya vacanaṃ śrutvā rājā paramadhārmikaḥ || mūrdhnā praṇamya taṃ bhaktyā yathārthoktimuvāca ha || 36 || rājovāca || kimadhītaṃ tathā dattaṃ kā vā pṛthvī suśāsitā || gatāḥ katividhā bhūpā mādṛśā dharaṇītale || 37 || buddhistejo vikramaśca vividhā raṇamantraṇā || śrīraiśvaryaṃ tathā jñānaṃ dānaśaktiśca laukikam || 38 || ācāro vinayo vidyā pratiṣṭhā paramaṃ tapaḥ || sarvaṃ manoramāsaṃge gatameva mama prabho || 39 || sā ca strī prāṇatulyā me sādhvī padmāṃśasambhavā || yajñeṣu patnī māteva snehe krīḍati saṃginī ||3.40.40|| ābālyātsaṃginī śaśvacchayane bhojane raṇe || tāṃ vinā prāṇahīno'haṃ viṣahīno yathoragaḥ || 41 || tvayā na dṛṣṭaṃ yuddhaṃ me pureyaṃ śocanā sthitā || dvitīyā śocanā vipra hato'haṃ brāhmaṇena ca || 42 || kāle siṃhaḥ sṛgālaṃ ca sṛgālaḥ siṃhameva ca || kāle vyāghraṃ hanti mṛgo gajendraṃ hariṇastathā || 43 || mahiṣaṃ makṣikā kāle garuḍaṃ ca tathoragaḥ || kiṅkaraḥ stauti rājendraṃ kāle rājā ca kiṃkaram|| 44 || indraṃ ca mānavaḥ kāle kāle brahmā mariṣyati || tirobhūtvā sā prakṛtiḥ kāle śrīkṛṣṇavigrahe || 49 || mariṣyanti surāḥ sarve trilokasthāścarācarāḥ || sarve kāle layaṃ yānti kālo hi duratikramaḥ||46|| kālasya kālaḥ śrīkṛṣṇaḥ sraṣṭuḥ sraṣṭā yathecchayā|| saṃhartā caiva saṃhartuḥ pātuḥ pātā parātparaḥ||47|| mahāsthūlātsthūlatamaḥ sūkṣmātsūkṣmatamaḥ kṛśaḥ || paramāṇuparaḥ kālaḥ kālassyātkālabhedakaḥ || 48 || yasya lomāni viśvāni sa pumāṃśca mahāvirāṭ || tejasā ṣoḍaśāṃśaśca kṛṣṇasya paramātmanaḥ ||49|| tataḥ kṣudravirāḍ jātaḥ sarveṣāṃ kāraṇaṃ param || yaḥ sraṣṭā ca svayaṃ brahmā yannābhikamalodbhavaḥ || 3.40.50 || nābheḥ kamaladaṇḍasya yo'ntaṃ na prāpa yatnataḥ || bhramaṇāllakṣavarṣaṃ ca tataḥ svasthānasaṃsthitaḥ || 51 || tapaścakre tatastatra lakṣavarṣaṃ ca vāyubhuk || tato dadarśa golokaṃ śrīkṛṣṇaṃ ca sapārṣadam || || 52 || gopagopīparivṛtaṃ dvibhujaṃ muralīdharam || ratnasiṃhāsanasthaṃ ca rādhāvakṣasthalasthitam || 53 || dṛṣṭvā'nujñāṃ gṛhītvā ca praṇamya ca punaḥ punaḥ || īśvarecchāṃ ca vijñāya sraṣṭuṃ sṛṣṭiṃ mano dadhe || 54 || yaḥ śivaḥ sṛṣṭisaṃharttā sa ca sraṣṭurlalāṭajaḥ || viṣṇuḥ pātā kṣudravirāṭ śvetadvīpanivāsakṛt || 55 || sṛṣṭikāraṇabhūtāśca brahmaviṣṇumaheśvarāḥ || santi viśveṣu sarveṣu śrīkṛṣṇasya kalodbhavāḥ ||56|| te'pi devāḥ prākṛtikāḥ prākṛtaśca mahāvirāṭ || sarvaprasūtiḥ prakṛtiḥ śrīkṛṣṇaḥ prakṛteḥ paraḥ ||57|| na śaktaḥ parameśo'pi tāṃ śaktiṃ prakṛtiṃ vinā || sṛṣṭiṃ vidhātuṃ māyeśo na sṛṣṭirmāyayā vinā || 58 || sā ca kṛṣṇe tirobhūya sṛṣṭisaṃhārakārake || sā''virbhūtā sṛṣṭikāle sā ca nityā maheśvarī ||59|| kulālaśca kaṭaṃ kartuṃ yathā'śakto mṛdaṃ vinā|| svarṇaṃ vinā svarṇakāraḥ kuṇḍalaṃ kartumakṣamaḥ || 3.40.60 || sā ca śaktiḥ sṛṣṭikāle pañcadhā ceśvarecchayā || rādhā padmā ca sāvitrī durgā devī sarasvatī || 61 || prāṇādhiṣṭhātṛdevī yā kṛṣṇasya paramātmanaḥ || prāṇādhikapriyatamā sā rādhā parikīrttitā || 62 || aiśvaryyādhiṣṭhātṛdevī sarvamaṅgalakāriṇī || paramānandarūpā ca sā lakṣmīḥ parikīrttitā ||63|| vidyādhiṣṭhātṛdevī yā parameśasya durlabhā || yā mātā vedaśāstrāṇāṃ sā sāvitrī prakīrtitā||64|| buddhyadhiṣṭhātṛdevī yā sarvaśaktisvarūpiṇī || sarvajñānātmikā sarvā sā durgā durganāśinī || 65 || vāgadhiṣṭhātṛdevī yā śāstrajñānapradā sadā || kṛṣṇakaṇṭhodbhavā sā syādyā ca devī sarasvatī||66|| pañcadhā''dau svayaṃ devī mūlaprakṛtirīśvarī || tataḥ sṛṣṭikrameṇaiva bahudhā kalayā ca sā || 67 || yoṣitaḥ prakṛteraṃśāḥ pumāṃsaḥ puruṣasya ca || māyayā sṛṣṭi kāle ca tadvinā na bhavedbhavaḥ||68|| sṛṣṭiśca prativiśveṣu brahmanbrahmodbhavā sadā || pātā viṣṇuśca saṃharttā śivaḥ śaśvacchivapradaḥ ||69|| dattadattaṃ jñānamidaṃ rāma mahyaṃ ca puṣkare || dīkṣākāle ca māghyāṃ ca munipravarasannidhau || 3.40.70 || ityuktvā kārttavīryyaśca rāmaṃ natvā ca sasmitaḥ || āruroha rathaṃ śīghraṃ gṛhītvā saśaraṃ dhanuḥ || 71 || rāmastato rājasainyaṃ brahmāstreṇa jaghāna ha || nṛpaṃ pāśupatenaiva līlayā śrīhariṃ smaran || 72 || evaṃ trissaptakṛtvaśca krameṇa ca vasundharām || rāmaścakāra nirbhūpāṃ līlayā ca śivaṃ smaran || 73 || garbhasthaṃ māturaṅkasthaṃ śiśuṃ vṛddhaṃ ca madhyamam || jaghāna kṣatriyaṃ rāmaḥ pratijñāpālanāya vai || 74 || kārttavīryyaśca golokaṃ tvagamatkṛṣṇasannidhim || jagāma toṣātparaśurāmaśca śrīhariṃ smaran|| 75 || trissaptakṛtvo nirbhūpāṃ mahīṃ dṛṣṭvā maheśvaraḥ || ramaṇaṃ tena paraśurāmaṃ dṛṣṭvā ca kātaram || 76 || devāśca munayo devyaḥ siddhagandharvakinnarāḥ || sarve cakruḥ puṣpavṛṣṭiṃ rāmamūrdhni ca nārada || 77 || svarge dundubhayo nedurharṣaśabdo babhūva ha|| yaśasā caiva paraśurāmasyāpūritaṃ jagat ||78|| brahmā bhṛguśca śukraśca vālmīkiścyavanastathā|| jamadagnirbrahmalokādājagāma praharṣitaḥ||79|| pulakāñcitasarvāṅgāḥ sānandāśca samanvitāḥ || dūrvāpuṣpakarāḥ sarve kurvanto maṃgalāśiṣaḥ|| || 3.40.80 || praṇanāma ca tānrāmo daṇḍavatpatito bhuvi || kroḍe cakāra brahmā''dau kramāttāteti saṃvadan || 81 || tamuvācātha paraśurāmaṃ brahmā jagadguruḥ || vedasāraṃ nītiyutaṃ pariṇāmasukhāvaham || 82 || brahmovāca || śṛṇu rāma pravakṣyāmi sarvasampatkaraṃ param || kāṇvaśākhoktavacanaṃ satyaṃ vai sarvasammatam ||83|| pūjyānāmeva sarveṣāmiṣṭaḥ pūjyatamaḥ paraḥ || janako janmadānācca pālanācca pitā smṛtaḥ || 84 || garīyāñjanmadātuśca so'nnadātā pitā mune || vinā'nnaṃ naśvaro deho nityaṃ ca piturudbhavaḥ || 89 || tayoḥ śataguṇaṃ mātā pūjyā mānyā ca vanditā|| garbhadhāraṇapoṣābhyāṃ saiva proktā garīyasī||86|| tebhyaḥ śataguṇaṃ pūjyo'bhīṣṭadevaḥ śrutau śrutaḥ|| jñānavidyāmantradātā'bhīṣṭadevātparo guruḥ || 87 || guruvadguruputraśca gurupatnī tato'dhikā || deve ruṣṭe gurū rakṣedgurau ruṣṭe na kaścana || 88 || gururbrahmā gururviṣṇurgururdevo maheśvaraḥ || gurureva paraṃ brahma brāhmaṇebhyaḥ priyaḥ paraḥ || 89 || gururjñānaṃ dadātyeva jñānaṃ ca haribhaktidam || haribhaktipradātā yaḥ ko vā bandhustataḥ param || 3.40.90 || ajñānatimirācchanno jñānadīpaṃ yato labhet || labdhvā ca nirmalaṃ paśyetko vā bandhustataḥ paraḥ || 91 || gurudattaṃ sumantraṃ ca japtvā jñānaṃ tato labhet || sarvajñatvācca siddhiṃ ca ko vā bandhustato'dhikaḥ || 92 || sukhaṃ jayati sarvatra vidyayā gurudattayā || yayā pūjyo'pi jagati ko vā bandhustato'dhikaḥ || 93 || vidyāndho vā dhanāndho vā yo mūḍho na yajedgurum || brahmahatyādikaṃ pāpaṃ labhate nātra saṃśayaḥ || 94 || daridraṃ patitaṃ kṣudraṃ narabudyā bhajedgurum || tīrthasnāto'pi na śucirnādhikārī ca karmasu || 95 || abhīṣṭadevaḥ śrīkṛṣṇo guruste śaṅkaraḥ svayam || śaraṇaṃ gaccha he putra devapūjyatamaṃ gurum || 96 || trissaptakṛtvo nirbhūpā tvayā pṛthvī kṛtā yataḥ || prāptā tvayā harerbhaktistaṃ śivaṃ śaraṇaṃ vraja || 97 || śivāṃ ca śivarūpaṃ ca śivadaṃ śivakāraṇam || śivārādhyaṃ śivaṃ śāntaṃ guruṃ tvaṃ śaraṇaṃ vraja || 98 || golokanātho bhagavānaṃśena śivarūpadhṛk || ya iṣṭadevaḥ sa gurustameva śaraṇaṃ vraja || 99 || ātmā kṛṣṇaḥ śivo jñānaṃ mano'haṃ sarvajīviṣu || prāṇā viṣṇossā prakṛtissarvaśaktiyutā suta || 3.40.100|| jñānadaṃ jñānarūpaṃ ca jñānabījaṃ sanātanam || mṛtyuñjayaṃ kālakālaṃ taṃ guruṃ śaraṇaṃ vraja || 101 || brahmajyotissvarūpaṃ taṃ bhaktānugrahavigraham || śaraṇaṃ vraja sarvajñaṃ bhagavantaṃ sanātanam || 102 || prakṛtirlakṣavarṣaṃ ca tapastaptvā yamīśvaram || kāntaṃ priyapatiṃ lebhe taṃ guruṃ śaraṇaṃ vraja || 103 || ityuktvā munibhiḥ sārddhaṃ jagāma kamalodbhavaḥ || rāmaśca gantuṃ kailāsaṃ manaścakre ca nārada || 104 || iti śrībrahmavaivartte tṛtīye gaṇeśakhaṇḍe nāradanārāyaṇasaṃvāde bhṛgoḥ kailāsagamanopadeśo nāma catvāriṃśattamo'dhyāyaḥ || 40 ||
English translation
Bhrgu's departure for Kailasa Narayana said - When the kavacas were carried to Vaikuntha by Visnu, Parasurtoa the son of Bhrgu then killed Sahasraksa. Having been deprived of the kavaca, the king continued to fight for a week with Brahmdstra but was destroyed with all his sons. At the fall of Sahasraksa, the valorous Karttivirya himself came foreword with two lakhs aksauhinl army.
He mounted on a golden chariot. He was clad in costumes studded with the best of gems and was surrounded by several of the weapons all round him. Thus having been assured protection from all the sides, he marched foreword in the Parasurama then saw the king in the battle¬ field, who was adorned with innumerable ornaments studded with gems and equated the glory of crores of Indras. He had a chatra of gems and was adorned with gem-studded ornaments. All his limbs were plastered with sandal-paste. He looked quite pleasant while Having a look at sage Parasurama, the king got down from the chariot and bowed down in reverence to him with all the kings. Thereafter, he went back to his chariot with the kings and took his seat there.
Parasurama blessed the king and spoke appropriate words which suited the time, "You proceed to heaven with your attendants."
O Narada, thereafter both the armies fought with each other in whieh the pupils and brothers of Parasurama were shattered by Kartavirya who fled away frohi the battle-field.
With the shooting of innumerable arrows, Parasurama was unable to look at his army as well as the relatives.
Thereafter Parasurama shot the fire arrows in the battle-field, as a result of which, everything was in flames in the battle-field. The king on his part shot the Varuna-arrow, which extinguished the fire making the atmosphere peaceful.
Parasurama then shot GdndharvOstra which emitted mountains and snakes which was neutralised by the king by shooting the wind Tmt RPTTHi ffRRpf rrrhr;i Parasurama then shot Ndgdstra which was quite terrific but the king neutralised it by shooting Garuddstra which destroyed the serpent without much effort.
Parasurama the son of Bhrgu then used the weapon of Mahesvara which was neutralised by the king, by using the Vaisnava weapon.
O Narada, thereafter Parasurama used Brahmdstra for the destruction of the king. The king also used the same type of Brahmdstra neutralising the one shot by Parasurama.
The king at that point of time shot the trident bestowed to him by Dattatreya for killing his enemy which was always successful in its Parasurama then saw the trident emitting lustre of crores of suns which was extremely glorious and emitted fire like the fire of dissolution. Even the gods were unable to face it.
O Narada, the trident fell over Parasurama as a result of which he fell down fainted.
With the fall of Parasurama, all the gods became restive. At that point of time Brahma, Visnu and ^iva also arrived in the battle-field.
At the instance of Narayana the valorous Siva brought back the Brahmana to life with this SP I R IR Rt RR?RT HswIHWl^G IIR HI After regaining consciousness Bhrgu found all the three gods before him and he bowed in reverence to them.
Finding them there, the king bowed his head in devotion and offered his salutation to all of them, besides eulogising them.
In the meantime lord Dattatreya also reached in the battle-field for the protection of his devotee. Thereafter Parasurama getting enraged shot the Pasupata weapon but at the same time Bhrgu was surprised at the sight of Dattatreya.
Inspite of getting surprised Parasurama looked at the king in the battle-field, who was protected in the battle-field by lord Krsna and many of his Lord Krsna was protecting him wielding his Sudarsana-cakra. All the gods including Brahma, Visnu and Siva were offering prayers to him smilingly.
thereafter. O Narada on hearing this divine voice, Siva took to the form of a Brahmana and went to the king and begged for the kavaca of Krsna which he had received from the lord and gave it ultimately to Bhrgu.
Thereafter the gods dispersed to their respective abodes and then Parasurama again said to the king. ^ Parasurama said - ”0 Indra among the kings, get up and fight with me quite courageously. The humans face victory or defeat according to the He was surrounded by hundreds of cowherds and was clad in the costumes of cowherds, possessing the complexion of new clouds and holding a flute in his hand. Lord Krsna was playing on the flute.
In the meantime a divine voice from the sky was heard that the king possessed the kavaca of Krsna which was handed over to him by Dattatreya and he was wearing it in the casket of gem bound over the right arm. Therefore Siva the teacher of the yogis should bet it from him.
Parasurama would be able to kill the king only Because 1 have carefully studied myself the scriptures and also made my pupils do so, I have ruled the entire universe pretty well and have fought also pretty well but you made me fainted.
You also playfully became victorious indulging the Brahmanas but still I have been defeated with the trident given to you by Dattatreya. Siva then arrived and brought me back to life."
On hearing the words of Parasurama, the religious minded king bowed to him with devotion and spoke to him the appropriate words.
The king said - What have you studied? What have you given a\vay in charity? Which is the earth ruled by you and how many of the kings like me have been killed by you?
sTrairr fen Ttfer wi w.i O lord, my wisdom, glory, prowess, various types of battle art, wealth, fortune, knowledge, capacity for giving charity, universal glory, conduct, discipline, knowledge, position, great tapas and everything has been lost with She was dearer to me than my life, quite chaste and was bom out of the amsa of Kamala.
The wife in the yajnas becomes affectionate like mothers and at the time of love sports she becomes a good companion besides sleeping, taking food, in the battle-field and in childhood she always remains with him. Therefore without her I have become a serpent without poison.
O Brahmana you had never seen me fight earlier, this is my first grief and my second grief is that I am being defeated by a Brahmana.
Though according to the times a lion kills a jackal and a jackal kills a lion. At certain times, a stag kills a tiger and a buck kills an elephant.
At times a fly kills a he-buffalo and similarly a snake kills a Garuda. Ordinarily the king is adored by his servants but at times the king has also to adore the servant.
At times a human kills Indra and in due course of time Brahma also has to meet with his death; at times Prakrti also gets merged into the body of lord Krsna.
All the gods will have to meet with their end, all the movable and immovable riches of the world have to meet with their end in due course of time. Therefore the time is indeed horrible and cannot be averted.
But lord Krsna by his own sweet will is the death for the lord of death, is the creator of the creators, destroyer of the destroyers and preserver of the preservers besides being beyond all of them.
He is harder than the hardest, smaller than the smallest, lifeless, extremely small, death for the god of death and creates difference in time.
There are innumerable globes which happen to project only one sixteenth of the tejas of lord The pure Virat emerged from him who is the cause of all in the universe. Brahma himself who is the creator of the universe emerged out of his navel but inspite of making strenuous efforts Brahma couldn't find the end of the lotus stalk.
The goddess who controls the speech and bestows the wisdom in the scriptures, has been bom out of the throat of lord Krsna and is known as Sarasvatl.
The great goddess also known as Mulaprakrti is divided into five forms and thereafter in the process of creation, she appears in many forms.
Therefore all the ladies of the universe are bom out of the atitsa of Pralgti and the men are bom out of the amsa of Pum§a because during the time of creation without Maya no creation is O Brahma in every globe, Brahma happens to be the creator of the universe while Visnu remains the preserver and 6iva always becomes the destroyer.
O Parasurama, this knowledge was bestowed on me by Dattatreya at Puskara on the full moon day of the month of Magha.
Tnt 'ET 'Rfw:i Thus speaking to Parasurama, Karttivirya offered salutations to him and holding his bow and arrow, at once mounted the chariot.
Soon thereafter, Parasurama with the use of Brahmdstra destroyed the army of the king and reciting the name of Srihari in his mind killed the king with the use of Pdsupatdstra.
Thus Parasurama reciting the name of ^iva rid the earth of the Ksatriyas twenty one times quite For the fulfilment of his vow he killed even the infants being carried by the mothers in their wombs, besides the old as well as the young Ks After his death Karttivirya reached Goloka and met lord Kr§iia there. Parasurama on the other hand continued reciting the name of Hari and left the place.
Mahesvara ridding the earth of Ksatriyas twenty one times and because of his holding the battle-axe on his shoulders, he came to be known by the name of Paras'urama subsequently.
O Narada, the gods, the sages, goddesses and siddhas, Gandharvas and Kinnaras, showered flowers on Parasurama. The musical instruments were played upon including the Dundubhls in the heaven, the gods felt immensely delighted. The glory of Parasurama was spread all over the Thereafter Brahma, Bhrgu, ^ukra, Valmiki, Cyavana and Jamadagni delightfully went to I All the people were feeling emotional and tears were coming out of their eyes gleefully.
They were offering blessings to him holding
Chapter-aligned complete witnesses. Sanskrit Wikisource revision 122353 (2017-09-16T10:00:35Z); Shanti Lal Nagar English scan pages n784–n790: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n784/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.