Gaṇapati-khaṇḍa · Chapter 35
Sourceनारायण उवाच ।। मनोरमा प्राणनाथं क्षणं कृत्वा स्ववक्षसि ।। भविष्यं मनसा चक्रे यद्यत्स्वामिमुखाच्छुतम् ।। १ ।। पुत्रांश्च पुरतः हृत्वा बान्धवांश्च स्वकिंकरान् ।। सस्मार सा हरिपदं मेने सत्यं भवेन्मुने।।२।। योगेन भित्त्वा षट्चक्रं वायुं संस्थाप्य मूर्द्धनि ।। ब्रह्मरन्ध्रस्थकमले सहस्रदलसंयुते ।। ३ ।। स्वान्तमाकृष्य विषयाज्जलबुद्बुदसन्निभात् ।। संस्थाप्य बद्ध्वा ज्ञानेन लोलं ब्रह्मणि निष्कले ।। ४ ।। द्विविधं कर्म संन्यस्य निर्मूलमपुनर्भवम् ।। तत्र प्राणांश्च तत्याज न च प्राणाधिकं प्रियम् ।। ५ ।। स राजा तां मृतां दृष्ट्वा विललाप रुरोद च ।। सन्नाहं संपरित्यज्य कृत्वा वक्षस्युवाच ताम् ।।६।। राजोवाच ।। मनोरमे समुत्तिष्ठ न यास्यामि रणाजिरम् ।। सचेतना मां पश्येति विलपन्तं मुहुमुर्हुः ।। ७ ।। मनोरमे समुत्तिष्ठ मया सार्द्धं गृहं व्रज ।। न करिष्यामि समरं भृगुणा सह भामिनि ।। ८ ।। मनोरमे समुत्तिष्ठ श्रीशैलं व्रज सुन्दरि ।। तत्र क्रीडां करिष्यामि त्वया सार्द्धं यथा पुरा ।। ९ ।। मनोरमे समुत्तिष्ठ व्रज गोदावरीं प्रिये ।। जलक्रीडां करिष्यामि त्वया सार्धं यथा पुरा ।। 3.35.१० ।। मनोरमे समुत्तिष्ठ नन्दनं व्रज सुन्दरि ।। पुष्पभद्रानदीतीरे विहरिष्यामि निर्जने ।। ११ ।। मनोरमे समुत्तिष्ठ मलयं व्रज सुन्दरि ।। त्वया सार्द्धं रमिष्येऽहं तत्र चन्दनकानने ।। १२ ।। शीतेन गन्धयुक्तेन वायुना सुरभीकृते ।। भ्रमरध्वनिसंयुक्ते पुंस्कोकिल रुतश्रिते ।। १३ ।। चन्दनागुरुकस्तूरीकुंकुमालेपनं कुरु ।। चन्दनोक्षितसर्वाङ्गं पश्य मां सस्मिते सति ।। १४ ।। सुधातुल्यं सुमधुरं वचनं रचय प्रिये ।। कुटिलभ्रूविकारं च कथं न कुरुषेऽधुना ।। १५ ।। नृपस्य रोदनं श्रुत्वा वाग्बभूवाशरीरिणी ।। स्थिरीभव महाराज कुरुषे रोदनं कथम् ।। १६ ।। त्वं महाज्ञानिनां श्रेष्ठो दत्तात्रेयप्रसादतः ।। जलबुद्बुदवत्सर्वं संसारं पश्य शोभनम् ।। १७ ।। कमलांशा च सा साध्वी जगाम कमलालयम् ।। त्वमेव गच्छ वैकुण्ठं रणं कृत्वा रणाजिरे ।। १८ ।। इत्येव वचनं श्रुत्वा जहौ शोकं नराधिपः ।। ततश्चन्दनकाष्ठेन चितां दिव्यां चकार ह ।। १९ ।। संस्काराग्निं कारयित्वा पुत्रद्वारा ददाह ताम् ।। नानाविधानि रत्नानि ब्राह्मणेभ्यो ददौ मुदा ।। 3.35.२० ।। नानाविधानि दानानि वस्त्राणि विविधानि च ।। मनोरमायाः पुण्येन ब्राह्मणेभ्यो ददौ मुदा ।।२१।। भुज्यतां भुज्यतां शश्वद्दीयतां दीयतामिति ।। शब्दो बभूव सर्वत्र कार्त्तवीर्य्याश्रमे मुने ।।२२।। कोषेषु स्वाधिकारेषु स्थितं यद्यद्धनं तदा ।। मनोरमायाः पुण्येन ब्राह्मणेभ्यो ददौ मुदा ।। २३ ।। राजा जगाम समरं हृदयेन विदूयता ।। सार्धं सैन्यसमूहैश्च वाद्यभाण्डैरसंख्यकैः ।।२४।। ददर्श मङ्गलं राजा पुरो वर्त्मनि वर्त्मनि ।। ययौ तथापि समरं नाजगाम गृहं पुनः।।२५।। मुक्तकेशीं छिन्ननासां रुदतीं च दिगम्बराम् ।। कृष्णवस्त्रपरीधानामपरां विधवामपि ।। २६ ।। मुखदुष्टां योनिदुष्टां व्याधियुक्तां च कुट्टिनीम् ।। पतिपुत्रविहीनां च डाकिनीं पुंश्चली तथा ।। २७ ।। कुम्भकारं तैलकारं व्याधं सर्पोपजीविनम् ।। कुचैलमतिरूक्षांगं नग्नं काषायवासिनम् ।। २८ ।। वसाविक्रयिणं चैव कन्याविक्रयिणं तथा ।। चितादग्धं शवं भस्म निर्वाणाङ्गारमेव च।।२९।। सर्पक्षतं नरं सर्पं गोधां च शशकं विषम्।। श्राद्धपाकं च पिण्डं च मोटकं च तिलांस्तथा ।।3.35.३०।। देवलं वृषवाहं च शूद्रश्राद्धान्नभोजिनम् ।। शूद्रान्नपाचकं शूद्रयाजकं ग्रामयाजकम्ा।३१।। कुशपुत्तलिकां चैव शवदाहनकारिणम् ।। शून्यकुम्भं भग्नकुम्भं तैलं लवणमस्थि च।।३२।। कार्पासं कच्छपं चूर्णं कुक्कुरं शब्दकारिणम् ।। दक्षिणे च सृगालं च कुर्वन्तं भैरवं रवम् ।।३३।। कपर्दकं च क्षौरं च च्छिन्नकेशं नखं मलम् ।। कलहं च विलापं च तथा तत्कारिणं जनम् ।। ३४ ।। अमङ्गलं रुदन्तं च रुदन्तं शोककारिणम् ।। ३५ ।। मिथ्यासाक्ष्य प्रदातारं चौरं च नरघातिनम्।। पुंश्चलीपतिपुत्रौ च पुंश्चल्योदनभोजिनम् ।। ३६ ।। देवतागुरुविप्राणां वस्तुवित्तापहारिणम् ।। दत्तापहारिणं दस्युं हिंसकं सूचकं खलम् ।। ३७ ।। पितृमातृविरक्तं च द्विजाश्वत्थविघातिनम् ।। सत्यघ्नं च कृतघ्नं च स्थाप्यस्याप्यपहारिणम् ।। ३८ ।। विप्रमित्रद्रोहमेवं क्षतं विश्वासघातकम् ।। गुरुदेवद्विजानां च निन्दकं स्वांगघातकम् ।। ३९ ।। जीवानां घातकं चैव स्वांगहीनं च निर्दयम्।। व्रतोपवासहीनं च दीक्षाहीनं नपुंसकम् ।।3.35.४०।। गलितव्याधिगात्रं च काणं बधिरमेव च ।। पुल्कसं छिन्नलिङ्गं च सुरामत्तं सुरां तथा ।।४१।। क्षिप्तं वमन्तं रुधिरं महिषं गर्दभं तथा ।। मूत्रं पुरीषं श्लेष्माणं रूक्षिणं नृकपालकम् ।।४२।। चण्डवातं रक्तवृष्टिं वाद्यं वै वृक्षपातनम् ।। वृकं च सूकरं गृध्रं श्येनं कङ्कं च भल्लुकम्।।४३।। पाशं च शुष्ककाष्ठं च वायसं गन्धकं तथा।।४४।। प्रतिग्राहिब्राह्मणं च तन्त्रमन्त्रोपजीविनम्।। वैद्यं च रक्तपुष्पं चाप्यौषधं तुषमेव च।।४५।। कुवार्त्तां मृतवार्तां च विप्रशापं च दारुणम्।। दुर्गन्धिवातं दुश्शब्दं राजाऽपश्यत्स वर्त्मनि ।। ४६ ।। मनश्च कुत्सितं प्राणाः क्षुभिताश्च निरन्तरम्।। वामांगस्पन्दनं देहजाड्यं राज्ञो बभूव ह ।। ४७ ।। तथाऽपि राजा निश्शङ्को ददर्श समराङ्गणम् ।। सर्वसैन्यसमायुक्तः प्रविवेश रणाजिरम् ।। ४८ ।। अवरुह्य रथात्तूर्णं दृष्ट्वा च पुरतो भृगुम् ।। ननाम दण्डवद्भूमौ राजेन्द्रैः सह भक्तितः ।। ४९ ।। आशिषं युयुजे रामः स्वर्गं याहीति वाञ्छितम् ।। तेषां सह्यं तद्बभूवुर्दुलंघ्या ब्राह्मणाशिषः ।। 3.35.५० ।। भृगुं प्रणम्य राजेन्द्रो राजेन्द्रैः सह तत्क्षणात् ।। आरुरोह रथं तूर्णं नानायुधसमन्वितम् ।। ५१ ।। नानाप्रकारवाद्यं च दुन्दुभिं मुरजादिकम् ।। वादयामास सहसा ब्राह्मणेभ्यो ददौ धनम् ।। ५२ ।। उवाच रामो राजेन्द्रं राजेन्द्राणां च संसदि ।। हितं सत्यं नीतिसारं वाक्यं वेदविदां वरः ।। ९३ ।। परशुराम उवाच ।। शृणु राजेन्द्र धर्मिष्ठ चन्द्रवंशसमुद्भव ।। विष्णोरंशस्य शिष्यस्त्वं दत्तात्रेयस्य धीमतः ।। ५४ ।। स्वयं विद्वांश्च वेदांश्च श्रुत्वा वेदविदो मुखात् ।। कथं दुर्बुद्धिरधुना सज्जनानां विहिंसना ।। ५५ ।। त्वं पूर्वमहनो लोभान्निरीहं ब्राह्मणं कथम् ।। ब्राह्मणी शोकसन्तप्ता भर्त्रा सार्द्धं गता सती ।। ५६ ।। किं भविष्यति ते भूप परत्रैवानयोर्वधात् ।। सर्वं मिथ्यैव संसारं पद्मपत्रे यथा जलम् ।। ५७ ।। सत्कीर्त्तिश्चाथ दुष्कीर्तिः कथामात्रावशेषिता ।। विडम्बना वा किमतो दुष्कीर्त्तेश्च सतामहो ।। ५८ ।। क्व गता कपिला त्वं क्व क्व विवादो मुनिः कुतः ।। यत्कृतं विदुषा राज्ञा न कृतं हालिकेन तत् ।। ५९ ।। त्वामुपोषितमीशं हि दृष्ट्वा तातो हि धार्मिकः ।। पारणां कारयामास दत्तं तस्य फलं त्वया ।। 3.35.६० ।। अधीतं विधिवद्दत्तं ब्राह्मणेभ्यो दिने दिने ।। जगते यशसा पूर्णमयशो वार्द्धके कथम् ।। ।। ६१ ।। दाता वरिष्ठो धर्म्मिष्ठो यशस्वी पुण्यवान्सुधीः ।। कार्त्तवीर्यार्जुनसमो न भूतो न भविष्यति ।। ६२ ।। पुरातना वदन्तीति बन्दिनो धरणीतले ।। यो विख्यातः पुराणेषु तस्य दुष्कीर्त्तिरीदृशी ।। ६३ ।। दुर्वाक्यं दुःसहं राजंस्तीक्ष्णास्त्रादपि जीविनाम् ।। संकटेऽपि सतां वक्त्राद्द्विरुक्तिर्न विनिर्गता ।। ६४ ।। न ददामि द्विरुक्तिं ते प्रकृतं कथयाम्यहम् ।। उत्तरं देहि राजेन्द्र मह्यं राजेन्द्रसंसदि ।। ६५ ।। सूर्य्यचन्द्रमनूनां च वंशजाः सन्ति संसदि ।। सत्यं वद सभायां च शृण्वन्तु पितरः सुराः ।। ६६ ।। शृण्वन्तु सर्वे राजेन्द्राः सदसद्वक्तुमीश्वराः ।। पश्यन्तो हि समं सन्तः पाक्षिकं न वदन्ति च ।। ६७ ।। इत्युक्त्वा रैणुकेयश्च विरराम रणस्थले ।। राजा बृहस्पतिसमः प्रवक्तुमुपचक्रमे ।। ६८ ।। कार्त्तवीर्य्यार्जुन उवाच ।। शृणु राम हरेरंशो हरिभक्तो जितेन्द्रियः ।। श्रुतो धर्मो मुखाद्येषां त्वं च तेषां गुरोर्गुरुः ।। ६९ ।। कर्म्मणा वाऽप्यसद्बुध्या करोति ब्रह्मभावनाम् ।। स्वधर्मनिरतः शुद्धस्तस्माद्ब्राह्मण उच्चते ।। 3.35.७० ।। अन्तर्बहिश्च मननात्कुरुत कर्म्म नित्यशः ।। मौनी शश्वद्वदेत्काले यो वै स मुनिरुच्यते ।। ७१ ।। स्वर्णे लोष्टे गृहेऽरण्ये पंके सुस्निग्धचन्दने ।। समताभावना यस्य स योगी परिकीर्त्तितः ।।७२।। सर्वजीवेषु यो विष्णुं भावयेत्समता धिया ।। हरौ करोति भक्तिं च हरिभक्तः स च स्मृतः ।।७३।। तपोधनं ब्राह्मणानां तपः कल्पतरुर्यथा ।। तपस्या कामधेनुश्च सन्ततं तपसि स्पृहा ।।७४।। ऐश्वर्य्ये क्षत्रियाणां च वाणिज्ये च तथा विशाम्।। क्षत्रियाणां च तपसि स्पृहाऽतीवाऽप्रशंसिता।।७५।। ब्राह्मणानां विवादे च स्पृहाऽतीव विनिन्दिता।।७६।। रागी राजसिकं कार्य्यं कुरुते कर्म्म रागतः ।। रागान्धो यो राजसिकस्तेन राजा प्रकीर्तितः ।।७७।। रागतः कामधेनुश्च मया वै याचिता मुने ।। को दोष एक मे जातः क्षत्रियस्यानुरागिणः।।७८।। कुतः कस्य मुनेरस्ति कामधेनुस्त्वया विना।। स्पृहा रणे वा भोगे वा युष्माकं च व्यतिक्रमः।।७९।। त्रिंशदक्षौहिणीं सेनां राजेन्द्राणां त्रिकोटिकाम्।। निहत्यायान्तमेकं मां न हन्तुं सहनं मुने ।।3.35.८०।। आत्मानं हन्तुमायान्तमपि वेदांगपारगम् ।। न दोषो हनने तस्य न तेन ब्रह्महाऽभवम् ।। ८१ ।। प्रायश्चित्तं हिंसकानां न वेदेषु निरूपितम् ।। वधः समुचितस्तेषामित्याह कमलोद्भवः ।। ८२ ।। पित्रा ते निहता भूपा महाबलपराक्रमाः ।। इदानीं राजपुत्राश्च शिशवोऽत्र समागताः ।।८३।। त्रिःसप्तकृत्वो निर्भूपां कृत्स्नां कर्तुं महीमिति ।। त्वया कृता प्रतिज्ञा या तस्यास्त्वं पालनं कुरु ।। ८४ ।। क्षत्रियाणां रणो धर्मो रणे मृत्युर्न गर्हितः ।। रणे स्वाहा ब्राह्मणानां लोके वेदे विडम्बना ।। ८५ ।। तपोधनानां विप्राणां वाग्बलानां युगे युगे ।। शान्तिः स्वस्त्ययनं कर्म विप्रधर्मो न संगरः ।। ८६ ।। क्षत्रियाणां बलं युद्धं व्यापारश्च बलं विशाम् ।। भिक्षा बलं भिक्षुकाणां शूद्राणां विप्रसेवनम् ।। ८७ ।। हरौ भक्तिर्हरेर्दास्यं वैष्णवानां बलं हरिः ।। हिंसा बलं खलानां च तपस्या च तपस्विनाम् ।। ८८ ।। बलं वेषश्च वेश्यानां योषितां यौवनं बलम् ।। बलं प्रतापो भूपानां बालानां रोदनं बलम् ।। ८९ ।। सतां सत्यं बलं मिथ्या बलमेवासतां सदा ।। अनुगानामनुगमः स्वल्पस्वानां च सञ्चयः ।। 3.35.९० ।। विद्या बलं पण्डितानां धैर्य्यं साहसिनां बलम् ।।९१ ।। धनं बलं च धनिनां शुचीनां च विशेषतः ।। बलं विवेकः शान्तानां गुणिनां बलमेकता ।। ९२ ।। गुणो बलं च गुणिनां चौराणां चौर्य्यमेव च ।। प्रियवाक्यं च कापट्यमधर्म्मः पुंश्चलीबलम् ।। ९३ ।। हिंसा च हिंस्रजन्तूनां सतीनां पतिसेवनम् ।। वरशापौ सुराणां च शिष्याणां गुरुसेवनम् ।। ९४ ।। बलं धर्मो गृहस्थानां भृत्यानां राजसेवनम् ।। बलं स्तवः स्तावकानां ब्रह्म च ब्रह्मचारिणाम् ।। ९५ ।। यतीनां च सदाचारो न्यासः संन्यासिनां बलम् ।। पापं बलं पातकिनामशक्तानां हरिर्बलम् ।। ९६ ।। पुण्यं बलं पुण्यवतां प्रजानां नृपतिर्बलम् ।। फलं बलं च वृक्षाणां जलजानां जलं बलम् ।। ९७ ।। जलं बलं च सस्यानां मत्स्यानां च जलं बलम् ।। शान्तिर्बलं च भूपानां विप्राणां च विशेषतः ।। ९८ ।। विप्रः शान्तो रणोद्योगी नैव दृष्टो न च श्रुतः ।। स्थिते नारायणे देवे बभूवान्यविपर्य्ययः ।। ९९ ।। इत्येवमुक्त्वा राजेन्द्रो विरराम रणाजिरे ।। तस्य तद्वचनं श्रुत्वा सद्यस्तूष्णीं बभूव ह ।। 3.35.१०० ।। रामस्य भ्रातरः सर्वे तीक्ष्णशस्त्रासिपाणयः ।। आरेभिरे रणं कर्त्तुं महावीरास्तदाज्ञया ।। १०१ ।। रणोन्मुखांश्च तान्दृष्ट्वा मत्स्यराजो महाबलः ।। समारेभे रणं कर्तुं मङ्गलो मङ्गलालयः ।। १०२ ।। शरजालेन राजेन्द्रो वारयामास तानपि ।। चिच्छिदुः शरजालं च जमदग्निसुतास्तदा ।। १०३ ।। राजा चिक्षेप दिव्यास्त्रं शतसूर्य्यप्रभं मुने ।। माहेश्वरेण मुनयश्चिच्छिदुश्चैव लीलया।।१०४।। दिव्यास्त्रेणैव मुनयश्चिच्छिदुः सशरं धनुः।। रथं च सारथिं चैव राज्ञः सन्नाहमेव च।।१०५ न्यस्तशस्त्रं नृपं दृष्ट्वा मुनयो हर्षविह्वलाः ।। दधार शूलिनः शूलं मत्स्यराजजिघांसया ।। १०६ ।। शूलनिक्षेपसमये वाग्बभूवाशरीरिणी ।। शूलं त्यजत विप्रेन्द्राः शिवस्याव्यर्थमेव च ।। १०७ ।। शिवस्य कवचं दिव्यं दत्तं दुर्वाससा पुरा ।। मत्स्यराजगलेऽस्त्येतत्सर्वावयवरक्षकम् ।। १०८ ।। प्राणानां च प्रदातारं कवचं याचतं नृपम् ।। तदा निक्षिप्तशूलं च जघान नृपतिश्चिरम् ।। १०९ ।। तच्छूलं तं नृपं प्राप्य शतखण्डं गतं मुने ।। श्रुत्वैवाकाशवाणीं च शृङ्गी संन्यासवेषकृत् ।। 3.35.११० ।। ययाचे कवचं भूपं जमदग्निसुतो महान् ।। राजा ददौ च कवचं ब्रह्माण्डविजयं परम् ।। १११ ।। गृहीत्वा कवचं तच्च शूलेनैव जघान ह ।। पपात मत्स्यराजश्च शतचन्द्रसमाननः ।। महाबलिष्ठो गुणवांश्चन्द्रवंशसमुद्भवः ।। ११२ ।। नारद उवाच ।। शिवस्य कवचं ब्रूहि मत्स्यराजेन यद्धृतम् ।। नारायण महाभाग श्रोतुं कौतूहलं मम ।। ११३ ।। नारायण उवाच ।। कवचं शृणु विप्रेन्द्र शङ्करस्य महात्मनः ।। ब्रह्माण्डविजयं नाम सर्वावयवरक्षणम् ।। ११४ ।। पुरा दुर्वाससा दत्तं मत्स्यराजाय धीमते ।। दत्त्वा षडक्षरं मन्त्रं सर्वपापप्रणाशनम् ।। ११५ ।। स्थिते च कवचे देहे नास्ति मृत्युश्च जीविनाम् ।। अस्त्रे शस्त्रे जले वह्नौ सिद्धिश्चेन्नास्ति संशयः ।। ११६ ।। यद्धृत्वा पठनाद्बाणः शिवत्वं प्राप लीलया ।। बभूव शिवतुल्यश्च यद्धृत्वा नन्दिकेश्वरः ।। ११७ ।। वीरश्रेष्ठो वीरभद्रः साम्बोऽभूद्धारणाद्यतः।। त्रैलोक्यविजयी राजा हिरण्यकशिपुः स्वयम् ।। ।। ११८ ।। हिरण्याक्षश्च विजयी चाभवद्धारणाद्धि सः ।। यद्धृत्वा पठनात्सिद्धो दुर्वासा विश्वपूजितः ।। ११९ ।। जैगीषव्यो महायोगी पठनाद्धारणाद्यतः ।। यद्धृत्वा वामदेवश्च देवलः पवनः स्वयम् ।। अगस्त्यश्च पुलस्त्यश्चाप्यभवद्विश्वपूजितः ।। 3.35.१२० ।। ॐ नमः शिवायेति च मस्तकं मे सदाऽवतु ।। ॐ नमः शिवायेति च स्वाहा भालं सदाऽवतु ।। १२१ ।। ॐ ह्रीं श्रीं क्लीं शिवायेति स्वाहा नेत्रे सदाऽवतु ।। ॐ ह्रीं श्रीं हूँ शिवायेति नमो मे पातु नासिकाम् ।। १२२ ।। ॐ नमः शिवाय शान्ताय स्वाहा कण्ठं सदाऽवतु ।। ॐ ह्रीं श्रीं हूँ संहारकर्त्रे स्वाहा कर्णौ सदाऽवतु ।। १२३ ।। ॐ ह्रीं श्रीं पञ्चवक्त्राय स्वाहा दन्तं सदाऽवतु ।। ॐ ह्रीं महेशाय स्वाहा चाधरं पातु मे सदा ।। १२४ ।। ॐ ह्रीं श्रीं क्लीं त्रिनेत्राय स्वाहा केशान्सदाऽवतु ।। ॐ ह्रीं ऐं महादेवाय स्वाहा वक्षः सदाऽवतु ।। १२५ ।। ॐ ह्रीं श्रीं क्लीं मैं रुद्राय स्वाहा नाभिं सदाऽवतु ।। ॐ ह्रीं मैं श्रीमीश्वराय स्वाहा पृष्ठं सदाऽवतु ।। ।। १२६ ।। ॐ ह्रीं क्लीं मृत्युञ्जयाय स्वाहा भ्रुवौ बाहू सदाऽवतु ।। ॐ ह्रीं श्रीं ह्रीमीशानाय स्वाहा पार्श्वं सदाऽवतु ।।१२७ ।। ॐ ह्रीमीश्वराय स्वाहा चोदरं पातु मे सदा ।। ॐ श्रीं ह्रीं मृत्युञ्जयाय स्वाहा बाहू सदाऽवतु ।। १२८ ।। ॐ ह्रीं श्रीं क्लीमीश्वराय स्वाहा पातु करौ मम ।। ॐ महेश्वराय रुद्राय नितम्बं पातु मे सदा ।। १२९ ।। ॐ ह्रीं श्रीं भूतनाथाय स्वाहा पादौ सदाऽवतु ।। ॐ सर्वेश्वराय सर्वाय स्वाहा पादौ सदाऽवतु ।। 3.35.१३० ।। प्राच्यां मां पातु भूतेश आग्नेय्यां पातु शङ्करः ।। दक्षिणे पातु मां रुद्रो नैर्ऋत्यां स्थाणुरेव च ।। १३१ ।। पश्चिमे खण्डपरशुर्वायव्यां चन्द्रशेखरः ।। उत्तरे गिरिशः पातु चैशान्यामीश्वरः स्वयम् ।। १३२ ।। ऊर्ध्वे मृडः सदा पातु चाधो मृत्युञ्जयः स्वयम् ।। जले स्थले चान्तरिक्षे स्वप्ने जागरणे सदा ।। १३३ ।। पिनाकी पातु मां प्रीत्या भक्तं सवै भक्तवत्सलः ।। इति ते कथितं वत्स कवचं परमाद्भुतम् ।। १३४ ।। दशलक्षजपेनैव सिद्धिर्भवति निश्चितम् ।। यदि स्यात्सिद्धकवचो रुद्रतुल्यो भवेद्ध्रुवम् ।। १३५ ।। तव स्नेहान्मयाऽऽख्यातं प्रवक्तव्यं न कस्यचित् ।। कवचं कण्वशाखोक्तमतिगोप्यं सुदुर्लभम् ।। १३६ ।। अश्वमेधसहस्राणि राजसूयशतानि च ।। सर्वाणि कवचस्यास्य कलां नार्हन्ति षोडशीम् ।। १३७ ।। कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः ।। सर्वज्ञः सर्वसिद्धीशो मनोयायी भवेद्ध्रुवम् ।। १३८ ।। इदं कवचमज्ञात्वा भजेद्यः शङ्करं प्रभुम् ।। शतलक्षं प्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ।। १३९ ।। इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे शङ्करकवचप्रकथनं नाम पञ्चत्रिंशोऽध्यायः ।।३५।।
nārāyaṇa uvāca || manoramā prāṇanāthaṃ kṣaṇaṃ kṛtvā svavakṣasi || bhaviṣyaṃ manasā cakre yadyatsvāmimukhācchutam || 1 || putrāṃśca purataḥ hṛtvā bāndhavāṃśca svakiṃkarān || sasmāra sā haripadaṃ mene satyaṃ bhavenmune||2|| yogena bhittvā ṣaṭcakraṃ vāyuṃ saṃsthāpya mūrddhani || brahmarandhrasthakamale sahasradalasaṃyute || 3 || svāntamākṛṣya viṣayājjalabudbudasannibhāt || saṃsthāpya baddhvā jñānena lolaṃ brahmaṇi niṣkale || 4 || dvividhaṃ karma saṃnyasya nirmūlamapunarbhavam || tatra prāṇāṃśca tatyāja na ca prāṇādhikaṃ priyam || 5 || sa rājā tāṃ mṛtāṃ dṛṣṭvā vilalāpa ruroda ca || sannāhaṃ saṃparityajya kṛtvā vakṣasyuvāca tām ||6|| rājovāca || manorame samuttiṣṭha na yāsyāmi raṇājiram || sacetanā māṃ paśyeti vilapantaṃ muhumurhuḥ || 7 || manorame samuttiṣṭha mayā sārddhaṃ gṛhaṃ vraja || na kariṣyāmi samaraṃ bhṛguṇā saha bhāmini || 8 || manorame samuttiṣṭha śrīśailaṃ vraja sundari || tatra krīḍāṃ kariṣyāmi tvayā sārddhaṃ yathā purā || 9 || manorame samuttiṣṭha vraja godāvarīṃ priye || jalakrīḍāṃ kariṣyāmi tvayā sārdhaṃ yathā purā || 3.35.10 || manorame samuttiṣṭha nandanaṃ vraja sundari || puṣpabhadrānadītīre vihariṣyāmi nirjane || 11 || manorame samuttiṣṭha malayaṃ vraja sundari || tvayā sārddhaṃ ramiṣye'haṃ tatra candanakānane || 12 || śītena gandhayuktena vāyunā surabhīkṛte || bhramaradhvanisaṃyukte puṃskokila rutaśrite || 13 || candanāgurukastūrīkuṃkumālepanaṃ kuru || candanokṣitasarvāṅgaṃ paśya māṃ sasmite sati || 14 || sudhātulyaṃ sumadhuraṃ vacanaṃ racaya priye || kuṭilabhrūvikāraṃ ca kathaṃ na kuruṣe'dhunā || 15 || nṛpasya rodanaṃ śrutvā vāgbabhūvāśarīriṇī || sthirībhava mahārāja kuruṣe rodanaṃ katham || 16 || tvaṃ mahājñānināṃ śreṣṭho dattātreyaprasādataḥ || jalabudbudavatsarvaṃ saṃsāraṃ paśya śobhanam || 17 || kamalāṃśā ca sā sādhvī jagāma kamalālayam || tvameva gaccha vaikuṇṭhaṃ raṇaṃ kṛtvā raṇājire || 18 || ityeva vacanaṃ śrutvā jahau śokaṃ narādhipaḥ || tataścandanakāṣṭhena citāṃ divyāṃ cakāra ha || 19 || saṃskārāgniṃ kārayitvā putradvārā dadāha tām || nānāvidhāni ratnāni brāhmaṇebhyo dadau mudā || 3.35.20 || nānāvidhāni dānāni vastrāṇi vividhāni ca || manoramāyāḥ puṇyena brāhmaṇebhyo dadau mudā ||21|| bhujyatāṃ bhujyatāṃ śaśvaddīyatāṃ dīyatāmiti || śabdo babhūva sarvatra kārttavīryyāśrame mune ||22|| koṣeṣu svādhikāreṣu sthitaṃ yadyaddhanaṃ tadā || manoramāyāḥ puṇyena brāhmaṇebhyo dadau mudā || 23 || rājā jagāma samaraṃ hṛdayena vidūyatā || sārdhaṃ sainyasamūhaiśca vādyabhāṇḍairasaṃkhyakaiḥ ||24|| dadarśa maṅgalaṃ rājā puro vartmani vartmani || yayau tathāpi samaraṃ nājagāma gṛhaṃ punaḥ||25|| muktakeśīṃ chinnanāsāṃ rudatīṃ ca digambarām || kṛṣṇavastraparīdhānāmaparāṃ vidhavāmapi || 26 || mukhaduṣṭāṃ yoniduṣṭāṃ vyādhiyuktāṃ ca kuṭṭinīm || patiputravihīnāṃ ca ḍākinīṃ puṃścalī tathā || 27 || kumbhakāraṃ tailakāraṃ vyādhaṃ sarpopajīvinam || kucailamatirūkṣāṃgaṃ nagnaṃ kāṣāyavāsinam || 28 || vasāvikrayiṇaṃ caiva kanyāvikrayiṇaṃ tathā || citādagdhaṃ śavaṃ bhasma nirvāṇāṅgārameva ca||29|| sarpakṣataṃ naraṃ sarpaṃ godhāṃ ca śaśakaṃ viṣam|| śrāddhapākaṃ ca piṇḍaṃ ca moṭakaṃ ca tilāṃstathā ||3.35.30|| devalaṃ vṛṣavāhaṃ ca śūdraśrāddhānnabhojinam || śūdrānnapācakaṃ śūdrayājakaṃ grāmayājakamā|31|| kuśaputtalikāṃ caiva śavadāhanakāriṇam || śūnyakumbhaṃ bhagnakumbhaṃ tailaṃ lavaṇamasthi ca||32|| kārpāsaṃ kacchapaṃ cūrṇaṃ kukkuraṃ śabdakāriṇam || dakṣiṇe ca sṛgālaṃ ca kurvantaṃ bhairavaṃ ravam ||33|| kapardakaṃ ca kṣauraṃ ca cchinnakeśaṃ nakhaṃ malam || kalahaṃ ca vilāpaṃ ca tathā tatkāriṇaṃ janam || 34 || amaṅgalaṃ rudantaṃ ca rudantaṃ śokakāriṇam || 35 || mithyāsākṣya pradātāraṃ cauraṃ ca naraghātinam|| puṃścalīpatiputrau ca puṃścalyodanabhojinam || 36 || devatāguruviprāṇāṃ vastuvittāpahāriṇam || dattāpahāriṇaṃ dasyuṃ hiṃsakaṃ sūcakaṃ khalam || 37 || pitṛmātṛviraktaṃ ca dvijāśvatthavighātinam || satyaghnaṃ ca kṛtaghnaṃ ca sthāpyasyāpyapahāriṇam || 38 || vipramitradrohamevaṃ kṣataṃ viśvāsaghātakam || gurudevadvijānāṃ ca nindakaṃ svāṃgaghātakam || 39 || jīvānāṃ ghātakaṃ caiva svāṃgahīnaṃ ca nirdayam|| vratopavāsahīnaṃ ca dīkṣāhīnaṃ napuṃsakam ||3.35.40|| galitavyādhigātraṃ ca kāṇaṃ badhirameva ca || pulkasaṃ chinnaliṅgaṃ ca surāmattaṃ surāṃ tathā ||41|| kṣiptaṃ vamantaṃ rudhiraṃ mahiṣaṃ gardabhaṃ tathā || mūtraṃ purīṣaṃ śleṣmāṇaṃ rūkṣiṇaṃ nṛkapālakam ||42|| caṇḍavātaṃ raktavṛṣṭiṃ vādyaṃ vai vṛkṣapātanam || vṛkaṃ ca sūkaraṃ gṛdhraṃ śyenaṃ kaṅkaṃ ca bhallukam||43|| pāśaṃ ca śuṣkakāṣṭhaṃ ca vāyasaṃ gandhakaṃ tathā||44|| pratigrāhibrāhmaṇaṃ ca tantramantropajīvinam|| vaidyaṃ ca raktapuṣpaṃ cāpyauṣadhaṃ tuṣameva ca||45|| kuvārttāṃ mṛtavārtāṃ ca vipraśāpaṃ ca dāruṇam|| durgandhivātaṃ duśśabdaṃ rājā'paśyatsa vartmani || 46 || manaśca kutsitaṃ prāṇāḥ kṣubhitāśca nirantaram|| vāmāṃgaspandanaṃ dehajāḍyaṃ rājño babhūva ha || 47 || tathā'pi rājā niśśaṅko dadarśa samarāṅgaṇam || sarvasainyasamāyuktaḥ praviveśa raṇājiram || 48 || avaruhya rathāttūrṇaṃ dṛṣṭvā ca purato bhṛgum || nanāma daṇḍavadbhūmau rājendraiḥ saha bhaktitaḥ || 49 || āśiṣaṃ yuyuje rāmaḥ svargaṃ yāhīti vāñchitam || teṣāṃ sahyaṃ tadbabhūvurdulaṃghyā brāhmaṇāśiṣaḥ || 3.35.50 || bhṛguṃ praṇamya rājendro rājendraiḥ saha tatkṣaṇāt || āruroha rathaṃ tūrṇaṃ nānāyudhasamanvitam || 51 || nānāprakāravādyaṃ ca dundubhiṃ murajādikam || vādayāmāsa sahasā brāhmaṇebhyo dadau dhanam || 52 || uvāca rāmo rājendraṃ rājendrāṇāṃ ca saṃsadi || hitaṃ satyaṃ nītisāraṃ vākyaṃ vedavidāṃ varaḥ || 93 || paraśurāma uvāca || śṛṇu rājendra dharmiṣṭha candravaṃśasamudbhava || viṣṇoraṃśasya śiṣyastvaṃ dattātreyasya dhīmataḥ || 54 || svayaṃ vidvāṃśca vedāṃśca śrutvā vedavido mukhāt || kathaṃ durbuddhiradhunā sajjanānāṃ vihiṃsanā || 55 || tvaṃ pūrvamahano lobhānnirīhaṃ brāhmaṇaṃ katham || brāhmaṇī śokasantaptā bhartrā sārddhaṃ gatā satī || 56 || kiṃ bhaviṣyati te bhūpa paratraivānayorvadhāt || sarvaṃ mithyaiva saṃsāraṃ padmapatre yathā jalam || 57 || satkīrttiścātha duṣkīrtiḥ kathāmātrāvaśeṣitā || viḍambanā vā kimato duṣkīrtteśca satāmaho || 58 || kva gatā kapilā tvaṃ kva kva vivādo muniḥ kutaḥ || yatkṛtaṃ viduṣā rājñā na kṛtaṃ hālikena tat || 59 || tvāmupoṣitamīśaṃ hi dṛṣṭvā tāto hi dhārmikaḥ || pāraṇāṃ kārayāmāsa dattaṃ tasya phalaṃ tvayā || 3.35.60 || adhītaṃ vidhivaddattaṃ brāhmaṇebhyo dine dine || jagate yaśasā pūrṇamayaśo vārddhake katham || || 61 || dātā variṣṭho dharmmiṣṭho yaśasvī puṇyavānsudhīḥ || kārttavīryārjunasamo na bhūto na bhaviṣyati || 62 || purātanā vadantīti bandino dharaṇītale || yo vikhyātaḥ purāṇeṣu tasya duṣkīrttirīdṛśī || 63 || durvākyaṃ duḥsahaṃ rājaṃstīkṣṇāstrādapi jīvinām || saṃkaṭe'pi satāṃ vaktrāddviruktirna vinirgatā || 64 || na dadāmi dviruktiṃ te prakṛtaṃ kathayāmyaham || uttaraṃ dehi rājendra mahyaṃ rājendrasaṃsadi || 65 || sūryyacandramanūnāṃ ca vaṃśajāḥ santi saṃsadi || satyaṃ vada sabhāyāṃ ca śṛṇvantu pitaraḥ surāḥ || 66 || śṛṇvantu sarve rājendrāḥ sadasadvaktumīśvarāḥ || paśyanto hi samaṃ santaḥ pākṣikaṃ na vadanti ca || 67 || ityuktvā raiṇukeyaśca virarāma raṇasthale || rājā bṛhaspatisamaḥ pravaktumupacakrame || 68 || kārttavīryyārjuna uvāca || śṛṇu rāma hareraṃśo haribhakto jitendriyaḥ || śruto dharmo mukhādyeṣāṃ tvaṃ ca teṣāṃ gurorguruḥ || 69 || karmmaṇā vā'pyasadbudhyā karoti brahmabhāvanām || svadharmanirataḥ śuddhastasmādbrāhmaṇa uccate || 3.35.70 || antarbahiśca mananātkuruta karmma nityaśaḥ || maunī śaśvadvadetkāle yo vai sa munirucyate || 71 || svarṇe loṣṭe gṛhe'raṇye paṃke susnigdhacandane || samatābhāvanā yasya sa yogī parikīrttitaḥ ||72|| sarvajīveṣu yo viṣṇuṃ bhāvayetsamatā dhiyā || harau karoti bhaktiṃ ca haribhaktaḥ sa ca smṛtaḥ ||73|| tapodhanaṃ brāhmaṇānāṃ tapaḥ kalpataruryathā || tapasyā kāmadhenuśca santataṃ tapasi spṛhā ||74|| aiśvaryye kṣatriyāṇāṃ ca vāṇijye ca tathā viśām|| kṣatriyāṇāṃ ca tapasi spṛhā'tīvā'praśaṃsitā||75|| brāhmaṇānāṃ vivāde ca spṛhā'tīva vininditā||76|| rāgī rājasikaṃ kāryyaṃ kurute karmma rāgataḥ || rāgāndho yo rājasikastena rājā prakīrtitaḥ ||77|| rāgataḥ kāmadhenuśca mayā vai yācitā mune || ko doṣa eka me jātaḥ kṣatriyasyānurāgiṇaḥ||78|| kutaḥ kasya munerasti kāmadhenustvayā vinā|| spṛhā raṇe vā bhoge vā yuṣmākaṃ ca vyatikramaḥ||79|| triṃśadakṣauhiṇīṃ senāṃ rājendrāṇāṃ trikoṭikām|| nihatyāyāntamekaṃ māṃ na hantuṃ sahanaṃ mune ||3.35.80|| ātmānaṃ hantumāyāntamapi vedāṃgapāragam || na doṣo hanane tasya na tena brahmahā'bhavam || 81 || prāyaścittaṃ hiṃsakānāṃ na vedeṣu nirūpitam || vadhaḥ samucitasteṣāmityāha kamalodbhavaḥ || 82 || pitrā te nihatā bhūpā mahābalaparākramāḥ || idānīṃ rājaputrāśca śiśavo'tra samāgatāḥ ||83|| triḥsaptakṛtvo nirbhūpāṃ kṛtsnāṃ kartuṃ mahīmiti || tvayā kṛtā pratijñā yā tasyāstvaṃ pālanaṃ kuru || 84 || kṣatriyāṇāṃ raṇo dharmo raṇe mṛtyurna garhitaḥ || raṇe svāhā brāhmaṇānāṃ loke vede viḍambanā || 85 || tapodhanānāṃ viprāṇāṃ vāgbalānāṃ yuge yuge || śāntiḥ svastyayanaṃ karma vipradharmo na saṃgaraḥ || 86 || kṣatriyāṇāṃ balaṃ yuddhaṃ vyāpāraśca balaṃ viśām || bhikṣā balaṃ bhikṣukāṇāṃ śūdrāṇāṃ viprasevanam || 87 || harau bhaktirharerdāsyaṃ vaiṣṇavānāṃ balaṃ hariḥ || hiṃsā balaṃ khalānāṃ ca tapasyā ca tapasvinām || 88 || balaṃ veṣaśca veśyānāṃ yoṣitāṃ yauvanaṃ balam || balaṃ pratāpo bhūpānāṃ bālānāṃ rodanaṃ balam || 89 || satāṃ satyaṃ balaṃ mithyā balamevāsatāṃ sadā || anugānāmanugamaḥ svalpasvānāṃ ca sañcayaḥ || 3.35.90 || vidyā balaṃ paṇḍitānāṃ dhairyyaṃ sāhasināṃ balam ||91 || dhanaṃ balaṃ ca dhanināṃ śucīnāṃ ca viśeṣataḥ || balaṃ vivekaḥ śāntānāṃ guṇināṃ balamekatā || 92 || guṇo balaṃ ca guṇināṃ caurāṇāṃ cauryyameva ca || priyavākyaṃ ca kāpaṭyamadharmmaḥ puṃścalībalam || 93 || hiṃsā ca hiṃsrajantūnāṃ satīnāṃ patisevanam || varaśāpau surāṇāṃ ca śiṣyāṇāṃ gurusevanam || 94 || balaṃ dharmo gṛhasthānāṃ bhṛtyānāṃ rājasevanam || balaṃ stavaḥ stāvakānāṃ brahma ca brahmacāriṇām || 95 || yatīnāṃ ca sadācāro nyāsaḥ saṃnyāsināṃ balam || pāpaṃ balaṃ pātakināmaśaktānāṃ harirbalam || 96 || puṇyaṃ balaṃ puṇyavatāṃ prajānāṃ nṛpatirbalam || phalaṃ balaṃ ca vṛkṣāṇāṃ jalajānāṃ jalaṃ balam || 97 || jalaṃ balaṃ ca sasyānāṃ matsyānāṃ ca jalaṃ balam || śāntirbalaṃ ca bhūpānāṃ viprāṇāṃ ca viśeṣataḥ || 98 || vipraḥ śānto raṇodyogī naiva dṛṣṭo na ca śrutaḥ || sthite nārāyaṇe deve babhūvānyaviparyyayaḥ || 99 || ityevamuktvā rājendro virarāma raṇājire || tasya tadvacanaṃ śrutvā sadyastūṣṇīṃ babhūva ha || 3.35.100 || rāmasya bhrātaraḥ sarve tīkṣṇaśastrāsipāṇayaḥ || ārebhire raṇaṃ karttuṃ mahāvīrāstadājñayā || 101 || raṇonmukhāṃśca tāndṛṣṭvā matsyarājo mahābalaḥ || samārebhe raṇaṃ kartuṃ maṅgalo maṅgalālayaḥ || 102 || śarajālena rājendro vārayāmāsa tānapi || cicchiduḥ śarajālaṃ ca jamadagnisutāstadā || 103 || rājā cikṣepa divyāstraṃ śatasūryyaprabhaṃ mune || māheśvareṇa munayaścicchiduścaiva līlayā||104|| divyāstreṇaiva munayaścicchiduḥ saśaraṃ dhanuḥ|| rathaṃ ca sārathiṃ caiva rājñaḥ sannāhameva ca||105 nyastaśastraṃ nṛpaṃ dṛṣṭvā munayo harṣavihvalāḥ || dadhāra śūlinaḥ śūlaṃ matsyarājajighāṃsayā || 106 || śūlanikṣepasamaye vāgbabhūvāśarīriṇī || śūlaṃ tyajata viprendrāḥ śivasyāvyarthameva ca || 107 || śivasya kavacaṃ divyaṃ dattaṃ durvāsasā purā || matsyarājagale'styetatsarvāvayavarakṣakam || 108 || prāṇānāṃ ca pradātāraṃ kavacaṃ yācataṃ nṛpam || tadā nikṣiptaśūlaṃ ca jaghāna nṛpatiściram || 109 || tacchūlaṃ taṃ nṛpaṃ prāpya śatakhaṇḍaṃ gataṃ mune || śrutvaivākāśavāṇīṃ ca śṛṅgī saṃnyāsaveṣakṛt || 3.35.110 || yayāce kavacaṃ bhūpaṃ jamadagnisuto mahān || rājā dadau ca kavacaṃ brahmāṇḍavijayaṃ param || 111 || gṛhītvā kavacaṃ tacca śūlenaiva jaghāna ha || papāta matsyarājaśca śatacandrasamānanaḥ || mahābaliṣṭho guṇavāṃścandravaṃśasamudbhavaḥ || 112 || nārada uvāca || śivasya kavacaṃ brūhi matsyarājena yaddhṛtam || nārāyaṇa mahābhāga śrotuṃ kautūhalaṃ mama || 113 || nārāyaṇa uvāca || kavacaṃ śṛṇu viprendra śaṅkarasya mahātmanaḥ || brahmāṇḍavijayaṃ nāma sarvāvayavarakṣaṇam || 114 || purā durvāsasā dattaṃ matsyarājāya dhīmate || dattvā ṣaḍakṣaraṃ mantraṃ sarvapāpapraṇāśanam || 115 || sthite ca kavace dehe nāsti mṛtyuśca jīvinām || astre śastre jale vahnau siddhiścennāsti saṃśayaḥ || 116 || yaddhṛtvā paṭhanādbāṇaḥ śivatvaṃ prāpa līlayā || babhūva śivatulyaśca yaddhṛtvā nandikeśvaraḥ || 117 || vīraśreṣṭho vīrabhadraḥ sāmbo'bhūddhāraṇādyataḥ|| trailokyavijayī rājā hiraṇyakaśipuḥ svayam || || 118 || hiraṇyākṣaśca vijayī cābhavaddhāraṇāddhi saḥ || yaddhṛtvā paṭhanātsiddho durvāsā viśvapūjitaḥ || 119 || jaigīṣavyo mahāyogī paṭhanāddhāraṇādyataḥ || yaddhṛtvā vāmadevaśca devalaḥ pavanaḥ svayam || agastyaśca pulastyaścāpyabhavadviśvapūjitaḥ || 3.35.120 || oṃ namaḥ śivāyeti ca mastakaṃ me sadā'vatu || oṃ namaḥ śivāyeti ca svāhā bhālaṃ sadā'vatu || 121 || oṃ hrīṃ śrīṃ klīṃ śivāyeti svāhā netre sadā'vatu || oṃ hrīṃ śrīṃ hū~ śivāyeti namo me pātu nāsikām || 122 || oṃ namaḥ śivāya śāntāya svāhā kaṇṭhaṃ sadā'vatu || oṃ hrīṃ śrīṃ hū~ saṃhārakartre svāhā karṇau sadā'vatu || 123 || oṃ hrīṃ śrīṃ pañcavaktrāya svāhā dantaṃ sadā'vatu || oṃ hrīṃ maheśāya svāhā cādharaṃ pātu me sadā || 124 || oṃ hrīṃ śrīṃ klīṃ trinetrāya svāhā keśānsadā'vatu || oṃ hrīṃ aiṃ mahādevāya svāhā vakṣaḥ sadā'vatu || 125 || oṃ hrīṃ śrīṃ klīṃ maiṃ rudrāya svāhā nābhiṃ sadā'vatu || oṃ hrīṃ maiṃ śrīmīśvarāya svāhā pṛṣṭhaṃ sadā'vatu || || 126 || oṃ hrīṃ klīṃ mṛtyuñjayāya svāhā bhruvau bāhū sadā'vatu || oṃ hrīṃ śrīṃ hrīmīśānāya svāhā pārśvaṃ sadā'vatu ||127 || oṃ hrīmīśvarāya svāhā codaraṃ pātu me sadā || oṃ śrīṃ hrīṃ mṛtyuñjayāya svāhā bāhū sadā'vatu || 128 || oṃ hrīṃ śrīṃ klīmīśvarāya svāhā pātu karau mama || oṃ maheśvarāya rudrāya nitambaṃ pātu me sadā || 129 || oṃ hrīṃ śrīṃ bhūtanāthāya svāhā pādau sadā'vatu || oṃ sarveśvarāya sarvāya svāhā pādau sadā'vatu || 3.35.130 || prācyāṃ māṃ pātu bhūteśa āgneyyāṃ pātu śaṅkaraḥ || dakṣiṇe pātu māṃ rudro nairṛtyāṃ sthāṇureva ca || 131 || paścime khaṇḍaparaśurvāyavyāṃ candraśekharaḥ || uttare giriśaḥ pātu caiśānyāmīśvaraḥ svayam || 132 || ūrdhve mṛḍaḥ sadā pātu cādho mṛtyuñjayaḥ svayam || jale sthale cāntarikṣe svapne jāgaraṇe sadā || 133 || pinākī pātu māṃ prītyā bhaktaṃ savai bhaktavatsalaḥ || iti te kathitaṃ vatsa kavacaṃ paramādbhutam || 134 || daśalakṣajapenaiva siddhirbhavati niścitam || yadi syātsiddhakavaco rudratulyo bhaveddhruvam || 135 || tava snehānmayā''khyātaṃ pravaktavyaṃ na kasyacit || kavacaṃ kaṇvaśākhoktamatigopyaṃ sudurlabham || 136 || aśvamedhasahasrāṇi rājasūyaśatāni ca || sarvāṇi kavacasyāsya kalāṃ nārhanti ṣoḍaśīm || 137 || kavacasya prasādena jīvanmukto bhavennaraḥ || sarvajñaḥ sarvasiddhīśo manoyāyī bhaveddhruvam || 138 || idaṃ kavacamajñātvā bhajedyaḥ śaṅkaraṃ prabhum || śatalakṣaṃ prajapto'pi na mantraḥ siddhidāyakaḥ || 139 || iti śrībrahmavaivartte mahāpurāṇe tṛtīye gaṇapatikhaṇḍe nāradanārāyaṇasaṃvāde śaṅkarakavacaprakathanaṃ nāma pañcatriṃśo'dhyāyaḥ ||35||
English translation
Narayana said - Manorama embraced her husband for a moment and whatever she had heard from the mouth of her husband, she seriously considered its the meaning, O sage, thereafter she called for her relatives, sons and servants before her and considered the destiny's will which always prevails. She started reciting the name of the lord. With the yogic practices, she pierced through the Sat-cakra and established the air in Brahmdnda. Thereafter quick as a bubble of water she removed her mind from worldly pleasures and then concentrated her attention on the thousand pettaled lotus in Brahmarandhra. She then attracted the attention of her mind to the Brahmana and devoted her unstable mind to the divine knowledge making it She then discarded three types of deeds in order to destroy completely the deeds as well as rebirth. She even ended her life without ending her relationship with her husband.
Finding her dead the king started lamenting and crying and throwing away the kavaca, he took her into his lap and said.
The king said - "O Manorama, get up I will not go to the battle-field now. You revive your senses and look at me.” He thus kept on lamenting again and again.
T chRfiillfq W w 6U Manorama, you get up and accompany me. O damsel, I shall not fight against Bhrgu now.
O Manorama, O beautiful one, get up and accompany me to the mountain peak and let me enjoy the love-sport with you there.
O Manorama, dear one, you get up, go to Godavari and let us have the water-sport there as usual. O Manorama, O beautiful one, you get up and let us go to Puspabhadra river and visit a secluded place in your company.
O Manorama, O beautiful one, you get up and let us move to the Malaya mountain; let me enjoy your company in the forest of sandal-wood trees.
The place is filled with fragrance and cool breeze and the place is reverberated with the hissing sound of the black-wasps and the sweet sound of the cuckoo.
Reaching there you adorn my body with sandal-paste, aguru, kasturi, saffron, smilingly and look at the limbs of my body delightfully.
O dear one, you speak out sweet words like nectar, why are you not looking at me with side Hearing the cries of the king there was a divine voice from the sky. ”0 king, be stable.
Why are you crying?
By the grace of Dattatreya you are the best of intellectuals and treat this universe like a bubble of water.
The chaste Kamala was the athsa of LaksmI who has departed to her abode; you also proceed to the battle-field and achieve Vaikuntha while fighting there."
Hearing this the king shed away the grief and arranged for a pyre of sandal-wood and made his son to perform the last rights of his mother and distributed charity to the Brahmanas with delight.
For the welfare of the departed soul of Manorama, the king distributed several types of riches including clothes to the BrShmanas with a delightful mind.
W li'jlW^y(ciyifdHH,l O sage, at that point of time the words of or "bring more" were constantly heard. The king gave away in charity enormous riches whatever was available in his treasury.
Thereafter, the king with a heavy heart accompanied by innumerable soldiers and war- bands moved towards the battle-field.
While moving on the journey he met with many inauspicious signs but disregarding them he kept on his forward march and never returned He met with a naked widow with dishevelled hair and a severed nose and crying. Besides the wicked-faced, the degraded and ailing kuttinl, a woman without a child, Dakinis, an unchaste woman, a potter, an oil-man, a hunter, a snake- charmer, a man with dirty clothes and a bright body which was naked besides the one wearing ascetic garments, a seller of fat, a seller or daughter, a fire in which a body was burning, ashes, coal, a human bitten by snakes, a lizard, a rabbit, poison, food of smddha, pinda, motaka, sesamum, a temple of Sudra, a driver of bullocks, a performer of the sraddhas of the Sudras, a store-keeper of the Sudras, a performer of the yajna of Sudras, the one who performed yajnas from village to village, the one who burnt puppets in the cremation ground, an empty
pitcher, a broken pitcher, oil, salt, bones, cotton, a tortoise, powder, barking dogs, a jackal howling on the right, small shells, a barber, nails,, refuse, quarrelling people, lamenting people and the one who always spoke evil words, crying ^ men, men in grief, men who always gave false ' evidence, a thief, a killer of humans, wicked women without husband and sons, the one who | lived on the rice of a wicked woman, gods,, teachers, the one who stole away the belongings of the Brahmanas, the one who usurped the things given away in charity, decoits, a terrorist,' a back biter, a wicked person, the one who neglected his parents, the killers of the Brahmana and the plpala tree, a person who spoke falsehood, an ungrateful person, a usurper of the trust, the one who betrays Brahmanas and the friends, an injured person, a betrayer of the faith, the one who denounces the teacher, gods and Brahmanas, a destroyer of his own limbs, a killer
of the creatures, deformed, cruel, the one deprived of the vrata and the vow, the one who did not give daksina, impotent, suffering from leprosy, a one-eyed person, deaf, candala, the one whose male organs are cut-off, a drunkard, a seller of wine, the one vomiting blood, a he- buffalo, a donkey, urine, refuse, cough, a person with shaven head, a terrific wind, a rain of blood, a man falling from a tree, a hyena, a pig, a vulture, an eagle, a white-kite, a bear, a bamboo, dry wood, a crow, sulphuric acid, a Brahmana the giver of charity, the one who lived on tantric practices, a physician, red flowers, medicine, straw, bad news, news of death, a terrific curse of Brahmana, a wind with foul smell, a horrible wound, a wind - these were the evil signs met by with king on the way.
All these made the mind of the king gloomy and he became upset, his body was fatigued and his left limbs started fluttering.
Inspite of all this, the king marched on towards the battle-field quite courageously. He entered the battle-field together with all his army.
Finding ParasurSma there, he descended from his chariot and he bowed in reverence to him together with all his sons.
W II q o II Parasurama on his part blessed them saying, achieve your desired heaven." Thus the words of a Brahmana cannot be otherwise.
The king assisted by many of the princes bowed in reverence to the king and hurriedly mounted on the chariot and made the war-bands and other musical instruments to be played upon.
He gave away charities to the Brahmanas.
Thereafter, Parasurama addressing the king in the assembly of kings spoke the beneficial words which were filled with welfare, were truthful and Parasurama said « O king, you are quite a religious one; having been bom in the solar race, you are aths of Visnu and are the pupil of great intellectual Dattatreya. You have heard the recitation of the Vedas from the mouth of those who were well-versed in the Vedas but how did you achieve this thought to kill the noble people?
Why did you kill an ascetic Brahmana getting overwhelmed grief? As a result of which, the chaste lady went to tae abode of her husband.
O king, what is the merit you could achieve by killing both of them? The entire universe is like the drops of water falling on a lotus leaf. In this universe a person meets only with grace and disgrace and the tales of his good and bad deeds are left behind. What is the use of earning disgrace by putting the noble people to disgrace?
Where has that Kapila gone? Where is the remorse that developed because of that and where has the ascetic gone? Thus evidentially the deeds performed by a king cannot even be performed by the one who ploughs the field.
Finding you hungry my religious-minded father served you with food and you gave him the reward.
You have yourself studied the Vedas, served food to the Brahmana daily, which earned you the glory assured in the Vedas but why did you earn this disgrace in your old age?
Because no one could be as charitable, valorous, religious-minded, glorious, meritorious and intelligent as a king like Kartavirya in the past nor shall be in the future. These are the songs which the bards recite on the earth, the one who is well known is the Puranas, how could he meet with such a disgrace.
O king, the harsh words of a person are worse than the sharp-edged weapons but inspite of any danger the noble people never utter harsh words.
I don't want to use harsh words against you, but I am only speaking with reference to the context. Therefore, O king, you give me the answer in your court.
Because the descendants of the solar, lunar and Manu's races are present here, you speak out the tmth in this assembly to enable your manes and the gods to listen to the tmth besides other kings; the noble people always look at all the Thus speaking Parasurama kept quiet in the battle-field. Thereafter the king started speaking like Brhaspati in the battle-field.
to kill you. It would be proper for anyone to kill such a person. This has been ordained by Brahma. Your father has killed many of the valorous kings possessing great prowess. The princes, who have come to face you are only the sons of those kings.
Therefore, you fulfil your vow for ridding the earth of Ksatriyas twenty one times.
TOTt sntf T[ffrr:i Ksatriyas, dharmas is to fight; therefore their death in the battle-field is not denounced. It is also a fallacy for the Brahmanas to think of fighting which is neither accepted in the Vedas nor by the people.
Therefore such of the ascetic Brahmanas who are well-versed in the speech and the Vedas, have always to remain peaceful in all the yugas.
They are devoted to the performing of the dharma of the Brahmana and do not take to The valour of the Ksatriyas is in fighting, business is the strength of the Vaisyas, the ascetic's strength is taking to the alms. The strength of the SQdras lies less in the serving of the Brahmanas and the devotees of the lord getting engaged in the adoration of Hari. The remain devoted to lord Visnu and that is their strength. The wicked people remain engaged in terrific deeds, which happen to be their strength, the performing of tapas happens to be the strength of the ascetics; the wicked women have the strength as their self decoration.
The ladies have the strength of youthfulness; the strength of the kings is their glory, the strength of the children is their cries, the strength of the noble people is truthfulness; the strength of the wicked people is falsehood, following in others' footsteps is the strength of the follower; the collecting of money is the strength of the poor; the learned people have the strength of courageous people; the riches happen to be the strength of the rich people as well as those who lead a purified life. Intelligence happens to be the strength of peaceful persons. The virtuous people have the strength of unity. Virtue is considered to be the strength of virtuous people. Theft is the strength of the thieves, deceitfulness happens to be the strength of the wicked people; boons happen to be the strength of the gods, besides the pronouncing of curses. Pupils have the strength in serving the teacher; house-holders have the
strength of performing dharma, a servant's strength lies in serving the king; prayer happens to be the strength of those offering prayers, Brahmana happens to be the strength of the Brahmacaris; the yatis have the strength of performing noble deeds, reeluses have the strength of disowning everything, sinners have the strength of performing sins and people having no strength have the strength of belief in the lord.
Thereafter getting the kavaca he again shot the trident. The king was hurt with the same and he fell down to the ground. He possessed the glory of a hundred moons, besides great prowess. He was virtuous and was bom in the solar race.
said - O Narayana, you kindly tell me the details about the kavaca of Siva which was worn by the. king of Matsya. I am quite anxious about it.
Narayana said - O Brahmana, the kavaca of Siva is known as Brahmdn^avijaya and always protects the limbs of the body. I am going to tell you about the same; you please listen to it. In the earlier times Durvasa had imparted the knowledge of the same to Matsyaraja with the mantra of six letters which removes all sins.
When the kavaca is worn on the body, the death never approaches him, the weapons, water and fire cannot affect him adversely.
By wearing it and reciting it Banasura gained ^ the knowledge of Sivatva and Nandikesvara | became like Siva himself. Samba became the, best of the warriors and by wearing which!
Hiranyakasipu became the lord of the three By holding which Hiranyaksa was victorious and by reciting which Durvasa and achieved success and was adored by the universe.
While reciting and holding which Jaigisavya became a great ascetic besides Vamadeva, Devala, the wind-god himself Agastya and Pulastya became adorable through out the universe. ' 3Tt should protect my head.
ftRFT should protect both my eyes, 3if should protect my nose.
should protect my my ears.
if should protect my teeth.
if "ntwr w^ should protect my lips.
WIT should protect rr^ hair.
WIT should protect my chest.
ti ^ TOT WIT should protect my navel.
should protect my eye¬ brows. ^ if ff Iwt igift should protect my alf ff should protect my belly. ^ TsjTfT should protect my arms.
R r-M inj gift -RRI aff eh" ^^JTPT should protect my hands.
should protect my buttocks.
ajf # 'jjHTsiR x<nfT should protect both my feet. 3tf tlolfxr should protect my feet.
Bhutesa should protect from the eastern side, Sankara should protect the south-east direction, Rudra should protect the southern direction, Sthanu should protect the south-west direction.
The west end direction should be protected by Khandaparasu, the south-west direction should be protected by Candrasekhara, the northern direction should be protected by Girlsa, the north-east direction should protected by Isvara, Mrda should protect the upper regions and Mrtyuhjaya should protect the lower regions besides the water, the land, space, while sleeping or awake. A devotee like me should be protected by the Pinaka-holder. O son, thus have I explained to you the astonishing type of kavaca.
The one who recites it ten lakhs of times, surely meets with its success. The one who meets with the success of this kavaca, becomes like Because of my affection for you, I have explained this kavaca to you. It should not be revealed by you to anyone. This has been explained in the Kanvasakha and is quite secret and inaccessible.
The merit of performing a thousand Asvamedha sacrifices or a hundred Rajasuya sacrifices and all the yajnas cannot compare even to the one sixteenth of the ray of the merit of this By the grace of this kavaca, the humans are freed from the circle of birth and death, become all knowledgeable and lords of all the success and fortune and attaining the spread of the mind.
The one who practises this kavaca without proper knowledge cannot meet with success even after reciting it ten lakhs of times.
qgTo uumfdtslo qR33To
Chapter-aligned complete witnesses. Sanskrit Wikisource revision 122348 (2017-09-16T09:55:54Z); Shanti Lal Nagar English scan pages n757–n767: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n757/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.