Skip to main content

Gaṇapati-khaṇḍa · Chapter 34

Chapter 34

Unit 131 of 276Gaṇapati-khaṇḍa · Chapter 34Gaṇapati-khaṇḍa · Chapter 341 source entries

Gaṇapati-khaṇḍa · Chapter 34

Source

नारायण उवाच ।। स प्रातराह्निकं कृत्वा समालोच्य च तैः सह ।। दूतं प्रस्थापयामास कार्त्तवीर्य्याश्रमं भृगुः ।।१।। स दूतःशीघ्रमागत्य वसन्तं राजसंसदि ।। वेष्टितं सचिवैः सार्द्धमुवाच नृपतीश्वरम् ।। २ ।। रामदूत उवाच ।। नर्म्मदातीरसान्निध्ये न्यग्रोधाक्षयमूलके ।। स भृगुर्भ्रातृभिः सार्द्धं तत्र त्वं गन्तुमर्हसि ।। ३ ।। युद्धं कुरु महाराज जातिभिर्ज्ञातिभिः सह ।। त्रिस्सप्तकृत्वो निर्भूपां करिष्यति महीमिति ।। ४ ।। इत्युक्त्वा रामदूतश्चाप्यगच्छद्रामसन्निधिम् ।। राजा विधाय सन्नाहं समरं गन्तुमुद्यतः ।। ५ ।। गच्छन्तं समरं दृष्ट्वा प्राणेशं सा मनोरमा ।। तमेव वारयामास वासयामास सन्निधौ ।। ६ ।। राजा मनोरमां दृष्ट्वा प्रसन्नवदनेक्षणः ।। तामुवाच सभामध्ये वाक्यं मानसिकं मुने ।। ७ ।। कार्त्तवीर्य्यार्जुन उवाच।। मामेवाह्वयते कान्ते जमदग्निसुतो महान् ।। स तिष्ठन्नर्म्मदातीरे रणाय भ्रातृभिः सह ।। ८ ।। सम्प्राप्य शङ्कराच्छस्त्रं मन्त्रं च कवचं हरेः ।' त्रिस्सप्तकृत्वो निर्भूपां कर्तुमिच्छति मेदिनीम् ।। ९ ।। आन्दोलयन्ति मे प्राणा मनः संक्षुभितं मुहुः ।। शश्वत्स्फुरति वामाङ्गं दृष्टं स्वप्नं शृणु प्रिये ।। 3.34.१० ।। तैलाभ्यङ्गितमात्मानमपश्यं गर्दभोपरि ।। औढपुष्पस्य माल्यं च बिभ्रतं रक्तचन्दनम् ।। ११ ।। रक्तवस्त्रपरीधानं लोहालङ्कारभूषितम् ।। क्रीडन्तं च हसन्तं च निर्वाणाङ्गारराशिना ।। १२ ।। भस्माच्छन्नां च पृथिवीं जपापुष्पान्वितां सति ।। रहितं चन्द्रसूर्य्याभ्यां रस्तसन्ध्यान्वितं नभः ।। १३ ।। मुक्तकेशां च नृत्यन्तीं विधवां छिन्ननासिकाम् ।। रक्तवस्त्रपरीधानामपश्यं चाट्टहासिनीम् ।। १४ ।। सशरामग्निरहितां चितां भस्मसमन्विताम् ।। भस्मवृष्टिमसृग्वृष्टिमग्निवृष्टिमपीश्वरि ।। १९ ।। पक्व तालफलाकीर्णां पृथिवीमस्थिसंयुताम्।। अपश्यं कर्परौघं च छिन्नकेशनखान्वितम् ।।१६।। पर्वतं लवणानां च राशीभूतं कपर्दकम्।। चूर्णानां चैव तैलानामदृशं कन्दरं निशि ।।१७।। अदृशं पुष्पितं वृक्षमशोककरवीरयोः ।। तालवृक्षं च फलितं तत्र चैव पतत्फलम् ।। १८ ।।। स्वकरात्पूर्णकलशः पपात च बभञ्ज च ।। इत्यपश्यं च गगनात्सम्पतच्चन्द्रमण्डलम् ।।१९।। अपश्यमम्बरात्सूर्य्यमण्डलं समम्पतद्भुवि ।। उल्कापातं धूमकेतुं ग्रहणं चन्द्रसूर्य्ययोः ।। 3.34.२० ।। विकृताकारपुरुषं विकटास्यं दिगम्बरम् ।। आगच्छन्तं चाग्रतस्तमपश्यं च भयानकम् ।। २१ ।। बाला द्वादशावर्षीया वस्त्रभूषणभूषिता ।। संरुष्टा याति मद्गेहादित्यपश्यमहं निशि ।। २२ ।। आज्ञां त्वं देहि राजेन्द्र त्वद्गेहाद्यामि काननम् ।। वदसि त्वं मामिति च निश्यपश्यमहं शुचा ।। २३ ।। रुष्टो विप्रो मां शपते संन्यासी च तथा गुरुः ।। भित्तौ पुत्तलिकाश्चित्रा नृत्यन्तीश्च ददर्श ह ।। २४ ।। चञ्चलानां च गृध्राणां काकानां निकरैः सदा ।। पीडितं महिषाणां च स्वमपश्यमहं निशि ।। २५ ।। पीडितं तैलयन्त्रेण भ्रामितं तैलकारिणा ।। दिगम्बरान्पाशहस्तानपश्यमहमीश्वरि ।। २६ ।। नृत्यन्ति गायकाः सर्वे गानं गायन्ति मे गृहे ।। विवाहं परमानन्दमित्यपश्यमहं निशि ।। २७ ।। रमणं कुर्वतो लोकान्केशाकेशि च कुर्वतः ।। अदृशं समरं रात्रौ काकानां च शुनामपि ।। २८ ।। मोटकानि च पिण्डानि श्मशानं शवसंयुतम् ।। रक्तवस्त्रं शुक्लवस्त्रमपश्यं निशि कामिनि ।। २९ ।। कृष्णाम्बरा कृष्णवर्णा नग्ना वै मुक्तकेशिनी।। विधवाऽऽश्लिष्यति च मामपश्यं निशि शोभने ।। ।। 3.34.३० ।। नापितो मुण्डते मुण्डं श्मश्रुश्रेणीं च मे प्रिये ।। वक्षःस्थलं च नखरमित्यपश्यमहं निशि ।। ३१ ।। पादुका चर्मरज्जूनामपश्यं राशिमुल्बणम् ।। चक्रं भ्रमन्तं भूमौ च कुलालस्येति सुन्दरि ।। ३२ ।। वात्यया घूर्णमानं च शुष्कवृक्षं तमुत्थितम् ।। पूर्णमानं कबन्धं वै चापश्यं निशि सुव्रते ।। ३३ ।। ग्रथितां मुण्डमालां च चूर्णमानां च वात्यया ।। अतीव घोरदशनामप्यपश्यमहं वरे ।। ३४ ।। भूतप्रेता मुक्तकेशा वमन्तश्व हुताशनम् ।। मां भीषयन्ति सततमित्यपश्यमहं निशि ।। ३५ ।। दग्धजीवं दग्धवृक्षं व्याधिग्रस्तं नरं परम् ।। अङ्गहीनं च वृषलमप्यपश्यमहं निशि ।। ३६ ।। गेहपर्वतवृक्षाणां सहसा पतनं परम् ।। मुहुर्मुहुर्वज्रपातमप्यपश्यमहं निशि ।। ३७ ।। कुक्कुराणां शृगालानां रोदनं च मुहुर्मुहुः ।। गृहे गृहे च नियतमपश्यं सर्वतो निशि ।। ३८ ।। अधश्शिरस्तूर्द्ध्वपादं मुक्तकेशं दिगम्बरम् ।। भूमौ भ्रमन्तं गच्छन्तं चाप्यपश्यमहं नरम् ।। ३९ ।। विकृताकारशब्दं च ग्रामादौ देव रोदनम् ।। प्रातः श्रुत्वैवावबुद्धः क उपायो वदाधुना ।। 3.34.४० ।। नृपतेर्वचनं श्रुत्वा हृदयेन विदूयता ।। सगद्गदं च रुदती तमुवाच नृपेश्वरम् ।। ४१ ।। मनोरमोवाच ।। हे नाथ रमणश्रेष्ठ श्रेष्ठ सर्वमहीभृताम् ।। प्राणातिरेक प्राणेश शृणु वाक्यं शुभावहम् ।।४२।। नारायणांशो भगवाञ्जामदग्न्यो महाबली ।। सृष्टिसंहर्तुरीशस्य शिष्योऽयं जगतः प्रभोः ।। ४३ ।। त्रिःसप्तकृत्वो निर्भूपां करिष्यामि महीमिति ।। प्रतिज्ञा यस्य रामस्य तेन सार्द्धं रणं त्यज ।। ४४ ।। पापिनं रावणं जित्वा शूरं त्वमपि मन्यसे ।। स त्वया न जितो नाथ स्वपापेन पराजितः ।। ४५ ।। यो न रक्षति धर्म्मं च तस्य को रक्षिता भुवि ।। स नश्यति स्वयं मूढो जीवन्नपि मृतो हि सः ।। ४६ ।। शुभाशुभस्य सततं साक्षी धर्म्मस्य कर्मणः ।। आत्मारामः स्थितः स्वान्तो मूढस्त्वं नहि पश्यसि ।।४७।। पुत्रदारादिकं यद्यत्सर्वैश्वर्य्यं सुधर्मिणाम् ।। जलबुद्बुदवत्सर्वमनित्यं नश्वरं नृप ।।४८।। संसारं स्वप्नसदृशं मत्वा सन्तोऽत्र भारते।। ध्यायन्ति सततं धर्म्मं तपः कुर्वन्ति भक्तितः ।। ४९ ।। दत्तेन दत्तं यज्ज्ञानं तत्सर्वं विस्मृतं त्वया ।। अस्ति चेद्विप्रहिंसायां कुबुद्धे त्वन्मनः कथम् ।। 3.34.५० ।। सुखार्थे मृगयां गत्वा तत्रोपोष्य द्विजाश्रमे ।। भुक्त्वा मिष्टमपूर्वं च हतो विप्रो निरर्थकम् ।। ५१ ।। गुरु विप्रसुराणां च यः करोति पराभवम् ।। अभीष्टदेवस्तं रुष्टो विपत्तिस्तस्य सन्निधौ ।। ५२ ।। स्मरणं कुरु राजेन्द्र दत्तात्रेयपदाम्बुजम् ।। गुरौ भक्तिश्च सर्वेषां सर्वविघ्नविनाशिनी ।। ५३ ।। गुरुदेवं समभ्यर्च्य तं भृगुं शरणं व्रज ।। विप्रे देवे प्रसन्ने च क्षत्त्रियाणां नहि क्षतिः ।। ५४ ।। विप्रस्य किंकरो भूपो वैश्यो भूपस्य भूमिप ।। सर्वेषां किङ्कराः शूद्रा ब्राह्मणस्य विशेषतः ।। ५९ ।। अयशः शरणं शश्वत्क्षत्रियस्य च क्षत्रिये ।। महद्यशस्तच्छरणं गुरुदेवद्विजेषु च ।। ९६ ।। ब्राह्मणं भज राजेन्द्र गरीयांसं सुरादपि ।। ब्राह्मणे परितुष्टे च सन्तुष्टाः सर्वदेवताः।।५७।। इत्येवमुक्त्वा राजेन्द्रं क्रोडे कृत्वा महासती।। मुहुर्मुहुर्मुखं दृष्ट्वा विललाप रुरोद च ।।५८।। क्षणं तिष्ठ महाराज पुनरेवमुवाच सा ।। स्नानं कुरु महाराज भोजयिष्यामि वाञ्छितम् ।। ५९ ।। चन्दनागुरुकस्तूरीकर्पूरैः कुंकुमैर्युतम् ।। अनुलेपं करिष्यामि सर्वांगे तव सुन्दर ।।3.34.६०।। क्षणं सिंहासने तिष्ठ क्षणं वक्षसि मे प्रभो।। सभायां पुष्परचिते तल्पे पश्यामि शोभनम् ।। ६१ ।। शतपुत्राधिकः प्रेम्णा सतीनां वै पतिर्नृप ।। निरूपितो भगवता वेदेषु हरिणा स्वयम् ।। ६२ ।। मनोरस्तवचः श्रुत्वा राजा परमपण्डितः ।। बोधयामास तां राज्ञीं ददौ प्रत्युत्तरं पुनः ।। ६३ ।। कार्त्तवीर्य्यार्जुन उवाच ।। शृणु कान्ते प्रवक्ष्यामि श्रुतं सर्वं त्वयेरितम् ।। शोकार्तानां च वचनं न प्रशंस्यं सभासु च ।। ६४ ।। सुखं दुःखं भयं शोकः कलहः प्रीतिरेव च ।। कर्म भोगार्हकालेन सर्वं भवति सुन्दरि ।। ६५ ।। कालो ददाति राजत्वं कालो मृत्युं पुनर्भवम् ।। कालः सृजति संसारं कालः संहरते पुनः ।। ६६ ।। करोति पालनं कालः कालरूपी जनार्दनः ।। कालस्य कालः श्रीकृष्णो विधातुर्विधिरेव च ।। ६७ ।। संहर्त्तुर्वाऽपि संहर्त्ता पातुः पाता च कर्मकृत् ।। स कर्मणां कर्मरूपी ददाति तपसां फलम् ।। कः केन हन्यते जन्तुः कर्मणा वै विना सति।। ' ।। ६८ ।। स्रष्टा सृजति सृष्टिं च संहर्त्ता संहरेत्पुनः ।। पाता पाति च भूतानि यस्याज्ञां परिपालयेत् ।। ६९ ।। यस्याज्ञया वाति वातः सन्ततं भयविह्वलः ।। शश्वत्सञ्चरते मृत्युः सूर्य्यस्तपति सन्ततम् ।। 3.34.७० ।। वर्षतीन्द्रो दहत्यग्निः कालो भ्रमति भीतवत् ।। तिष्ठन्ति स्थावराः सर्वे चरन्ति सततं चराः ।। ७१ ।। वृक्षाश्च पुष्पिताः काले फलितः पल्लवान्विताः ।। शुष्यन्ति कालतः काले वर्द्धन्ते च तदाज्ञया ।।७२।। आविर्भूता तिरोभूता सृष्टिरेव तदाज्ञया ।। तस्याज्ञया भवेत्सर्वं न किञ्चित्स्वेच्छया नृणाम् ।। ।। ७३ ।। नारायणांशो भगवाञ्जामदग्न्यो महाबलः ।। त्रिस्सप्तकृत्वो निर्भूपां करिष्यति महीमिति।। ७४ ।। प्रतिज्ञा विफला तस्य न भवेत्तु कदाचन ।। निश्चितं तस्य वध्योऽहमिति जानामि सुव्रते ।। ७५ ।। ज्ञात्वा सर्वं भविष्यं च शरणं यामि तत्कथम् ।। प्रतिष्ठितानां चाकीर्त्तिर्मरणादतिरिच्यते ।। ७६ ।। इत्येवमुक्त्वा राजेन्द्रः समरं गन्तुमुद्यतः ।। वाद्यं च वादयामास कारयामास मंगलम् ।। ७७ ।। शतकोटिर्नृपाणां च गजेन्द्राणां त्रिलक्षकम् ।। अक्षौहिणीनां शतकं महाबलपराक्रमम् ।। ७८ ।। अश्वानां च गजानां च पदातीनां तथैव च ।। असंख्यकं रथानां च गृहीत्वा गन्तुमुद्यतः ।। ७९ ।। बभूव स्तिमिता साध्वी दृष्ट्वा तं गमनोन्मुखम् । धृतवन्तं च सन्नाहमक्षयं सशरं धनुः ।। 3.34.८० ।। क्रीडागारे क्षणं तस्थौ कृत्वा कान्तं स्ववक्षसि ।। पश्यन्ती तन्मुखाम्भोजं चुचुम्ब च मुहुर्मुहुः ।। ८१ ।। इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे कार्तवीर्यार्जुन संनाहो नाम चतुस्त्रिंशत्तमोऽध्यायः ।। ३४ ।।

nārāyaṇa uvāca || sa prātarāhnikaṃ kṛtvā samālocya ca taiḥ saha || dūtaṃ prasthāpayāmāsa kārttavīryyāśramaṃ bhṛguḥ ||1|| sa dūtaḥśīghramāgatya vasantaṃ rājasaṃsadi || veṣṭitaṃ sacivaiḥ sārddhamuvāca nṛpatīśvaram || 2 || rāmadūta uvāca || narmmadātīrasānnidhye nyagrodhākṣayamūlake || sa bhṛgurbhrātṛbhiḥ sārddhaṃ tatra tvaṃ gantumarhasi || 3 || yuddhaṃ kuru mahārāja jātibhirjñātibhiḥ saha || trissaptakṛtvo nirbhūpāṃ kariṣyati mahīmiti || 4 || ityuktvā rāmadūtaścāpyagacchadrāmasannidhim || rājā vidhāya sannāhaṃ samaraṃ gantumudyataḥ || 5 || gacchantaṃ samaraṃ dṛṣṭvā prāṇeśaṃ sā manoramā || tameva vārayāmāsa vāsayāmāsa sannidhau || 6 || rājā manoramāṃ dṛṣṭvā prasannavadanekṣaṇaḥ || tāmuvāca sabhāmadhye vākyaṃ mānasikaṃ mune || 7 || kārttavīryyārjuna uvāca|| māmevāhvayate kānte jamadagnisuto mahān || sa tiṣṭhannarmmadātīre raṇāya bhrātṛbhiḥ saha || 8 || samprāpya śaṅkarācchastraṃ mantraṃ ca kavacaṃ hareḥ |' trissaptakṛtvo nirbhūpāṃ kartumicchati medinīm || 9 || āndolayanti me prāṇā manaḥ saṃkṣubhitaṃ muhuḥ || śaśvatsphurati vāmāṅgaṃ dṛṣṭaṃ svapnaṃ śṛṇu priye || 3.34.10 || tailābhyaṅgitamātmānamapaśyaṃ gardabhopari || auḍhapuṣpasya mālyaṃ ca bibhrataṃ raktacandanam || 11 || raktavastraparīdhānaṃ lohālaṅkārabhūṣitam || krīḍantaṃ ca hasantaṃ ca nirvāṇāṅgārarāśinā || 12 || bhasmācchannāṃ ca pṛthivīṃ japāpuṣpānvitāṃ sati || rahitaṃ candrasūryyābhyāṃ rastasandhyānvitaṃ nabhaḥ || 13 || muktakeśāṃ ca nṛtyantīṃ vidhavāṃ chinnanāsikām || raktavastraparīdhānāmapaśyaṃ cāṭṭahāsinīm || 14 || saśarāmagnirahitāṃ citāṃ bhasmasamanvitām || bhasmavṛṣṭimasṛgvṛṣṭimagnivṛṣṭimapīśvari || 19 || pakva tālaphalākīrṇāṃ pṛthivīmasthisaṃyutām|| apaśyaṃ karparaughaṃ ca chinnakeśanakhānvitam ||16|| parvataṃ lavaṇānāṃ ca rāśībhūtaṃ kapardakam|| cūrṇānāṃ caiva tailānāmadṛśaṃ kandaraṃ niśi ||17|| adṛśaṃ puṣpitaṃ vṛkṣamaśokakaravīrayoḥ || tālavṛkṣaṃ ca phalitaṃ tatra caiva patatphalam || 18 ||| svakarātpūrṇakalaśaḥ papāta ca babhañja ca || ityapaśyaṃ ca gaganātsampataccandramaṇḍalam ||19|| apaśyamambarātsūryyamaṇḍalaṃ samampatadbhuvi || ulkāpātaṃ dhūmaketuṃ grahaṇaṃ candrasūryyayoḥ || 3.34.20 || vikṛtākārapuruṣaṃ vikaṭāsyaṃ digambaram || āgacchantaṃ cāgratastamapaśyaṃ ca bhayānakam || 21 || bālā dvādaśāvarṣīyā vastrabhūṣaṇabhūṣitā || saṃruṣṭā yāti madgehādityapaśyamahaṃ niśi || 22 || ājñāṃ tvaṃ dehi rājendra tvadgehādyāmi kānanam || vadasi tvaṃ māmiti ca niśyapaśyamahaṃ śucā || 23 || ruṣṭo vipro māṃ śapate saṃnyāsī ca tathā guruḥ || bhittau puttalikāścitrā nṛtyantīśca dadarśa ha || 24 || cañcalānāṃ ca gṛdhrāṇāṃ kākānāṃ nikaraiḥ sadā || pīḍitaṃ mahiṣāṇāṃ ca svamapaśyamahaṃ niśi || 25 || pīḍitaṃ tailayantreṇa bhrāmitaṃ tailakāriṇā || digambarānpāśahastānapaśyamahamīśvari || 26 || nṛtyanti gāyakāḥ sarve gānaṃ gāyanti me gṛhe || vivāhaṃ paramānandamityapaśyamahaṃ niśi || 27 || ramaṇaṃ kurvato lokānkeśākeśi ca kurvataḥ || adṛśaṃ samaraṃ rātrau kākānāṃ ca śunāmapi || 28 || moṭakāni ca piṇḍāni śmaśānaṃ śavasaṃyutam || raktavastraṃ śuklavastramapaśyaṃ niśi kāmini || 29 || kṛṣṇāmbarā kṛṣṇavarṇā nagnā vai muktakeśinī|| vidhavā''śliṣyati ca māmapaśyaṃ niśi śobhane || || 3.34.30 || nāpito muṇḍate muṇḍaṃ śmaśruśreṇīṃ ca me priye || vakṣaḥsthalaṃ ca nakharamityapaśyamahaṃ niśi || 31 || pādukā carmarajjūnāmapaśyaṃ rāśimulbaṇam || cakraṃ bhramantaṃ bhūmau ca kulālasyeti sundari || 32 || vātyayā ghūrṇamānaṃ ca śuṣkavṛkṣaṃ tamutthitam || pūrṇamānaṃ kabandhaṃ vai cāpaśyaṃ niśi suvrate || 33 || grathitāṃ muṇḍamālāṃ ca cūrṇamānāṃ ca vātyayā || atīva ghoradaśanāmapyapaśyamahaṃ vare || 34 || bhūtapretā muktakeśā vamantaśva hutāśanam || māṃ bhīṣayanti satatamityapaśyamahaṃ niśi || 35 || dagdhajīvaṃ dagdhavṛkṣaṃ vyādhigrastaṃ naraṃ param || aṅgahīnaṃ ca vṛṣalamapyapaśyamahaṃ niśi || 36 || gehaparvatavṛkṣāṇāṃ sahasā patanaṃ param || muhurmuhurvajrapātamapyapaśyamahaṃ niśi || 37 || kukkurāṇāṃ śṛgālānāṃ rodanaṃ ca muhurmuhuḥ || gṛhe gṛhe ca niyatamapaśyaṃ sarvato niśi || 38 || adhaśśirastūrddhvapādaṃ muktakeśaṃ digambaram || bhūmau bhramantaṃ gacchantaṃ cāpyapaśyamahaṃ naram || 39 || vikṛtākāraśabdaṃ ca grāmādau deva rodanam || prātaḥ śrutvaivāvabuddhaḥ ka upāyo vadādhunā || 3.34.40 || nṛpatervacanaṃ śrutvā hṛdayena vidūyatā || sagadgadaṃ ca rudatī tamuvāca nṛpeśvaram || 41 || manoramovāca || he nātha ramaṇaśreṣṭha śreṣṭha sarvamahībhṛtām || prāṇātireka prāṇeśa śṛṇu vākyaṃ śubhāvaham ||42|| nārāyaṇāṃśo bhagavāñjāmadagnyo mahābalī || sṛṣṭisaṃharturīśasya śiṣyo'yaṃ jagataḥ prabhoḥ || 43 || triḥsaptakṛtvo nirbhūpāṃ kariṣyāmi mahīmiti || pratijñā yasya rāmasya tena sārddhaṃ raṇaṃ tyaja || 44 || pāpinaṃ rāvaṇaṃ jitvā śūraṃ tvamapi manyase || sa tvayā na jito nātha svapāpena parājitaḥ || 45 || yo na rakṣati dharmmaṃ ca tasya ko rakṣitā bhuvi || sa naśyati svayaṃ mūḍho jīvannapi mṛto hi saḥ || 46 || śubhāśubhasya satataṃ sākṣī dharmmasya karmaṇaḥ || ātmārāmaḥ sthitaḥ svānto mūḍhastvaṃ nahi paśyasi ||47|| putradārādikaṃ yadyatsarvaiśvaryyaṃ sudharmiṇām || jalabudbudavatsarvamanityaṃ naśvaraṃ nṛpa ||48|| saṃsāraṃ svapnasadṛśaṃ matvā santo'tra bhārate|| dhyāyanti satataṃ dharmmaṃ tapaḥ kurvanti bhaktitaḥ || 49 || dattena dattaṃ yajjñānaṃ tatsarvaṃ vismṛtaṃ tvayā || asti cedviprahiṃsāyāṃ kubuddhe tvanmanaḥ katham || 3.34.50 || sukhārthe mṛgayāṃ gatvā tatropoṣya dvijāśrame || bhuktvā miṣṭamapūrvaṃ ca hato vipro nirarthakam || 51 || guru viprasurāṇāṃ ca yaḥ karoti parābhavam || abhīṣṭadevastaṃ ruṣṭo vipattistasya sannidhau || 52 || smaraṇaṃ kuru rājendra dattātreyapadāmbujam || gurau bhaktiśca sarveṣāṃ sarvavighnavināśinī || 53 || gurudevaṃ samabhyarcya taṃ bhṛguṃ śaraṇaṃ vraja || vipre deve prasanne ca kṣattriyāṇāṃ nahi kṣatiḥ || 54 || viprasya kiṃkaro bhūpo vaiśyo bhūpasya bhūmipa || sarveṣāṃ kiṅkarāḥ śūdrā brāhmaṇasya viśeṣataḥ || 59 || ayaśaḥ śaraṇaṃ śaśvatkṣatriyasya ca kṣatriye || mahadyaśastaccharaṇaṃ gurudevadvijeṣu ca || 96 || brāhmaṇaṃ bhaja rājendra garīyāṃsaṃ surādapi || brāhmaṇe parituṣṭe ca santuṣṭāḥ sarvadevatāḥ||57|| ityevamuktvā rājendraṃ kroḍe kṛtvā mahāsatī|| muhurmuhurmukhaṃ dṛṣṭvā vilalāpa ruroda ca ||58|| kṣaṇaṃ tiṣṭha mahārāja punarevamuvāca sā || snānaṃ kuru mahārāja bhojayiṣyāmi vāñchitam || 59 || candanāgurukastūrīkarpūraiḥ kuṃkumairyutam || anulepaṃ kariṣyāmi sarvāṃge tava sundara ||3.34.60|| kṣaṇaṃ siṃhāsane tiṣṭha kṣaṇaṃ vakṣasi me prabho|| sabhāyāṃ puṣparacite talpe paśyāmi śobhanam || 61 || śataputrādhikaḥ premṇā satīnāṃ vai patirnṛpa || nirūpito bhagavatā vedeṣu hariṇā svayam || 62 || manorastavacaḥ śrutvā rājā paramapaṇḍitaḥ || bodhayāmāsa tāṃ rājñīṃ dadau pratyuttaraṃ punaḥ || 63 || kārttavīryyārjuna uvāca || śṛṇu kānte pravakṣyāmi śrutaṃ sarvaṃ tvayeritam || śokārtānāṃ ca vacanaṃ na praśaṃsyaṃ sabhāsu ca || 64 || sukhaṃ duḥkhaṃ bhayaṃ śokaḥ kalahaḥ prītireva ca || karma bhogārhakālena sarvaṃ bhavati sundari || 65 || kālo dadāti rājatvaṃ kālo mṛtyuṃ punarbhavam || kālaḥ sṛjati saṃsāraṃ kālaḥ saṃharate punaḥ || 66 || karoti pālanaṃ kālaḥ kālarūpī janārdanaḥ || kālasya kālaḥ śrīkṛṣṇo vidhāturvidhireva ca || 67 || saṃhartturvā'pi saṃharttā pātuḥ pātā ca karmakṛt || sa karmaṇāṃ karmarūpī dadāti tapasāṃ phalam || kaḥ kena hanyate jantuḥ karmaṇā vai vinā sati|| ' || 68 || sraṣṭā sṛjati sṛṣṭiṃ ca saṃharttā saṃharetpunaḥ || pātā pāti ca bhūtāni yasyājñāṃ paripālayet || 69 || yasyājñayā vāti vātaḥ santataṃ bhayavihvalaḥ || śaśvatsañcarate mṛtyuḥ sūryyastapati santatam || 3.34.70 || varṣatīndro dahatyagniḥ kālo bhramati bhītavat || tiṣṭhanti sthāvarāḥ sarve caranti satataṃ carāḥ || 71 || vṛkṣāśca puṣpitāḥ kāle phalitaḥ pallavānvitāḥ || śuṣyanti kālataḥ kāle varddhante ca tadājñayā ||72|| āvirbhūtā tirobhūtā sṛṣṭireva tadājñayā || tasyājñayā bhavetsarvaṃ na kiñcitsvecchayā nṛṇām || || 73 || nārāyaṇāṃśo bhagavāñjāmadagnyo mahābalaḥ || trissaptakṛtvo nirbhūpāṃ kariṣyati mahīmiti|| 74 || pratijñā viphalā tasya na bhavettu kadācana || niścitaṃ tasya vadhyo'hamiti jānāmi suvrate || 75 || jñātvā sarvaṃ bhaviṣyaṃ ca śaraṇaṃ yāmi tatkatham || pratiṣṭhitānāṃ cākīrttirmaraṇādatiricyate || 76 || ityevamuktvā rājendraḥ samaraṃ gantumudyataḥ || vādyaṃ ca vādayāmāsa kārayāmāsa maṃgalam || 77 || śatakoṭirnṛpāṇāṃ ca gajendrāṇāṃ trilakṣakam || akṣauhiṇīnāṃ śatakaṃ mahābalaparākramam || 78 || aśvānāṃ ca gajānāṃ ca padātīnāṃ tathaiva ca || asaṃkhyakaṃ rathānāṃ ca gṛhītvā gantumudyataḥ || 79 || babhūva stimitā sādhvī dṛṣṭvā taṃ gamanonmukham | dhṛtavantaṃ ca sannāhamakṣayaṃ saśaraṃ dhanuḥ || 3.34.80 || krīḍāgāre kṣaṇaṃ tasthau kṛtvā kāntaṃ svavakṣasi || paśyantī tanmukhāmbhojaṃ cucumba ca muhurmuhuḥ || 81 || iti śrībrahmavaivartte mahāpurāṇe tṛtīye gaṇapatikhaṇḍe nāradanārāyaṇasaṃvāde kārtavīryārjuna saṃnāho nāma catustriṃśattamo'dhyāyaḥ || 34 ||

English translation

Battle with Kartavirya O sage, finding Manorama there, the face of the king was delighted. He started speaking out his mind to her in the court itself Narayana said - After finishing the morning routine Parasurama summoned his people for consultation and sent a messenger to KMavTrya.

The messengers went to Kartavirya who was surrounded by his courtiers and spoke to him.

KMavIrya said - O damsel, Parasurama, the son of Jamadagni is challenging me who has arrived at the bed of the river Narmada together with all his brothers.

The messengers said - "O lord, Bhrgu has arrived on the bank of river Narmada and is currently resting under the banyan tree.

Therefore, you go to him for a fight. He has resolved to rid the earth of the Kstriyas twenty one times."

Thus speaking the messengers of Parasurama returned to his master, on the other hand the king adorned himself with kavaca and got ready to go to the battle field.

Finding KMavIrya moving out for waging a war, his queen named Manorama prevented him from going. She called him before herself and embraced him.

By achieving the weapons, mantra and kavaca from Siva he has resolved to rid the earth of the Ksatriyas twenty one times.

Because of this, I fell panicky in my mind and my mind is disturbed; my left limbs are fluttering again and again. O dear one, I have seen a dream recently which I am going to speak out to you.

I found myself soaked in oil, mounted on a donkey, wearing a garland of shoe fiower, applying red sandahpaste on the body, wearing red garments and ornaments of iron. Besides I found myself playing on a heap of coal, playing and laughing at the same time.

Applying fire on my body wearing a garland of shoe flower, I found the sun and the moon absent from the sky, while the evening was I found the ladies with dishevelled hair, whose noses were cut-off, wearing red garments and the O goddess, there were arrows without fire, the pyre was filled with ashes, the raining of ashes and the rain of blood and pyre.

I found goddess earth infatuated with tala trees. The bones were spread over the surface of the earth, besides the skulls without hair and nails. I found the mountains of salt, heaps of small shells and caves filled with oil and powder, in the dream at night.

I also found the trees of Asoka, Nerium, Odorum, trees blossoming, the tala trees laden with fruits and the fruits falling from the trees.

The vase filled with water had fallen from my hand and had broken, which was witnessed by me. I also found the moon and the stars falling from the sky.

I found a person of gigantic proportion with a horrible look who was terribly hungry, naked and fearful in appearance approaching me. This is what I had seen in the dream. A twelve year old wom^an clad in all the garments adorned with all the ornaments left my place getting annoyed, such a dream had been witnessed by me during the night.

She was saying, "O king you permit me, I intend to leave your place and go to the forest.

You tell me." Getting filled with grief I saw this dream during the night.

The Brahmanas, the ascetics and the teachers were also pronouncing curse on me getting annoyed. The figures painted on the walls were dancing. This is what I had seen.

The unstable cows, vultures, clothes, herd of buffaloes were seen by me during the night.

O goddess, I found the oil-man moving the oil-mill and various naked men were approaching me holding sticks in their hands.

I found the disk of the sun falling from the sky, the falling comets besides the eclipse of the sun and the moon.

I found all the singers of my house dancing.

Then I found a marriage being performed delightfully in my house.

The people were moving about holding the hair of one another. I also found crows and dogs during the night.

O beautiful lady, I witness a pickaxe, pinda, a dead body in the cremation ground, besides red and white garments.

O beautiful one, I saw during the night a lady clad in black garments having a black complexion, appearing nude and having dishevelled hair. She was embracing me being a O dear one, the barber was removing my beard and moustaches besides the hair of my chest and had the wounds of nails. O beautiful one, I found the potters wheel moving besides a string of leather in heaps.

O chaste lady, I found that with the movement of a strong wind, a fallen dry tree had stood erect and the trunk was moving without the head.

O best of the lady, I found a well made garland of skulls which was moving with the terrific winds and whose tongue was protruding.

Manorama said - O best of the kings, O lord, you are the best among the kings. You are dearer to me than my life and are the lord of my life; you listen to me my beneficial words. Lord is quite valorous and happens to be the amsa of Narayana. He also happens to be the pupil of Siva who is the destroyer of the He has taken a resolve to rid the earth of Ks astriya twenty-one times. Therefore, you discard the idea of fighting against Parasurama.

IT ^ TO TJTlfWlll'iTmi You are considered to be a great warrior after defeating Ravana. In fact, O lord, you have not defeated him but he has been defeated because of his own sins.

Because the one who does not protect dharma, who can protect him on the earth? Such a person is himself destroyed by his own actions and seems to be dead while still alive.

The one who is a witness to the good and bad deeds, the religious deeds, the soul of everyone and resides in the hearts of everyone, you are unable to realise his worth because of your I O king, for the religious people, the son, the wife and all the pleasures are perishable like the bubbles of water; therefore the ascetics and noble persons considering the universe to be like a dream, always devote themselves to dharma and perfonn tapas with great devotion.

fro 'TOT ddlylsj flro^i You have forgotten the divine knowledge imparted to you by Dattatreya; otherwise how could you involve yourself in the killing of a Brahmana? You had gone for the sake of The one who insults the teacher, the BrShmana and the gods, the gods get annoyed with him and he is approached by misfortune pretty fast.

O king, you remember the lotus-like feet of Dattatreya because of which the obstructions are removed by the reciting of the name of the teacher with devotion.

Adoring the same teacher you take refuge with Bhrgu. A Ksatriya never meets with any harm when he adores the gods and the Brahmanas.

O lord of the earth, the king happens to be the servant of the Brahmanas, 'Vaisya happens to be the servant of the king and the Sudra happens to be the servant of everyone and more so of a By taking refuge with the Ksatriya, he meets with disgrace but by taking refuge with the teacher, the gods and Brahmanas, one achieves great glory.

movable things move on endlessly. The trees blossom with fruits and flowers and according to time they also dry up. They also grow up at the command of time, at the command of the time the universe appears and then disappears, the humans move according to the will of the time and nothing is possible on their own will.

Lord Parasurama is the arhsa of Narayana and the great warrior, he has already taken a vow to rid the earth of the Ksatriyas twenty-one times which cannot be otherwise. Therefore, O chaste lady, I am bound to meet my death at his hands and I am sure of this.

him from moving forward and take away the infallible kavaca, the arrow and the bow.

She took him to the pleasure house and embraced him, kissing his face again and again.

Being well aware of the future, how can I take refuge with him, because for the glorious people disgrace is worse than death.

Thus speaking the king got ready for proceeding to the battle field. He started the playing of war-bands and also have the welfare rT wt II i o II His army consisted of a hundred crore of ' kings, three lakhs of great kings accompanied by great warriors and hundred Aksauhim army ' including elephants, horses, foot soldiers and innumerable chariots. He intended to move on ^ with the entire army. But in the meantime • Manorama wearing a smile on her face prevented:

Chapter-aligned complete witnesses. Sanskrit Wikisource revision 122347 (2017-09-16T09:54:39Z); Shanti Lal Nagar English scan pages n751–n757: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n751/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.