Skip to main content

Gaṇapati-khaṇḍa · Chapter 32

Chapter 32

Unit 129 of 276Gaṇapati-khaṇḍa · Chapter 32Gaṇapati-khaṇḍa · Chapter 321 source entries

Gaṇapati-khaṇḍa · Chapter 32

Source

भृगुरुवाच।। सम्प्राप्तं कवचं नाष शश्वत्सर्वाङ्गरक्षणम्।। सुखदं मोक्षदं सारं शत्रुसंहारकारणम्॥१॥ अधुना भगवन्मन्त्रं स्तोत्रं पूजाविधिं प्रभो ॥ देहि मह्यमनाथाय शरणागतपालक ॥२॥ महादेव उवाच ॥ ॐ श्रीं नमः श्रीकृष्णाय परिपूर्णतमाय स्वाहा॥ मन्त्रेषु मन्त्रराजोऽयं महान्सप्तदशाक्षरः ॥३॥ सिद्धोऽयं पञ्चलक्षेण जपेन मुनिपुंगवः॥ तद्दशांशं च हवनं तद्दशांशाभिषेचनम् ॥ तर्पणं तद्दशांशं च तद्दशांशं च मार्जनम् ॥ सुवर्णानां च शतकं पुरश्चरणदक्षिणा ॥ ४ ॥ मन्त्रसिद्धस्य पुंसश्च विश्वं करतले मुने ॥ शक्तः पातुं समुद्रांश्च विश्वं संहर्तुमीश्वरः ॥ ९ ॥ पाञ्चभौतिकदेहेन वैकुण्ठं गन्तुमीश्वरः ॥ तस्य संस्पर्शमात्रेण पदपङ्कजरेणुना ॥ पूतानि सर्वतीर्थानि सद्यः पूता वसुन्धरा ॥ ६ ॥| ध्यानं च सामवेदोक्तं शृणु मन्मुखतो मुने ।। सर्वेश्वरस्य कृष्णस्य भक्तिमुक्तिप्रदायि च ।। ७ ।। नवीनजलदश्यामं नीलेन्दीवरलोचनम् ।। शरत्पार्वणचन्द्रास्यमीषद्धास्यं मनोहरम् ।। ८ ।। कोटिकन्दर्पलावण्यलीलाधाममनोहरम् ।। रत्नसिंहासनस्थं तं रत्नभूषणभूषितम् ।। ९ ।। चन्दनोक्षितसर्वांगं पीताम्बरधरं वरम् ।। वीक्ष्यमाणं च गोपीभिः सस्मिताभिश्च सन्ततम् ।। 3.32.१० ।। प्रफुल्लमालतीमालावनमाला विभूषितम् ।। दधतं कुन्दपुष्पाढ्यां चूडां चन्द्रकचर्च्चिताम् ।। ११ ।। प्रभां क्षिपन्तीं नभसश्चन्द्रतारान्वितस्य च ।। रत्नभूषितसर्वांगं राधावक्षःस्थलस्थितम्।।१२।। सिद्धेन्द्रैश्च मुनीन्द्रैश्च देवेन्द्रैः परिसेवितम्।। ब्रह्मविष्णुमहेशैश्च श्रुतिभिश्च स्तुतं भजे।।१३।। ध्यानेनानेन तं ध्यात्वा चोपचारांस्तु षोडश ।। दत्त्वा भक्त्या च संपूज्य सर्वज्ञत्वं लभेत्पुमान् ।।१४।। अर्घ्यं पाद्यं चासनं च वसनं भूषणं तथा।। गामर्घ्यं मधुपर्कं च यज्ञसूत्रमनुत्तमम् ।।१५।। धूपदीपौ च नैवेद्यं पुनराचमनीयकम् ।। नानाप्रकारपुष्पाणि ताम्बूलं च सुवासितम्।। ।।१६।। मनोहरं दिव्यतल्पं कस्तूर्यगरुचन्दनैः।। भक्त्या भगवते देयं माल्यं पुष्पाञ्जलित्रयम् ।। १७ ।। ततः षडंगं सम्पूज्य पश्चात्स म्पूजयेद्गणम्।। श्रीदामानं सुदामानं वसुदामानमेव च।।१८।। हरिभानुं चन्द्रभानुं सूर्य्यभानुं सुभानुकम्।। पार्षदप्रवरान्सप्त पूजयेद्भक्तिभा वतः।।१९।। गोपीश्वरीं राधिकां च मूलप्रकृतिमीश्वरीम्।। कृष्णशक्तिं कृष्णपूज्यां पूजयेद्भक्तिपूर्वकम् ।। 3.32.२० ।। गोपगोपीगणं शान्तं मां ब्रह्माणं च पार्वतीम् ।। लक्ष्मीं सरस्वतीं पृथ्वीं सर्वदेवं सपार्षदम्।।२१।। देवषट्कं समभ्यर्च्य पुनः पञ्चोपचारतः।। पश्चादेवं क्रमेणैव श्रीकृष्णं पूजयेत्सुधीः ।।२२।। गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् ।। देवषट्कं समभ्यर्च्य चेष्टदेवं च पूजयेत् ।। २३ ।। गणेशं विघ्ननाशाय व्याधिनाशाय भास्करम् ।। आत्मनः शुद्धये वह्निं श्रीविष्णुं मुक्तिहेतवे ।। २४ ।। ज्ञानाय शङ्करं दुर्गां परमैश्व र्य्यहेतवे ।। सम्पूजने फलमिदं विपरीतमपूजने ।।२५।। ततः कृत्वा परीहारमिष्टदेवं च भक्तितः ।। स्तोत्रं च सामवेदोक्तं पठेद्भक्त्या च तच्छृणु।।२६।। महादेव उवाच ।। परं ब्रह्म परं धाम परं ज्योतिः सनातनम्।। निर्लिप्तं परमात्मानं नमाम्यखिलकारणम्।।२७।। स्थूलात्स्थूलतमं देवं सूक्ष्मात्सूक्ष्मतमं परम् ।। सर्वदृश्यमदृश्यं च स्वेच्छाचारं नमाम्यहम् ।। २८ ।। साकारं च निराकारं सगुणं निर्गुणं प्रभुम् ।। सर्वाधारं च सर्वं च स्वेच्छारूपं नमाम्यहम् ।।२९।। अतीव कमनीयं च रूपं निरुपमं विभुम् ।। करालरूपमत्यन्तं बिभ्रतं प्रणमाम्यहम् ।। 3.32.३० ।। कर्म्मणः कर्मरूपं तं साक्षिणं सर्वकर्मणः ।। फलं च फलदातारं सर्वरूपं नमाम्यहम् ।। ३१ ।। स्रष्टा पाता च संहर्ता कलया मूर्तिभेदतः ।। नानामूर्तिः कलांशेन यः पुमांस्तं नमाम्यहम् ।। ३२ ।। स्वयं प्रकृतिरूपश्च मायया च स्वयं पुमान् ।। तयोः परं स्वयं शश्वत्तन्नमामि परात्परम् ।। ३३ ।। स्त्रीपुन्नपुंसकं रूपं यो बिभर्ति स्वमायया ।। स्वयं माया स्वयं मायी यो देवस्तं नमाम्यहम् ।। ३४ ।। तारकं सर्वदुःखानां सर्वकारणकारणम् ।। धारकं सर्वविश्वानां सर्वबीजं नमाम्यहम् ।। ३५ ।। तेजस्विनां रविर्यो हि सर्वजातिषु वाडवः ।। नक्षत्राणां च यश्चन्द्रस्तं नमामि जगत्प्रभुम् ।। ३६ ।। रुद्राणां वैष्णवानां च ज्ञानिनां यो हि शङ्करः ।। नागानां यो हि शेषश्च तं नमामि जगत्पतिम् ।। ३७ ।। प्रजापतीनां यो ब्रह्मा सिद्धानां कपिलः स्वयम् ।। सनत्कुमारो मुनिषु तं नमामि जगद्गुरुम्।।३८।। देवानां यो हि विष्णुश्च देवीनां प्रकृतिः स्वयम्।। स्वायम्भुवो मनूनां यो मानवेषु च वैष्णवः।। नारीणां शतरूपा च बहुरूपं नमाम्यहम् ।।३९।। ऋतूनां यो वसन्तश्च मासानां मार्गशीर्षकः ।। एकादशी तिथीनां च नमाम्यखिलरूपिणम् ।।3.32.४०।। सागरः सरितां यश्च पर्वतानां हिमालयः ।। वसुन्धरा सहिष्णूनां तं सर्वं प्रणमाम्यहम् ।।४१।। पत्राणां तुलसीपत्रं दारुरूपेषु चन्दनम् ।। वृक्षाणां कल्पवृक्षो यस्तं नमामि जगत्पतिम् ।। ४२ ।। पुष्पाणां पारिजातश्च सस्यानां धान्यमेव च ।। अमृतं भक्ष्यवस्तूनां नानारूपं नमाम्यहम्।।४३।। ऐरावतो गजेन्द्राणां वैनतेयश्च पक्षिणाम् ।। कामधेनुश्च धेनूनां सर्वरूपं नमाम्यहम्।।४४।। तैजसानां सुवर्णं च धान्यानां यव एव च ।। यः केसरी पशूनां च वररूपं नमाम्यहम् ।। ४९ ।। यक्षाणां च कुबेरो यो ग्रहाणां च बृहस्पतिः ।। दिक्पालानां महेन्द्रश्च तं नमामि परं वरम् ।। ४६ ।। वेदसंघश्च शास्त्राणां पण्डितानां सरस्वती ।। अक्षराणामकारो यस्तं प्रधानं नमाम्यहम् ।। ४७ ।। मन्त्राणां विष्णुमन्त्रश्च तीर्थानां जाह्नवी स्वयम् ।। इन्द्रियाणां मनो यो हि सर्वश्रेष्ठं नमाम्यहम् ।। ।। ४८ ।। सुदर्शनं च शस्त्राणां व्याधिनां वैष्णवो ज्वरः ।। तेजसां ब्रह्मतेजश्च वरेण्यं तं नमाम्यहम् ।। ४९ ।। बलं यो वै बलवतां मनो वै शीघ्रगामिनाम् ।। कालः कलयतां यो हि तं नमामि विलक्षणम् ।।3.32.५०।। ज्ञानदाता गुरूणां च मातृरूपश्च बन्धुषु । मित्रेषु जन्मदाता यस्तं सारं प्रणमाम्यहम् ।।५१।। शिल्पिनां विश्वकर्मा यः कामदेवश्च रूपिणाम् ।। पतिव्रता च पत्नीनां नमस्यं तं नमाम्यहम् ।। ५२ ।। प्रियेषु पुत्ररूपो यो नृपरूपो नरेषु च ।। शालग्रामश्च यन्त्राणां तं विशिष्टं नमाम्यहम् ।। ५३ ।। धर्म्मः कल्याणबीजानां वेदानां सामवेदकः ।। धर्म्माणां सत्यरूपो यो विशिष्टं तं नमाम्यहम् ।। ५४ ।। जले शैत्यस्वरूपो यो गन्धरूपश्च भूमिषु ।। शब्दरूपश्च गगने तं प्रणम्य नमाम्यहम् ।। ५५ ।। क्रतूनां राजसूयो यो गायत्री छन्दसां च यः ।। गन्धर्वाणां चित्ररथस्तं गरिष्ठं नमाम्यहम् ।।५६।। क्षीरस्वरूपो गव्यानां पवित्राणां च पावकः।। पुण्यदानां च यः स्तोत्रं तं नमामि शुभप्रदम् ।।५७।। तृणानां कुशरूपो यो व्याधिरूपश्च वैरिणाम् ।। गुणानां शान्तरूपो यश्चित्ररूपं नमाम्यहम् ।। ५८ ।। तेजोरूपो ज्ञानरूपः सर्वरूपश्च यो महान्।। सर्वानिर्वचनीयं च तं नमामि स्वयं विभुम्।।५९।। सर्वाधारेषु यो वायुर्यथाऽऽत्मा नित्यरूपिणाम् ।। आकाशो व्यापकानां यो व्यापकं तं नमाम्यहम् ।। 3.32.६० ।। वेदानिर्वचनीयं यन्न स्तोतुं पण्डितः क्षमः ।। यदनिर्वचनीयं च को वा तत्स्तोतुमीश्वरः ।। ६१ ।। वेदा न शक्ता यं स्तोतुं जडीभूता सरस्वती ।। तं च वाङ्मनसापारं को विद्वान्स्तोतुमीश्वरः ।।६२।। शुद्धतेजस्स्वरूपं च भक्तानुग्रहविग्रहम् ।। अतीव कमनीयं च श्यामरूपं नमाम्यहम् ।।६३।। द्विभुजं मुरलीवक्त्रं किशोरं सस्मितं मुदा ।। शश्वद्गोपाङ्गनाभिश्च वीक्ष्यमाणं नमाम्यहम्।।६४।। राधया दत्तताम्बूलं भुक्तवन्तं मनोहरम्।। रत्नसिंहासनस्थं च तमीशं प्रणमाम्यहम्।।६५।। रत्नभूषणभूषाढ्यं सेवितं श्वेतचामरैः।। पार्षदप्रवरैर्गोपकुमारैस्तं नमाम्यहम्।।६६।। वृन्दावनान्तरे रम्ये रासोल्लाससमुत्सुकम्।। रासमण्डलमध्यस्थं नमामि रसिकेश्वरम् ।। ६७ ।। शतशृङ्गे महाशैले गोलोके रत्नपर्वते ।। विरजापुलिने रम्ये प्रणमामि विहारिणम्।।६८।। परिपूर्णतमं शान्तं राधाकान्तं मनोहरम् ।। सत्यं ब्रह्मस्वरूपं च नित्यं कृष्णं नमाम्यहम् ।। ६९ ।। श्रीकृष्णस्य स्तोत्रमिदं त्रिसन्ध्यं यः पठेन्नरः।। धर्मार्थकाममोक्षाणां स दाता भारते भवेत् ।। 3.32.७० ।। हरिदास्यं हरौ भक्तिं लभेत्स्तोत्रप्रसादतः ।। इह लोके जगत्पूज्यो विष्णुतुल्यो भवेद्ध्रुवम् ।। ७१ ।। सर्वसिद्धेश्वरः शान्तोऽप्यन्ते याति हरेः पदम् ।। तेजसा यशसा भाति यथा सूर्य्यो महीतले।।७२।। जीवन्मुक्तः कृष्णभक्तः स भवेन्नात्र संशयः ।। अरोगी गुणवान्विद्वान्पुत्रवान्धनवान्सदा ।। ७३ ।। षडभिज्ञो दशबलो मनोयायी भवेद्ध्रुवम् ।। सर्वज्ञः सर्वदश्चैव स दाता सर्वसम्पदाम् ।। कल्पवृक्षसमः शश्वद्भवेत्कृष्णप्रसादतः ।। ७४ ।। इत्येवं कथितं स्तोत्रं वत्स त्वं गच्छ पुष्करम् ।। तत्र कृत्वा मन्त्रसिद्धिं पश्चात्प्राप्स्यसि वाञ्छितम् ।। ७५ ।। त्रिस्सप्तकृत्वो निर्भूपां कुरु पृथ्वीं यथासुखम् ।। ममाशिषा मुनिश्रेष्ठ श्रीकृष्णस्य प्रसादतः ।। ७६ ।। इति श्रीब्रह्मवैवर्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे स्तवप्रदानं नाम द्वात्रिंशत्तमोऽध्यायः ।।३२।।

bhṛguruvāca|| samprāptaṃ kavacaṃ nāṣa śaśvatsarvāṅgarakṣaṇam|| sukhadaṃ mokṣadaṃ sāraṃ śatrusaṃhārakāraṇam||1|| adhunā bhagavanmantraṃ stotraṃ pūjāvidhiṃ prabho || dehi mahyamanāthāya śaraṇāgatapālaka ||2|| mahādeva uvāca || oṃ śrīṃ namaḥ śrīkṛṣṇāya paripūrṇatamāya svāhā|| mantreṣu mantrarājo'yaṃ mahānsaptadaśākṣaraḥ ||3|| siddho'yaṃ pañcalakṣeṇa japena munipuṃgavaḥ|| taddaśāṃśaṃ ca havanaṃ taddaśāṃśābhiṣecanam || tarpaṇaṃ taddaśāṃśaṃ ca taddaśāṃśaṃ ca mārjanam || suvarṇānāṃ ca śatakaṃ puraścaraṇadakṣiṇā || 4 || mantrasiddhasya puṃsaśca viśvaṃ karatale mune || śaktaḥ pātuṃ samudrāṃśca viśvaṃ saṃhartumīśvaraḥ || 9 || pāñcabhautikadehena vaikuṇṭhaṃ gantumīśvaraḥ || tasya saṃsparśamātreṇa padapaṅkajareṇunā || pūtāni sarvatīrthāni sadyaḥ pūtā vasundharā || 6 ||| dhyānaṃ ca sāmavedoktaṃ śṛṇu manmukhato mune || sarveśvarasya kṛṣṇasya bhaktimuktipradāyi ca || 7 || navīnajaladaśyāmaṃ nīlendīvaralocanam || śaratpārvaṇacandrāsyamīṣaddhāsyaṃ manoharam || 8 || koṭikandarpalāvaṇyalīlādhāmamanoharam || ratnasiṃhāsanasthaṃ taṃ ratnabhūṣaṇabhūṣitam || 9 || candanokṣitasarvāṃgaṃ pītāmbaradharaṃ varam || vīkṣyamāṇaṃ ca gopībhiḥ sasmitābhiśca santatam || 3.32.10 || praphullamālatīmālāvanamālā vibhūṣitam || dadhataṃ kundapuṣpāḍhyāṃ cūḍāṃ candrakacarccitām || 11 || prabhāṃ kṣipantīṃ nabhasaścandratārānvitasya ca || ratnabhūṣitasarvāṃgaṃ rādhāvakṣaḥsthalasthitam||12|| siddhendraiśca munīndraiśca devendraiḥ parisevitam|| brahmaviṣṇumaheśaiśca śrutibhiśca stutaṃ bhaje||13|| dhyānenānena taṃ dhyātvā copacārāṃstu ṣoḍaśa || dattvā bhaktyā ca saṃpūjya sarvajñatvaṃ labhetpumān ||14|| arghyaṃ pādyaṃ cāsanaṃ ca vasanaṃ bhūṣaṇaṃ tathā|| gāmarghyaṃ madhuparkaṃ ca yajñasūtramanuttamam ||15|| dhūpadīpau ca naivedyaṃ punarācamanīyakam || nānāprakārapuṣpāṇi tāmbūlaṃ ca suvāsitam|| ||16|| manoharaṃ divyatalpaṃ kastūryagarucandanaiḥ|| bhaktyā bhagavate deyaṃ mālyaṃ puṣpāñjalitrayam || 17 || tataḥ ṣaḍaṃgaṃ sampūjya paścātsa mpūjayedgaṇam|| śrīdāmānaṃ sudāmānaṃ vasudāmānameva ca||18|| haribhānuṃ candrabhānuṃ sūryyabhānuṃ subhānukam|| pārṣadapravarānsapta pūjayedbhaktibhā vataḥ||19|| gopīśvarīṃ rādhikāṃ ca mūlaprakṛtimīśvarīm|| kṛṣṇaśaktiṃ kṛṣṇapūjyāṃ pūjayedbhaktipūrvakam || 3.32.20 || gopagopīgaṇaṃ śāntaṃ māṃ brahmāṇaṃ ca pārvatīm || lakṣmīṃ sarasvatīṃ pṛthvīṃ sarvadevaṃ sapārṣadam||21|| devaṣaṭkaṃ samabhyarcya punaḥ pañcopacārataḥ|| paścādevaṃ krameṇaiva śrīkṛṣṇaṃ pūjayetsudhīḥ ||22|| gaṇeśaṃ ca dineśaṃ ca vahniṃ viṣṇuṃ śivaṃ śivām || devaṣaṭkaṃ samabhyarcya ceṣṭadevaṃ ca pūjayet || 23 || gaṇeśaṃ vighnanāśāya vyādhināśāya bhāskaram || ātmanaḥ śuddhaye vahniṃ śrīviṣṇuṃ muktihetave || 24 || jñānāya śaṅkaraṃ durgāṃ paramaiśva ryyahetave || sampūjane phalamidaṃ viparītamapūjane ||25|| tataḥ kṛtvā parīhāramiṣṭadevaṃ ca bhaktitaḥ || stotraṃ ca sāmavedoktaṃ paṭhedbhaktyā ca tacchṛṇu||26|| mahādeva uvāca || paraṃ brahma paraṃ dhāma paraṃ jyotiḥ sanātanam|| nirliptaṃ paramātmānaṃ namāmyakhilakāraṇam||27|| sthūlātsthūlatamaṃ devaṃ sūkṣmātsūkṣmatamaṃ param || sarvadṛśyamadṛśyaṃ ca svecchācāraṃ namāmyaham || 28 || sākāraṃ ca nirākāraṃ saguṇaṃ nirguṇaṃ prabhum || sarvādhāraṃ ca sarvaṃ ca svecchārūpaṃ namāmyaham ||29|| atīva kamanīyaṃ ca rūpaṃ nirupamaṃ vibhum || karālarūpamatyantaṃ bibhrataṃ praṇamāmyaham || 3.32.30 || karmmaṇaḥ karmarūpaṃ taṃ sākṣiṇaṃ sarvakarmaṇaḥ || phalaṃ ca phaladātāraṃ sarvarūpaṃ namāmyaham || 31 || sraṣṭā pātā ca saṃhartā kalayā mūrtibhedataḥ || nānāmūrtiḥ kalāṃśena yaḥ pumāṃstaṃ namāmyaham || 32 || svayaṃ prakṛtirūpaśca māyayā ca svayaṃ pumān || tayoḥ paraṃ svayaṃ śaśvattannamāmi parātparam || 33 || strīpunnapuṃsakaṃ rūpaṃ yo bibharti svamāyayā || svayaṃ māyā svayaṃ māyī yo devastaṃ namāmyaham || 34 || tārakaṃ sarvaduḥkhānāṃ sarvakāraṇakāraṇam || dhārakaṃ sarvaviśvānāṃ sarvabījaṃ namāmyaham || 35 || tejasvināṃ raviryo hi sarvajātiṣu vāḍavaḥ || nakṣatrāṇāṃ ca yaścandrastaṃ namāmi jagatprabhum || 36 || rudrāṇāṃ vaiṣṇavānāṃ ca jñānināṃ yo hi śaṅkaraḥ || nāgānāṃ yo hi śeṣaśca taṃ namāmi jagatpatim || 37 || prajāpatīnāṃ yo brahmā siddhānāṃ kapilaḥ svayam || sanatkumāro muniṣu taṃ namāmi jagadgurum||38|| devānāṃ yo hi viṣṇuśca devīnāṃ prakṛtiḥ svayam|| svāyambhuvo manūnāṃ yo mānaveṣu ca vaiṣṇavaḥ|| nārīṇāṃ śatarūpā ca bahurūpaṃ namāmyaham ||39|| ṛtūnāṃ yo vasantaśca māsānāṃ mārgaśīrṣakaḥ || ekādaśī tithīnāṃ ca namāmyakhilarūpiṇam ||3.32.40|| sāgaraḥ saritāṃ yaśca parvatānāṃ himālayaḥ || vasundharā sahiṣṇūnāṃ taṃ sarvaṃ praṇamāmyaham ||41|| patrāṇāṃ tulasīpatraṃ dārurūpeṣu candanam || vṛkṣāṇāṃ kalpavṛkṣo yastaṃ namāmi jagatpatim || 42 || puṣpāṇāṃ pārijātaśca sasyānāṃ dhānyameva ca || amṛtaṃ bhakṣyavastūnāṃ nānārūpaṃ namāmyaham||43|| airāvato gajendrāṇāṃ vainateyaśca pakṣiṇām || kāmadhenuśca dhenūnāṃ sarvarūpaṃ namāmyaham||44|| taijasānāṃ suvarṇaṃ ca dhānyānāṃ yava eva ca || yaḥ kesarī paśūnāṃ ca vararūpaṃ namāmyaham || 49 || yakṣāṇāṃ ca kubero yo grahāṇāṃ ca bṛhaspatiḥ || dikpālānāṃ mahendraśca taṃ namāmi paraṃ varam || 46 || vedasaṃghaśca śāstrāṇāṃ paṇḍitānāṃ sarasvatī || akṣarāṇāmakāro yastaṃ pradhānaṃ namāmyaham || 47 || mantrāṇāṃ viṣṇumantraśca tīrthānāṃ jāhnavī svayam || indriyāṇāṃ mano yo hi sarvaśreṣṭhaṃ namāmyaham || || 48 || sudarśanaṃ ca śastrāṇāṃ vyādhināṃ vaiṣṇavo jvaraḥ || tejasāṃ brahmatejaśca vareṇyaṃ taṃ namāmyaham || 49 || balaṃ yo vai balavatāṃ mano vai śīghragāminām || kālaḥ kalayatāṃ yo hi taṃ namāmi vilakṣaṇam ||3.32.50|| jñānadātā gurūṇāṃ ca mātṛrūpaśca bandhuṣu | mitreṣu janmadātā yastaṃ sāraṃ praṇamāmyaham ||51|| śilpināṃ viśvakarmā yaḥ kāmadevaśca rūpiṇām || pativratā ca patnīnāṃ namasyaṃ taṃ namāmyaham || 52 || priyeṣu putrarūpo yo nṛparūpo nareṣu ca || śālagrāmaśca yantrāṇāṃ taṃ viśiṣṭaṃ namāmyaham || 53 || dharmmaḥ kalyāṇabījānāṃ vedānāṃ sāmavedakaḥ || dharmmāṇāṃ satyarūpo yo viśiṣṭaṃ taṃ namāmyaham || 54 || jale śaityasvarūpo yo gandharūpaśca bhūmiṣu || śabdarūpaśca gagane taṃ praṇamya namāmyaham || 55 || kratūnāṃ rājasūyo yo gāyatrī chandasāṃ ca yaḥ || gandharvāṇāṃ citrarathastaṃ gariṣṭhaṃ namāmyaham ||56|| kṣīrasvarūpo gavyānāṃ pavitrāṇāṃ ca pāvakaḥ|| puṇyadānāṃ ca yaḥ stotraṃ taṃ namāmi śubhapradam ||57|| tṛṇānāṃ kuśarūpo yo vyādhirūpaśca vairiṇām || guṇānāṃ śāntarūpo yaścitrarūpaṃ namāmyaham || 58 || tejorūpo jñānarūpaḥ sarvarūpaśca yo mahān|| sarvānirvacanīyaṃ ca taṃ namāmi svayaṃ vibhum||59|| sarvādhāreṣu yo vāyuryathā''tmā nityarūpiṇām || ākāśo vyāpakānāṃ yo vyāpakaṃ taṃ namāmyaham || 3.32.60 || vedānirvacanīyaṃ yanna stotuṃ paṇḍitaḥ kṣamaḥ || yadanirvacanīyaṃ ca ko vā tatstotumīśvaraḥ || 61 || vedā na śaktā yaṃ stotuṃ jaḍībhūtā sarasvatī || taṃ ca vāṅmanasāpāraṃ ko vidvānstotumīśvaraḥ ||62|| śuddhatejassvarūpaṃ ca bhaktānugrahavigraham || atīva kamanīyaṃ ca śyāmarūpaṃ namāmyaham ||63|| dvibhujaṃ muralīvaktraṃ kiśoraṃ sasmitaṃ mudā || śaśvadgopāṅganābhiśca vīkṣyamāṇaṃ namāmyaham||64|| rādhayā dattatāmbūlaṃ bhuktavantaṃ manoharam|| ratnasiṃhāsanasthaṃ ca tamīśaṃ praṇamāmyaham||65|| ratnabhūṣaṇabhūṣāḍhyaṃ sevitaṃ śvetacāmaraiḥ|| pārṣadapravarairgopakumāraistaṃ namāmyaham||66|| vṛndāvanāntare ramye rāsollāsasamutsukam|| rāsamaṇḍalamadhyasthaṃ namāmi rasikeśvaram || 67 || śataśṛṅge mahāśaile goloke ratnaparvate || virajāpuline ramye praṇamāmi vihāriṇam||68|| paripūrṇatamaṃ śāntaṃ rādhākāntaṃ manoharam || satyaṃ brahmasvarūpaṃ ca nityaṃ kṛṣṇaṃ namāmyaham || 69 || śrīkṛṣṇasya stotramidaṃ trisandhyaṃ yaḥ paṭhennaraḥ|| dharmārthakāmamokṣāṇāṃ sa dātā bhārate bhavet || 3.32.70 || haridāsyaṃ harau bhaktiṃ labhetstotraprasādataḥ || iha loke jagatpūjyo viṣṇutulyo bhaveddhruvam || 71 || sarvasiddheśvaraḥ śānto'pyante yāti hareḥ padam || tejasā yaśasā bhāti yathā sūryyo mahītale||72|| jīvanmuktaḥ kṛṣṇabhaktaḥ sa bhavennātra saṃśayaḥ || arogī guṇavānvidvānputravāndhanavānsadā || 73 || ṣaḍabhijño daśabalo manoyāyī bhaveddhruvam || sarvajñaḥ sarvadaścaiva sa dātā sarvasampadām || kalpavṛkṣasamaḥ śaśvadbhavetkṛṣṇaprasādataḥ || 74 || ityevaṃ kathitaṃ stotraṃ vatsa tvaṃ gaccha puṣkaram || tatra kṛtvā mantrasiddhiṃ paścātprāpsyasi vāñchitam || 75 || trissaptakṛtvo nirbhūpāṃ kuru pṛthvīṃ yathāsukham || mamāśiṣā muniśreṣṭha śrīkṛṣṇasya prasādataḥ || 76 || iti śrībrahmavaivarte mahāpurāṇe tṛtīye gaṇapatikhaṇḍe nāradanārāyaṇasaṃvāde stavapradānaṃ nāma dvātriṃśattamo'dhyāyaḥ ||32||

English translation

Stotra of adoration of the kavaca Bhrgu said -O lord you have imparted the knowledge of the kavaca which protects the entire body, which provides pleasure, mok?a and eatables to one to overcome the enemy. O lord, now you bestow the knowledge of the mantra, stotra and the method of adoration because I am an orphan and have come to take refuge with by reciting this mantra one should adore the lord of gopls.

This is the mantra of seven letters and could be called as the king of mantras. O best of the sages, one meets with its success by reciting it five lakhs of times, a tenth part of the number used for performing home, a tenth for consecration and the tenth of it for sprinkling of water. A hundred gold coins should be given in daksiifd for its completion. O sage, when one meets with success with this mantra he overpowers the universe and he attains strength even to destroy the entire universe; he also becomes entitled to reach Vaikunfha with the human body comprising of the five elements and with the touch of the dust of the feet of a person, all the holy places of the earth get sanctified.

O sage, now you listen to the dhyanam of the lord Krsna as prescribed in the Samaveda which provides the devotion of the lord as well as salvation from the universe.

The lord happens to possess the dark complexion of resembling a new cloud, both the eyes were like the blue lotus flowers, the face like the full moon of the winter season, wearing a serene smile, having the beauty of crore of gods of love, possessing great illusion seated on a gem-studded lion-throne, adorned with gem- studded ornaments having all the limbs plastered with sandal-paste, wearing a yellow lower garment and serene smile on the face, having been gazed at by the cowherdesses, wearing the garland of jasmine flowers as well as the forest flowers, adorning his body with lotus flower putting to disgrace the glory of the moon and the stars, possessing great lustre, having all the limbs adorned with all the gems, declining over the breasts of Radha and surrounded by siddhas, ascetics and the gods including Brahma, Visnu and Siva, I adore the lord who is placed in this Thus one should adore the lord making sixteen

types of offerings for that devotion while adoring One should offer arghya, padya, the seed, essence, lamp, eatables and again water for sipping should be offered. Thereafter the flowers, the fragrant betel, should be offered with a divine bed. The garlands with three handfuls of flowers should be offered to the lord.

Thereafter the adoration in six vases should be offered, besides the adoration of the gams.

Thereafter Sudama, Sridama, Vasudama, Haribhanu, Candrabhanu, Stiryabhanu and Subhanu, all the seven courtiers of the lord should be adored.

Radhika the chief of the cowherdesses should be adored with devotion who happens to be the Mulaprakj d, Isvari, sakti of lord Krsna and adorable by him.

Thereafter the cowherds, the cowherdesses, Brahma with peaceful faces, Parvatl, LaksmT, Sarasvati, PrthvT and the six gods should be adored making five types of offerings. Thereafter lord Krsna should also be adored like this.

Thereafter Ganesa, Surya, Agni, Visnu, Siva, Parvatl, should also be adored together with the family god.

Ganesa the remover of the obstruction, Surya the remover of the ailment, Agni for purification, Visnu for salvation, Siva for receiving wisdom and Parvatl should be adored for achieving the fortune. By adoring them all, one gets the appropriate results and the things get in the opposite direction if one does not do so.

Thereafter the family gods should be adored with devotion and the stotra prescribed in the Samaveda should be recited which is being told Mahadeva said - You are the primeval Brahmana, enjoying the highest place, you are the eternal flame, ever-lasting, unattached, I bow in reverence to such a lord.

You are harder than the hardest, smaller than the smallest, visible as well as invisible and the great lord, I bow in reverence to you.

You are having a form as well as formless, have all the merits and are without merit. You are the base of everything and the one who moves at will, I adore the lord like this.

You are most beautiful having an extremely charming body while being the terrific one and the one who pervades everywhere. I bow in reverence to you.

You are the form of all the actions, the witness of all actions and bestower of the result of one's own actions. I therefore, bow in reverence to the one having all the forms.

You create, preserve and destroy the universe by your rays and with the same rays you take to many forms, I therefore bow in reverence to the divine Purusa.

The one who himself is the form of Prakrti and takes to the form of illusion, though he is beyond both of them. I bow in reverence to such a lord, the one who takes to the form of a woman, a man or impotent with his illusion, I bow in reverence to such a lord.

T tfiKO I H' l The one who relieves all of all the miseries, who happens to be the cause of all the causes, who maintains all the globes and is the form of the seed, I bow in reverence to him.

Who is the sun among those possessing lustre, Brahmana among the castes, the moon among the constellations. I bow in reverence to such a lord of the universe.

The one who happens to be ^iva, Rudra, Vai§ nava in the intellectuals and ^esa among the Ndgas, I bow in reverence to the lord of the universe, the one who is Brahma among Prajapatis, Kapila among the siddha, Sanatkumara among the ascetics, I bow in reverence to the lord who happens to be the teacher of the universe.

The one who is Visnu among the gods, Prakfti among the goddesses, SvSyambhuva among the Manus, Vaisnavas among the humans and among the women, I bow in reverence to the lord who takes to many forms.

RTWiT RPWg?: I The one who happens to be spring among the seasons, Margasirga among the months and Ekadasl among the dates, I bow in reverence to the eternal form of the lord.

The one who happens to be the ocean among the rivers, Himalayas among the mountains, the earth among those possessing patience, I bow in reverence to the one who pervades the universe.

The one who is TulasT leaf among the leaves, sandal-wood among the woods, kalpavrk^a among the trees, I bow in reverence to such a lord of the world.

The one who happens to be the Parijdta among the flowers, paddy among the cereals, the nectar among the eatables, I bow in reverence to the lord who takes to many forms.

The one who happens to be Airavata among the elephants, Garuda among the birds, Kamadhenu among the cows, I bow in reverence to the one who appears in all these forms. The one who happens to be gold among the articles possessing lustre, barley among the cereals, lion among the wild animals, I bow in reverence to The one who happens to be the Kubera among the yaksas, Brhaspati among the planets and Mahendra among the dikpalas, I bow in reverence to the best of that form.

The one who happens to be the Veda in the scriptures, SarasvatT among the intellectuals, Oihkara among the letters, I bow in reverence to such a chief of the gods.

The one who happens to be Visnu-mantra among the mantras, Gaiiga among the sacred rivers and the mind among the organs of senses, I bow in reverence to the best of the gods.

The one who happens to be Sudarsana among the weapons, fever among the ailment, Brahmateja among the lustres, I bow in reverence to the same god.

The one who happens to be the strength of the valorous people, the mind among those things which move and is the form of Kdla in counting, I bow in reverence to such an astonishing lord.

The one who bestows knowledge among the teachers, mother among the relatives and the one who gives birth among the friends, the one who happens to be the essence of everyone, I bow in reverence to him.

The one who happens to be Visvakarma among architects, the god of love among the beautiful persons, a chaste lady among the women, such a lord is adorable and I bow in reverence to him.

The one who happens to be like the son of all the beloved, the king among the humans, Sdlagrdma among the images, I bow in reverence to such a lord.

The one who happens to be the form of Dharma of all the welfare seeds, Samaveda among the Vedas and truth among the dharmas, I bow in reverence to the same lord.

The one who is coolness of water, I bow in reverence to the lord who is adorable.

The one who happens to be Rdjasdya among the yajfias, Gayatri among the metres, Citraratha among the Gandharvas, I bow in reverence to the great lord. The one who happens to be milk among the liquids, fire among the sanctified and happens to be the stotra among the sacred people, I bow in reverence to him.

The one who happens to be enmity of the enemies, peaceful nature among the virtues, I bow in reverence to him.

The one who is having the form of lustre, form of knowledge, form of all, is great and having an inexplicable form, I bow in reverence to the lord who pervades the universe.

The one who happens to be the wind among the bases, the form of soul among those having eternal form and the sky among those who pervade everywhere, I bow in reverence to the omnipotent lord. The one who is beyond the comprehension of even the Vedas and the one who is inexplicable who can eulogise him.

The one who cannot be fully adored by even the Vedas and Sarasvatl also remains dumb folded before him, who can adore such a person who is beyond the mind and speech.

I adore the lord who is spotless form of tejas takes to the human form for the sake of devotees is quite beautiful and of dark complexion, I adore such a lord.

The one who has two arms, holds fruit in his hand, is of tender age, wears a serene smile, is surrounded by the cowherdesses who look at him with side glances, I bow in reverence to him.

The one who takes the pleasant betel offered by Radha seated on a gem-studded lion-throne, 1 adore such a lord.

The one who is adorned with gem-studded ornaments, is surrounded by the best of courtiers and the cowherds who move the white fly- whisks on the lord. I bow in reverence to him.

The one who is always anxious to enjoy the Rdsalild in Rdsamandala being the lord of Radha, I bow in reverence to him.

The one who strolls on the great mountain of gems resembling Goloka and the bank of Viraja river, I bow in reverence to him.

The one who is complete in all respects, is peaceful, lord of Radha, pleasant to look at, truthful, the form of Brahmana, I bow in reverence to lord Krsna.

The one who recites this stotra of Krsna thrice a day, becomes the bestower of dharma, artha, kdma and moksa in the land of Bharata.

By the grace of this stotra one achieves the devotion of the lord Hari as well as his slavehood. He is equated with Visnu in this loka and is adored everywhere.

He becomes the lord of all the siddhas^ peaceful and ultimately achieves the abode of the lord. He equates himself with Surya in glory and shines on earth.

Such a devotee of lord Krsna is free from death. There is no doubt about it. He is relieved of all ailments, become virtuous, intelligent, possessing sons and riches, possesses all knowledge, prowess and moves with the speed of the mind. He becomes all knowledgeable, the giver of charities and riches and becomes like kalpavrksa with the grace of lord Krsna. O son, I have recited this stotra to you, now you move on to Puskara.

After meeting success with the mantra you will achieve success in your desires. O best of the sages, with my blessings and the grace of lord Krsna, you will relieve the earth of the Ks atriyas twenty one times.

Chapter-aligned complete witnesses. Sanskrit Wikisource revision 122345 (2017-09-16T09:49:46Z); Shanti Lal Nagar English scan pages n740–n746: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n740/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.