Skip to main content

Gaṇapati-khaṇḍa · Chapter 28

Chapter 28

Unit 125 of 276Gaṇapati-khaṇḍa · Chapter 28Gaṇapati-khaṇḍa · Chapter 281 source entries

Gaṇapati-khaṇḍa · Chapter 28

Source

रेणुकोवाच ।। ब्रह्मन्ननुगमिष्यामि प्राणनाथस्य साम्प्रतम् । ऋतोश्चतुर्थदिवसे मृतोऽयं चाद्य मानदः ।। १ ।। कर्त्तव्या का व्यवस्थाऽत्र वद वेदविदां वर।। त्वमागतो मे सहसा पुण्येन कतिजन्मनाम् ।।२।। भृगुरुवाच ।। अहो पुण्यवतो भर्तुरनुगच्छ महासति ।। चतुर्थदिवसं शुद्धं स्वामिनः सर्वकर्मसु ।। ३ ।। शुद्धा भर्त्तुश्चतुर्थेऽह्नि न शुद्धा दैवपित्र्ययोः ।। दैवे कर्मणि पित्र्ये च पञ्चमेऽह्नि विशुद्ध्यति ।। ४ ।। व्यालग्राही यथा व्यालं बिलादुद्धरते बलात् ।। तद्वत्स्वामिनमादाय साध्वी स्वर्गं प्रयाति च ।।५।। मोदते स्वामिना तत्र यावदिन्द्राश्चतुर्दश ।। अत ऊर्ध्वं कर्मभोगं भुङ्क्ष्व साध्वि शुभाशुभम् ।। ६ ।। स पुत्रो भक्तिदाता यः सा च स्त्री याऽनुगच्छति ।। स बन्धुर्दानदाता यः स शिष्यो गुरुमर्चयेत् ।। ७ ।। सोऽभीष्टदेवो यो रक्षेत्स राजा पालयेत्प्रजाः ।। स च स्वामी प्रियां धर्मे मतिं दातुमिहेश्वरः ।। ८ ।। स गुरुर्धर्मदाता यो हरिभक्तिप्रदायकः ।। एते प्रशंस्या वेदेषु पुराणेषु च निश्चितम् ।। ९ ।। रेणुकोवाच ।। गन्तुं स्वस्वामिना सार्द्धं का शक्ता भारते मुने ।। का वाऽप्यशक्ता नारीषु तन्मे ब्रूहि तपोधन ।। १० ।। भृगुरुवाच ।। बालापत्याश्च गर्भिण्यो ह्यदृष्टऋतवस्तथा ।। रजस्वला च कुलटा गलितव्याधिसंयुता ।। ११ ।। पतिसेवाविहीना या ह्यभक्ता कटुभाषिणी ।। एता गच्छन्ति चेद्दैवान्न कान्तं प्राप्नुवन्ति ताः ।। १२ ।। संस्कृताग्निं पुरो दत्त्वा चितासु शयितं पतिम् ।। कान्तास्तमनुगच्छन्ति कान्ताश्चेत्प्राप्नुवन्ति ताः ।। १३ ।। अनुगच्छन्ति याः कान्तं तमेव प्राप्नुवन्ति ताः ।। सार्द्धं कृत्वा पुण्यभोगं दिवि जन्मनि जन्मनि ।। १४ ।। इयं ते कथिता साध्वि व्यवस्था गृहिणां ध्रुवम् ।। तीर्थे ज्ञानमृतानां च वैष्णवानां गतिं शृणु।। ।। १५ ।। या साध्वी वैष्णवं कान्तं यत्र यत्रानुगच्छति ।। प्रयाति स्वामिना सार्द्धं वैकुण्ठे हरिसन्निधिम् ।। १६ ।। विशेषो नास्ति भक्तानां तीर्थे वाऽन्यत्र नारद ।। मरणेन फलं तुल्यं मुक्तानां कृष्णभाविनाम् ।। १७ ।। तयोः पातो नास्ति तस्मान्महति प्रलयं सति ।। नारायणं तं भजेत पुमान्स्त्री कमलालयाम् ।। १८ ।। तीर्थे ज्ञानमृतश्चापि वैकुण्ठं याति निश्चितम् ।। सभार्यो मोदते तत्र यावद्वै ब्रह्मणां शतम् ।। १९ ।। इत्युक्त्वा रेणुकां तत्र जामदग्न्यमुवाच ह ।। वेदोक्तं वचनं सर्वं स भृगुः समयोचितम् ।। २० ।। एहि वत्स महाभाग त्यज शोकममङ्गलम् ।। उत्तानं कुरु तातं च दक्षिणाशिरसं भृगो ।। २१ ।। वस्त्रयज्ञोपवीतं च नूतनं परिधापय ।। अनश्रुनयनो भूत्वा सन्तिष्ठन्दक्षिणामुखः ।। २२ ।। अरणीसंभवाग्निं च गृहाण प्रीतिपूर्वकम् ।। पृथिव्यां यानि तीर्थानि सर्वेषां स्मरणं कुरु ।। २३ ।। गयादीनि च तीर्थानि ये च पुण्याः शिलोच्चयाः ।। कुरुक्षेत्रं च गङ्गां च यमुनां च सरिद्वराम् ।।२४।। कौशिकीं चन्द्रभागां च सर्वपापप्रणाशिनीम् ।। गण्डकीमथ काशीं च पनसां सरयूं तथा ।। २५ ।। पुष्पभद्रां च भद्रां च नर्मदां च सरस्वतीम् ।। गोदावरीं च कावेरीं स्वर्णरेखां च पुष्करम् ।। २६ ।। रैवतं च वराहं च श्रीशैलं गन्धमादनम् ।। हिमालयं च कैलासं सुमेरुं रत्नपर्वतम् ।। २७ ।। वाराणसीं प्रयागं च पुण्यं वृन्दावनं वनम् ।। हरिद्वारं च बदरीं स्मारंस्मारे पुनः पुनः ।। २८ ।। चन्दनागरुकस्तूरीसुगन्धिकुसुमं तथा ।। प्रदाय वाससाऽऽच्छाद्य स्थापयैनं चितोपरि ।। २९ ।। कर्णाक्षिनासिकास्ये त्वं शलाकां च हिरण्मयीम् ।। कृत्वा निर्मन्थनं तात विप्रेभ्यो देहि सादरम् ।।३०।। सतिलं ताम्रपात्रं च धेनुं च रजतं तथा ।। सदक्षिणं सुवर्णं च दत्त्वाऽग्निं देह्यकातरः ।। ३१ ।। ॐ कृत्वा दुष्कृतं कर्म्म जानता वाऽप्यजानता ।। मृत्युकालवशं प्राप्य नरं पञ्चत्वमागतम् ।। ३२ ।। धर्माधर्मसमायुक्तं लोभमोहसमावृतम् ।। दह सर्वाणि गात्राणि दिव्याँल्लोकान्स गच्छतु ।। ।। ३३ ।। इमं मन्त्रं पठित्वा तु तातं कृत्वा प्रदक्षिणम् ।। मन्त्रेणानेन देह्यग्निं जनकाय हरिं स्मरन् ।। ३४ ।। ॐ अस्मत्कुले त्वं जातोऽसि त्वदीयो जायतां पुनः ।। असौ स्वर्गाय लोकाय स्वाहेति वद साम्प्रतम् ।।३५।। अग्निं देहि शिरःस्थाने हे भृगो भ्रातृभिः सह ।। तच्चकार भृगुः सर्वं सगोत्रैराज्ञया भृगोः ।। ३६ ।। अथ पुत्रं रेणुका सा कृत्वा तत्र स्ववक्षसि ।। उवाच किंचिद्वचनं परिणामसुखावहम् ।। ३७ ।। अविरोधो भवाब्धौ च सर्वमङ्गलमङ्गलम् ।। विरोधो नाशबीजं च सर्वोपद्रवकारणम् ।। ३८ ।। अकर्तव्यो विरोधो वै दारुणैः क्षत्रियैः सह ।। प्रतिज्ञा चैव कर्त्तव्या मदीये वचने श्रुते ।।३९ ।। आलोच्य ब्रह्मणा सार्द्धं भृगुणा दिव्यमन्त्रिणा ।। यथोचितं च कर्तव्यं सद्भिरालोचनं शुभम् ।।४०।। इत्युक्त्वा तं परित्यज्य कान्तं कृत्वा स्ववक्षसि।। सा सुष्वाप चितायां च पश्यन्ती तं हरिस्मृतिः ।।४१।। वह्निं ददौ चितायां च स रामो भ्रातृभिः सह ।। भ्रातृभिः पितृशिष्यैश्च सार्द्धं स विललाप च ।। ४२ ।। राम रामेति रामेति वाक्यमुच्चार्य्य सा सती ।। पुरस्ताज्जामदग्न्यस्य भस्मीभूता बभूव सा।।४३।। भर्तुर्नाम समाकर्ण्य तत्राजग्मुर्हरेश्चराः।। रथस्थाः श्यामवर्णाश्च सर्वे चारुचतुर्भुजाः ।। ४४ ।। शङ्खचक्रगदापद्मधारिणो वनमालिनः ।। किरीटिनः कुण्डलिनः पीतकौशेयवाससः ।।४५।। रथे कृत्वा रेणुकां तां गत्वा ते ब्रह्मणः पदम् ।। जमदग्निं समादाय प्रजग्मुर्हरिसन्निधिम् ।।४६।। तौ दम्पती च वैकुण्ठे तस्थतुर्हरिसन्निधौ ।। कृत्वा दास्यं हरेः शश्वत्सर्वमङ्गलमङ्गलम् ।। ४७ ।। अथ रामो ब्राह्मणैश्च भृगुणा सह नारद ।। पित्रोः शेषक्रियां कृत्वा ब्राह्मणेभ्यो धनं ददौ ।। ४८ ।। गोभूहिरण्यवासांसि दिव्यशय्यां मनोरमाम् ।। सुवर्णाधारसहितां जलमन्नं च चन्दनम् ।। ४९ ।। रत्नदीपं रौप्यशैलं सुवर्णासनमुत्तमम् ।। सुवर्णाधारसहितं ताम्बूलं च सुवासितम् ।।५०।। छत्रं च पादुके चैव फलं माल्यं मनोहरम् ।। फलं मूलादिकं चैव मिष्टान्नं च मनोहरम् ।। ब्राह्मणेभ्यो धनं दत्त्वा ब्रह्मलोकं जगाम सः ।। ५१ ।। ददर्श ब्रह्मलोकं स शातकुम्भविनिर्मितम् ।। स्वर्णप्राकारसंयुक्तं स्वर्णस्तम्भैर्विभूषितम् ।। ५२ ।। ददर्श तत्र ब्रह्माणं ज्वलन्तं ब्रह्मतेजसा।। रत्नसिंहासनस्थं च रत्नभूषणभूषितम् ।। ५३ ।। सिद्धैस्तपश्चान्द्रायणैर्ऋषीन्द्रैः परिवेष्टितम् ।। विद्याधरीणां नृत्यं च पश्यन्तं सस्मितं मुदा ।।५४।। संगीतमुपशृण्वन्तं गीयमानं च गायकैः ।। चन्दनागरुकस्तूरीकुंकुमेन विराजितम् ।।५५।। तपसां फलदातारं दातारं सर्वसम्पदाम् ।। धातारं सर्वजगतां कर्तारं चेश्वरं परम् ।। ५६ ।। परिपूर्णतमं ब्रह्म जपन्तं कृष्णमीश्वरम् ।। गुह्ययोगं प्रवोचन्तं पृच्छन्तं शिष्यमण्डलम् ।। ५७ ।। दृष्ट्वा तमव्ययं भक्त्या प्रणनाम भृगुः पुरः ।। उच्चैश्च रोदनं कृत्वा स्ववृत्तान्तमुवाच ह।। ।। ५८ ।। भृगुरुवाच ।। ब्रह्मंस्त्वद्वंशजातोऽहं जमदग्निसुतो विधे ।। पितामहस्त्वमस्माकं सर्वज्ञं कथयामि किम् ।। ५९ ।। मृगयामागतं भूपं पिता मे चोपवासिनम् ।। पारणां कारयामास कपिलादत्तवस्तुना ।। ६० ।। स राजा कपिलालोभात्कार्तवीर्य्यार्जुनः स्वयम् ।। घातयामास मत्तातमित्युक्त्वोच्चै रुरोद सः ।।६१।। निरुध्य बाष्पं स पुनरुवाच करुणानिधिः ।। माता मेऽनुगता साध्वी मां विहाय जगद्गुरो ।। ६२ ।। अधुनाऽहमनाथश्च त्वं मे माता पिता गुरुः ।। कर्ता पालयिता दाता पाहि मां शरणागतम् ।।६३।। आगतोऽहं तव सभां प्रमातुर्मातुराज्ञया ।। उपायेन जगन्नाथ मद्वैरिहननं कुरु ।।६४।। स राजा स च धर्मिष्ठः स दयालुर्यशस्करः ।। स पूज्यः स स्थिरश्रीश्च यो दीनं परिपालयेत् ।। ६५ ।। धनिदीनौ समं दृष्ट्वा यः प्रजां न च पालयेत् ।। तद्देहाद्याति रुष्टा श्रीः स भवेद्भ्रष्टराज्यकः ।। ६६ ।। श्रुत्वा विप्रबटोर्वाक्यं करुणासागरो विधिः ।। दत्त्वा शुभाशिषं तस्मै वासयामास वक्षसि ।। ६७ ।। श्रुत्वा भृगोः प्रतिज्ञां च विस्मितश्चतुराननः ।। अतीव दुष्करां घोरां बहुजीवविघातिनीम् ।। ६८ ।। कर्मणा तद्भवेत्सर्वमिति कृत्वा तु मानसे ।। उवाच जामदग्न्यं तं परिणामसुखावहम् ।।६९।। ब्रह्मोवाच ।। प्रतिज्ञा दुष्करा वत्स वहुजीवविघातिनी।। सृष्टिरेषा भगवतः सम्भवेदीश्वरेच्छया ।। ७० ।। सृष्टिः सृष्टा मया पुत्र क्लेशेनैवेश्वराज्ञया ।। सृष्टिलुप्तौ प्रतिज्ञा ते दारुणाऽकरुणा परा ।। ७१ ।। त्रिस्सप्तकृत्वो निर्भूपां कर्तुमिच्छसि मेदिनीम् ।। एकक्षत्त्रियदोषेण तज्जातिं हन्तुमिच्छसि ।। ७२ ।। ब्रह्मक्षत्त्रियविट्छूद्रैर्नित्या सृष्टिश्चतुर्विधैः ।। आविर्भूता तिरोभूता हरेरेव पुनः पुनः ।। ७३ ।। अन्यथा त्वत्प्रतिज्ञा च भविता प्राक्तनेन ते ।। बह्वायासेन ते कार्य्यसिद्धिर्भवितुमर्हति ।। ७४ ।। शिवलोकं गच्छ वत्स शङ्करं शरणं व्रज ।। पृथिव्यां बहवो भूपाः सन्ति शङ्करकिङ्कराः ।। ।। ७५ ।। विनाऽज्ञया महेशस्य को वा तान्हन्तुमीश्वरः ।। बिभ्रतः कवचं दिव्यं शक्तेर्वै शङ्करस्य च ।। ७६ ।। उपायं कुरु यत्नेन जयबीजं शुभावहम् ।। उपायतः समारब्धाः सर्वे सिद्ध्यन्त्युपक्रमाः ।। ७७ ।। श्रीकृष्णमन्त्रकवचग्रहणं कुरु शङ्करात् ।। दुर्लभं वैष्णवं तेजः शैवं शाक्तं विजेष्यति ।। ७८ ।। गुरुस्ते जगतां नाथः शिवो जन्मनि जन्मनि ।। मन्त्रो मत्तो न युक्तस्ते यो युक्तः स भवेद्विधिः ।। ७९ ।। कर्मणा लभ्यते मन्त्रः कर्मणा लभ्यते गुरुः ।। स्वयमेवोपतिष्ठन्ते ये येषां तेषु ते धुवम् ।। ८० ।। त्रैलोक्य विजयं नाम गृहीत्वा कवचं वरम् ।। त्रिस्सप्तकृत्वो निर्भूपां करिष्यसि महीं भृगो ।। ८१ ।। दिव्यं पाशुपतं तुभ्यं दाता दास्यति शंकरः ।। तेन दत्तेन मन्त्रेण क्षत्रसंघं विजेष्यसि ।। ८२ ।। इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे भृगोर्ब्रह्मलोकगमने ब्रह्मोक्तोपायवर्णनं नामाष्टाविंशोऽध्यायः ।। २८ ।।

reṇukovāca || brahmannanugamiṣyāmi prāṇanāthasya sāmpratam | ṛtoścaturthadivase mṛto'yaṃ cādya mānadaḥ || 1 || karttavyā kā vyavasthā'tra vada vedavidāṃ vara|| tvamāgato me sahasā puṇyena katijanmanām ||2|| bhṛguruvāca || aho puṇyavato bharturanugaccha mahāsati || caturthadivasaṃ śuddhaṃ svāminaḥ sarvakarmasu || 3 || śuddhā bharttuścaturthe'hni na śuddhā daivapitryayoḥ || daive karmaṇi pitrye ca pañcame'hni viśuddhyati || 4 || vyālagrāhī yathā vyālaṃ bilāduddharate balāt || tadvatsvāminamādāya sādhvī svargaṃ prayāti ca ||5|| modate svāminā tatra yāvadindrāścaturdaśa || ata ūrdhvaṃ karmabhogaṃ bhuṅkṣva sādhvi śubhāśubham || 6 || sa putro bhaktidātā yaḥ sā ca strī yā'nugacchati || sa bandhurdānadātā yaḥ sa śiṣyo gurumarcayet || 7 || so'bhīṣṭadevo yo rakṣetsa rājā pālayetprajāḥ || sa ca svāmī priyāṃ dharme matiṃ dātumiheśvaraḥ || 8 || sa gururdharmadātā yo haribhaktipradāyakaḥ || ete praśaṃsyā vedeṣu purāṇeṣu ca niścitam || 9 || reṇukovāca || gantuṃ svasvāminā sārddhaṃ kā śaktā bhārate mune || kā vā'pyaśaktā nārīṣu tanme brūhi tapodhana || 10 || bhṛguruvāca || bālāpatyāśca garbhiṇyo hyadṛṣṭaṛtavastathā || rajasvalā ca kulaṭā galitavyādhisaṃyutā || 11 || patisevāvihīnā yā hyabhaktā kaṭubhāṣiṇī || etā gacchanti ceddaivānna kāntaṃ prāpnuvanti tāḥ || 12 || saṃskṛtāgniṃ puro dattvā citāsu śayitaṃ patim || kāntāstamanugacchanti kāntāścetprāpnuvanti tāḥ || 13 || anugacchanti yāḥ kāntaṃ tameva prāpnuvanti tāḥ || sārddhaṃ kṛtvā puṇyabhogaṃ divi janmani janmani || 14 || iyaṃ te kathitā sādhvi vyavasthā gṛhiṇāṃ dhruvam || tīrthe jñānamṛtānāṃ ca vaiṣṇavānāṃ gatiṃ śṛṇu|| || 15 || yā sādhvī vaiṣṇavaṃ kāntaṃ yatra yatrānugacchati || prayāti svāminā sārddhaṃ vaikuṇṭhe harisannidhim || 16 || viśeṣo nāsti bhaktānāṃ tīrthe vā'nyatra nārada || maraṇena phalaṃ tulyaṃ muktānāṃ kṛṣṇabhāvinām || 17 || tayoḥ pāto nāsti tasmānmahati pralayaṃ sati || nārāyaṇaṃ taṃ bhajeta pumānstrī kamalālayām || 18 || tīrthe jñānamṛtaścāpi vaikuṇṭhaṃ yāti niścitam || sabhāryo modate tatra yāvadvai brahmaṇāṃ śatam || 19 || ityuktvā reṇukāṃ tatra jāmadagnyamuvāca ha || vedoktaṃ vacanaṃ sarvaṃ sa bhṛguḥ samayocitam || 20 || ehi vatsa mahābhāga tyaja śokamamaṅgalam || uttānaṃ kuru tātaṃ ca dakṣiṇāśirasaṃ bhṛgo || 21 || vastrayajñopavītaṃ ca nūtanaṃ paridhāpaya || anaśrunayano bhūtvā santiṣṭhandakṣiṇāmukhaḥ || 22 || araṇīsaṃbhavāgniṃ ca gṛhāṇa prītipūrvakam || pṛthivyāṃ yāni tīrthāni sarveṣāṃ smaraṇaṃ kuru || 23 || gayādīni ca tīrthāni ye ca puṇyāḥ śiloccayāḥ || kurukṣetraṃ ca gaṅgāṃ ca yamunāṃ ca saridvarām ||24|| kauśikīṃ candrabhāgāṃ ca sarvapāpapraṇāśinīm || gaṇḍakīmatha kāśīṃ ca panasāṃ sarayūṃ tathā || 25 || puṣpabhadrāṃ ca bhadrāṃ ca narmadāṃ ca sarasvatīm || godāvarīṃ ca kāverīṃ svarṇarekhāṃ ca puṣkaram || 26 || raivataṃ ca varāhaṃ ca śrīśailaṃ gandhamādanam || himālayaṃ ca kailāsaṃ sumeruṃ ratnaparvatam || 27 || vārāṇasīṃ prayāgaṃ ca puṇyaṃ vṛndāvanaṃ vanam || haridvāraṃ ca badarīṃ smāraṃsmāre punaḥ punaḥ || 28 || candanāgarukastūrīsugandhikusumaṃ tathā || pradāya vāsasā''cchādya sthāpayainaṃ citopari || 29 || karṇākṣināsikāsye tvaṃ śalākāṃ ca hiraṇmayīm || kṛtvā nirmanthanaṃ tāta viprebhyo dehi sādaram ||30|| satilaṃ tāmrapātraṃ ca dhenuṃ ca rajataṃ tathā || sadakṣiṇaṃ suvarṇaṃ ca dattvā'gniṃ dehyakātaraḥ || 31 || oṃ kṛtvā duṣkṛtaṃ karmma jānatā vā'pyajānatā || mṛtyukālavaśaṃ prāpya naraṃ pañcatvamāgatam || 32 || dharmādharmasamāyuktaṃ lobhamohasamāvṛtam || daha sarvāṇi gātrāṇi divyā~llokānsa gacchatu || || 33 || imaṃ mantraṃ paṭhitvā tu tātaṃ kṛtvā pradakṣiṇam || mantreṇānena dehyagniṃ janakāya hariṃ smaran || 34 || oṃ asmatkule tvaṃ jāto'si tvadīyo jāyatāṃ punaḥ || asau svargāya lokāya svāheti vada sāmpratam ||35|| agniṃ dehi śiraḥsthāne he bhṛgo bhrātṛbhiḥ saha || taccakāra bhṛguḥ sarvaṃ sagotrairājñayā bhṛgoḥ || 36 || atha putraṃ reṇukā sā kṛtvā tatra svavakṣasi || uvāca kiṃcidvacanaṃ pariṇāmasukhāvaham || 37 || avirodho bhavābdhau ca sarvamaṅgalamaṅgalam || virodho nāśabījaṃ ca sarvopadravakāraṇam || 38 || akartavyo virodho vai dāruṇaiḥ kṣatriyaiḥ saha || pratijñā caiva karttavyā madīye vacane śrute ||39 || ālocya brahmaṇā sārddhaṃ bhṛguṇā divyamantriṇā || yathocitaṃ ca kartavyaṃ sadbhirālocanaṃ śubham ||40|| ityuktvā taṃ parityajya kāntaṃ kṛtvā svavakṣasi|| sā suṣvāpa citāyāṃ ca paśyantī taṃ harismṛtiḥ ||41|| vahniṃ dadau citāyāṃ ca sa rāmo bhrātṛbhiḥ saha || bhrātṛbhiḥ pitṛśiṣyaiśca sārddhaṃ sa vilalāpa ca || 42 || rāma rāmeti rāmeti vākyamuccāryya sā satī || purastājjāmadagnyasya bhasmībhūtā babhūva sā||43|| bharturnāma samākarṇya tatrājagmurhareścarāḥ|| rathasthāḥ śyāmavarṇāśca sarve cārucaturbhujāḥ || 44 || śaṅkhacakragadāpadmadhāriṇo vanamālinaḥ || kirīṭinaḥ kuṇḍalinaḥ pītakauśeyavāsasaḥ ||45|| rathe kṛtvā reṇukāṃ tāṃ gatvā te brahmaṇaḥ padam || jamadagniṃ samādāya prajagmurharisannidhim ||46|| tau dampatī ca vaikuṇṭhe tasthaturharisannidhau || kṛtvā dāsyaṃ hareḥ śaśvatsarvamaṅgalamaṅgalam || 47 || atha rāmo brāhmaṇaiśca bhṛguṇā saha nārada || pitroḥ śeṣakriyāṃ kṛtvā brāhmaṇebhyo dhanaṃ dadau || 48 || gobhūhiraṇyavāsāṃsi divyaśayyāṃ manoramām || suvarṇādhārasahitāṃ jalamannaṃ ca candanam || 49 || ratnadīpaṃ raupyaśailaṃ suvarṇāsanamuttamam || suvarṇādhārasahitaṃ tāmbūlaṃ ca suvāsitam ||50|| chatraṃ ca pāduke caiva phalaṃ mālyaṃ manoharam || phalaṃ mūlādikaṃ caiva miṣṭānnaṃ ca manoharam || brāhmaṇebhyo dhanaṃ dattvā brahmalokaṃ jagāma saḥ || 51 || dadarśa brahmalokaṃ sa śātakumbhavinirmitam || svarṇaprākārasaṃyuktaṃ svarṇastambhairvibhūṣitam || 52 || dadarśa tatra brahmāṇaṃ jvalantaṃ brahmatejasā|| ratnasiṃhāsanasthaṃ ca ratnabhūṣaṇabhūṣitam || 53 || siddhaistapaścāndrāyaṇairṛṣīndraiḥ pariveṣṭitam || vidyādharīṇāṃ nṛtyaṃ ca paśyantaṃ sasmitaṃ mudā ||54|| saṃgītamupaśṛṇvantaṃ gīyamānaṃ ca gāyakaiḥ || candanāgarukastūrīkuṃkumena virājitam ||55|| tapasāṃ phaladātāraṃ dātāraṃ sarvasampadām || dhātāraṃ sarvajagatāṃ kartāraṃ ceśvaraṃ param || 56 || paripūrṇatamaṃ brahma japantaṃ kṛṣṇamīśvaram || guhyayogaṃ pravocantaṃ pṛcchantaṃ śiṣyamaṇḍalam || 57 || dṛṣṭvā tamavyayaṃ bhaktyā praṇanāma bhṛguḥ puraḥ || uccaiśca rodanaṃ kṛtvā svavṛttāntamuvāca ha|| || 58 || bhṛguruvāca || brahmaṃstvadvaṃśajāto'haṃ jamadagnisuto vidhe || pitāmahastvamasmākaṃ sarvajñaṃ kathayāmi kim || 59 || mṛgayāmāgataṃ bhūpaṃ pitā me copavāsinam || pāraṇāṃ kārayāmāsa kapilādattavastunā || 60 || sa rājā kapilālobhātkārtavīryyārjunaḥ svayam || ghātayāmāsa mattātamityuktvoccai ruroda saḥ ||61|| nirudhya bāṣpaṃ sa punaruvāca karuṇānidhiḥ || mātā me'nugatā sādhvī māṃ vihāya jagadguro || 62 || adhunā'hamanāthaśca tvaṃ me mātā pitā guruḥ || kartā pālayitā dātā pāhi māṃ śaraṇāgatam ||63|| āgato'haṃ tava sabhāṃ pramāturmāturājñayā || upāyena jagannātha madvairihananaṃ kuru ||64|| sa rājā sa ca dharmiṣṭhaḥ sa dayāluryaśaskaraḥ || sa pūjyaḥ sa sthiraśrīśca yo dīnaṃ paripālayet || 65 || dhanidīnau samaṃ dṛṣṭvā yaḥ prajāṃ na ca pālayet || taddehādyāti ruṣṭā śrīḥ sa bhavedbhraṣṭarājyakaḥ || 66 || śrutvā viprabaṭorvākyaṃ karuṇāsāgaro vidhiḥ || dattvā śubhāśiṣaṃ tasmai vāsayāmāsa vakṣasi || 67 || śrutvā bhṛgoḥ pratijñāṃ ca vismitaścaturānanaḥ || atīva duṣkarāṃ ghorāṃ bahujīvavighātinīm || 68 || karmaṇā tadbhavetsarvamiti kṛtvā tu mānase || uvāca jāmadagnyaṃ taṃ pariṇāmasukhāvaham ||69|| brahmovāca || pratijñā duṣkarā vatsa vahujīvavighātinī|| sṛṣṭireṣā bhagavataḥ sambhavedīśvarecchayā || 70 || sṛṣṭiḥ sṛṣṭā mayā putra kleśenaiveśvarājñayā || sṛṣṭiluptau pratijñā te dāruṇā'karuṇā parā || 71 || trissaptakṛtvo nirbhūpāṃ kartumicchasi medinīm || ekakṣattriyadoṣeṇa tajjātiṃ hantumicchasi || 72 || brahmakṣattriyaviṭchūdrairnityā sṛṣṭiścaturvidhaiḥ || āvirbhūtā tirobhūtā harereva punaḥ punaḥ || 73 || anyathā tvatpratijñā ca bhavitā prāktanena te || bahvāyāsena te kāryyasiddhirbhavitumarhati || 74 || śivalokaṃ gaccha vatsa śaṅkaraṃ śaraṇaṃ vraja || pṛthivyāṃ bahavo bhūpāḥ santi śaṅkarakiṅkarāḥ || || 75 || vinā'jñayā maheśasya ko vā tānhantumīśvaraḥ || bibhrataḥ kavacaṃ divyaṃ śaktervai śaṅkarasya ca || 76 || upāyaṃ kuru yatnena jayabījaṃ śubhāvaham || upāyataḥ samārabdhāḥ sarve siddhyantyupakramāḥ || 77 || śrīkṛṣṇamantrakavacagrahaṇaṃ kuru śaṅkarāt || durlabhaṃ vaiṣṇavaṃ tejaḥ śaivaṃ śāktaṃ vijeṣyati || 78 || guruste jagatāṃ nāthaḥ śivo janmani janmani || mantro matto na yuktaste yo yuktaḥ sa bhavedvidhiḥ || 79 || karmaṇā labhyate mantraḥ karmaṇā labhyate guruḥ || svayamevopatiṣṭhante ye yeṣāṃ teṣu te dhuvam || 80 || trailokya vijayaṃ nāma gṛhītvā kavacaṃ varam || trissaptakṛtvo nirbhūpāṃ kariṣyasi mahīṃ bhṛgo || 81 || divyaṃ pāśupataṃ tubhyaṃ dātā dāsyati śaṃkaraḥ || tena dattena mantreṇa kṣatrasaṃghaṃ vijeṣyasi || 82 || iti śrībrahmavaivartte mahāpurāṇe tṛtīye gaṇapatikhaṇḍe nāradanārāyaṇasaṃvāde bhṛgorbrahmalokagamane brahmoktopāyavarṇanaṃ nāmāṣṭāviṃśo'dhyāyaḥ || 28 ||

English translation

The Departure of Bhfgu to Brahmaloka Renuka said - I shall follow the footsteps of my husband, but this is the fourth day of the period of my menses when my husband has been killed. O best of those well-versed in the Vedas, because of the merits of many of my earlier births, you have arrived here and you kindly tell me as to what I should do in my present Bhrgu said - O chaste lady, you follow the footsteps of your virtuous husband because on the fourth day of the period a woman gets purified in all respects and can perform all the deeds for the husband. But the woman gets purified on the fourth day for the husband and not for performing divine actions. For performing the tasks of the gods and the manes she is purified on the fifth day.

As the snake-charmer catches the snak| from the hole in the earth, similarly the wife carries the husband with her in the heaven.

O virtuous one, she remains there for the period is equivalent to the life of fourteen Indras.

Therefore you also enjoy the result of your good or bad deeds.

O daughter, only that son is virtuous who bestows the devotion of the lord and only that woman is virtuous who follows the footsteps of the husband. Only such of the brothers could be termed as true brothers who give away in charity.

A true pupil always respects his brother.

gt ggr wi^t5RiT:i Only he could be termed as the true family god who protects his devotees, only that king could be called a true king who maintains his people well. Only such a lord could be treated as a true lord who can make his wives devoted the Only such of the teacher could be termed as true teacher who could bestow on his pupils the devotion of lord. This is because they have been praised accordingly in the Vedas and Purapas.

Renuka said - O sage, O virtuous one, which are the ladies in the land of Bharata who are competent to follow the footsteps of their husbands and those who are considered to be incompetent. You tell me.

Bhrgu said- The ladies having small children, those who are pregnant, the lady who has not started the menses, the lady in period, degraded woman, woman suffering from leprosy, the women who are averse to serving the husbands, undevoted women and the women with foul tongue are not considered to be suitable for following the footsteps of their husband. In case by the move of destiny, they do so, they cannot achieve for their husbands the desired goal. The one who pleasantly carries the body of the husband to the pyre and follows him, the one who is dear to the husband, she surely gets him the heaven.

Because such of the ladies who follow their husbands, they achieve them again and they get together again and again in their future births. O virtuous lady, I have narrated to you the position of the house-holder. Now I tell you the position of such of the Vaisnavas as die in the sacred places. You listen to me.

Wherever the husband of a chaste lady goes, she follows him. She ultimately reaches Vaikunt ha together with the husband.

But, O Narada, in the land of BhSrata there is nothing special if one dies at a sacred place because the devotees of lord Kfsna are always free from the death; therefore they earn the same merit by meeting with their end anywhere. They do not fall even at the time of dissolution.

Therefore the husband and wife always adore NarSyana and Laksm!.

If one dies at a sacred place possessing all the knowledge, he surely goes to Vaikuntha and he remains there up to the life of Brahma with After thus speaking to Repuka, Bhrgu also spoke to Parasurama the words which were appropriate to the time and also according to the He said, ”0 Parasurama, O son, you come here. O virtuous one, you relieve yourself from the inauspicious grief and you place the body of your father on the pyre with the head towards the southern direction. You clad it in a new cloth and yajnopavlta but your tears would not fall while doing so. You also remain facing the south.

You ignite the fire from the wood and remember all the sacred places of the earth which include Gaya and other sacred places like the sacred mountain, besides Kuruksetra, Gahga, Yamuna, the best of rivers, Kausiki, Candrabhaga which removes all the sins, parvata, Sumeru, Varanasi, Prayaga, the sacred Vmdavana, the Haridvara and Badrikas'rama.

You recite the name of the these again and again.

And fragrant flower on the fire covered the same with the cloth.

Thereafter you bum all the limbs of the body which are free from dharma or adharma, greed or desire which will enable it to proceed to the divine abode of the lord. By reciting a mantra you should circumambulate the pyre and by reciting the mantra you perform all the last rites.

Reciting 3lf you must think that you can be reborn in this race once again. You again recite the word svdhd and desire for the proceeding of the soul to the region of heaven.

O son of Bhrgu, you ignite the fire towards the head of the body together with your brothers."

Thus with the command of Bhfgu he performed the last rites with his kith and kin.

O son, adoring your ears, eyes, nose and face with gold, you give it away to the Brahmana.

The copper vase filled with sea-same seeds, the cows and silver, should be given in charity together with daksind in gold. Thereafter, the fire should be lit in the pyre and you should speak out that knowingly or unknowingly, by performing good or bad deeds, the human has met with the death.

Thereafter Renuka embracing her son Parasurama spoke to him the pleasant words.

best form of prosperity in the universe is not to come into conflict with anyone. The conflict is the cause of destruction and Therefore you do not pick up controversy with the Ksatriyas. And for this you give me your solemn words. You listen to my few other words.

Consulting Brahma and your divine courtier Bhrgu, you act according to their advice because it is always good to consult the noble people."

Thus speaking she left Parasurama and taking the body of her husband in her lap. She entered the funeral pyre Rnrrat ^ it thtt wi Thereafter Parasurama together with his brother ignited the fire in the pyre. He then started lamenting with his brothers and the pupils of his father.

The chaste Renuka reciting the name of Rama was reduced to ashes. On hearing the name of their lord, the messengers arrived there at once | who were of dark complexion having four arms and holding samkha, cakra, gadd and padma in the four hands wearing a long garland of forest flowers round the neck and the kirita on the head and kundalas in the ears. They were clad in Those messengers carried Renuka and Jamadagni to the heaven before the lord.

Thus the divine couple arrived in the Vaikunt ha and started serving the lord as his slaves with O Narada, thereafter Parasurama accompanied by Bhrgu and other Brahmanas performed the last rites of his parents and gave away riches in charity to the Brahmanas which included cows, land, gold, garments, beautiful beds, water, fruits, sandal-paste, lamp of gems, heaps of silver and gold, golden seat, fragrant betel, umbrella, sandals, rosary, roots and fruits and tasteful sweets. Thus giving away charities to the Brahmanas, he left for Brahmaloka.

Reaching there he saw Brahmaloka which was built in gold and was having the boundary wall of gold and pillars of gold.

He found Brahma there possessing divine lustre and seated on a gem-studded lion-throne in a comfortable posture and adorned with gem- He happens to be the best of the siddhas, sages, ascetics and was surrounded by them, wearing a serene smile on his face. He witnessed the dance of Vidyadharis, He was listening to the singing accompanied by music. The fragrance of sandal-wood, kasturl, saffron pervaded the place. He happened to be the one who granted the results of all the deeds and riches. He was the creator of the entire universe and its preserver as well. He was the supreme lord, complete in all respects, eternal Brahman and was reciting the name of lord Kf?

na and was revealing the truth about the secret yogic practices when asked by his pupils to do Kapils from my father and in greed for the cow, he killed my father." Thus speaking he started The merciful ParasurSma some how controlled himself and stopped the flowing of tears and said to Brahma, "O teacher of the universe, my mother has also left me and accompanied my Finding such a type of Brahman before him, ParasurSma stood before him and bowed in reverence to him. Thereafter he started crying aloud and told him the cause of his mental I am an orphan at the moment and therefore you are my father, mother and teacher. You are also the performer, the preserver and a man of charity. You, therefore, protect me since I have come to take refuge under you. I have come here in your court with the permission of my mother.

lord of the universe, you tell me the way out by which I should be able to take revenge.

Bhrgu said - ”0 Brahmana, I am bom in your race and am the son of Jamadagni. You happen to be my grandfather and are well-aware of everything. What should I speak to you?

The king who was wandering in the forest feeling hungry having arrived there for hunting, was served with food by my father which emerged from the Kapila cow. He was fed with that food.

Because the king who maintains the down¬ trodden can be considered as religious, mercihil, glorious, respectable and the possessor of Because the rich man who does not care for the down-trodden person, fortune getting annoyed leaves him and he falls from grace.” Thereafter the king who happened to be none else than K^tavlrya, tempted to snatch away Brahma, the ocean of mercy, on hearing the words of the Brahmana boy blessed him at the same time.

The four-faced Brahma was astonished to know about the vow of Parasurama, which was quite terrific and could result in the killing of Everything happens according to one's own deeds. Thus thinking he started speaking to Jamadagni, the words which were quite pleasant in result.

Brahma said - O son, this is a very difficult vow of yours which will result in the killing of many creatures. The universe is created with the desire of the lord.

O son, I have created this universe with great efforts at the command of the lord and your vow is quite horrible and cruel. The universe will be destroyed by it.

You want to deprive the earth of the kings twenty-one times. You want to destroy the entire race of Ksatriyas because of the sin of a single person. The universe created at the command of the lord includes Brahmanas, Ksatriyas, Vaisyas and Shdras who always remain in the same Because of your traditional beliefs, this vow of yours cannot materialise but you can be successful after making great efforts.

Therefore, O son, you go to Sivaloka and take refuge under lord ^iva. There are several kings who are devoted to lord ^iva who always wear the kavaca of Siva as well as Durga and till such time as they wear those kavacas no one can kill them without the permission of lord ^iva. You must make great efforts to meet with success, because one could meet with success only by making sustained efforts. You try to receive from Siva the mantra of Kr§na, his kavaca and the glory which is difficult to get. With the application of the same, you will be able to overcome the tejas of Siva as well as the sakti.

Siva, the lord of the universe, happens to be your teacher for many births, therefore, my mantra will be of no use to you. I have spoken to you whatever would be appropriate for you to RRT: «b4wTT vIRRf I Because one can get the mantra only because of his deeds and one can get a teacher with his deeds. Therefore everyone gets whatever belongs O Bhrgu, by receiving the best of kavaca named Trailokyavijaya, you can relieve the earth of the Ksatriyas twenty one times.

Chapter-aligned complete witnesses. Sanskrit Wikisource revision 117477 (2017-08-08T21:30:49Z); Shanti Lal Nagar English scan pages n720–n727: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n720/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.