Skip to main content

Gaṇapati-khaṇḍa · Chapter 13

Chapter 13

Unit 110 of 276Gaṇapati-khaṇḍa · Chapter 13Gaṇapati-khaṇḍa · Chapter 131 source entries

Gaṇapati-khaṇḍa · Chapter 13

Source

नारायण उवाच ।। अथ विष्णुः शुभे काले देवैश्च मुनिभिः सह ।। पूजयामास तं बालमुपहारैरनुत्तमैः ।। १ ।। सर्वाग्रे तव पूजा च मया दत्ता सुरोत्तम ।। सर्वपूज्यश्च योगीन्द्रो भव वत्सेत्युवाच तम् ।। २ ।। वनमालां ददौ तस्मै ब्रह्मज्ञानं च मुक्तिदम् ।। सर्वसिद्धिं प्रदायैव चकारात्मसमं हरिः ।। ३ ।। ददौ द्रव्याणि चारूणि चोपचारांश्च षोडश ।। नामभिः स्तवनं चक्रे मुनिभिश्च समं सुरैः ।। ४ ।। '''विघ्नेशश्च गणेशश्च हेरम्बश्च गजाननः ।। ''' '''लम्बोदरश्चैकदन्तः शूर्पकर्णो विनायकः ।। ५ ।।''' एतान्यष्टौ च नामानि सर्वसिद्धिप्रदानि च ।। आशिषं दापयामास चानयामास तान्मुनीन् ।। ६ ।। सिद्धासनं ददौ धर्मस्तस्मै ब्रह्मा कमण्डलुम् ।। शङ्करो योगपट्टं च तत्त्वज्ञानं सुदुर्लभम् ।। ७ ।। रत्नसिंहासनं शक्रः सूर्य्यश्च मणिकुण्डले ।। माणिक्यमालां चन्द्रश्च कुबेरश्च किरीटकम् ।। ८ ।। वह्निशुद्धं च वसनं ददौ तस्मै हुताशनः ।। रत्नच्छत्रं च वरुणो वायू रत्नांगुलीयकम् ।। ९ ।। क्षीरोदोद्भवसद्रत्नरचितं वलयं वरम् ।। मञ्जीरं चापि केयूरं ददौ पद्मालया मुने ।। १० ।। कण्ठभूषां च सावित्री भारती हारमुज्ज्वलम् ।। क्रमेण सर्वदेवाश्च देव्यश्च यौतकं ददुः ।। ११ ।। मुनयः पर्वताश्चैव रत्नानि विविधानि च ।। वसुन्धरा ददौ तस्मै वाहनाय च मूषकम्।।१२।। क्रमेण देवा देव्यश्च मुनयः पर्वतादयः।। गन्धर्वाः किन्नरा यक्षा मनवो मानवास्तथा ।।१३।। नानाविधानि द्रव्याणि स्वादूनि मधुराणि च ।। पूजां चक्रुश्च ते सर्वे क्रमाद्वै भक्तिपूर्वकम् ।। १४ ।। पार्वती जगतां माता स्मेराननसरोरुहा ।। रत्नसिंहासने पुत्रं वासयामास नारद ।। १९ ।। सर्वतीर्थोदकै रत्नकलशावर्जितैः स्तुतैः ।। स्नापयामास वेदोक्तमन्त्रेण मुनिभिस्तदा ।। अग्निशुद्धे च वसने ददौ तस्मै सती मुदा ।। १६ ।। गोदावर्युदकैः पाद्यमर्घ्यं गंगोदकेन च ।। दूर्वाभिरक्षतापुष्पैश्चन्दनेन समन्वितम् ।। १७ ।। पुष्करोदकमानीय पुनराचमनीयकम् ।। मधुपर्कं रत्नपात्रैरासवं शर्करान्वितम् ।। १८ ।। स्नानीयं विष्णुतैलं च स्वर्वैद्याभ्यां विनिर्मितम् ।। अमूल्यरत्नरचितं चारुभूषाकदम्बकम् ।। १९ ।। पारिजातप्रसूनानामन्येषां शतकानि च ।। मालतीचम्पकादीनां पुष्पाणि विविधानि च ।। पूजार्हाणि च पत्राणि तुलसीसहितानि च ।। २० ।। चन्दनागुरुकस्तूरी कुंकुमानि च सादरम् ।। रत्नप्रदीपनिकरं धूपं च परितो ददौ ।। २१ ।। नैवेद्यं तत्प्रियं चैव तिललड्डुकपर्वतान् ।। यवगोधूमचूर्णानां लड्डुकानां च पर्वतान् ।। २२ ।। पक्वान्नानां पर्वताश्च सुस्वादुसुमनोहरान् ।। पर्वतान्स्वस्तिकानां च सुस्वादुशर्करान्वितान् ।। २३ ।। गुडाक्तानां च लाजानां पृथुकानां च पर्वतान् ।। शाल्यन्नानां पिष्टकानां पर्वतान्व्यञ्जनैः सह ।। पयोभृत्कलशानां च लक्षाणि प्रददौ मुदा ।। २४ ।। लक्षाणि दधिपूर्णानां कलशानां च पूजने ।। मधुभृत्कलशानां च त्रिलक्षाणि च सुन्दरी ।। २५ ।। सर्पिस्सुवर्णकुम्भानां पंचलक्षाणि सादरम् ।। दाडिमानां श्रीफलानामसंख्यानि फलानि च ।। २६ ।। खर्जूराणां कपित्थानां जम्बूनां विविधानि च ।।। आम्राणां पनसानां च कदलीनां च नारद ।। फलानि नारिकेलानामसंख्यानि ददौ मुदा ।। २७।। अन्यानि परिपक्वानि कालदेशोद्भवानि च ।। ददौ तानि महाभाग स्वादूनि मधुराणि च ।। २८ ।। स्वच्छं सुनिर्मलं चैव कर्पूरादिसुवासितम् ।। गङ्गाजलं च पानार्थं पुनराचमनीयकम् ।। २९ ।। ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम् ।। सुवर्णपात्रशतकं भक्ष्यपूर्णं च नारद ।। ३० ।। शैलराजप्रिया मात्याः पुपूजुः शैलजात्मजम् ।।३१।। '''ॐ श्रीं ह्रीं क्लीं गणेश्वराय ब्रह्मरूपाय चारवे ।।''' '''सर्वसिद्धिप्रदेशाय विघ्नेशाय नमो नमः ।।३२।।''' इत्यनेनैव मन्त्रेण दत्त्वा द्रव्याणि भक्तितः।। सर्वे प्रमुदितास्तत्र ब्रह्मविष्णुशिवादयः।।३३।। द्वात्रिंशदक्षरो मालामन्त्रोऽयं सर्वकामद।। धर्मार्थकाममोक्षाणां फलदः सर्वसिद्धिदः ।।३४।। पञ्चलक्षजपेनैव मन्त्रसिद्धिस्तु मन्त्रिणः।। मन्त्रसिद्धिर्भवेद्यस्य स च विष्णुश्च भारते।।३५।। विघ्नानि च पलायन्ते तन्नामस्मरणेन च ।। महावाग्ग्मी महासिद्धिः सर्वसिद्धिसमन्वितः ।। ३६ ।। वाक्पतिर्गुरुतां याति तस्य साक्षात्सुनिश्चितम् ।। महाकवीन्द्रो गुणवान्विदुषां च गुरोर्गुरुः ।। ३७ ।। संपूज्यानेन मन्त्रेण देवा आनन्दसंप्लुताः ।। नानाविधानि वाद्यानि वादयामासुरुत्सवे ।।३८।। ब्राह्मणान्भोजयामासुः कारयामासुरुत्सवम् ।। ददुर्दानानि तेभ्यश्च बन्दिभ्यश्च विशेषतः ।।३९।। नारायण उवाच ।। अथ विष्णुः सभामध्ये तं सम्पूज्य गणेश्वरम् ।। तुष्टाव परया भक्त्या सर्वविघ्नविनाशकम् ।। ४० ।। ईश त्वां स्तोतुमिच्छामि ब्रह्मज्योतिः सनातनम् ।। नैव वर्णयितुं शक्तोऽस्त्यनुरूपमनीहकम् ।। ४१ ।। प्रवरं सर्वदेवानां सिद्धानां योगिनां गुरुम् ।। सर्वस्वरूपं सर्वेशं ज्ञानराशिस्वरूपिणम् ।। ४२ ।। अव्यक्तमक्षरं नित्यं सत्यमात्मस्वरूपिणम् ।। वायुतुल्यं च निर्लिप्तं चाक्षतं सर्वसाक्षिणम् ।। ४३ ।। संसारार्णवपारे च मायापोते सुदुर्लभे ।। कर्णधारस्वरूपं च भक्तानुग्रहकारकम् ।। ४४ ।। वरं वरेण्यं वरदं वरदानामपीश्वरम् ।। सिद्धं सिद्धिस्वरूपं च सिद्धिदं सिद्धिसाधनम ।। ४९ ।। ध्यानातिरिक्तं ध्येयं च ध्यानासाध्यं च धार्मिकम् ।। धर्मस्वरूपं धर्मज्ञं धर्माधर्मफलप्रदम् ।।४६।। बीजं संसारवृक्षाणामंकुरं च तदाश्रयम् ।। स्त्रीपुंनपुंसकानां च रूपमेतदतीन्द्रियम् ।। ४७ ।। सर्वाद्यमग्रपूज्यं च सर्वपूज्यं गुणार्णवम् ।। स्वेच्छया सगुणं ब्रह्म निर्गुणं स्वेच्छया पुनः ।।४८।। स्वयं प्रकृतिरूपं च प्राकृतं प्रकृतेः परम् ।। त्वां स्तोतुमक्षमोऽनन्तः सहस्रवदनैरपि ।। ४९ ।। न क्षमः पञ्चवक्त्रश्च न क्षमश्चतुराननः ।। सरस्वती न शक्ता च न शक्तोऽहं तव स्तुतौ ।। न शक्ताश्च चतुर्वेदाः के वा ते वेदवादिनः ।।५०।। इत्येवं स्तवनं कृत्वा मुनीशसुरसंसदि ।। सुरेशश्च सुरैः सार्द्धं विरराम रमापतिः ।।५१।। इदं विष्णुकृतं स्तोत्रं गणेशस्य च यः पठेत् ।। सायं प्रातश्च मध्याह्ने भक्तियुक्तः समाहितः ।। ५२ ।। तद्विघ्ननाशं कुरुते विघ्नेशः सततं मुने ।। वर्द्धते सर्वकल्याणं कल्याणजनकः सदा ।। ५३ ।। यात्राकाले पठित्वा यो याति तद्भक्तिपूर्वकम् ।। तस्य सर्वाभीष्टसिद्धिर्भवत्येव न संशयः ।। ५४ ।। तेन दृष्टं च दुस्स्वप्नं सुस्वप्नमुपजायते ।। कदाऽपि न भवेत्तस्य ग्रहपीडा च दारुणा ।। ५५ ।। भवेद्विनाशः शत्रूणां बन्धूनां चापि वर्द्धनम् ।। शश्वद्विघ्नविनाशश्च शश्वत्सम्यग्विवर्द्धनम् ।। ५६ ।। स्थिरा भवेद्गृहे लक्ष्मीः पुत्रपौत्रविवर्द्धनम् ।। सर्वैश्वर्य्यमिह प्राप्य ह्यन्ते विष्णुपदं लभेत् ।। ५७ ।। फलं चापि च तीर्थानां यज्ञानां यद्भवेद्ध्रुवम् ।। महतां सर्वदानानां तद्गणेशप्रसादत ।।५८।। नारद उवाच ।। श्रुतं स्तोत्रं गणेशस्य पूजनं च मनोहरम् ।। कवचं श्रोतुमिच्छामि साम्प्रतं भवतारणम् ।।५९।। नारायण उवाच ।। पूजायां सुनिवृत्तायां सभामध्ये शनैश्चरः ।। उवाच विष्णुं सर्वेषां तारकं जगतां गुरुम् ।। ६० ।। शनैश्चर उवाच ।। सर्वदुःखविनाशाय पापप्रशमनाय च ।। कवचं विघ्ननिघ्नस्य वद वेदविदांवर ।। ६१ ।। बभूव नो विवादश्च शक्त्या वै मायया सह ।। तद्विघ्नप्रशमार्थं च कवचं धारयाम्यहम् ।। ६२ ।। श्रीविष्णुरुवाच ।। विनायकस्य कवचं त्रिषु लोकेषु दुर्लभम् ।। सुगोप्यं च पुराणेषु दुर्लभं चागमेषु च ।। ६३ ।। उक्तं कौथुमशाखायां सामवेदे मनोहरम् ।। कवचं विघ्ननाथस्य सर्वविघ्नहरं परम् ।। ६४ ।। राज्यं देयं शिरो देयं प्राणा देयाश्च सूर्य्यज ।। एवम्भूतं च कवचं न देयं प्राणसङ्कटे ।। ६५ ।। आविर्भावस्तिरोभावः स्वेच्छया यस्य मायया ।। नित्योऽयमेकदन्तश्च कवचं चास्य वत्सक ।।६६।। पूजाऽस्य नित्या स्तोत्रं च कल्पे कल्पेऽस्ति सन्ततम्।। अस्य वै जन्मनः पूर्वं मुनयश्च सिषेविरे।।६७।। यथा मदवतारेषु जन्मविग्रहधारणम् ।। तथा गणेश्वरस्यापि जन्म शैलसुतोदरे ।। ६८ ।। यद्धृत्वा मुनयः सर्वे जीवन्मुक्ताश्च भारते ।। निश्शङ्काश्च सुराः सर्वे शत्रुपक्षविमर्दकाः ।। ६९ ।। कवचं बिभ्रतां मृत्युर्न भिया याति सन्निधिम् ।। नायुर्व्ययो नाशुभं च ब्रह्माण्डे न पराजयः ।। ७० ।। दश लक्षजपेनैव सिद्धं तु कवचं भवेत् ।। यो भवेत्सिद्धकवचो मृत्युं जेतुं स च क्षमः ।। ७१ ।। सुसिद्धकवचो वाग्मी चिरंजीवी महीतले ।। सर्वत्र विजयी पूज्यो भवेद्ग्रहणमात्रतः ।। ७२ ।। मालामन्त्रमिमं पुण्यं कवचं मङ्गलं शुभम् ।। बिभ्रतां सर्वपापानि प्रणश्यन्ति सुनिश्चितम् ।। ७३ ।। भूतप्रेतपिशाचाश्च कूष्माण्डा ब्रह्मराक्षसाः ।। डाकिनीयोगिनीयक्षवेताला भैरवादयः ।। ७४ ।। बालग्रहा ग्रहाश्चैव क्षेत्रपालादयस्तथा ।। वर्मणः शब्दमात्रेण पलायन्ते च भीरवः ।।७५।। आधयो व्याधयश्चैव शोकाश्चैव भयावहाः ।। न यान्ति सन्निधिं तेषां गरुडस्य यथोरगाः ।। ७६ ।। ऋजवे गुरुभक्ताय स्वशिष्याय प्रकाशयेत् ।। खलाय परशिष्याय दत्त्वा मृत्युमवाप्नुयात् ।। ७७ ।। संसारमोहकस्यास्य कवचस्य प्रजापतिः ।। ऋषिश्छन्दश्च बृहती देवो लम्बोदरः स्वयम्।। धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्त्तितः ।। ७८ ।। सर्वेषां कवचानां च सारभूतमिदं मुने ।। ॐ गं हुं श्रीगणेशाय स्वाहा मे पातु मस्तकम् ।। द्वात्रिंशदक्षरो मन्त्रो ललाटं मे सदाऽवतु ।। ७९ ।। ॐ ह्रीं क्लीं श्रीं गमिति वै सततं पातु लोचनम् ।। तालुके पातु विघ्नेशः सततं धरणीतले ।। ८० ।। ॐ ह्रीं श्रीं क्लीमिति परं सन्ततं पातु नासिकाम् ।। ॐ गौं गं शूर्पकर्णाय स्वाहा पात्वधरं मम ।। दन्तांश्च तालुकां जिह्वां पातु मे षोडशाक्षरः ।। ८१ ।। ॐ लं श्रीं लम्बोदरायेति स्वाहा गण्डं सदा ऽवतु ।। ॐ क्लीं ह्रीं विघ्ननाशाय स्वाहा कर्णं सदाऽवतु ।। ८२ ।। ॐ श्रीं गं गजाननायेति स्वाहा स्कन्धं सदाऽवतु।। ॐ ह्रीं विनायकायेति स्वाहा पृष्ठं सदाऽवतु ।। ८३ ।। ॐ क्लीं ह्रीमिति कङ्कालं पातु वक्षःस्थलं परम् ।। करौ पादौ सदा पातु सर्वांगं विघ्ननाशकृत् ।। ८४ ।। प्राच्यां लम्बोदरः पातु चाग्नेय्यां विघ्ननायकः ।। दक्षिणे पातु विश्वेशो नैर्ऋत्यां तु गजाननः ।। ८५ ।। पश्चिमे पार्वतीपुत्रो वायव्यां शंकरात्मजः ।। कृष्णस्यांशश्चोत्तरे च परिपूर्णतमस्य च ।। ८६ ।। ऐशान्यामेकदन्तश्च हेरम्बः पातु चोर्ध्वतः ।। अधो गणाधिपः पातु सर्वपूज्यश्च सर्वतः ।। स्वप्ने जागरणे चैव पातु मां योगिनां गुरुः ।। ८७ ।। इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् ।। संसारमोहनं नाम कवचं परमाद्भुतम् ।।८८।। श्रीकृष्णेन पुरा दत्तं गोलोके रासमण्डले ।। वृन्दावने विनीताय मह्यं दिनकरात्मज ।। ८९ ।। मया दत्तं च तुभ्यं च यस्मै कस्मै न दास्यसि ।। परं वरं सर्वपूज्यं सर्वसंकटतारणम् ।। ९० ।। गुरुमभ्यर्च्य विधिवत्कवचं धारयेत्तु यः ।। कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुर्न संशयः ।। ९१ ।। अश्वमेधसहस्राणि वाजपेयशतानि च ।। ग्रहेन्द्र कवचस्यास्य कलां नार्हन्ति षोडशीम् ।। ९२ ।। इदं कवचमज्ञात्वा यो भजेच्छंकरात्मजम् ।। शतलक्षप्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ।। ९३ ।। इति संसारमोहनं नाम कवचम् ।। दत्त्वेदं सूर्य्यपुत्राय विरराम सुरेश्वरः ।। परमानन्दसंयुक्ता देवास्तस्थुः समीपतः ।। ९४ ।। इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे गणेशपूजास्तवकवचकथनं नाम त्रयोदशोऽध्यायः ।।१३।।

nārāyaṇa uvāca || atha viṣṇuḥ śubhe kāle devaiśca munibhiḥ saha || pūjayāmāsa taṃ bālamupahārairanuttamaiḥ || 1 || sarvāgre tava pūjā ca mayā dattā surottama || sarvapūjyaśca yogīndro bhava vatsetyuvāca tam || 2 || vanamālāṃ dadau tasmai brahmajñānaṃ ca muktidam || sarvasiddhiṃ pradāyaiva cakārātmasamaṃ hariḥ || 3 || dadau dravyāṇi cārūṇi copacārāṃśca ṣoḍaśa || nāmabhiḥ stavanaṃ cakre munibhiśca samaṃ suraiḥ || 4 || '''vighneśaśca gaṇeśaśca herambaśca gajānanaḥ || ''' '''lambodaraścaikadantaḥ śūrpakarṇo vināyakaḥ || 5 ||''' etānyaṣṭau ca nāmāni sarvasiddhipradāni ca || āśiṣaṃ dāpayāmāsa cānayāmāsa tānmunīn || 6 || siddhāsanaṃ dadau dharmastasmai brahmā kamaṇḍalum || śaṅkaro yogapaṭṭaṃ ca tattvajñānaṃ sudurlabham || 7 || ratnasiṃhāsanaṃ śakraḥ sūryyaśca maṇikuṇḍale || māṇikyamālāṃ candraśca kuberaśca kirīṭakam || 8 || vahniśuddhaṃ ca vasanaṃ dadau tasmai hutāśanaḥ || ratnacchatraṃ ca varuṇo vāyū ratnāṃgulīyakam || 9 || kṣīrododbhavasadratnaracitaṃ valayaṃ varam || mañjīraṃ cāpi keyūraṃ dadau padmālayā mune || 10 || kaṇṭhabhūṣāṃ ca sāvitrī bhāratī hāramujjvalam || krameṇa sarvadevāśca devyaśca yautakaṃ daduḥ || 11 || munayaḥ parvatāścaiva ratnāni vividhāni ca || vasundharā dadau tasmai vāhanāya ca mūṣakam||12|| krameṇa devā devyaśca munayaḥ parvatādayaḥ|| gandharvāḥ kinnarā yakṣā manavo mānavāstathā ||13|| nānāvidhāni dravyāṇi svādūni madhurāṇi ca || pūjāṃ cakruśca te sarve kramādvai bhaktipūrvakam || 14 || pārvatī jagatāṃ mātā smerānanasaroruhā || ratnasiṃhāsane putraṃ vāsayāmāsa nārada || 19 || sarvatīrthodakai ratnakalaśāvarjitaiḥ stutaiḥ || snāpayāmāsa vedoktamantreṇa munibhistadā || agniśuddhe ca vasane dadau tasmai satī mudā || 16 || godāvaryudakaiḥ pādyamarghyaṃ gaṃgodakena ca || dūrvābhirakṣatāpuṣpaiścandanena samanvitam || 17 || puṣkarodakamānīya punarācamanīyakam || madhuparkaṃ ratnapātrairāsavaṃ śarkarānvitam || 18 || snānīyaṃ viṣṇutailaṃ ca svarvaidyābhyāṃ vinirmitam || amūlyaratnaracitaṃ cārubhūṣākadambakam || 19 || pārijātaprasūnānāmanyeṣāṃ śatakāni ca || mālatīcampakādīnāṃ puṣpāṇi vividhāni ca || pūjārhāṇi ca patrāṇi tulasīsahitāni ca || 20 || candanāgurukastūrī kuṃkumāni ca sādaram || ratnapradīpanikaraṃ dhūpaṃ ca parito dadau || 21 || naivedyaṃ tatpriyaṃ caiva tilalaḍḍukaparvatān || yavagodhūmacūrṇānāṃ laḍḍukānāṃ ca parvatān || 22 || pakvānnānāṃ parvatāśca susvādusumanoharān || parvatānsvastikānāṃ ca susvāduśarkarānvitān || 23 || guḍāktānāṃ ca lājānāṃ pṛthukānāṃ ca parvatān || śālyannānāṃ piṣṭakānāṃ parvatānvyañjanaiḥ saha || payobhṛtkalaśānāṃ ca lakṣāṇi pradadau mudā || 24 || lakṣāṇi dadhipūrṇānāṃ kalaśānāṃ ca pūjane || madhubhṛtkalaśānāṃ ca trilakṣāṇi ca sundarī || 25 || sarpissuvarṇakumbhānāṃ paṃcalakṣāṇi sādaram || dāḍimānāṃ śrīphalānāmasaṃkhyāni phalāni ca || 26 || kharjūrāṇāṃ kapitthānāṃ jambūnāṃ vividhāni ca ||| āmrāṇāṃ panasānāṃ ca kadalīnāṃ ca nārada || phalāni nārikelānāmasaṃkhyāni dadau mudā || 27|| anyāni paripakvāni kāladeśodbhavāni ca || dadau tāni mahābhāga svādūni madhurāṇi ca || 28 || svacchaṃ sunirmalaṃ caiva karpūrādisuvāsitam || gaṅgājalaṃ ca pānārthaṃ punarācamanīyakam || 29 || tāmbūlaṃ ca varaṃ ramyaṃ karpūrādisuvāsitam || suvarṇapātraśatakaṃ bhakṣyapūrṇaṃ ca nārada || 30 || śailarājapriyā mātyāḥ pupūjuḥ śailajātmajam ||31|| '''oṃ śrīṃ hrīṃ klīṃ gaṇeśvarāya brahmarūpāya cārave ||''' '''sarvasiddhipradeśāya vighneśāya namo namaḥ ||32||''' ityanenaiva mantreṇa dattvā dravyāṇi bhaktitaḥ|| sarve pramuditāstatra brahmaviṣṇuśivādayaḥ||33|| dvātriṃśadakṣaro mālāmantro'yaṃ sarvakāmada|| dharmārthakāmamokṣāṇāṃ phaladaḥ sarvasiddhidaḥ ||34|| pañcalakṣajapenaiva mantrasiddhistu mantriṇaḥ|| mantrasiddhirbhavedyasya sa ca viṣṇuśca bhārate||35|| vighnāni ca palāyante tannāmasmaraṇena ca || mahāvāggmī mahāsiddhiḥ sarvasiddhisamanvitaḥ || 36 || vākpatirgurutāṃ yāti tasya sākṣātsuniścitam || mahākavīndro guṇavānviduṣāṃ ca gurorguruḥ || 37 || saṃpūjyānena mantreṇa devā ānandasaṃplutāḥ || nānāvidhāni vādyāni vādayāmāsurutsave ||38|| brāhmaṇānbhojayāmāsuḥ kārayāmāsurutsavam || dadurdānāni tebhyaśca bandibhyaśca viśeṣataḥ ||39|| nārāyaṇa uvāca || atha viṣṇuḥ sabhāmadhye taṃ sampūjya gaṇeśvaram || tuṣṭāva parayā bhaktyā sarvavighnavināśakam || 40 || īśa tvāṃ stotumicchāmi brahmajyotiḥ sanātanam || naiva varṇayituṃ śakto'styanurūpamanīhakam || 41 || pravaraṃ sarvadevānāṃ siddhānāṃ yogināṃ gurum || sarvasvarūpaṃ sarveśaṃ jñānarāśisvarūpiṇam || 42 || avyaktamakṣaraṃ nityaṃ satyamātmasvarūpiṇam || vāyutulyaṃ ca nirliptaṃ cākṣataṃ sarvasākṣiṇam || 43 || saṃsārārṇavapāre ca māyāpote sudurlabhe || karṇadhārasvarūpaṃ ca bhaktānugrahakārakam || 44 || varaṃ vareṇyaṃ varadaṃ varadānāmapīśvaram || siddhaṃ siddhisvarūpaṃ ca siddhidaṃ siddhisādhanama || 49 || dhyānātiriktaṃ dhyeyaṃ ca dhyānāsādhyaṃ ca dhārmikam || dharmasvarūpaṃ dharmajñaṃ dharmādharmaphalapradam ||46|| bījaṃ saṃsāravṛkṣāṇāmaṃkuraṃ ca tadāśrayam || strīpuṃnapuṃsakānāṃ ca rūpametadatīndriyam || 47 || sarvādyamagrapūjyaṃ ca sarvapūjyaṃ guṇārṇavam || svecchayā saguṇaṃ brahma nirguṇaṃ svecchayā punaḥ ||48|| svayaṃ prakṛtirūpaṃ ca prākṛtaṃ prakṛteḥ param || tvāṃ stotumakṣamo'nantaḥ sahasravadanairapi || 49 || na kṣamaḥ pañcavaktraśca na kṣamaścaturānanaḥ || sarasvatī na śaktā ca na śakto'haṃ tava stutau || na śaktāśca caturvedāḥ ke vā te vedavādinaḥ ||50|| ityevaṃ stavanaṃ kṛtvā munīśasurasaṃsadi || sureśaśca suraiḥ sārddhaṃ virarāma ramāpatiḥ ||51|| idaṃ viṣṇukṛtaṃ stotraṃ gaṇeśasya ca yaḥ paṭhet || sāyaṃ prātaśca madhyāhne bhaktiyuktaḥ samāhitaḥ || 52 || tadvighnanāśaṃ kurute vighneśaḥ satataṃ mune || varddhate sarvakalyāṇaṃ kalyāṇajanakaḥ sadā || 53 || yātrākāle paṭhitvā yo yāti tadbhaktipūrvakam || tasya sarvābhīṣṭasiddhirbhavatyeva na saṃśayaḥ || 54 || tena dṛṣṭaṃ ca dussvapnaṃ susvapnamupajāyate || kadā'pi na bhavettasya grahapīḍā ca dāruṇā || 55 || bhavedvināśaḥ śatrūṇāṃ bandhūnāṃ cāpi varddhanam || śaśvadvighnavināśaśca śaśvatsamyagvivarddhanam || 56 || sthirā bhavedgṛhe lakṣmīḥ putrapautravivarddhanam || sarvaiśvaryyamiha prāpya hyante viṣṇupadaṃ labhet || 57 || phalaṃ cāpi ca tīrthānāṃ yajñānāṃ yadbhaveddhruvam || mahatāṃ sarvadānānāṃ tadgaṇeśaprasādata ||58|| nārada uvāca || śrutaṃ stotraṃ gaṇeśasya pūjanaṃ ca manoharam || kavacaṃ śrotumicchāmi sāmprataṃ bhavatāraṇam ||59|| nārāyaṇa uvāca || pūjāyāṃ sunivṛttāyāṃ sabhāmadhye śanaiścaraḥ || uvāca viṣṇuṃ sarveṣāṃ tārakaṃ jagatāṃ gurum || 60 || śanaiścara uvāca || sarvaduḥkhavināśāya pāpapraśamanāya ca || kavacaṃ vighnanighnasya vada vedavidāṃvara || 61 || babhūva no vivādaśca śaktyā vai māyayā saha || tadvighnapraśamārthaṃ ca kavacaṃ dhārayāmyaham || 62 || śrīviṣṇuruvāca || vināyakasya kavacaṃ triṣu lokeṣu durlabham || sugopyaṃ ca purāṇeṣu durlabhaṃ cāgameṣu ca || 63 || uktaṃ kauthumaśākhāyāṃ sāmavede manoharam || kavacaṃ vighnanāthasya sarvavighnaharaṃ param || 64 || rājyaṃ deyaṃ śiro deyaṃ prāṇā deyāśca sūryyaja || evambhūtaṃ ca kavacaṃ na deyaṃ prāṇasaṅkaṭe || 65 || āvirbhāvastirobhāvaḥ svecchayā yasya māyayā || nityo'yamekadantaśca kavacaṃ cāsya vatsaka ||66|| pūjā'sya nityā stotraṃ ca kalpe kalpe'sti santatam|| asya vai janmanaḥ pūrvaṃ munayaśca siṣevire||67|| yathā madavatāreṣu janmavigrahadhāraṇam || tathā gaṇeśvarasyāpi janma śailasutodare || 68 || yaddhṛtvā munayaḥ sarve jīvanmuktāśca bhārate || niśśaṅkāśca surāḥ sarve śatrupakṣavimardakāḥ || 69 || kavacaṃ bibhratāṃ mṛtyurna bhiyā yāti sannidhim || nāyurvyayo nāśubhaṃ ca brahmāṇḍe na parājayaḥ || 70 || daśa lakṣajapenaiva siddhaṃ tu kavacaṃ bhavet || yo bhavetsiddhakavaco mṛtyuṃ jetuṃ sa ca kṣamaḥ || 71 || susiddhakavaco vāgmī ciraṃjīvī mahītale || sarvatra vijayī pūjyo bhavedgrahaṇamātrataḥ || 72 || mālāmantramimaṃ puṇyaṃ kavacaṃ maṅgalaṃ śubham || bibhratāṃ sarvapāpāni praṇaśyanti suniścitam || 73 || bhūtapretapiśācāśca kūṣmāṇḍā brahmarākṣasāḥ || ḍākinīyoginīyakṣavetālā bhairavādayaḥ || 74 || bālagrahā grahāścaiva kṣetrapālādayastathā || varmaṇaḥ śabdamātreṇa palāyante ca bhīravaḥ ||75|| ādhayo vyādhayaścaiva śokāścaiva bhayāvahāḥ || na yānti sannidhiṃ teṣāṃ garuḍasya yathoragāḥ || 76 || ṛjave gurubhaktāya svaśiṣyāya prakāśayet || khalāya paraśiṣyāya dattvā mṛtyumavāpnuyāt || 77 || saṃsāramohakasyāsya kavacasya prajāpatiḥ || ṛṣiśchandaśca bṛhatī devo lambodaraḥ svayam|| dharmārthakāmamokṣeṣu viniyogaḥ prakīrttitaḥ || 78 || sarveṣāṃ kavacānāṃ ca sārabhūtamidaṃ mune || oṃ gaṃ huṃ śrīgaṇeśāya svāhā me pātu mastakam || dvātriṃśadakṣaro mantro lalāṭaṃ me sadā'vatu || 79 || oṃ hrīṃ klīṃ śrīṃ gamiti vai satataṃ pātu locanam || tāluke pātu vighneśaḥ satataṃ dharaṇītale || 80 || oṃ hrīṃ śrīṃ klīmiti paraṃ santataṃ pātu nāsikām || oṃ gauṃ gaṃ śūrpakarṇāya svāhā pātvadharaṃ mama || dantāṃśca tālukāṃ jihvāṃ pātu me ṣoḍaśākṣaraḥ || 81 || oṃ laṃ śrīṃ lambodarāyeti svāhā gaṇḍaṃ sadā 'vatu || oṃ klīṃ hrīṃ vighnanāśāya svāhā karṇaṃ sadā'vatu || 82 || oṃ śrīṃ gaṃ gajānanāyeti svāhā skandhaṃ sadā'vatu|| oṃ hrīṃ vināyakāyeti svāhā pṛṣṭhaṃ sadā'vatu || 83 || oṃ klīṃ hrīmiti kaṅkālaṃ pātu vakṣaḥsthalaṃ param || karau pādau sadā pātu sarvāṃgaṃ vighnanāśakṛt || 84 || prācyāṃ lambodaraḥ pātu cāgneyyāṃ vighnanāyakaḥ || dakṣiṇe pātu viśveśo nairṛtyāṃ tu gajānanaḥ || 85 || paścime pārvatīputro vāyavyāṃ śaṃkarātmajaḥ || kṛṣṇasyāṃśaścottare ca paripūrṇatamasya ca || 86 || aiśānyāmekadantaśca herambaḥ pātu cordhvataḥ || adho gaṇādhipaḥ pātu sarvapūjyaśca sarvataḥ || svapne jāgaraṇe caiva pātu māṃ yogināṃ guruḥ || 87 || iti te kathitaṃ vatsa sarvamantraughavigraham || saṃsāramohanaṃ nāma kavacaṃ paramādbhutam ||88|| śrīkṛṣṇena purā dattaṃ goloke rāsamaṇḍale || vṛndāvane vinītāya mahyaṃ dinakarātmaja || 89 || mayā dattaṃ ca tubhyaṃ ca yasmai kasmai na dāsyasi || paraṃ varaṃ sarvapūjyaṃ sarvasaṃkaṭatāraṇam || 90 || gurumabhyarcya vidhivatkavacaṃ dhārayettu yaḥ || kaṇṭhe vā dakṣiṇe bāhau so'pi viṣṇurna saṃśayaḥ || 91 || aśvamedhasahasrāṇi vājapeyaśatāni ca || grahendra kavacasyāsya kalāṃ nārhanti ṣoḍaśīm || 92 || idaṃ kavacamajñātvā yo bhajecchaṃkarātmajam || śatalakṣaprajapto'pi na mantraḥ siddhidāyakaḥ || 93 || iti saṃsāramohanaṃ nāma kavacam || dattvedaṃ sūryyaputrāya virarāma sureśvaraḥ || paramānandasaṃyuktā devāstasthuḥ samīpataḥ || 94 || iti śrībrahmavaivartte mahāpurāṇe tṛtīye gaṇapatikhaṇḍe nāradanārāyaṇasaṃvāde gaṇeśapūjāstavakavacakathanaṃ nāma trayodaśo'dhyāyaḥ ||13||

English translation

The worship of Gapesa, the Stuti and NSrayana said - Lord Visnu together with the other gods and the sages adored the child in an auspicious time and said, "O best of gods, I have adored you first of all, therefore, O son, you will be adorable by all and will attain the position of the lord of the yogis."

He offered beautiful materials and the sixteen types of offerings. Thereafter, he along with the gods and the sages started eulogising him. He said, "O remover of obstacles, Ganes'a, Heramba, and Vinayaka; there are your eight names which bestows success. He then summoned the sages and asked them to shower their blessing on him."

Dharma offered him a seat for success.

Brahma gave him kamariclalu, ^iva gave him the divine garments besides the divine knowledge of tattva which is difficult to get.

Indra gave him the gem-studded lion-throne, the sun gave him the ear-ornaments of gems, Candrama gave him the garland of pearls, Kubera gave him the kirifa crown, Agni gave him the garments purified by fire; Varupa gave him the umbrella of jewels, the wind god gave him gem-studded finger-rings. O sage, Laksmi gave him the anklets and armlets which were produced from the ocean of milk.

Savitrl gave him a necklace, Bharat! gave him the illumining garland. Thereafter, all the gods and goddesses gave him several presents, Parvat! and other sages gave him several types of gems and the goddess earth gave him the rat to serve as his vehicle.

All the gods, the goddesses, sages, mountains, Gandharvas, Kinnaras, Yaksas, Manus and humans gave him several types of delicious and sweet presents with devotion.

O Narada, wearing a serene smile on her lotus¬ like face, Parvat! the mother of the universe placed her son on the gem.-studded lion-throne.

Thereafter all the sages bathed the child Ganesa with the sacred water of all the sacred places, filled in the pitcher of gems and reciting hymns from the Vedas. Sat! offered him the two garments sanctified by fire. Thereafter padya was offered of the water of Godavar! and the earth from the water of Gahga besides Dtirvd- grass, rice, flower and sandal-paste were also offered. Sending for the sanctified water from Puskara, he was given acamana and Madhuparka besides other beverages mixed with sugar were offered in the vases of gems.

Asvinikumara on his part prepared Visnu oil for the purpose of his bathing.

Besides other ornaments studded with gems, a and other flowers for worship besides Tulas!^ leaves, sandal-paste, aguru, kasturl and vermilion were offered to him. Several of the ornaments made of jewels besides the essence of gems were offered by all. His loving naivedya and heaps of the sea-same balls and balls of wheat, flour in heaps, delicious and pleasant fried cereals in heaps and the delicious svastika sweet in heaps, the fried paddy mixed with guda in heaps, the heaps of fried paddy, the paddy cereals an the ground stuffs in heaps and a lakh of pitchers filled with milk, a lakh of pitchers filled with curd and three lakhs of pitchers filled with sweets were offered to him. In addition to this, five lakh golden pitchers filled with ghee were offered to him with reverence.

fdfiw i fq ^ii? ii The pomegranate, wood-apple and several other fruits including palm, rose-apple, mango, jack-fruit, banana and coconut were given in large numbers. O NSrada, several other fruits were offered which were available according to the time and season and were quite delicious and sweet. All these were offered with delight. For the purpose of sipping, the sacred water of mixed with camphor was also given. O Narada, the betels containing the fragrance of camphor and a hundred golden vases filled with delicious food were offered by Himalaya and his wife, his son and the courtiers to the goddess Parvatl and her son.

by reciting this mantra, delightfully Brahma, Vi?tiu and ^iva made their offerings with devotion to Ganes'a. This garland mantra of thirty two letters fulfils all the desires bestowing dharma, artha, Mma and mok?a besides all the success.

By reciting this mantra five lakhs of times, one meets with success and whosoever meets with such a success, is equated with Visnu in the land of Bharata.

By the mere reciting of his name, the obstructions disappear and he himself becomes a great orator, meets with great success and He surely becomes equivalent to Ephaspati, best of the poets, the teacher of the learned people and the teacher of teachers.

The gods adoring Ganes'a with the reciting of the mantra were filled with ecstasy and played on several musical instruments.

They distributed food to the Brahmanas, enjoyed festivities and also distributed charity to the Brahmanas and the bards.

Narayana said - Thereafter lord Visnu adored Ganesa the lord of gams in the presence of all the courtiers and started eulogising him.

said - O lord, I intend to offer prayers to you. You happen to be the eternal flame and eternal also. Therefore I cannot spell out from glory because you are beyond desire.

You are the best of all the gods, teacher of all the siddhas and yogis, the form of everything, the lord of everything, the ocean of knowledge, invisible, indestructible, eternal, truthful, form of self, unattached like the wind, the witness for all and the ship for crossing the ocean of the universe. Being a divine sailor, you bestow your compassion on your devotees.

rijiji II 'a ® II You are the best of all, bestower of the boons, the lord of boons and siddha besides the form of success, bestower of success, source of success, beyond comprehension, adorable, difficult for adoration, quite religious, form of dharma, well- versed in dharma, the one who bestows the reward of dharma and adharma, the seed of the tree of the universe, its branches and the sprouting of it, the women, the men and impotent, beyond the organ of the senses, the foremost of all, the foremost for adorable by all, virtuous, complete, BrShmana visible at will and Brahmana invisible at will. You yourself are the form of Prakrti, you are Prakfti and beyond Prakrti. Therefore even Ananta is unable to recite your glory with a thousand of his mouths.

Similarly Siva with five faces, Brahma with four faces, Sarasvall and myself cannot recite your glory. Even the four Vedas are unable to do so, what to speak of those well-versed in the Thus the lord of the gods, Visnu the husband of Rama, after offering prayers to Ganesa with the gods and the sages kept quiet.

ufiRTn?! -RcRi 'g^i O sage, whosoever recites the stotra of Ganesa composed by Visnu in the morning, noon and evening, all his obstructions vanish at the instance of lord Ganesa. There is an all-round increase in the welfare of such a person and he always meets with prosperity. The one who recites the stotra with devotion during the journey, always meets with success. There is no doubt about it.

The bad dreams witnessed by him turn into good dreams and he never suffers from pain in the household.

O son of Surya, the entire kingdom can be given away, the head can be given away and even the life can be given away but the knowledge of such a kavaca cannot be imparted to anyone even when one's life is in danger.

By reciting this kavaca ten lakhs of times, one meets with success and whosoever gets success in the kavaca, becomes competent even to over¬ power death. With the achieving of the success with this kavaca, a person becomes truthful, enjoys a long life and becomes victorious on earth. He gets adorable with the earring of O so, with the influence of whose illusion, one is relieved of everything, such a Ganesa having only one tusk is eternal and this kavaca belongs It is adored and eulogised always in such kalpa and even the sages adore it even before their birth.

With the reciting of mula-mantra and with the holding of the auspicious kavaca all the sins of a The goblins, pretas, Pisdcas, Kusmandas, Bhairavas, Bdlagraha, the planet, Ksetra-palas and all other evil spirits run away in panic.

As I take to human form in every incarnation, similarly Ganesa is bom from the womb of In the land of Bharata, the sages are freed from life after holding this kavaca and the gods fearlessly destroy their enemies. Those who wear this kavaca, the death does not approach them feeling panicky. His life is not spent uselessly and he does not meet with any mdsfortune or defeat in the universe.

As thus snakes cannot approach Gamda, similarly fears, grief and pain do not approach such a person.

Therefore the knowledge of this kavaca should be imparted to a devoted pupil by the teacher but should not be imparted to a wicked pupil because, by doing so, one attracts death.

This is a kavaca which attracts the entire universe, has Prajdpati as the Rsi, Brhatf as chanda (metre), Lambodara as the god and it st dMl«w this mantra should protect my cheeks.

should protect my shoulders, arf ^^r5T this mantra should protect my back, ait this mantra should protect my chest.

The mantra which removes the obstructions should protect my hands, feet, aid all the limbs always. Lambodara should protect the eastern directions, Vighnanayaka should protect the south-east, Vighnesa should protect the south¬ east and should be protected by Gajanana, the western direction should be protected by the son of Parvatl, the north-western direction should be protected by the complete ray of Krsna. The north-east direction should be protected by Ekdanta, the upper regions should be protected by Heramba and the lower direction should be protected by the leader of ganas. All the directions should be protected by one adorable by all and the position of sleeping or remaining awake should be protected by the teacher of the O son, this is quite an astonishing kavaca which attracts the universe and I have told the same to you. This is the personification of all the O son of SQrya, in the earlier times, in the

Goloka of lord Kfsna and the Rasamaridala in the Vpidavana, this kavaca was given to a humble person like me, the knowledge of which I have imparted to you today. Therefore don't part with the same to anyone. This is the best of all, adorable by all and protects one from all the After adoring the teacher in a proper maimer, whosoever ties this kavaca on the right arm, becomes like Visnu, there is no doubt about it.

O lord of the planets, the performing of a thousand Asvamedha sacrifices and a hundred Vdjpeya-yajnas cannot be compared with even the sixteenth ray of this kavaca.

Whosoever adores Ganesa without knowing about this kavaca, cannot achieve success even after reciting the same for a hundred lakh of The lord of the universe after imparting the knowledge of kavaca to Saturn, the son of Surya, the knowledge of this kavaca which could

Chapter-aligned complete witnesses. Sanskrit Wikisource revision 410841 (2025-12-01T17:13:10Z); Shanti Lal Nagar English scan pages n655–n663: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n655/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.