Gaṇapati-khaṇḍa · Chapter 6
Sourceशौनक उवाच ।। नारायणवचः श्रुत्वा नारदो हृष्टमानसः ।। किं पप्रच्छ पुनः साधो तन्मे ब्रूहि तपोधन ।। १ ।। सूत उवाच ।। नारायणवचः श्रुत्वा नारदो हृष्टमानसः ।। व्रतारम्भविधानं च संप्रष्टुमुपचक्रमे ।। ।। २ ।। नारद उवाच ।। कृतं केन प्रकारेण व्रतमेतच्छुभावहम्।। तन्मे ब्रूहि मुनिश्रेष्ठ पार्वत्या भर्तुराज्ञया ।।३।। ललाभ जन्म भूतेशः कृते सुव्रतया व्रते ।। ब्रह्मन्केन प्रकारेण तन्नः शंसितुमर्हसि ।। ४ ।। नारायण उवाच।। कथयित्वा कथां दिव्यां विधानं च व्रतस्य च ।। स्वयं विधाता तपसां जगाम तपसे शिवः ।। ५ ।। हरेराराधनव्यग्रो मूर्त्तिभेदधरो हरिः ।। हरिभावनशीलश्च हरिध्यानपरायणः ।। ।। ६ ।। परमानन्दपूर्णश्च ज्ञानानन्दः सनातनः ।। दिवानिशं न जानाति हरिमन्त्रं बहिः स्मरन् ।। ७ ।। प्रहृष्टमनसा देवी पार्वती भर्तुराज्ञया ।। किङ्करान्प्रेरयामास विप्रांश्च व्रतहेतवे ।। ८ ।। आनीय सर्वद्रव्याणि व्रते योग्यानि यानि च।। व्रतं कर्तुं समारेभे शुभदा सा शुभे क्षणे ।। ९ ।। सनत्कुमारो भगवानाजगाम विधेः सुतः ।। मूर्त्तिमांस्तेजसा राशिः प्रज्वलन्ब्रह्मतेजसा ।।१०।। ब्रह्माऽऽजगाम हृष्टश्च ब्रह्मलोकात्सभार्य्यकः ।। अतित्रस्तो हि भगवानाजगाम महेश्वरः ।। ११ ।। विष्णुः क्षीरोदशायी च सलक्ष्मीकश्चतुर्भुजः ।। भगवाञ्जगतां पाता शास्ता भर्त्ता सपार्षदः ।। १२ ।। वनमालाधर श्यामो भूषितो रत्नभूषणैः ।। तथा सम्भृतसम्भारो रत्नयानेन नारद ।। १३ ।। सनकश्च सनन्दश्च कपिलश्च सनातनः ।। आसुरिश्च क्रतुर्हंसो वोढुः पञ्चशिखोऽरुणिः ।। १४ ।। यतिश्च सुमतिश्चैव वसिष्ठश्च सहानुगः ।। पुलहश्च पुलस्त्यश्चाप्यत्रिश्च भृगुरंगिराः ।। १५ ।। अगस्त्यश्च प्रचेताश्च दुर्वासाश्च्यवनस्तथा ।। मरीचिः कश्यपः कण्वो जरत्कारुश्च गौतमः ।। १६ ।। बृहस्पतिरुतथ्यश्च संवर्तः सौभरिस्तथा ।। जाबालिर्जमदग्निश्च जैगीषव्यश्च देवलः ।। ।। १७ ।। गोकामुखो वक्ररथः पारिभद्रः पराशरः ।। विश्वामित्रो वामदेव ऋष्यशृंगो विभाण्डकः ।। १८ ।। मार्कण्डेयो मृकण्डुश्च पुष्करो लोमशस्तथा ।। कौत्सो वत्सश्च दक्षश्च बालाग्निरघमर्षणः ।। १९ ।। कात्यायनः कणादश्च पाणिनिः शाकटायनः ।। शंकुरापिशलिश्चैव शाकल्यः शङ्ख एव च ।। २० ।। एते चान्ये च बहवः सशिष्या मुनयो मुने ।। आवां च धर्म्मपुत्रौ च नरनारायणौ समौ ।। २१ ।। दिक्पालाश्च तथा देवा यक्षगन्धर्वकिन्नराः ।। आजग्मुः पर्वताः सर्वे सगणाः पार्वतीव्रते ।। २२ ।। हिमालयः शैलराजः सापत्यश्च सभार्यकः ।। सगणः सानुगश्चैव रत्नभूषणभूषितः ।। २३ ।। तथा सम्भृतसम्भारो नानाद्रव्यसमन्वितः ।। मणि माणिक्यरत्नानि व्रते योग्यानि यानि च ।। २४ ।। नानाप्रकारवस्तूनि जगत्यां दुर्लभानि च ।। लक्षं च गजरत्नानामश्वरत्नं त्रिलक्षकम् ।। २९ ।। दशलक्षं गवां रत्नं शतलक्षं सुवर्णकम् ।। रुचकानां हीरकाणां स्पर्शानां च तथैव च ।। २६ ।। मुक्तानां च चतुर्लक्षं कौस्तुभानां सहस्रकम् ।। सुस्वादुनानाद्रव्याणां लक्षभाराणि कौतुकी ।। अनन्तरत्नप्रभव आजगाम सुताव्रते ।।२७।। ब्राह्मणा मनवः सिद्धा नागा विद्याधरास्तथा ।। संन्यासिनो भिक्षुकाश्च बन्दिनः पार्वतीव्रते ।। २८ ।। विद्याधरी नर्तकी च नर्त्तकाऽप्सरसां गणाः ।। नानाविधा वाद्यभाण्डा आजग्मुः शिवमन्दिरम् ।। २९ ।। कैलासराजमार्गं च चन्दनेन सुसंस्कृतम् ।। आम्रपल्लवसूत्राढ्यं कदलीस्तम्भशोभितम् ।। ३० ।। दूर्वाधान्यफलैः पर्णलाजपुष्पैर्विभूषितम् ।। निर्मितं पद्मरागेण ददृशुस्ते गणा मुदा ।। ३१ ।। उच्चैः सिंहासनेष्वेते पूजिताः शङ्करेण च ।। कैलासवासिनः सर्वे परमानन्दसंयुताः ।। ३२ ।। दानाध्यक्षः शुनासीरः कुबेरः कोशरक्षकः ।। आदेष्टा च स्वयं सूर्य्यः परिवेष्टा जलाधिपः ।। ३३ ।। दध्नां नद्यः सहस्राणि दुग्धानां च तथैव च ।। सहस्राणि घृतानां च गुडानां च शतानि च ।। ३४ ।। माध्वीकानां सहस्राणि तैलानां च शतानि च ।। लक्षाणि चैव तक्राणां बभूवुः पार्वतीव्रते ।।३५।। पीयूषाणां च कुम्भानि शतलक्षाणि नारद ।। मिष्टान्नानां शर्कराणां बभूवुर्लक्षराशयः ।। यवगोधूमचूर्णानां घृताक्तानां च नारद ।। ३६ ।। स्वस्तिकानां च पूर्णानां बभूवुर्लक्षराशयः ।। गुडसंस्कृतलाजानां बभूवुः कोटिराशयः।।३७।। शालीनां पृथुकानां च राशीनां दशकोटयः।। वरतण्डुलराशीनां मुने संख्या न विद्यते ।। ३८ ।। स्वर्णरौप्यप्रवालानां मणीनां च महामुने ।। बभूवुः पर्वतास्तत्र कैलासे पार्वती व्रते ।। ३९ ।। पायसं पिष्टकं चैव शाल्यन्नं सुमनोहरम् ।। चकार लक्ष्मीः पाकं च व्यञ्जनं घृतसंस्कृतम् ।। ४० ।। बुभुजे देवर्षिगणैः शिवो नारायणेन च ।। बभूवुर्लक्षविप्राश्च परिवेषणकारकाः ।। ४१ ।। ताम्बूलं च ददौ तेभ्यः कर्पूरादिसुवासितम् ।। रत्नसिंहासनस्थेभ्यो विप्रलक्षाः सुदक्षकाः ।। ४२ ।। रत्नसिंहासनस्थं च विष्णुं क्षीरोदशायिनम् ।। सेव्यमानं पार्षदैश्च सस्मितैः श्वेतचामरैः ।। ४३ ।। ऋषिभिः स्तूयमानं च सिद्धैर्देवगणैस्तथा ।। विद्याधरीणां नृत्यानि पश्यन्तं सस्मितं मुदा ।। ४४ ।। गन्धर्वाणां च संगीतं श्रुतवन्तं मनोहरम् ।। पप्रच्छ शङ्करो ब्रह्मन्ब्रह्मेशं प्रीतिपूर्वकम् ।। ४८५ ।। ब्रह्मणा प्रेरितो युक्तं व्रतं कर्त्तव्यमीप्सितम् ।। देवर्षिगणपूर्णायां सभायां संपुटाञ्जलिः ।। ४६ ।। श्रीमहादेव उवाच ।। मदीयं वचनं नाथ श्रीनिवास शृणु प्रभो ।। तपस्स्वरूप तपसां कर्मणां च फलप्रद ।। ४७ ।। व्रतानां जपयज्ञानां पूजानां सर्वपूजित ।। सर्वेषां बीजरूपेण वाञ्छाकल्पतरो हरे ।। ४८।। सुपुण्यं च व्रतं कर्त्तुं ब्रह्मन्निच्छति पार्वती ।। पुत्रार्थिनी सा शोकार्त्ता हृदयेन विदूयता ।। ४९ ।। रतिभंगे कृते देवैर्व्यर्थवीर्य्यशुचार्दिता ।। प्रबोधिता मया साध्वी विविधैर्वचनामृतैः ।। ५० ।। सत्पुत्रं स्वामिसौभाग्यं सुव्रता याचते व्रते ।। ताभ्यां विना न सन्तुष्टा स्वप्राणांस्त्यक्तुमिच्छति ।। ५१ ।। पुरा त्यक्त्वा स्वदेहं च पितृयज्ञे च मानिनी ।। मन्निन्दया हिमवति पुनर्जन्म ललाभ सा ।। ५२ ।। सर्वं जानासि वृत्तान्तं सर्वज्ञं त्वां वदामि किम् ।। दीनां तां वद तत्त्वज्ञ परिणामशुभप्रदाम् ।। ५३ ।। दुर्निवार्य्यश्च सर्वेश स्त्रीस्वभावश्च चापलः।। दुस्त्यज्यं योगिभिः सिद्धैरस्माभिश्च तपस्विभिः ।। ५४ ।। जितेन्द्रियैर्जितक्रोधैः स्त्रीरूपं मोहकारणम् ।। सर्वमायाकरण्डं च कामवर्द्धनकारणम् ।। ५५ ।। ब्रह्मास्त्रं कामदेवस्य दुर्भेद्यं जयकारणम् ।। सुनिर्मितं च विधिना सर्वाद्यं विधिपूर्वकम् ।। ५६ ।। मोक्षद्वारकपाटं च हरिभक्तिनिरोधनम् ।। संसारबन्धनस्तम्भरज्जुरूपमकृन्तनम् ।। ५७ ।। वैराग्यनाशबीजं च शश्वद्रागविवर्द्धनम् ।। पत्तनं साहसानां च दोषाणामालयं सदा ।। ५८ ।। अप्रत्ययानां क्षेत्रं च स्वयं कपटमूर्तिमत् ।। अहङ्काराश्रयं शश्वद्विषकुम्भं सुधामुखम् ।। ५९ ।। सर्वैरसाध्यमानं च दुराराध्यं च सर्वदा ।। स्वकार्य्यसाध्याचाराढ्यं कलहांकुरकारणम् ।। ६० ।। सर्वं निवेदितं ब्रह्मन्कर्त्तव्यं वक्तुमर्हसि ।। कार्य्यं सर्वं परामर्शे परिणामसुखावहम् ।। ६१ ।। श्रीनारायण उवाच ।। इत्येवमुक्त्वा भगवान्निरीक्ष्य ब्रह्मणो मुखम् ।। विरराम सभामध्ये स्तुत्वा च कमलापतिम् ।। ६२ ।। शङ्करस्य वचः श्रुत्वा प्रहस्य जगदीश्वरः ।। हितं च नीतिवचनं प्रवक्तुमुपचक्रमे ।। ६३ ।। श्रीविष्णुरुवाच ।। सुपुण्यकव्रतं सारं सतीसन्तानहेतवे ।। स्वामिसौभाग्यबीजं च पत्नी ते कर्तुमिच्छति ।। ६४ ।। सर्वासाध्यं दुराराध्यं सर्वकामफलप्रदम् ।। सुखदं सुखसारं च मोक्षदं पार्वतीश्वर ।। ६९ ।। आत्मा साक्षिस्वरूपश्च ज्योतीरूपः सनातनः ।। निराश्रयश्च निर्लिप्तो निरुपाधिर्निरामयः ।। ६६ ।। भक्तप्राणश्च भक्तेशो भक्तानुग्रहकारकः।। दुराराध्यो हि योऽन्येषां भक्तानामतिसाधकः ।। ६७ ।। भक्त्यधीनो हि भगवान्सर्वसिद्धो हि निष्फलः ।। ते यस्य च कलाः पुंसो ब्रह्मविष्णुमहेश्वराः ।। ६८ ।। महान्विराड्यदंशश्च निर्लिप्तः प्रकृतेः परः ।। अव्ययो निग्रहश्चोग्रो भक्तानुग्रहविग्रहः ।। ६९ ।। उग्रग्रहो ग्रहाणां च ग्रहनिग्रहकारकः। त्रिकोटिजन्ममध्ये च न साध्यो भवता विना ।। ७० ।। लब्धवा हि भारते जन्म हरिभक्तिं लभेन्नरः ।। सेवनं क्षुद्रदेवानां कृत्वा सप्तसु जन्मसु ।। ७१ ।। सूर्य्यमन्त्रमवाप्नोति केवलं स तदाशिषा ।। सूर्य्यमन्त्रं समाराध्य त्रिषु जन्मसु भारते ।। ७२ ।। प्राप्नोति शैवं मन्त्रं च सर्वदं मानवो मुदा ।। संसेव्य परया भक्त्या त्वामेवं सप्तजन्मसु ।। ७३ ।। प्राप्नोति मायामन्त्रं च त्वत्पदाब्जप्रसादतः ।। शतं जन्मसु चाराध्य मायां नारायणीं पराम् ।। ७४ ।। नारायणकलां सेव्यां समवाप्नोति मानवः ।। कलां निषेव्य वर्षेऽत्र पुण्यक्षेत्रे सुदुर्लभे ।। ७५ ।। कृष्णभक्तिमवाप्नोति भक्तसंसर्गहैतुकीम् ।। संप्राप्य भक्तिं निष्पक्वां भ्रामंभ्रामं च भारते ।। ७६ ।। प्राप्नोति परिपक्वां च भक्तिं भक्तनिषेवया ।। तदा भक्तप्रसादेन देवानामाशिषा शिव ।। श्रीकृष्णमन्त्रं प्राप्नोति निर्वाणफलदं परम् ।। ७७ ।। कृष्णव्रतं कृष्णमन्त्रं सर्वकामफलप्रदम् ।। कृष्णतुल्यो भवेद्भक्तश्चिरं कृष्णनिषेवया ।। ७८ ।। महति प्रलये पातः सर्वेषां वै सुनिश्चितम् ।। न पातः कृष्णभक्तानां साधूनामविनाशिनाम् ।। ७९ ।। अविनाशिनि गोलोके मोदन्ते कृष्णकिंकराः ।। हसन्ति ते सुनिश्चिन्ता देवान्ब्रह्मादिकाञ्छिव ।।८० ।। त्वं संहर्त्ता च सर्वेषां न भक्तानां महेश्वर ।। माया मोहयते सर्वान्भक्तान्न कृपया मम ।। ८१ ।। माया नारायणी माता सर्वेषां कृष्णभक्तिदा ।। न कृष्णभक्तिं प्राप्नोति विना मायानिषेवणम् ।। ८२ ।। सा च नारायणी माया मूलप्रकृतिरीश्वरी ।। कृष्णप्रिया कृष्णभक्ता कृष्णतुल्याऽविनाशिनी ।। ८३ ।। सा च तेजस्स्वरूपा च स्वेच्छाविग्रहधारिणी ।। आविर्भूता च देवानां तेजसाऽसुरनिग्रहे ।। ८४ ।। निहत्य दैत्यसंघांश्च दक्षपत्न्यां च भारते ।। ललाभ दक्षस्तपसा जन्म चानेकजन्मनः ।। ।। ८५ ।। त्यक्त्वा देहं पितुर्यज्ञे सा सती तव निन्दया ।। जगाम देवी गोलोकं कृष्णशक्तिः सनातनी ।। ८६ ।। गृहीत्वा विग्रहं तस्या गुणरूपाश्रय परम् ।। भ्रामंभ्रामं भारते त्वं विषण्णोऽभूः पुरा हर ।। ८७ ।। प्रबोधितो मया त्वं च श्रीशैलेषु सरित्तटे ।। ललाभ जन्म सा शैलकान्तायामचिरेण च ।। ८८ ।। करोतु पुण्यकं साध्वी सुव्रता सुव्रतं शिवा ।। राजसूयसहस्राणां पुण्यं शंकर पुण्यके ।। ८९ ।। राजसूयसहस्राणां व्रते यत्र धनव्ययः ।। न साध्यं सर्वसाध्वीनां व्रतमेतत्त्रिलोचन ।। ९० ।। स्वयं भूतेशनाथस्त्वं पुण्यकस्य प्रभावतः ।। पार्वतीगर्भजातश्च वरः पुत्रो भविष्यति ।। ९१ ।। स्वयं देवगणानां स यस्मादीशः कृपानिधिः ।। गणेश इति विख्यातो भविष्यति जगत्त्रये।।९२।। यस्य स्मरणमात्रेण विघ्ननाशो भवेद्ध्रुवम्।। जगतां हेतुनाऽनेन विघ्ननिघ्नाभिधो विभुः ।।९३।। नानाविधानि द्रव्याणि यस्माद्देयानि पुण्यके।। भुक्त्वा लम्बोदरत्वं च तेन लम्बोदरः स्मृतः।।९४।। शनिदृष्ट्या शिरश्छेदाद्गजवक्त्रेण योजितः ।। गजाननः शिशुस्तेन सर्वेषां सर्वसिद्धिदः ।।९९।। दन्तभङ्गः परशुना पर्शुरामस्य वै यतः ।। हेतुना तेन विख्यातश्चैकदन्ताभिधः शिशुः ।। ९६ ।। पूज्यश्च सर्वदेवानामस्माकं जगतां विभुः ।। सर्वाग्रे पूजनं तस्य भविता मद्वरेण वै ।। ९७ ।। पूजासु सर्वदेवानामग्रे संपूज्य तं जनः ।। पूजाफलमवाप्नोति निर्विघ्नेन वृथाऽन्यथा ।। ९८ ।। गणेशं च दिनेशं च विष्णुं शम्भुं हुताशनम् ।। दुर्गामेतान्सन्निषेव्य पूजयेद्देवतान्तरम् ।। ९९ ।। गणेशपूजने विघ्नं निर्मूलं जगतां भवेत् ।। निर्व्याधिः सूर्य्यपूजायां शुचिः श्रीविष्णुपूजने ।। १०० ।। मोक्षश्च पापनाशश्च यशश्चैश्वर्यमुत्तमम् ।। तत्त्वज्ञानं सुतृप्तीनां बीजं शंकरपूजनात् ।। १०१ ।। स्वबुद्धिशुद्धिजननं कीर्त्तितं वह्निपूजनम् ।। विधिसंस्कृतवह्नेस्तु पूजातो ज्ञानतो मृतिः ।। १०२।। दाता भोक्ता च भवति शंकराग्निनिषेवणात् ।। हरिभक्तिप्रदं चैव परं दुर्गार्च्चनं शिवम् ।। १०३ ।। विपरीतं त्रिजगतामेतेषां पूजनं विना ।। एवं क्रमो महादेव कल्पे कल्पेऽस्ति निश्चितम् ।। १०४ ।। एते शश्वद्विद्यमाना नित्याः सृष्टिपरायणाः ।। आविर्भावतिरोभावौ चैतेषामीश्वरेच्छया ।। ।। १०५ ।। इत्युक्त्वा श्रीहरिस्तत्र विरराम सभातले ।। प्रहृष्टा देवता विप्राः पार्वत्या सह शंकरः ।। १०६ ।। इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणेशखण्डे नारदनारायणसंवादे व्रताज्ञाग्रहणं नाम षष्ठोऽध्यायः ।। ६ ।।
śaunaka uvāca || nārāyaṇavacaḥ śrutvā nārado hṛṣṭamānasaḥ || kiṃ papraccha punaḥ sādho tanme brūhi tapodhana || 1 || sūta uvāca || nārāyaṇavacaḥ śrutvā nārado hṛṣṭamānasaḥ || vratārambhavidhānaṃ ca saṃpraṣṭumupacakrame || || 2 || nārada uvāca || kṛtaṃ kena prakāreṇa vratametacchubhāvaham|| tanme brūhi muniśreṣṭha pārvatyā bharturājñayā ||3|| lalābha janma bhūteśaḥ kṛte suvratayā vrate || brahmankena prakāreṇa tannaḥ śaṃsitumarhasi || 4 || nārāyaṇa uvāca|| kathayitvā kathāṃ divyāṃ vidhānaṃ ca vratasya ca || svayaṃ vidhātā tapasāṃ jagāma tapase śivaḥ || 5 || harerārādhanavyagro mūrttibhedadharo hariḥ || haribhāvanaśīlaśca haridhyānaparāyaṇaḥ || || 6 || paramānandapūrṇaśca jñānānandaḥ sanātanaḥ || divāniśaṃ na jānāti harimantraṃ bahiḥ smaran || 7 || prahṛṣṭamanasā devī pārvatī bharturājñayā || kiṅkarānprerayāmāsa viprāṃśca vratahetave || 8 || ānīya sarvadravyāṇi vrate yogyāni yāni ca|| vrataṃ kartuṃ samārebhe śubhadā sā śubhe kṣaṇe || 9 || sanatkumāro bhagavānājagāma vidheḥ sutaḥ || mūrttimāṃstejasā rāśiḥ prajvalanbrahmatejasā ||10|| brahmā''jagāma hṛṣṭaśca brahmalokātsabhāryyakaḥ || atitrasto hi bhagavānājagāma maheśvaraḥ || 11 || viṣṇuḥ kṣīrodaśāyī ca salakṣmīkaścaturbhujaḥ || bhagavāñjagatāṃ pātā śāstā bharttā sapārṣadaḥ || 12 || vanamālādhara śyāmo bhūṣito ratnabhūṣaṇaiḥ || tathā sambhṛtasambhāro ratnayānena nārada || 13 || sanakaśca sanandaśca kapilaśca sanātanaḥ || āsuriśca kraturhaṃso voḍhuḥ pañcaśikho'ruṇiḥ || 14 || yatiśca sumatiścaiva vasiṣṭhaśca sahānugaḥ || pulahaśca pulastyaścāpyatriśca bhṛguraṃgirāḥ || 15 || agastyaśca pracetāśca durvāsāścyavanastathā || marīciḥ kaśyapaḥ kaṇvo jaratkāruśca gautamaḥ || 16 || bṛhaspatirutathyaśca saṃvartaḥ saubharistathā || jābālirjamadagniśca jaigīṣavyaśca devalaḥ || || 17 || gokāmukho vakrarathaḥ pāribhadraḥ parāśaraḥ || viśvāmitro vāmadeva ṛṣyaśṛṃgo vibhāṇḍakaḥ || 18 || mārkaṇḍeyo mṛkaṇḍuśca puṣkaro lomaśastathā || kautso vatsaśca dakṣaśca bālāgniraghamarṣaṇaḥ || 19 || kātyāyanaḥ kaṇādaśca pāṇiniḥ śākaṭāyanaḥ || śaṃkurāpiśaliścaiva śākalyaḥ śaṅkha eva ca || 20 || ete cānye ca bahavaḥ saśiṣyā munayo mune || āvāṃ ca dharmmaputrau ca naranārāyaṇau samau || 21 || dikpālāśca tathā devā yakṣagandharvakinnarāḥ || ājagmuḥ parvatāḥ sarve sagaṇāḥ pārvatīvrate || 22 || himālayaḥ śailarājaḥ sāpatyaśca sabhāryakaḥ || sagaṇaḥ sānugaścaiva ratnabhūṣaṇabhūṣitaḥ || 23 || tathā sambhṛtasambhāro nānādravyasamanvitaḥ || maṇi māṇikyaratnāni vrate yogyāni yāni ca || 24 || nānāprakāravastūni jagatyāṃ durlabhāni ca || lakṣaṃ ca gajaratnānāmaśvaratnaṃ trilakṣakam || 29 || daśalakṣaṃ gavāṃ ratnaṃ śatalakṣaṃ suvarṇakam || rucakānāṃ hīrakāṇāṃ sparśānāṃ ca tathaiva ca || 26 || muktānāṃ ca caturlakṣaṃ kaustubhānāṃ sahasrakam || susvādunānādravyāṇāṃ lakṣabhārāṇi kautukī || anantaratnaprabhava ājagāma sutāvrate ||27|| brāhmaṇā manavaḥ siddhā nāgā vidyādharāstathā || saṃnyāsino bhikṣukāśca bandinaḥ pārvatīvrate || 28 || vidyādharī nartakī ca narttakā'psarasāṃ gaṇāḥ || nānāvidhā vādyabhāṇḍā ājagmuḥ śivamandiram || 29 || kailāsarājamārgaṃ ca candanena susaṃskṛtam || āmrapallavasūtrāḍhyaṃ kadalīstambhaśobhitam || 30 || dūrvādhānyaphalaiḥ parṇalājapuṣpairvibhūṣitam || nirmitaṃ padmarāgeṇa dadṛśuste gaṇā mudā || 31 || uccaiḥ siṃhāsaneṣvete pūjitāḥ śaṅkareṇa ca || kailāsavāsinaḥ sarve paramānandasaṃyutāḥ || 32 || dānādhyakṣaḥ śunāsīraḥ kuberaḥ kośarakṣakaḥ || ādeṣṭā ca svayaṃ sūryyaḥ pariveṣṭā jalādhipaḥ || 33 || dadhnāṃ nadyaḥ sahasrāṇi dugdhānāṃ ca tathaiva ca || sahasrāṇi ghṛtānāṃ ca guḍānāṃ ca śatāni ca || 34 || mādhvīkānāṃ sahasrāṇi tailānāṃ ca śatāni ca || lakṣāṇi caiva takrāṇāṃ babhūvuḥ pārvatīvrate ||35|| pīyūṣāṇāṃ ca kumbhāni śatalakṣāṇi nārada || miṣṭānnānāṃ śarkarāṇāṃ babhūvurlakṣarāśayaḥ || yavagodhūmacūrṇānāṃ ghṛtāktānāṃ ca nārada || 36 || svastikānāṃ ca pūrṇānāṃ babhūvurlakṣarāśayaḥ || guḍasaṃskṛtalājānāṃ babhūvuḥ koṭirāśayaḥ||37|| śālīnāṃ pṛthukānāṃ ca rāśīnāṃ daśakoṭayaḥ|| varataṇḍularāśīnāṃ mune saṃkhyā na vidyate || 38 || svarṇaraupyapravālānāṃ maṇīnāṃ ca mahāmune || babhūvuḥ parvatāstatra kailāse pārvatī vrate || 39 || pāyasaṃ piṣṭakaṃ caiva śālyannaṃ sumanoharam || cakāra lakṣmīḥ pākaṃ ca vyañjanaṃ ghṛtasaṃskṛtam || 40 || bubhuje devarṣigaṇaiḥ śivo nārāyaṇena ca || babhūvurlakṣaviprāśca pariveṣaṇakārakāḥ || 41 || tāmbūlaṃ ca dadau tebhyaḥ karpūrādisuvāsitam || ratnasiṃhāsanasthebhyo vipralakṣāḥ sudakṣakāḥ || 42 || ratnasiṃhāsanasthaṃ ca viṣṇuṃ kṣīrodaśāyinam || sevyamānaṃ pārṣadaiśca sasmitaiḥ śvetacāmaraiḥ || 43 || ṛṣibhiḥ stūyamānaṃ ca siddhairdevagaṇaistathā || vidyādharīṇāṃ nṛtyāni paśyantaṃ sasmitaṃ mudā || 44 || gandharvāṇāṃ ca saṃgītaṃ śrutavantaṃ manoharam || papraccha śaṅkaro brahmanbrahmeśaṃ prītipūrvakam || 485 || brahmaṇā prerito yuktaṃ vrataṃ karttavyamīpsitam || devarṣigaṇapūrṇāyāṃ sabhāyāṃ saṃpuṭāñjaliḥ || 46 || śrīmahādeva uvāca || madīyaṃ vacanaṃ nātha śrīnivāsa śṛṇu prabho || tapassvarūpa tapasāṃ karmaṇāṃ ca phalaprada || 47 || vratānāṃ japayajñānāṃ pūjānāṃ sarvapūjita || sarveṣāṃ bījarūpeṇa vāñchākalpataro hare || 48|| supuṇyaṃ ca vrataṃ karttuṃ brahmannicchati pārvatī || putrārthinī sā śokārttā hṛdayena vidūyatā || 49 || ratibhaṃge kṛte devairvyarthavīryyaśucārditā || prabodhitā mayā sādhvī vividhairvacanāmṛtaiḥ || 50 || satputraṃ svāmisaubhāgyaṃ suvratā yācate vrate || tābhyāṃ vinā na santuṣṭā svaprāṇāṃstyaktumicchati || 51 || purā tyaktvā svadehaṃ ca pitṛyajñe ca māninī || mannindayā himavati punarjanma lalābha sā || 52 || sarvaṃ jānāsi vṛttāntaṃ sarvajñaṃ tvāṃ vadāmi kim || dīnāṃ tāṃ vada tattvajña pariṇāmaśubhapradām || 53 || durnivāryyaśca sarveśa strīsvabhāvaśca cāpalaḥ|| dustyajyaṃ yogibhiḥ siddhairasmābhiśca tapasvibhiḥ || 54 || jitendriyairjitakrodhaiḥ strīrūpaṃ mohakāraṇam || sarvamāyākaraṇḍaṃ ca kāmavarddhanakāraṇam || 55 || brahmāstraṃ kāmadevasya durbhedyaṃ jayakāraṇam || sunirmitaṃ ca vidhinā sarvādyaṃ vidhipūrvakam || 56 || mokṣadvārakapāṭaṃ ca haribhaktinirodhanam || saṃsārabandhanastambharajjurūpamakṛntanam || 57 || vairāgyanāśabījaṃ ca śaśvadrāgavivarddhanam || pattanaṃ sāhasānāṃ ca doṣāṇāmālayaṃ sadā || 58 || apratyayānāṃ kṣetraṃ ca svayaṃ kapaṭamūrtimat || ahaṅkārāśrayaṃ śaśvadviṣakumbhaṃ sudhāmukham || 59 || sarvairasādhyamānaṃ ca durārādhyaṃ ca sarvadā || svakāryyasādhyācārāḍhyaṃ kalahāṃkurakāraṇam || 60 || sarvaṃ niveditaṃ brahmankarttavyaṃ vaktumarhasi || kāryyaṃ sarvaṃ parāmarśe pariṇāmasukhāvaham || 61 || śrīnārāyaṇa uvāca || ityevamuktvā bhagavānnirīkṣya brahmaṇo mukham || virarāma sabhāmadhye stutvā ca kamalāpatim || 62 || śaṅkarasya vacaḥ śrutvā prahasya jagadīśvaraḥ || hitaṃ ca nītivacanaṃ pravaktumupacakrame || 63 || śrīviṣṇuruvāca || supuṇyakavrataṃ sāraṃ satīsantānahetave || svāmisaubhāgyabījaṃ ca patnī te kartumicchati || 64 || sarvāsādhyaṃ durārādhyaṃ sarvakāmaphalapradam || sukhadaṃ sukhasāraṃ ca mokṣadaṃ pārvatīśvara || 69 || ātmā sākṣisvarūpaśca jyotīrūpaḥ sanātanaḥ || nirāśrayaśca nirlipto nirupādhirnirāmayaḥ || 66 || bhaktaprāṇaśca bhakteśo bhaktānugrahakārakaḥ|| durārādhyo hi yo'nyeṣāṃ bhaktānāmatisādhakaḥ || 67 || bhaktyadhīno hi bhagavānsarvasiddho hi niṣphalaḥ || te yasya ca kalāḥ puṃso brahmaviṣṇumaheśvarāḥ || 68 || mahānvirāḍyadaṃśaśca nirliptaḥ prakṛteḥ paraḥ || avyayo nigrahaścogro bhaktānugrahavigrahaḥ || 69 || ugragraho grahāṇāṃ ca grahanigrahakārakaḥ| trikoṭijanmamadhye ca na sādhyo bhavatā vinā || 70 || labdhavā hi bhārate janma haribhaktiṃ labhennaraḥ || sevanaṃ kṣudradevānāṃ kṛtvā saptasu janmasu || 71 || sūryyamantramavāpnoti kevalaṃ sa tadāśiṣā || sūryyamantraṃ samārādhya triṣu janmasu bhārate || 72 || prāpnoti śaivaṃ mantraṃ ca sarvadaṃ mānavo mudā || saṃsevya parayā bhaktyā tvāmevaṃ saptajanmasu || 73 || prāpnoti māyāmantraṃ ca tvatpadābjaprasādataḥ || śataṃ janmasu cārādhya māyāṃ nārāyaṇīṃ parām || 74 || nārāyaṇakalāṃ sevyāṃ samavāpnoti mānavaḥ || kalāṃ niṣevya varṣe'tra puṇyakṣetre sudurlabhe || 75 || kṛṣṇabhaktimavāpnoti bhaktasaṃsargahaitukīm || saṃprāpya bhaktiṃ niṣpakvāṃ bhrāmaṃbhrāmaṃ ca bhārate || 76 || prāpnoti paripakvāṃ ca bhaktiṃ bhaktaniṣevayā || tadā bhaktaprasādena devānāmāśiṣā śiva || śrīkṛṣṇamantraṃ prāpnoti nirvāṇaphaladaṃ param || 77 || kṛṣṇavrataṃ kṛṣṇamantraṃ sarvakāmaphalapradam || kṛṣṇatulyo bhavedbhaktaściraṃ kṛṣṇaniṣevayā || 78 || mahati pralaye pātaḥ sarveṣāṃ vai suniścitam || na pātaḥ kṛṣṇabhaktānāṃ sādhūnāmavināśinām || 79 || avināśini goloke modante kṛṣṇakiṃkarāḥ || hasanti te suniścintā devānbrahmādikāñchiva ||80 || tvaṃ saṃharttā ca sarveṣāṃ na bhaktānāṃ maheśvara || māyā mohayate sarvānbhaktānna kṛpayā mama || 81 || māyā nārāyaṇī mātā sarveṣāṃ kṛṣṇabhaktidā || na kṛṣṇabhaktiṃ prāpnoti vinā māyāniṣevaṇam || 82 || sā ca nārāyaṇī māyā mūlaprakṛtirīśvarī || kṛṣṇapriyā kṛṣṇabhaktā kṛṣṇatulyā'vināśinī || 83 || sā ca tejassvarūpā ca svecchāvigrahadhāriṇī || āvirbhūtā ca devānāṃ tejasā'suranigrahe || 84 || nihatya daityasaṃghāṃśca dakṣapatnyāṃ ca bhārate || lalābha dakṣastapasā janma cānekajanmanaḥ || || 85 || tyaktvā dehaṃ pituryajñe sā satī tava nindayā || jagāma devī golokaṃ kṛṣṇaśaktiḥ sanātanī || 86 || gṛhītvā vigrahaṃ tasyā guṇarūpāśraya param || bhrāmaṃbhrāmaṃ bhārate tvaṃ viṣaṇṇo'bhūḥ purā hara || 87 || prabodhito mayā tvaṃ ca śrīśaileṣu sarittaṭe || lalābha janma sā śailakāntāyāmacireṇa ca || 88 || karotu puṇyakaṃ sādhvī suvratā suvrataṃ śivā || rājasūyasahasrāṇāṃ puṇyaṃ śaṃkara puṇyake || 89 || rājasūyasahasrāṇāṃ vrate yatra dhanavyayaḥ || na sādhyaṃ sarvasādhvīnāṃ vratametattrilocana || 90 || svayaṃ bhūteśanāthastvaṃ puṇyakasya prabhāvataḥ || pārvatīgarbhajātaśca varaḥ putro bhaviṣyati || 91 || svayaṃ devagaṇānāṃ sa yasmādīśaḥ kṛpānidhiḥ || gaṇeśa iti vikhyāto bhaviṣyati jagattraye||92|| yasya smaraṇamātreṇa vighnanāśo bhaveddhruvam|| jagatāṃ hetunā'nena vighnanighnābhidho vibhuḥ ||93|| nānāvidhāni dravyāṇi yasmāddeyāni puṇyake|| bhuktvā lambodaratvaṃ ca tena lambodaraḥ smṛtaḥ||94|| śanidṛṣṭyā śiraśchedādgajavaktreṇa yojitaḥ || gajānanaḥ śiśustena sarveṣāṃ sarvasiddhidaḥ ||99|| dantabhaṅgaḥ paraśunā parśurāmasya vai yataḥ || hetunā tena vikhyātaścaikadantābhidhaḥ śiśuḥ || 96 || pūjyaśca sarvadevānāmasmākaṃ jagatāṃ vibhuḥ || sarvāgre pūjanaṃ tasya bhavitā madvareṇa vai || 97 || pūjāsu sarvadevānāmagre saṃpūjya taṃ janaḥ || pūjāphalamavāpnoti nirvighnena vṛthā'nyathā || 98 || gaṇeśaṃ ca dineśaṃ ca viṣṇuṃ śambhuṃ hutāśanam || durgāmetānsanniṣevya pūjayeddevatāntaram || 99 || gaṇeśapūjane vighnaṃ nirmūlaṃ jagatāṃ bhavet || nirvyādhiḥ sūryyapūjāyāṃ śuciḥ śrīviṣṇupūjane || 100 || mokṣaśca pāpanāśaśca yaśaścaiśvaryamuttamam || tattvajñānaṃ sutṛptīnāṃ bījaṃ śaṃkarapūjanāt || 101 || svabuddhiśuddhijananaṃ kīrttitaṃ vahnipūjanam || vidhisaṃskṛtavahnestu pūjāto jñānato mṛtiḥ || 102|| dātā bhoktā ca bhavati śaṃkarāgniniṣevaṇāt || haribhaktipradaṃ caiva paraṃ durgārccanaṃ śivam || 103 || viparītaṃ trijagatāmeteṣāṃ pūjanaṃ vinā || evaṃ kramo mahādeva kalpe kalpe'sti niścitam || 104 || ete śaśvadvidyamānā nityāḥ sṛṣṭiparāyaṇāḥ || āvirbhāvatirobhāvau caiteṣāmīśvarecchayā || || 105 || ityuktvā śrīharistatra virarāma sabhātale || prahṛṣṭā devatā viprāḥ pārvatyā saha śaṃkaraḥ || 106 || iti śrībrahmavaivartte mahāpurāṇe tṛtīye gaṇeśakhaṇḍe nāradanārāyaṇasaṃvāde vratājñāgrahaṇaṃ nāma ṣaṣṭho'dhyāyaḥ || 6 ||
English translation
Permission for performing Punyaka Vrata Saunaka said - O sage, O mendicant, on hearing the words of NSrayana, Narada felt delightful and enquired about the performing of the vrata.
Narada said - O best of the sages accepting the command of the husband, how did Parvatl perform the vrata, you kindly tell me.
O BrShmana after completion of the vrata by Parvatl how could Kr?iia be bom out of her womb you kindly tell me.
Narayana said - Siva the creator of the tapas himself narrated the divine story about this vrata and the method of performing the same, after which he left the place, because he always remained anxious about performing the tapas of the lord. By taking to the form of the lord, he becomes Hari, he remains always engrossed in the devotion of Hari and as such he always adores Hari. He is blissful, all knowledgeable and eternal. By remaining engrossed in the reciting of the name of Hari, he becomes unmindful of day and night with the command of the husband. Parvatl performed this vrata with a pleasant mind and she inspired her attendants and Brahmanas for the purpose.
Parvatl who always bestows fortunes summoned all the essentials for performing the vrata and started the same in an auspicious time.
Sanatkumara, the son of Brahma, arrived there, who was shining with the divine lustre.
Brahma also delightfully arrived there with his wife and the great lord also arrived there.
The four-armed lord Visnu who dwells in the ocean of milk also arrived there. He is the preserver of the universe and controls it. He arrived there with his courtiers and Laksmi mounted on a plane. He was wearing a garland of forest flowers having the complexion of dark clouds, adorned with all the gem-studded ornaments and had all the materials with him.
O NSrada, thereafter, Sanaka, Sananda, Pancasikha, Aruni, Yati, Sumati, Vasistha with his disciples, Pulaha, Pulastya, Atri, Bhrgu, Apisali, Sakalya and Saihkha also arrived there.
O sage, besides the above several other sages also arrived there together with their disciples.
Both myself and the son of Dharma besides Nara-Narayana also arrived there.
In addition to the above the Dikpalas, the gods, the Yaksas, Gandharvas, Kinnaras and all the mountains also arrived there to participate in the vrata of Parvatl.
nldii'fl: grggra'ggT4gi:i Himalaya the king of the mountains arrived there together with his wife and children, adorned with all the ornaments and also carried various types of material like valuables, gems, rubies, jewels and several other things required for the vrata including a lakh of elephants, three lakhs of the best of horses, ten lakhs of cows, a hundred lakhs of gems and an equal number of gold, gold coins, gems, touch stones four lakhs of pearls, a thousand kaustubha-gems, besides delicious eatables which were a lakh in number.
Thus Himalaya, carrying all the gems with him arrived there to participate in the vrata of his In the vrata of Parvati many of the recluses, beggars and bards also arrived.
Vidyadharls, the female dancers, the male dancers, Apsaras and the persons who played on musical instruments, also arrived there.
At that point of time the kings way of Kailasa was decorated with sandal trees, mango leaves, tied in cords, trunks of the banana trees, Diirvd- grass, fried paddy, leaves and flowers, besides other scented materials. The invitees witnessed the same with interest.
Siva himself adored everyone and lodged them on high pedestals. All the dwellers of Kailasa were filled with ecstasy.
In the vrata, Indra acted as the lord of charity, Kubera acted as the lord of riches, SQrya issued all the commands, Vanina served the materials.
There were a thousand streams of curd, a thousand of streams of milk and ghee, a hundred streams of raw-sugar (guda), a thousand streams of beverages, a hundred streams of butter milk.
O Narada a hundred lakhs of vases of nectar, sweets and sugar were stored in a lakh of heaps.
O Narada, the flour of wheat and barley was also collected in the same quantity. A lakh of fried sweets, soaked in ghee and a lakh of balls of fried paddy mixed with guda were made There were ten crores of the preparation of fried rice. And the number of the rice preparations was beyond counting.
O great sage, in the vrata of Parvati, there were mountains of gold, silver and gems, all the sweet preparation including pay as am,, cooked rice and other vegetables were prepared by Laks Lord Narayana was taking his food together with Siva and all the gods, a lakh of Brahmanas were engaged in serving the food.
A lakh of clever Brahmanas were offering betels to the invitees who were seated on their O Brahmana, lord Visnu, the dweller of the ocean of milk, was seated on the gem-studded lion-throne. The courtiers were moving the white fly-whisks on the lord. The sages and siddhas besides the gods were reciting the prayers, the blissful lord wore a serene smile on his face while the VidyadharTs kept on dancing accompanied by music. At that point of time Siva at the instance of Brahma who was about to complete the vrata, asked Visnu in the court, which was killed by gods and the sages.
Mahadeva said - O lord, O Srinivasa, you are the form of tapas and also the one who bestows the result of the tapas. You kindly listen to my O lord, you are most adorable among the japam, yajnas and adorations. O Hari, you are a wish-fulfilling tree and the form of see for all. O Brahmana, Parvatl is desirous of a son and as such she intends to perform a Punyaka-vrata with her heart filled with grief.
The semen of Siva had been destroyed because of the disturbance caused by the gods.
She was very much worried. Thereafter, I spoke many nectar-like sweet words to the chaste lady and pacified her.
In this vrata she is desirous of having a son besides seeking for welfare of her husband. She cannot be happy without either of them. She is prepared to lay down her life.
In earlier times, the proud lady ended her life in the yajm of her father because of my denouncement there and she was reborn in the house of Himalaya.
O well-versed in the tattvas, you are all knowledgeable and are aware of all the stories; what can I speak to you? You let me know your command. You kindly speak out your command which will result in our welfare.
Because, O lord, of all the people, the nature of ladies is quite unstable and the mind of the ladies cannot be read properly by yogis, siddhas, Tapasvls, who have controlled their senses and anger. A woman is a cause of illusion and a bundle of passions.
Brahma had in earlier times created her to establish victory over Kamadeva.
She happens to be the door to moksa, an obstruction in the adoration of the lord, a cord binding one to the worldly bondage, the destroyer of Vairdgya, who increases the illusion always, the dwelling place for the courageous people, the one in whom all the ills reside, the field of deceitfulness, all deceitful, the refuge of arrogance. Her life is a vase of nectar with poison plastered on the neck of it. She is beyond the reach of everybody, beyond adoration, well- versed in establishing their own purpose and the seed for quarrel.
O Brahmana, I have spoken everything; now you kindly do something to accomplish my task, speaking the words which may be practical and result in pleasure.
Narayana said - Siva after thus speaking looked at the face of Brahma and praying in favour of lord Visnu he kept quiet. On hearing the words of Siva, lord Jagadlsvara smiled for a moment ar d spoke the words which were quite beneficial and appropriate.
said - Your chaste wife intends to perform the Supuriyaka-vrata for begetting a son who should be the essence of all.
O lord of Parvatl, this vrata is very difficult to accomplish and could be performed with great trouble and devotion. It bestows the results of all the desires, is quite pleasant and is the essence of all the pleasures and bestows salvation.
i Mlfr i ddrfvimii^?ii Sri Krsna is the lord of all, devoted to vratas and is adorable true vratas, beyond gunas, is lord of Goloka, complete Brahmana, everlasting, the great soul, witness of all, the form of flame, eternal, without any soiu'ce, iminvolved, devoid of any degrees, spotless, life of the devotees, lord of the devotees and the one who always remains merciftil towards the devotees. The things which to achieve by others, they can easily be achieved by his devotees. The lord is always controlled by his devotees. He accomplishes all the desires and is spotless. Brahma, Visriu and happen to be the rays of the same lord.
Mahavirat too happens to be his ray. He is uninvolved, beyond Prakrti, indestructible, all watchful, terrific, takes to any form to protect his devotees; he is the terrific of all the planets and controls them also. He cannot meet with success without you in three crores of births.
One achieves the devotion of the lord by taking birth in the sacred land of Bharata. By adoring small gods and getting their blessing one achieves the mantra of Surya. After adoring SUrya-mantra for three births he achieves for the first time the mantra of lord Siva. After serving at your feet for seven births and adoring you, he achieves the mayd-mantra by the grace of your lotus-like feet. Thereafter he adores the Narayanl-maya. I In this sacred land of Bharata which is difficult to get, by serving the ray of NarSyana, he achieves the devotion of lord Krsna which is achieved only by coming into contact with his Achieving the upright devotion he moves around in the company of the devotees of the lord and gets maturity. O ^iva at that point of time with the grace of the devotees and the gods, he achieves salvation by receiving the Krsna- The vrata of Kfsna as well as his mantra always bestows welfare. After serving the lord
for a long time, he becomes like Krsna himself.
During the time of dissolution, all the people vanish but those who are devotees of lord Krsna they become eternal and do not face destruction.
O Siva in this everlasting Goloka the attendants of lord Krsna always remain blissful and getting reassured they laugh at the gods like Brahma and others.
O Mahesvara, you destroy all except the devotees of the lord; the illusion can influence everyone but by my grace it does not influence my devotees.
The NarayanI illusion happens to be the mother of all and by serving the illusion one cannot achieve the devotion of lord Krsna.
The same illusion of Narayana is given the name of Mulaprakrti, IsVarl who is the beloved of lord Krsna, is devoted to him and is eternal like him.
She is the form of tejas and takes to human form at will; she was bom of the tejas of gods at the time of the war with the demons.
After killing the demons, she was bom in the house of Daksa who had performed great tapas for several births and she appeared as his daughter from his wife.
Thereafter the chaste lady listened to the denouncement of her husband in the yq/na of her father and ended her life. She then, as the eternal source of lord Krsna, went back to Goloka.
O Siva, you got upset and carrying the dead body of Sail on your shoulders wandered over the earth.
Thereafter on the Srisaila mountain, I made you realise your worth on the bank of the river.
Then after a short time the goddess was reborn as the daughter of Himalaya from his wife Mena.
Therefore, O Siva, the chaste lady and noble hearted Parvatl should surely perform the Punyaka-vrata because after performing the same, one gets the merit of performing a O three-eyed Siva, for performing a vrata if one has to spend wealth equivalent to performing of a thousand Rdjasuya-yajnas, the performing of such a vrata will be beyond the reach of all With the influence of the Punyaka-vrata, lord Krsna will be bom as your son from the womb of O merciful one, since you yourself are the lord of Vaisnavas he will be known by the name of Ganesa in the three worlds, by remembering whom all the obstmctions will disappear. He will, therefore, be called Vighnesvara in the In this Punyaka-vrata many things will have to be given in charity and because of consuming the same, he will be known as Lambodara.
At the glance of Sani his head will be severed and the head of an elephant will be planted on the tmnk and as such he will be known as Gajanana (elephant faced). One of his tusks will be cut-off by Parasurama and as such he will be known as Ekadanta (possessing one tusk only).
He will be adored by all the gods and the universe and because of my blessings he will be adored first of all. At the time of adoring the gods he will be adored first and whosoever does so he will be successful, otherwise he will have to face failure. Therefore after adoring Dinesa, Gariesa, Vis^iu, ^iva, Agni and Durga, all other gods should be adored thereafter.
By adoring Ganesa all the obstructions of the universe disappear. By adomig Surya one is freed from ailment, by adoring Visnu one gets purified and by adoring ^iva one gets mok?a and all his sins vanish. He achieves the best of glory, riches, divine knowledge and the seeds of beautiful tattvas.
It is treated that by adoring the lord Agni, the mind is purified. By adoring Agni properly, one By adoring Siva and Agni a person becomes the giver of alms and enjoys pleasures and the blissful adoration of Durga bestows the worship of the lord.
In all the three worlds performing any pujd without the adoration of these gods will be of no consequence. O Mahadeva such a practice had been in vogue in all the kalpas.
w?ra?T:ll?o'9tl They are the gods of the earth and always remain present on earth. They appear at the command of the lord and thereafter they Thus speaking in the court, lord Hari kept quiet and listening to the discourse of lord Vi§nu, all the gods, Brahmapas, Siva and Parvatl felt
Chapter-aligned complete witnesses. Sanskrit Wikisource revision 117453 (2017-08-08T14:31:28Z); Shanti Lal Nagar English scan pages n611–n619: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n611/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.