Brahma-khaṇḍa · Chapter 13
Sourceसौतिरुवाच ।। पुत्रोत्सवे च रत्नानि धनानि विविधानि च ।। गन्धर्वराजः प्रददौ ब्राह्मणेभ्यो मुदाऽन्वितः ।। १ ।। उपबर्हणस्तु कालेन हरेर्मन्त्रं सुदुर्लभम् ।। वसिष्ठेन तु सम्प्राप्य स चक्रे दुष्करं तपः ।। २ ।। एकदा गण्डकीतीरे तं च सम्प्राप्तयौवनम् ।। गन्धर्वपत्न्यो ददृशुर्मूर्च्छामापुश्च तत्क्षणम् ।। ३ ।। ताश्च तीव्रं तपः कृत्वा प्राणान्संत्यज्य योगतः ।। पञ्चाशत्ता बभूवुश्च कन्याश्चित्ररथस्य च ।। ४ ।। उपबर्हणगन्धर्वं ताश्च तं वव्रिरे पतिम् ।। मुदा माला ददुस्तस्मै कामुक्यः पितुराज्ञया ।। ५ ।। गृहीत्वा ताश्च गन्धर्वो युवा सुस्थिरयौवनः।। दिव्यं त्रिलक्षवर्षं च रेमे रहसि कामुकः ।।६।। ततोऽपि सुचिरं राज्यं कृत्वा ताभिः सहानिशम् ।। जगाम ब्रह्मणः स्थानं हरिगाथां जगौ मुने ।।७।। दृष्ट्वा स रम्भारम्भोरुनर्तने कठिनं स्तनम् ।। बभूव स्खलनं तस्य गन्धर्वस्य महात्मनः ।।८।। द्रुतं तत्याज सङ्गीतं मूर्च्छां प्राप सभातले ।। उच्चैः प्रजहसुर्देवा ब्रह्मा कोपाच्छशाप तम् ।। ९ ।। व्रज त्वं शूद्रयोनिं च गान्धर्वीं तनुमुत्सृज ।। काले वैष्णवसंसर्गान्मत्पुत्रस्त्वं भविष्यसि ।। ।। 1.13.१० ।। विना विपत्तेर्महिमा पुंसां नैव भवेत्सुत ।। सुखं दुःखं च सर्वेषां क्रमेण प्रभवेदिति ।। ११ ।। इत्येवमुक्त्वा स विधिरगच्छत्पुष्कराद् गृहम् ।। उपबर्हणगन्धर्वस्स जहौ तां तनुं तदा ।। १२ ।। मूलाधारं स्वाधिष्ठानं मणिपूरमनाहतम् ।। विशुद्धमाज्ञाख्यं चेति भित्त्वा षट्चक्रमेव च ।। १३ ।। इडां सुषुम्नां मेधां च पिङ्गलां प्राणहारिणीम् ।। सर्वज्ञानप्रदां चैव मनस्संयमिनीं तथा ।। १४ ।। विशुद्धां च निरुद्धां च वायुसंचारिणीं तथा ।। तेजश्शुष्ककरीं चैव बलपुष्टिकरीं तथा ।। १५ ।। बुद्धिसंचारिणीं चैव ज्ञानजृम्भनकारिणीम् ।। सर्वप्राणहरां चैव पुनर्जीवनकारिणीम् ।। १६ ।। एताः षोडशधा नाडीर्भित्त्वा वै हंसमेव च ।। मनसा सहितं ब्रह्मरन्ध्रमानीय योगतः ।। १७ ।। स्थित्वा मुहूर्तमात्मानमात्मन्येव युयोज ह ।। जातिस्मरश्च योगीन्द्रः संप्राप ब्रह्म शौनक ।। १८ ।। वीणां त्रितन्त्रीं दुष्प्राप्यां वामस्कन्धे निधाय च ।। शुद्धस्फटिकमालां च विधृत्वा दक्षिणे करे ।। १९ ।। संजल्पन्परमं ब्रह्म वेदसारं परात्परम् ।। परं निस्तारबीजं च कृष्ण इत्यक्षरद्वयम् ।। 1.13.२० ।। प्राच्यां कृत्वा शिरःस्थानं पश्चिमे चरणद्वयम् ।। निधाय दर्भशयने शयानः पुरुषो यथा ।। २१ ।। गन्धर्वराजस्तं दृष्ट्वा भार्य्यया सह तत्क्षणम् ।। योगेन ब्रह्म सम्प्राप श्रीकृष्णं मनसा स्मरन् ।। २२ ।। पत्न्यश्च बान्धवाः सर्वे विलप्य रुरुदुर्भुशम् ।। जग्मुः क्रमेण शोकार्त्ता मोहिता विष्णुमायया।।२३।। पञ्चाशद्योषितां मध्ये प्रधाना महिषी च या ।। साध्वी मालावती नाम्ना परमा प्रेयसी वरा ।। ।। २४ ।। उच्चै रुरोद सा तीव्रं कान्तं कृत्वा च वक्षसि ।। इत्युवाच च शोकार्त्ता कान्तं संबोध्य चैव हि ।। २५ ।। मालावत्युवाच ।। हे नाथ रमण श्रेष्ठ विदग्ध रसिकेश्वर ।। दर्शनं देहि मां बन्धो निमग्नां शोकसागरे ।। २६ ।। विस्रम्भके सुवसने रम्ये चन्दनकानने ।। पुष्पभद्रानदीतीरे पुष्पोद्याने मनोहरे ।। २७ ।। चन्दनाचलसान्निध्ये चारुचन्दनकानने ।। पुष्पचन्दनतल्पे च चन्दनानिलवासिते।।२८।। गन्धमादनशैलैकदेशे रम्ये नदीतटे ।। पुंस्कोकिलनिनादे च मालतीजालशालिनि।।२९।। श्रीशैले श्रीवने दिव्ये श्रीनिवासनिषेविते ।। श्रीयुक्ते श्रीपदाम्भोजे पूतेऽच्युतकृते शुभे ।।1.13.३०।। पुरा या या कृता क्रीडा वसन्ते रहसि त्वया ।। मया च दुर्हृदा सार्द्धं तया वै दूयते मनः ।। ३१ ।। सुधातुल्येन वचसा सिक्ताऽहं च पुरा त्वया ।। दूयते सततं तेन परमात्माऽतिदारुणम् ।। ३२ ।। साधुना सह संसर्गो वैकुण्ठादपि दुर्लभः ।। अहो ततोऽतिविच्छेदो मरणादपि दुष्करः ।। ३३ ।। तस्मात्तेषां च विच्छेदः साधुशोककरः परः ।। ततोऽपि बन्धुविच्छेदः शोकः परमदारुणः ।। ३४ ।। ततोऽपत्यवियोगो हि मरणादतिरिच्यते ।। सर्वस्मात्पतिभेदो हि तत्परं नास्ति सङ्कटम् ।। ३५ ।। शयने भोजने स्नाने स्वप्ने जागरणेऽपि च ।। स्वामिविच्छेददुःखं च नूतनं च दिने दिने ।। ३६ ।। सर्वशोकं विस्मरेत्स्त्री स्वामिसंयोगमात्रतः ।। बन्धुमन्यं न पश्यामि यं दृष्ट्वा विस्मरेत्पतिम् ।। ३७ ।। नातो विशिष्टं पश्यामि बान्धवं स्वामिना विना ।। साध्वीनां कुलजातानामित्याह कमलोद्भवः ।। ३८ ।। हे दिगीशाश्च दिक्पाला हे धर्म त्वं प्रजापते ।। गिरीश कमलाकान्त पतिदानं च देहि मे ।। ३९ ।। इत्युक्त्वा विरहार्त्ता सा कन्या चित्ररथस्य च ।। मूर्च्छां संप्राप तत्रैव दुर्गमे गहने वने ।। 1.13.४० ।। विचेतना तत्र तस्थौ कान्तं कृत्वा स्ववक्षसि ।। परिपूर्णं दिवानक्तं सर्वदेवैश्च रक्षिता ।। ४१ ।। प्रभाते चेतनां प्राप्य विललाप भृशं मुहुः ।। इत्युवाच पुनस्तत्र हरिं संबोध्य सा सती ।। ४२।। मालावत्युवाच।। हे कृष्ण जगतां नाथ नाथ नाहं जगद्बहिः ।। त्वमेव जगतां पाता मां न पासि कथं प्रभो ।। ४३ ।। अयं भर्त्ताऽस्य भार्य्याऽहं ममेति तव मायया।। त्वमेव सम्भवो भर्त्ता सर्वेषां सर्वकारणः।। ४४ ।। गन्धर्वः कर्मणा कान्तः कान्ताऽहं चास्य कर्मणा ।। क्व गतः कर्मभोगान्ते कुत्र संस्थाप्य मां प्रियाम् ।।४५।। को वा कस्य पतिः पुत्रः का वा कस्य प्रिया प्रभो ।। संयुनक्ति विधाता च विनयुक्ति च कर्मणा। ।।४६।। संयोगे परमानन्दो वियोगे प्राणसङ्कटम्।। शश्वज्जगति मूर्खस्य नात्मारामस्य निश्चितम्।।४७।। नश्वरो विषयः सत्यं भुवि भोगश्च बान्धवः।। स्वयं त्यक्तः सुखायैव दुःखाय त्याजितः परैः।।४८।। तस्मात्सन्तः स्वयं त्यक्त्वा परमैश्वर्यमीप्सितम्।। ध्यायन्ते सततं कृष्ण पादपद्मं निरापदम् ।। ४९ ।। सर्वत्र ज्ञानिनः सन्तः का स्त्री ज्ञानवती भुवि ।। ततो मह्यं विमूढायै दातुमर्हति वाञ्छितम् ।। 1.13.५० ।। न मे वाञ्छाऽमरत्वे च शक्रत्वे मोक्षवर्त्मनि ।। इमं कान्तं वरं देहि चतुर्वर्गकरं परम् ।। ५१ ।। यावती कामिनीजातिर्जगत्यां जगदीश्वर ।। कस्यैचिन्न हि दत्तश्च तेन धात्रेदृशः पतिः ।। ५२ ।। तस्मै दत्ता गुणाः सर्वे रूपाणि विविधानि च ।। सुशीलानि च सर्वाणि चामरत्वं विना हरे ।। ५३ ।। रूपेण च गुणेनैव तेजसा विक्रमेण च ।। ज्ञानेन शान्त्या सन्तुष्ट्या हरितुल्यः प्रभुर्मम ।। ।। ५४ ।। हरिभक्तो हरिसमो गाम्भीर्ये सागरो यथा ।। दीप्तिमान्सूर्य्यतुल्यश्च शुद्धो वह्निसमस्तथा ।। ५५ ।। चन्द्रतुल्यः सुदृश्यश्च कन्दर्पसमसुन्दरः ।। बुद्ध्या बृहस्पतिसमः काव्ये कविसमस्तथा ।। ५६ ।। वाणी च सर्वशास्त्रज्ञा प्रतिभायां भृगोरिव ।। कुबेरतुल्यो धनवान्महान्दाता मनोरिव ।। ५७ ।। धर्मे धर्मसमो धर्मी सत्ये सत्यव्रताधिकः ।। कुमारतुल्यस्तपसा स्वाचारे ब्रह्मणा समः ।। ५८ ।। ऐश्वर्य्ये शक्रतुल्यश्च सहिष्णुः पृथिवीसमः ।। एवम्भूतो मृतः कान्तः प्राणा यान्ति न मे कथम् ।। ५९ ।। अरे सुरा यज्ञभाजो घृतं भोक्तुं क्षमा भुवि ।। क्षणेनायज्ञभाजश्च करिष्यामि स्वलीलया ।। 1.13.६० ।। नारायण जगत्कान्त नाहमेव जगद्बहिः ।। शीघ्रं जीवय मत्कान्तमन्यथा त्वां शपाम्यहम् ।। ६१ ।। प्रजापते पुत्रशापात्त्वमपूज्यो महीतले ।। तवैवानधिकारित्वं करिष्याम्यधुना भवे ।। ६२ ।। हे शम्भो ज्ञानलोपं ते करिष्यामि शपेन च ।। धर्मलोपं च धर्मस्य करिष्याम्येव लीलया ।। ६३।। यमाधिकारं दूरे च करिष्यामि न संशयः ।। सत्यं कालं शपिष्यामि मृत्युकन्यां सुनिष्ठुराम् ।। ६४ ।। शपामि सर्वानत्रैव जरां व्याधिं विनाऽधुना ।। व्याधिना जरया मृत्युर्न ह्यभूच्च पतेर्मम ।। ६५ ।। इत्युक्त्वा कौशिकीतीरे चागच्छच्छप्तुमेव तान् ।। मालावती महासाध्वी शवं कृत्वा स्ववक्षसि ।। ६६ ।। तां शप्तुमुद्यतां दृष्ट्वा ब्रह्मा देवपुरोगमः ।। जगाम शरणं विष्णुं तीरं क्षीरपयोनिधेः ।। ६७ ।। तत्र स्नात्वा च तुष्टाव परमात्मानमीश्वरम् ।। विष्णुं ब्रह्मा जगत्कान्तमित्युवाच ह भीतवत् ।। ६८ ।। ब्रह्मोवाच ।। उपबर्हणपत्नी सा कन्या चित्ररथस्य च ।। कान्तहेतोश्च मा देवाञ्छपेत्त्वं रक्ष माधव ।। ६९ ।। स्मरन्ति साधवः सन्तो जपन्ति मुनयो मुदा ।। स्वप्ने जागरणे चैव सर्वकार्य्येषु माधवम् ।। 1.13.७० ।। शरणागतदीनार्त्तपरित्राणपरायण ।। रक्ष रक्ष हृषीकेश व्रजामः शरणं वयम् ।। ७१ ।। पूजा मे पुत्रशापेन विहता साम्प्रतं प्रभो ।। अधिकारहतं मां च कुरुते मालती सती ।। ७२ ।। सर्वाधिकारो ब्रह्माण्डे त्वया दत्तः पुरा प्रभो ।। सम्पदेतादृशी नाथ यास्यत्येवाधुना मम ।। ७३ ।। महादेव उवाच ।। त्वया दत्तं महाज्ञानं गुप्तं सर्वेषु दुर्लभम् ।। शतमन्वन्तरतपःफलेन पुष्करे पुरा ।। ७४ ।। ऐश्वर्यं वा धनं वाऽपि विद्या वा विक्रमोऽथवा ।। ज्ञानस्य परमार्थस्य कलां नार्हंति षोडशीम् ।। ७५ ।। सर्वाज्ञातं सर्वगुप्तमत्यन्तं दुर्लभं परम् ।। मम तत्त्वज्ञानरत्नं शापान्निर्याति योषितः ।। ७६ ।। अहो पतिव्रतातेजः सर्वेषां तेजसां परम् ।। तेजोऽनलेन दग्धं मां रक्ष रक्ष हरे हरे ।। ७७ ।। धर्म उवाच ।। सर्वरत्नात्परं रत्नं धर्म एव सनातनः ।। यास्यत्येवंविधो धर्मस्त्वया दत्तः पुरा प्रभो ।। ७८ ।। सप्तमन्वन्तरतपःफलेन परमेश्वर ।। प्राप्तो धर्मो ऽधुना याति शापेन योषितः प्रभौ ।। ७९ ।। देवा ऊचुः ।। यज्ञभाजो घृतभुजो वयमेव त्वया कृताः ।। योषिच्छापेन तत्सर्वमधुना याति माधव ।। 1.13.८० ।। इत्युक्त्वा संयताः सर्वे तस्थुस्तत्र भयार्दिताः ।। एतस्मिन्नन्तरेऽकस्माद्वाग्बभूवाशरीरिणी ।। ८१ ।। यूयं गच्छत तन्मूलं विप्ररूपी जनार्दनः ।। पश्चाद्यास्यति शान्त्यर्थमिति वो रक्षणाय च ।। ८२ ।। श्रुत्वा तद्वचनं देवाः प्रहृष्टमनसोन्मुखाः ।। जग्मुर्मालावतीस्थानं कौशिकीतीरमीश्वराः ।। ८३ ।। तामेव ददृशुर्देवा देवीं मालावतीं सतीम् ।। रत्नसारेन्द्रभूषाभिरुज्ज्वलां कमलाकलाम् ।। ८४ ।। वह्निशुद्धांशुकाधानां सिन्दूरबिन्दुभूषिताम् ।। शरच्चन्द्रप्रभां शान्तां द्योतयन्तीं दिशस्त्विषा ।। ८५ ।। पतिसेवामहाधर्मचिरसञ्चिततेजसा ।। प्रज्वलन्तीं सुप्रदीप्तशिखां वह्नेरिवोत्तमाम् ।। ८६ ।। योगासनं कुर्वती च शववक्षःस्थलस्थिताम् ।। सुरम्यां स्वामिनो वीणां बिभ्रतीं दक्षिणे करे ।। ८७ ।। तर्जन्यङ्गुष्ठकोटिभ्यां शुद्धस्फटिकमालिकाम् ।। भक्त्या स्नेहेन कान्तस्य बिभ्रतीं योगमुद्रया ।। ८८ ।। चारुचम्पकवर्णाभां बिम्बोष्ठीं रत्नमालिनीम् ।। यथा षोडशवर्षीयां शश्वत्सुस्थिरयौवनाम् ।। ।।८९।। बृहन्नितम्बभारार्त्तां पीनश्रोणिपयोधराम् ।। पश्यन्तीं शवमीशस्य शुभदृष्ट्या पुनः पुनः ।।1.13.९०।। एवम्भूतां च तां दृष्ट्वा देवास्ते विस्मयं ययुः ।। स्थगितां च क्षणं तत्र धार्मिका धर्मभीरवः ।। ९१ ।। इति श्रीब्रह्मवैवर्त्ते महापुराणे सौतिशौनकसंवादे ब्रह्मखण्डे मालावतीविलापो नाम त्रयोदशोऽध्यायः ।। १३ ।।
sautiruvāca || putrotsave ca ratnāni dhanāni vividhāni ca || gandharvarājaḥ pradadau brāhmaṇebhyo mudā'nvitaḥ || 1 || upabarhaṇastu kālena harermantraṃ sudurlabham || vasiṣṭhena tu samprāpya sa cakre duṣkaraṃ tapaḥ || 2 || ekadā gaṇḍakītīre taṃ ca samprāptayauvanam || gandharvapatnyo dadṛśurmūrcchāmāpuśca tatkṣaṇam || 3 || tāśca tīvraṃ tapaḥ kṛtvā prāṇānsaṃtyajya yogataḥ || pañcāśattā babhūvuśca kanyāścitrarathasya ca || 4 || upabarhaṇagandharvaṃ tāśca taṃ vavrire patim || mudā mālā dadustasmai kāmukyaḥ piturājñayā || 5 || gṛhītvā tāśca gandharvo yuvā susthirayauvanaḥ|| divyaṃ trilakṣavarṣaṃ ca reme rahasi kāmukaḥ ||6|| tato'pi suciraṃ rājyaṃ kṛtvā tābhiḥ sahāniśam || jagāma brahmaṇaḥ sthānaṃ harigāthāṃ jagau mune ||7|| dṛṣṭvā sa rambhārambhorunartane kaṭhinaṃ stanam || babhūva skhalanaṃ tasya gandharvasya mahātmanaḥ ||8|| drutaṃ tatyāja saṅgītaṃ mūrcchāṃ prāpa sabhātale || uccaiḥ prajahasurdevā brahmā kopācchaśāpa tam || 9 || vraja tvaṃ śūdrayoniṃ ca gāndharvīṃ tanumutsṛja || kāle vaiṣṇavasaṃsargānmatputrastvaṃ bhaviṣyasi || || 1.13.10 || vinā vipattermahimā puṃsāṃ naiva bhavetsuta || sukhaṃ duḥkhaṃ ca sarveṣāṃ krameṇa prabhavediti || 11 || ityevamuktvā sa vidhiragacchatpuṣkarād gṛham || upabarhaṇagandharvassa jahau tāṃ tanuṃ tadā || 12 || mūlādhāraṃ svādhiṣṭhānaṃ maṇipūramanāhatam || viśuddhamājñākhyaṃ ceti bhittvā ṣaṭcakrameva ca || 13 || iḍāṃ suṣumnāṃ medhāṃ ca piṅgalāṃ prāṇahāriṇīm || sarvajñānapradāṃ caiva manassaṃyaminīṃ tathā || 14 || viśuddhāṃ ca niruddhāṃ ca vāyusaṃcāriṇīṃ tathā || tejaśśuṣkakarīṃ caiva balapuṣṭikarīṃ tathā || 15 || buddhisaṃcāriṇīṃ caiva jñānajṛmbhanakāriṇīm || sarvaprāṇaharāṃ caiva punarjīvanakāriṇīm || 16 || etāḥ ṣoḍaśadhā nāḍīrbhittvā vai haṃsameva ca || manasā sahitaṃ brahmarandhramānīya yogataḥ || 17 || sthitvā muhūrtamātmānamātmanyeva yuyoja ha || jātismaraśca yogīndraḥ saṃprāpa brahma śaunaka || 18 || vīṇāṃ tritantrīṃ duṣprāpyāṃ vāmaskandhe nidhāya ca || śuddhasphaṭikamālāṃ ca vidhṛtvā dakṣiṇe kare || 19 || saṃjalpanparamaṃ brahma vedasāraṃ parātparam || paraṃ nistārabījaṃ ca kṛṣṇa ityakṣaradvayam || 1.13.20 || prācyāṃ kṛtvā śiraḥsthānaṃ paścime caraṇadvayam || nidhāya darbhaśayane śayānaḥ puruṣo yathā || 21 || gandharvarājastaṃ dṛṣṭvā bhāryyayā saha tatkṣaṇam || yogena brahma samprāpa śrīkṛṣṇaṃ manasā smaran || 22 || patnyaśca bāndhavāḥ sarve vilapya rurudurbhuśam || jagmuḥ krameṇa śokārttā mohitā viṣṇumāyayā||23|| pañcāśadyoṣitāṃ madhye pradhānā mahiṣī ca yā || sādhvī mālāvatī nāmnā paramā preyasī varā || || 24 || uccai ruroda sā tīvraṃ kāntaṃ kṛtvā ca vakṣasi || ityuvāca ca śokārttā kāntaṃ saṃbodhya caiva hi || 25 || mālāvatyuvāca || he nātha ramaṇa śreṣṭha vidagdha rasikeśvara || darśanaṃ dehi māṃ bandho nimagnāṃ śokasāgare || 26 || visrambhake suvasane ramye candanakānane || puṣpabhadrānadītīre puṣpodyāne manohare || 27 || candanācalasānnidhye cārucandanakānane || puṣpacandanatalpe ca candanānilavāsite||28|| gandhamādanaśailaikadeśe ramye nadītaṭe || puṃskokilanināde ca mālatījālaśālini||29|| śrīśaile śrīvane divye śrīnivāsaniṣevite || śrīyukte śrīpadāmbhoje pūte'cyutakṛte śubhe ||1.13.30|| purā yā yā kṛtā krīḍā vasante rahasi tvayā || mayā ca durhṛdā sārddhaṃ tayā vai dūyate manaḥ || 31 || sudhātulyena vacasā siktā'haṃ ca purā tvayā || dūyate satataṃ tena paramātmā'tidāruṇam || 32 || sādhunā saha saṃsargo vaikuṇṭhādapi durlabhaḥ || aho tato'tivicchedo maraṇādapi duṣkaraḥ || 33 || tasmātteṣāṃ ca vicchedaḥ sādhuśokakaraḥ paraḥ || tato'pi bandhuvicchedaḥ śokaḥ paramadāruṇaḥ || 34 || tato'patyaviyogo hi maraṇādatiricyate || sarvasmātpatibhedo hi tatparaṃ nāsti saṅkaṭam || 35 || śayane bhojane snāne svapne jāgaraṇe'pi ca || svāmivicchedaduḥkhaṃ ca nūtanaṃ ca dine dine || 36 || sarvaśokaṃ vismaretstrī svāmisaṃyogamātrataḥ || bandhumanyaṃ na paśyāmi yaṃ dṛṣṭvā vismaretpatim || 37 || nāto viśiṣṭaṃ paśyāmi bāndhavaṃ svāminā vinā || sādhvīnāṃ kulajātānāmityāha kamalodbhavaḥ || 38 || he digīśāśca dikpālā he dharma tvaṃ prajāpate || girīśa kamalākānta patidānaṃ ca dehi me || 39 || ityuktvā virahārttā sā kanyā citrarathasya ca || mūrcchāṃ saṃprāpa tatraiva durgame gahane vane || 1.13.40 || vicetanā tatra tasthau kāntaṃ kṛtvā svavakṣasi || paripūrṇaṃ divānaktaṃ sarvadevaiśca rakṣitā || 41 || prabhāte cetanāṃ prāpya vilalāpa bhṛśaṃ muhuḥ || ityuvāca punastatra hariṃ saṃbodhya sā satī || 42|| mālāvatyuvāca|| he kṛṣṇa jagatāṃ nātha nātha nāhaṃ jagadbahiḥ || tvameva jagatāṃ pātā māṃ na pāsi kathaṃ prabho || 43 || ayaṃ bharttā'sya bhāryyā'haṃ mameti tava māyayā|| tvameva sambhavo bharttā sarveṣāṃ sarvakāraṇaḥ|| 44 || gandharvaḥ karmaṇā kāntaḥ kāntā'haṃ cāsya karmaṇā || kva gataḥ karmabhogānte kutra saṃsthāpya māṃ priyām ||45|| ko vā kasya patiḥ putraḥ kā vā kasya priyā prabho || saṃyunakti vidhātā ca vinayukti ca karmaṇā| ||46|| saṃyoge paramānando viyoge prāṇasaṅkaṭam|| śaśvajjagati mūrkhasya nātmārāmasya niścitam||47|| naśvaro viṣayaḥ satyaṃ bhuvi bhogaśca bāndhavaḥ|| svayaṃ tyaktaḥ sukhāyaiva duḥkhāya tyājitaḥ paraiḥ||48|| tasmātsantaḥ svayaṃ tyaktvā paramaiśvaryamīpsitam|| dhyāyante satataṃ kṛṣṇa pādapadmaṃ nirāpadam || 49 || sarvatra jñāninaḥ santaḥ kā strī jñānavatī bhuvi || tato mahyaṃ vimūḍhāyai dātumarhati vāñchitam || 1.13.50 || na me vāñchā'maratve ca śakratve mokṣavartmani || imaṃ kāntaṃ varaṃ dehi caturvargakaraṃ param || 51 || yāvatī kāminījātirjagatyāṃ jagadīśvara || kasyaicinna hi dattaśca tena dhātredṛśaḥ patiḥ || 52 || tasmai dattā guṇāḥ sarve rūpāṇi vividhāni ca || suśīlāni ca sarvāṇi cāmaratvaṃ vinā hare || 53 || rūpeṇa ca guṇenaiva tejasā vikrameṇa ca || jñānena śāntyā santuṣṭyā haritulyaḥ prabhurmama || || 54 || haribhakto harisamo gāmbhīrye sāgaro yathā || dīptimānsūryyatulyaśca śuddho vahnisamastathā || 55 || candratulyaḥ sudṛśyaśca kandarpasamasundaraḥ || buddhyā bṛhaspatisamaḥ kāvye kavisamastathā || 56 || vāṇī ca sarvaśāstrajñā pratibhāyāṃ bhṛgoriva || kuberatulyo dhanavānmahāndātā manoriva || 57 || dharme dharmasamo dharmī satye satyavratādhikaḥ || kumāratulyastapasā svācāre brahmaṇā samaḥ || 58 || aiśvaryye śakratulyaśca sahiṣṇuḥ pṛthivīsamaḥ || evambhūto mṛtaḥ kāntaḥ prāṇā yānti na me katham || 59 || are surā yajñabhājo ghṛtaṃ bhoktuṃ kṣamā bhuvi || kṣaṇenāyajñabhājaśca kariṣyāmi svalīlayā || 1.13.60 || nārāyaṇa jagatkānta nāhameva jagadbahiḥ || śīghraṃ jīvaya matkāntamanyathā tvāṃ śapāmyaham || 61 || prajāpate putraśāpāttvamapūjyo mahītale || tavaivānadhikāritvaṃ kariṣyāmyadhunā bhave || 62 || he śambho jñānalopaṃ te kariṣyāmi śapena ca || dharmalopaṃ ca dharmasya kariṣyāmyeva līlayā || 63|| yamādhikāraṃ dūre ca kariṣyāmi na saṃśayaḥ || satyaṃ kālaṃ śapiṣyāmi mṛtyukanyāṃ suniṣṭhurām || 64 || śapāmi sarvānatraiva jarāṃ vyādhiṃ vinā'dhunā || vyādhinā jarayā mṛtyurna hyabhūcca patermama || 65 || ityuktvā kauśikītīre cāgacchacchaptumeva tān || mālāvatī mahāsādhvī śavaṃ kṛtvā svavakṣasi || 66 || tāṃ śaptumudyatāṃ dṛṣṭvā brahmā devapurogamaḥ || jagāma śaraṇaṃ viṣṇuṃ tīraṃ kṣīrapayonidheḥ || 67 || tatra snātvā ca tuṣṭāva paramātmānamīśvaram || viṣṇuṃ brahmā jagatkāntamityuvāca ha bhītavat || 68 || brahmovāca || upabarhaṇapatnī sā kanyā citrarathasya ca || kāntahetośca mā devāñchapettvaṃ rakṣa mādhava || 69 || smaranti sādhavaḥ santo japanti munayo mudā || svapne jāgaraṇe caiva sarvakāryyeṣu mādhavam || 1.13.70 || śaraṇāgatadīnārttaparitrāṇaparāyaṇa || rakṣa rakṣa hṛṣīkeśa vrajāmaḥ śaraṇaṃ vayam || 71 || pūjā me putraśāpena vihatā sāmprataṃ prabho || adhikārahataṃ māṃ ca kurute mālatī satī || 72 || sarvādhikāro brahmāṇḍe tvayā dattaḥ purā prabho || sampadetādṛśī nātha yāsyatyevādhunā mama || 73 || mahādeva uvāca || tvayā dattaṃ mahājñānaṃ guptaṃ sarveṣu durlabham || śatamanvantaratapaḥphalena puṣkare purā || 74 || aiśvaryaṃ vā dhanaṃ vā'pi vidyā vā vikramo'thavā || jñānasya paramārthasya kalāṃ nārhaṃti ṣoḍaśīm || 75 || sarvājñātaṃ sarvaguptamatyantaṃ durlabhaṃ param || mama tattvajñānaratnaṃ śāpānniryāti yoṣitaḥ || 76 || aho pativratātejaḥ sarveṣāṃ tejasāṃ param || tejo'nalena dagdhaṃ māṃ rakṣa rakṣa hare hare || 77 || dharma uvāca || sarvaratnātparaṃ ratnaṃ dharma eva sanātanaḥ || yāsyatyevaṃvidho dharmastvayā dattaḥ purā prabho || 78 || saptamanvantaratapaḥphalena parameśvara || prāpto dharmo 'dhunā yāti śāpena yoṣitaḥ prabhau || 79 || devā ūcuḥ || yajñabhājo ghṛtabhujo vayameva tvayā kṛtāḥ || yoṣicchāpena tatsarvamadhunā yāti mādhava || 1.13.80 || ityuktvā saṃyatāḥ sarve tasthustatra bhayārditāḥ || etasminnantare'kasmādvāgbabhūvāśarīriṇī || 81 || yūyaṃ gacchata tanmūlaṃ viprarūpī janārdanaḥ || paścādyāsyati śāntyarthamiti vo rakṣaṇāya ca || 82 || śrutvā tadvacanaṃ devāḥ prahṛṣṭamanasonmukhāḥ || jagmurmālāvatīsthānaṃ kauśikītīramīśvarāḥ || 83 || tāmeva dadṛśurdevā devīṃ mālāvatīṃ satīm || ratnasārendrabhūṣābhirujjvalāṃ kamalākalām || 84 || vahniśuddhāṃśukādhānāṃ sindūrabindubhūṣitām || śaraccandraprabhāṃ śāntāṃ dyotayantīṃ diśastviṣā || 85 || patisevāmahādharmacirasañcitatejasā || prajvalantīṃ supradīptaśikhāṃ vahnerivottamām || 86 || yogāsanaṃ kurvatī ca śavavakṣaḥsthalasthitām || suramyāṃ svāmino vīṇāṃ bibhratīṃ dakṣiṇe kare || 87 || tarjanyaṅguṣṭhakoṭibhyāṃ śuddhasphaṭikamālikām || bhaktyā snehena kāntasya bibhratīṃ yogamudrayā || 88 || cārucampakavarṇābhāṃ bimboṣṭhīṃ ratnamālinīm || yathā ṣoḍaśavarṣīyāṃ śaśvatsusthirayauvanām || ||89|| bṛhannitambabhārārttāṃ pīnaśroṇipayodharām || paśyantīṃ śavamīśasya śubhadṛṣṭyā punaḥ punaḥ ||1.13.90|| evambhūtāṃ ca tāṃ dṛṣṭvā devāste vismayaṃ yayuḥ || sthagitāṃ ca kṣaṇaṃ tatra dhārmikā dharmabhīravaḥ || 91 || iti śrībrahmavaivartte mahāpurāṇe sautiśaunakasaṃvāde brahmakhaṇḍe mālāvatīvilāpo nāma trayodaśo'dhyāyaḥ || 13 ||
English translation
reciting in lonely place after marring those girls.
He spent three lakh of divining years with them and enjoyed the youthful life.
Death of Upabarhana with the curse of Brahma and lamenting of MalavatL Sauti said, the king of Gandharva on the birth of son distributed several type of gems and riches among the Brahmanas and others.
On coming to age the boy Upabarhana acquired through the aid of the teacher Vasistha acquired a mantra and he started performing Once after becoming a youth when the Upabarhana was roaming about the bank of river GandakT. He was supported by a large number of Gandharvas themselves. All of them were fainted at the sight of the boy.
O sage, thereafter he was crowned as a king and started enjoying the life pleasure with those ladies. Once he went to Brahma and joined a function there reciting his glory. He found there Ramba dancing in a most attractive manner whose body was like a trunk of banana tree. Her breast well developed and quite hard. The semen of that Gandharva felt at the sight of Rambha.
As a result of this not only was he deprived of the musical concert but also was fainted there.
All the guards started laughing aloud. Thereafter Brahma pronouncing a curse of him said shady, the body of Gandharva, you will busy was a Sudra thereafter while keeping the company of Vaisnava your believe as my son and get will established in that position.
Thereafter thus people themselves it is there entered their life after performing great tapas.
Thereafter they were as the daughter of Gandharva king Citraratha.
Thereafter those girls thereafter they married the Gandharva name Upabarhana with the permission of their father they garlanded the The possessionate Gandharva also started O Son, without facing the adversities the people don't achieve gold. All the people of the world alternatively gets the pleasures and pains.
Saying this, Brahma then went to the holly place of Puskara. O Upabarhana, the Gandharva then died in instantaneously.
He first of all penetrated through the Satcakra name Muladhara, Svadhisthana Manipura, Anahata, Visuddha and Ajna developed ida, Sus Niruddha, Vayu-sahcarini and which derives the lustre and one which increase the powers, increase intelligence, developed wisdom, causes death to all and grants rebirth, served these sixteen types of vein. Thereafter with the application of yogic practices he brought the mind (Manas) with Prana into Brahmarandhra and he established himself firmly in yogic posture for some time. O Saunaka! thereafter that best of the Yogis, remembering his previous birth Upabarhana achieved the state of salvation.
O Saunaka, he then started reciting the name of two letters i.e. Krsna holding a flute on three strings in his right hand and a garland of pure crystal bits which is the absence of Vedas and can redeem the people at large. He then slept other the bed at Kus'asana keeping his head towards the east and the legs towards the west as if somebody was sleeping.
giRT 'jjfcd g g^fftri When his father, the king of Gandharva found him meeting an end with his life in this manner he himself with his wife ended his life recited the name of Krsna, by yogic practices. They thus achieved the place of Lord eternal. Thereafter all the relations and brothers of Upabarhana started crying aloud lamenting at same time. Influenced with the illusion of Visnu they were filled with grieve they went to place where his body was placed. Of all the fifty spouses of Upabarhana, Malavati happened to be a keep queen. She was quite chaste and was quite deer to her husband.
She started crying keeping the head of her husband in her lap.
Malavati said, “O Lord, you are the best of all the relation. I am getting drowned in the ocean of grieves. You kindly appear before me.
The woman forgets every grieves in the company of her husband but I do not find any other relation who could make the forget my In the painted and charming place in the creation of sandal trees over the bank of river Bhadra in the beautiful grove near the Malaya mountain and served by the breeze having the fragrance of sandal over the bed of sandal of flowers in the region of the Gandhamadana mountain there is a place which is quite charming over the bank of river. It is infested with the Cuckoos, It is filled with milky flowers and clean water. It happened to be a place of Visnu that also LaksmL All the spots which you had with me are easy my mind initially you use to serve him with your nectar-like speech without it my entire body is suffering from pain.
The mind of noble person is better then the pleasure of the Vaihkutha. Having been deprived such a noble person which becomes more rETtsft TOT?aW:li?'i{|i Therefore, the wicket people are bound to vanish and for the noble people it is quite painful. It is more painful. It is more painful for the close relations to see the death of someone deer to them besides this the separation of one own son is more painful of all the grieves the separation from someone more painful. There is no other misery greater then this.
Brahma himself emphasised on this that for a chaste lady on high quite family there is no other better relation then the husband.
O the directions and the ruling Dikpalas, O Dharma, O Prajapati, O Lordship O Lord of Laks ml, you kindly given me back my husband.
Thus spoking the daughter of Citraratha afflicted by seperation felted in the dense forest.
She remains in that unconscious condition placing the head of her husband over her chest for a day and a night. The Gods protected her at that time.
The nest morning after regaining her sense she started lamenting again and again. Thereafter the chaste lady spoke again addressing the lord thus.
Because sleeping eating, waving, sleeping and awake the separation from the husband gets more and more painful with the passage of time.
Malavatl said, “O Lord, Krsna you are the lord of the entire universe. I also a part of the universe. O Lord, you protect the world. Then why am I deprived of the protection”? My husband is lying here and I am his wife. This feeling of mine is your individual. You are the lord of everyone. It happen like this. What else can I say. Because you happened to be cause of every things.
Because of my own deed Gandharva became my husband quite because of my own deeds I became his wife and after the end influence of the good deeds he left a dearest wife like me.
O Lord, who would happened to be once husband or the son and who happens to be the believed of anyone. It is destiny which connects the people in relationship.
All the pleasures of the world are achieved by people by providence and in the separation the life become miserable. Such if the noble people who are well-versed in the movement of the sole are free from grief j It is true that all the pleasures of world and the relatives are short lives. It would, therefore, be better to warrant disowned them because if someone else makes such deeds those pleasures it became painful.
Therefore, the simple people voluntarily disowned and pleasure and devoted their mind towards the devotion of Lord Krsna and always they all the lotus-like feet of the Lord.
There are unable quite well-versed intellectual people everywhere on earth but one quite hardly come across and. Therefore, for a foolish persons like me you grant me desired wish.
I am not a desirous eternity, the place of Brahma, the place of Indra or the salvation.
Therefore, I should be given back this husband of mine whose like four varnas (castes) for me.
O Lord of the universe, all the ladies in the world none as a virtuous husband given by Brahma, as I have.
O Lord, Brahma has bestow the all virtues, the beauty and the charming nature to them except the immortality.
My husband possess the beauty, the glory, the virtues, the prowess, the intelligence, the peaceful, nature and the satisfaction, thus he is like the lord himself.
My husband is like the devotees of Lord Hari and is like a ocean in death. He is illustrious like sun, shining like the fire, charming like the moon, beautiful like the Lord of love, extremely intelligent and illiteracy feel he can be compared with Sukracarya.
His speech is the essence of all the scriptures.
He is like bright in appearance and in riches he is like Kubera. He is the great person is charity like Manu and in the performing of religious rights he is like Dhanna himself. He is quite truthful and is a great tapasvl like Sanaka and others. In conduct, he gets Brahma and possess grace like Indra himself He is patient like the earth. Such a husband of mine is lying died here is about to leave me.
O Gods, you perceive your share of yajita performed on earth I shall now deprived of your share of yajna that I performed..
O Narayana, O lord of the entire universe, I am also a stream with the universe. You bring back to life my husband otherwise I am going to pronounce a curse on you. O Prajapati, you are not adorned honoured because of the curse of your son. I shall now deprive you of the right of honour by pronouncing a curse.
O Lord Siva, I shall deprived you of all your glory and by pronouncing a curse on you and also separate the actions of dhanna.
I shall deprive dharma of a rights. There is no doubt about it. Similarly I can also pronounce a curse on cruel God of death and also his snfinT qR?iT qMqii ^ mi My husband has not meet with his end because of old age or my ailment. Therefore living this to, I shall pronounce a curse on all Thus saying the great industrious and chaste MalSvatl keeping the head of her dead husband in her lap got ready to pronounce a curse on all the gods. With the end in voice she then and went to bank of the KausikI river. Finding her ready to pronounce a curse all the Gods including Brahma rushed to the ocean of Milk and took refuge under Lord Visnu.
Taking his bath there the panicky Brahma started offering prayers to lord Visnu who is considered the Lord of the Universe.
Brahma said, O Mahadeva, Malavatl the daughter of Citraratha and the wife of Upabarhana is going to pronounce a curse on me and all the Gods. You protect us from her curse.
All saints and sages recite the name of Lord Krsna pleasantly while sleeping or while awake.
O Lord of all the organ of senses, you always protect thus occasion and take refuge under you.
You protect us, we took refuge under you.
O Lord, my adoration always come to an end because of the curse of my own son. Now I am going to be deprived of all my rights with the pronounce of the curse by Malavatl.
O Lord, you have distributed all the rights of mine. In the entire universe, O Lord now I am going to be deprived this as a whole.
am going to burnt out in the fire of time glory.
Therefore, you kindly protect me.
Trt gp? -qcr I Dharma said: O Lord, in the ancient times Dharma was bestow which is the best of all the gems and eternal. It is being snatched away from O Lord of all the universe! I was bestowed with the same after performing of tapas for seven manmntaras. But O Lord that Dharma to is being snatched away from me because O the curse of that chaste lady.
Brahma said, in earlier time I perform tapas as in the region of Puskara for a period of 100 manvantaras as a result of which I achieve the eternal knowledge. It is quite secret and rare.
SR grsftr ferr gr i^gRtssign The riches, intelligence, knowledge and prowess cannot be equated with the 16^^ part of that knowledge.
The most secret and rarest and the best of the knowledge in tattvajnana it is going to vanish because of the curse of a Lady.
This is really surprising that the glory of chaste lady is so powerful. Therefore, O Lord, 1 The God said: O Mahadeva, the duty of consuming of ghee, the clarified butter in the fire utter was interested by you. Because of the curse of the lady we are going to be deprived of it.
The panic-stricken Gods stood there attentively after speaking of this. At the same time the divine voice from the sky declared, as all of you should go to Malavatl thereafter the Lord Janardana will also reach there in the form of Brahma.
R Tgr d tt S l R II d? II On hearing the divine voice mind of all the Gods filled with delight. All of them then reach the bank of the Kausik! river, there the chaste lady was present.
He was bearing all the ornaments studded with gems and she looked like the Goddess LaksmI as they were purified in a fire. Her forehead was adorned with Kumkum. She had a lustre of the moon in the winter season. Her lustre illumined of the directions. She performed great religious feet and was having a glory like the burning fire.
She was seated there embracing the body of her husband on the ground and she holds the charming flute on her husband in a right hand.
She was appearing the beautiful garland of flowers and looked like a damsel of sixteen years old and having a sound. Her chest was broad and stiff. She was presently looking the body of her Finding Malavati in this condition all the gods were extremely surprised. All of them were quite noble and therefore, they stood their consoling themselves for sometimes.
Chapter-aligned complete witnesses. Sanskrit Wikisource revision 400035 (2023-12-26T21:42:58Z); Shanti Lal Nagar English scan pages n68–n75: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n68/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.