Brahma-khaṇḍa · Chapter 9
Sourceसौतिरुवाच ।। अथ ब्रह्मा स्वपुत्रांस्तानादिदेश च सृष्टये ।। सृष्टिं प्रचक्रुस्ते सर्वे विप्रेन्द्र नारदं विना ।। १ ।। मरीचेर्मनसो जातः कश्यपश्च प्रजापतिः ।। अत्रेर्नेत्रमलाच्चन्द्रः क्षीरोदे च बभूव ह ।। २ ।। प्रचेतसोऽपि मनसो गौतमश्च बभूव ह ।। पुलस्त्यमानसः पुत्रो मैत्रावरुण एव च ।। ३ ।। मनोश्च शतरूपायां तिस्रः कन्याः प्रजज्ञिरे ।। आकूतिर्देवहूतिश्च प्रसूतिस्ताः पतिव्रताः ।। ४ ।। प्रियव्रतोत्तानपादौ द्वौ च पुत्रौ मनोहरौ ।। उत्तानपादतनयो ध्रुवः परमधार्मिकः ।। ५ ।। आकूतिं रुचये प्रादाद्दक्षायाथ प्रसूतिकाम् ।। देवहूतिं कर्दमाय यत्पुत्रः कपिलः स्वयम् ।। ६ ।। प्रसूत्यां दक्षबीजेन षष्टिकन्याः प्रजज्ञिरे ।। अष्टौ धर्माय स ददौ रुद्रायैकादश स्मृताः ।। ७ ।। शिवायैकां सतीं प्रादात्कश्यपाय त्रयोदश ।। सप्तविंशति कन्याश्च दक्षश्चन्द्राय दत्तवान् ।। ८ ।। नामानि धर्मपत्नीनां मत्तो विप्र निशामय ।। शान्तिः पुष्टिर्धृतिस्तुष्टिः क्षमा श्रद्धा मतिः स्मृतिः ।। ९ ।। शान्तेः पुत्रश्च सन्तोषः पुष्टेः पुत्रो महानभूत् ।। धृतेधैर्य्यं च तुष्टेश्च हर्षदर्पौ सुतौ स्मृतौ ।। 1.9.१० ।। क्षमापुत्रः सहिष्णुश्च श्रद्धापुत्रश्च धार्मिकः ।। मतेर्ज्ञानाभिधः पुत्रः स्मृतेर्जातिस्मरो महान् ।। ११ ।। पूर्वपत्न्यां च मूर्त्यां च नरनारायणावृषी ।। बभूवुरेते धर्मिष्ठा धर्मपुत्राश्च शौनक ।। १२ ।। नामानि रुद्रपत्नीनां सावधानं निबोध मे ।। कला कलावती काष्ठा कालिका कलहप्रिया ।। १३ ।। कन्दली भीषणा रास्ना प्रमोचा भूषणा शुकी ।। एतासां बहवः पुत्रा बभूवुः शिवपार्षदाः ।। १४ ।। सा सती स्वामिनिन्दायां तनुं तत्याज यज्ञतः ।। पुनर्भूत्वा शैलपुत्री लेभे सा शङ्करं पतिम् ।। १५ ।। कश्यपस्य प्रियाणां च नामानि शृणु धार्मिक ।। अदितिर्देवमाता वै दैत्यमाता दितिस्तथा।।१६।। सर्पमाता तथा कद्रूर्विनता पक्षिसूस्तथा ।। सुरभिश्च गवां माता महिषाणां च निश्चितम् ।। १७ ।। सारमेयादिजन्तूनां सरमा सूश्चतुष्पदाम् ।। दनुः प्रसूर्दानवानामन्याश्चेत्येवमादिकाः ।। १८ ।। इन्द्रश्च द्वादशादित्या उपेन्द्राद्याः सुरा मुने ।। कथिताश्चादितेः पुत्रा महाबलपराक्रमाः।।१९।। इन्द्रपुत्रो जयन्तश्च ब्रह्मञ्शच्यामजायत ।। । आदित्यस्य सवर्णायां कन्यायां विश्वकर्मणः।।1.9.२०।। शनैश्चरयमौ पुत्रौ कालिन्दी कन्यका तथा ।। उपेंद्रवीर्य्यात्पृथ्व्यां तु मङ्गलः समजायत।।२१।। शौनक उवाच ।। कथं सौते स चोपेद्रान्मङ्गलः समजायत ।। वसुन्धरायां बलवांस्तन्मे व्याख्यातुमर्हसि ।।२२।। सौतिरुवाच ।। उपेन्द्ररूपमालोक्य कामार्ता च वसुन्धरा ।। विधाय सुन्दरीवेषमक्षता प्रौढयौवना ।।२३।। मलये निर्जने रम्ये चारुचन्दनपल्लवे ।। चन्दनोक्षितसर्वाङ्गं रत्नभूषणभूषितम्।।२४।। तं सुशीलं शयानं च शान्तं सस्मितमीप्सितम् ।। सस्मिता तस्य तल्पे च सहसा समुपस्थिता।।२५।। सुरम्यां मालतीमालां ददौ तस्मै वरानना ।। सुगन्धि चन्दनं चारु कस्तूरीकुङ्कुमान्वितम् ।।२६।। उपेन्द्रस्तन्मनो ज्ञात्वा कामिनीं कामपीडिताम् ।। नानाप्रकारशृङ्गारं चकार च तया सह ।। २७ ।। तदङ्गसङ्गसंसक्ता मूर्छां प्राप सती तदा ।। मृतेव निद्रितेवासौ बीजाधानं कृते हरौ ।। २८ ।। तां विलग्नां च सुश्रोणीं सुखसम्भोगमूर्छिताम् ।। बृहन्मुक्तनितम्बां च स स्मितां विपुलस्तनीम् ।। २९ ।। क्षणं वक्षसि कृत्वा तां तदोष्ठं च चुचुम्ब ह ।। विहाय तत्र रहसि जगाम पुरुषोत्तमः ।। 1.9.३० ।। उर्वशी पथि गच्छन्ती बोधयामास तां मुने ।। सा च पप्रच्छ वृत्तान्तं कथयामास भूश्च ताम्।। ३१ ।। वीर्य्यसंवरणं कर्तुं सा चाशक्ता च दुर्बला ।। प्रवालस्याकरे त्रस्ता वीर्य्यन्यासं चकार सा ।। ३२ ।। तेन प्रवालवर्णश्च कुमारः समपद्यत ।। तेजसा सूर्य्यसदृशो नारायण सुतो महान् ।। ३३ ।। मङ्गलस्य प्रिया मेधा तस्य घण्टेश्वरो महान्।। व्रणदाताऽतितेजस्वी विष्णुतुल्यो बभूव ह ।।३४।। दितेर्हिरण्यकशिपुहिरण्याक्षौ महाबलौ ।। कन्या च सिंहिका विप्र सैंहिकेयश्च तत्सुतः ।।३५।। निर्ऋतिः सिंहिका सा च तेन राहुश्च नैर्ऋतः।। सूकरेण हिरण्याक्षोऽप्यनपत्यो मृतो युवा ।। ३६ ।। हिरण्यकशिपोः पुत्रः प्रह्रादो वैष्णवाग्रणीः ।। विरोचनश्च तत्पुत्रस्तत्पुत्रश्च बलिः स्वयम् ।। ३७।। बलेः पुत्रो महायोगी ज्ञानी शङ्करकिंकरः ।। दितेर्वंशश्च कथितः कद्रूवंशं निबोध मे ।। ३८ ।। अनन्तं वासुकिं चैव कालीयं च धनञ्जयम् ।। कर्कोटकं तक्षकं च पद्ममैरावतं तथा ।। ३९ ।। महापद्मं च शंकुं च शंखं संवरणं तथा ।। धृतराष्ट्रं च दुर्द्धर्षं दुर्जयं दुर्मुखं बलम् ।। 1.9.४० ।। गोक्षं गोकार्मुकं चैव विरूपादींश्च शौनक ।। न तेषां प्रवराश्चैव यावत्यः सर्पजातयः ।। ४१ ।। कन्यका मनसा देवी कमलांशसमुद्भवा ।। तपस्विनीनां प्रवरा महातेजस्विनी शुभा ।। ४२ ।। यत्पतिश्च जरत्कारुर्नारायणकुलोद्भवः ।। आस्तीकस्तनयो यस्या विष्णुतुल्यश्च तेजसा ।। ४३ ।। एतेषां नाममात्रेण नास्ति नागभयं नृणाम् ।। कद्रूवंशो निगदितो विनतायाः शृणुष्व मे ।। ४४ ।। वैनतेयारुणौ पुत्रौ विष्णुतुल्यपराक्रमौ ।। तौ बभूवुः क्रमेणैव यावत्यः पक्षिजातयः ।। ४५ ।। गावश्च महिषाश्चैव सुरभिप्रवरा इमे ।। सर्वे वै सारमेयाश्च बभूवुः सरमासुताः ।। ।।४६ ।। दानवाश्च दनोर्वंशा अन्यास्सामान्यजातयः ।। उक्तः कश्यपवंशश्च चन्द्राख्यानं निबोध मे ।। ४७ ।। नामानि चन्द्रपत्नीनां सावधानं निशामय ।। अत्यपूर्वं च चरितं पुराणेषु पुरातनम् ।। ४८ ।। अश्विनी भरणी चैव कृत्तिका रोहिणी तथा ।। मृगशीर्षा तथाऽऽर्द्रा च पूज्या साध्वी पुनर्वसुः ।। ४९ ।। पुष्याऽऽश्लेषा मघा पूर्वफल्गुन्युत्तरफल्गुनी ।। हस्ता चित्रा तथा स्वाती विशाखा चानुराधिका ।। 1.9.५० ।। ज्येष्ठा मूला तथा पूर्वाऽऽषाढा चैवोत्तरा स्मृता ।। श्रवणा च धनिष्ठा च तथा शतभिषक् शुभा ।। ५१ ।। पूर्वा भाद्रोत्तराभाद्रा रेवत्यन्ता विधुप्रियाः ।। तासां मध्ये च सुभगा रोहिणी रसिका वरा ।। ५२ ।। सन्ततं रसभावेन चकार शशिनं वशम् ।। रोहिण्युपगतश्चन्द्रो न यात्यन्यां च कामिनीम् ।। ५३ ।। सर्वा भगिन्यः पितरं कथयामासुरादृताः ।। सपत्नीकृतसन्तापं प्राणनाशकरं परम् ।। ५४ ।। दक्षः प्रकुपितश्चन्द्रमशपन्मन्त्रपूर्वकम् ।। द्रुतं श्वशुरशापेन यक्ष्मग्रस्तो बभूव सः ।। ५५ ।। दिने दिने यक्ष्मणा स क्षीयमाणश्च दुःखितः ।। वपुष्यर्द्धं क्षीयमाणे शंकरं शरणं ययौ ।। ५६ ।। दृष्ट्वा चन्द्रं शंकरश्च क्लेशितं शरणागतम् ।। करुणासागरस्तस्मै कृपया चाभयं ददौ ।। ५७ ।। निर्मुक्तं यक्ष्मणा कृत्वा स्वकपोले स्थलं ददौ ।। अमरो निर्भयो भूत्वा स तस्थौ शिवशेखरे ।। ५८ ।। तं शिवः शेखरे कृत्वा चाभवच्चन्द्रशेखरः ।। नास्ति देवेषु लोकेषु शिवाच्छरणपंजरः ।। ५९ ।। दक्षकन्याः पतिं मुक्तं दृष्ट्वा च रुरुदुः पुनः ।। आजग्मुः शरणं तातं दक्षं तेजस्विनां वरम् ।। 1.9.६०।। उच्चैश्च रुरुदुर्गत्वा निहत्याङ्गं पुनः पुनः ।। तमूचुः कातरं दीना दीननाथं विधेः सुतम् ।। ६१ ।। दक्षकन्या ऊचुः ।। स्वामिसौभाग्यलाभाय त्वमुक्तोऽस्माभिरेव च ।। सौभाग्यमस्तु नस्तात गतः स्वामी गुणान्वितः ।। ६२ ।। स्थिते चक्षुषि हे तात दृष्टं ध्वान्तमयं जगत् ।। विज्ञातमधुना स्त्रीणां पतिरेव हि लोचनम् ।। ६३ ।। पतिरेव गतिः स्त्रीणां पतिः प्राणाश्च सम्पदः ।। धर्मार्थकाममोक्षाणां हेतुः सेतुर्भवार्णवे ।। ६४ ।। पतिर्नारायणः स्त्रीणां व्रतं धर्मः सनातनः ।। सर्वं कर्म वृथा तासां स्वामिनां विमुखाश्च याः ।। ६५ ।। स्नानं च सर्वतीर्थेषु सर्वयज्ञेषु दक्षिणा ।। सर्वदानानि पुण्यानि व्रतानि नियमाश्च ये ।। ६६ ।। देवार्चनं चानशनं सर्वाणि च तपांसि च ।। स्वामिनः पादसेवायाः कलां नार्हंति षोडशीम् ।। ६७ ।। सर्वेषां बान्धवानां च प्रियः पुत्रश्च योषिताम् ।। स एव स्वामिनोंऽशश्च शतपुत्रात्परः पतिः ।। ६८ ।। असद्वंशप्रसूता या सा द्वेष्टि स्वामिनं सदा ।। यस्या मनश्चलं दुष्टं सन्ततं परपूरुषे ।। ६९ ।। पतितं रोगिणं दुष्टं निर्धनं गुणहीनकम् ।। युवानं चैव वृद्धं वा भजेत्तं न त्यजेत्सती ।। 1.9.७० ।। सगुणं निर्गुणं वापि द्वेष्टि या संत्यजेत्पतिम् ।। पच्यते कालसूत्रे सा यावच्चंद्रदिवाकरौ ।। ७१ ।। कीटैः शुनकतुल्यैश्च भक्षिता सा दिवानिशम् ।। भुङ्क्ते मृतवसामांसं पिबेन्मूत्रं च तृष्णया ।। ७२ ।। गृध्रः कोटिसहस्राणि शतजन्मानि सूकरः ।। श्वापदः शतजन्मानि सा भवेद्बन्धुहा ततः ।। ७३ ।। ततो मानवजन्मानि लभेच्चेत्पूर्वकर्मणः ।। विधवा धनहीना च रोगयुक्ता भवेद् ध्रुवम् ।। ७४ ।। देहि नः कान्तदानं च कामपूरं विधेः सुत ।। विधात्रा सदृशस्त्वं च पुनः स्रष्टुं क्षमो जगत् ।। ७५ ।। कन्यानां वचनं श्रुत्वा दक्षः शंकरसन्निधिम् ।। जगाम शम्भुस्तं दृष्ट्वा समुत्थाय ननाम च ।। ७६ ।। दक्षस्तस्याशिषं कृत्वा समुवाच कृपानिधिम् ।। तत्याज कोपं दुर्द्धषो दृष्ट्वा च प्रणतं शिवम् ।। ७७ ।। दक्ष उवाच ।। देहि जामातरं शम्भो मदीयं प्राणवल्लभम् ।। मत्सुतानां च प्राणानां परमेव प्रियं पतिम् ।। ७८ ।। न चेद्ददासि जामातर्मम जामातरं विधुम् ।। दास्यामि दारुणं शापं तुभ्यं त्वं केन मुच्यसे ।। ७९ ।। दक्षस्य वचनं श्रुत्वा तमुवाच कृपानिधिः ।। सुधाधिकं च वचनं ब्रह्मञ्शरणपञ्जरः ।। 1.9.८० ।। शिव उवाच ।। करोषि भस्मसाच्चेन्मां दद्या वा शापमेव च ।। नाहं दातुं समर्थश्च चन्द्रं च शरणागतम् ।। ८१ ।। शिवस्य वचनं श्रुत्वा दक्षस्तं शप्तुमुद्यतः ।। शिवः सस्मार गोविन्दं विपन्मोक्षणकारकम् ।। ८२ ।। एतस्मिन्नन्तरे कृष्णो वृद्धब्राह्मणरूपधृक्।। समाययौ तयोर्मूलं तौ तं च नमतुः क्रमात् ।। ८३ ।। दत्त्वा शुभाशिषं तौ स ब्रह्मज्योतिः सनातनः ।। उवाच शङ्करं पूर्वं परिपूर्णतमो द्विज ।। ८४ ।। श्रीभगवानुवाच ।। न चात्मनः प्रियः कश्चिच्छर्व सर्वेषु बन्धुषु ।। आत्मानं रक्ष दक्षाय देहि चन्द्रं सुरेश्वर ।। ८५ ।। तपस्विनां वरः शान्तस्त्वमेवं वैष्णवाग्रणीः ।। समः सर्वेषु जीवेषु हिंसाक्रोधविवर्जितः ।। ८६ ।। दक्षः क्रोधी च दुर्द्धर्षस्तेजस्वी ब्रह्मणः सुतः ।। शिष्टो बिभेति दुर्द्धर्षं न दुर्द्धर्षश्च कंचन ।। ८७ ।। नारायणवचः श्रुत्वा हसित्वा शङ्करः स्वयम् ।। उवाच नीतिसारं च नीतिबीजं परात्परम् ।। ८८ ।। शङ्कर उवाच ।। तपो दास्यामि तेजश्च सर्वसिद्धिं च सम्पदम् ।। प्राणांश्च न समर्थोऽहं प्रदातुं शरणागतम् ।। ८९ ।। यो ददाति भयेनैव प्रपन्नं शरणागतम् ।। तं च धर्मः परित्यज्य याति शप्त्वा सुदारुणम् ।। 1.9.९० ।। सर्वं त्यक्तुं समर्थोऽहं न स्वधर्मं जगत्प्रभो ।। यः स्वधर्मविहीनश्च स च सर्वबहिष्कृतः ।। ९१ ।। यश्च धर्मं सदा रक्षेद्धर्मस्तं परिरक्षति ।। धर्मं वेदेश्वर त्वं च किं मां ब्रूहि स्वमायया ।। ९२ ।। त्वं सर्वमाता स्रष्टा च हन्ता च परिणामतः ।। त्वयि भक्तिर्दृढा यस्य तस्य कस्माद्भयं भवेत् ।। ९३ ।। शङ्करस्य वचः श्रुत्वा भगवान्सर्वभाववित् ।। चन्द्रं चन्द्राद्विनिष्कृष्य दक्षाय प्रददौ हरिः ।। ९४ ।। प्रतस्थावर्द्धचन्द्रश्च निर्व्याधिः शिवशेखरे ।। निजग्राह परं चन्द्रं विष्णुदत्तं प्रजापतिः ।। ९५ ।। यक्ष्मग्रस्तं च तं दृष्ट्वा दक्षस्तुष्टाव माधवम् ।। पक्षे पूर्णं क्षतं पक्षे तं चकार हरिः स्वयम् ।। ९६ ।। कृष्णस्तेभ्यो वरं दत्त्वा जगाम स्वालयं द्विज ।। दक्षश्चन्द्रं गृहीत्वा च कन्याभ्यः प्रददौ पुनः ।। ९७ ।। चन्द्रस्ताश्च परिप्राप्य विजहार दिवानिशम् ।। समं ददर्श ताः सर्वास्तत्प्रभृत्येव कम्पितः ।। ९८ ।। इत्येवं कथितं सर्वं किञ्चित्सृष्टिक्रमं मुने ।। श्रुतं च गुरुवक्त्रेण पुष्करे मुनिसंसदि ।। ९९ ।। इति श्रीबह्मवैवर्ते महापुराणे सौतिशौनकसंवादे ब्रह्मखण्डे नवमोऽध्यायः ।। ९ ।।
sautiruvāca || atha brahmā svaputrāṃstānādideśa ca sṛṣṭaye || sṛṣṭiṃ pracakruste sarve viprendra nāradaṃ vinā || 1 || marīcermanaso jātaḥ kaśyapaśca prajāpatiḥ || atrernetramalāccandraḥ kṣīrode ca babhūva ha || 2 || pracetaso'pi manaso gautamaśca babhūva ha || pulastyamānasaḥ putro maitrāvaruṇa eva ca || 3 || manośca śatarūpāyāṃ tisraḥ kanyāḥ prajajñire || ākūtirdevahūtiśca prasūtistāḥ pativratāḥ || 4 || priyavratottānapādau dvau ca putrau manoharau || uttānapādatanayo dhruvaḥ paramadhārmikaḥ || 5 || ākūtiṃ rucaye prādāddakṣāyātha prasūtikām || devahūtiṃ kardamāya yatputraḥ kapilaḥ svayam || 6 || prasūtyāṃ dakṣabījena ṣaṣṭikanyāḥ prajajñire || aṣṭau dharmāya sa dadau rudrāyaikādaśa smṛtāḥ || 7 || śivāyaikāṃ satīṃ prādātkaśyapāya trayodaśa || saptaviṃśati kanyāśca dakṣaścandrāya dattavān || 8 || nāmāni dharmapatnīnāṃ matto vipra niśāmaya || śāntiḥ puṣṭirdhṛtistuṣṭiḥ kṣamā śraddhā matiḥ smṛtiḥ || 9 || śānteḥ putraśca santoṣaḥ puṣṭeḥ putro mahānabhūt || dhṛtedhairyyaṃ ca tuṣṭeśca harṣadarpau sutau smṛtau || 1.9.10 || kṣamāputraḥ sahiṣṇuśca śraddhāputraśca dhārmikaḥ || materjñānābhidhaḥ putraḥ smṛterjātismaro mahān || 11 || pūrvapatnyāṃ ca mūrtyāṃ ca naranārāyaṇāvṛṣī || babhūvurete dharmiṣṭhā dharmaputrāśca śaunaka || 12 || nāmāni rudrapatnīnāṃ sāvadhānaṃ nibodha me || kalā kalāvatī kāṣṭhā kālikā kalahapriyā || 13 || kandalī bhīṣaṇā rāsnā pramocā bhūṣaṇā śukī || etāsāṃ bahavaḥ putrā babhūvuḥ śivapārṣadāḥ || 14 || sā satī svāminindāyāṃ tanuṃ tatyāja yajñataḥ || punarbhūtvā śailaputrī lebhe sā śaṅkaraṃ patim || 15 || kaśyapasya priyāṇāṃ ca nāmāni śṛṇu dhārmika || aditirdevamātā vai daityamātā ditistathā||16|| sarpamātā tathā kadrūrvinatā pakṣisūstathā || surabhiśca gavāṃ mātā mahiṣāṇāṃ ca niścitam || 17 || sārameyādijantūnāṃ saramā sūścatuṣpadām || danuḥ prasūrdānavānāmanyāścetyevamādikāḥ || 18 || indraśca dvādaśādityā upendrādyāḥ surā mune || kathitāścāditeḥ putrā mahābalaparākramāḥ||19|| indraputro jayantaśca brahmañśacyāmajāyata || | ādityasya savarṇāyāṃ kanyāyāṃ viśvakarmaṇaḥ||1.9.20|| śanaiścarayamau putrau kālindī kanyakā tathā || upeṃdravīryyātpṛthvyāṃ tu maṅgalaḥ samajāyata||21|| śaunaka uvāca || kathaṃ saute sa copedrānmaṅgalaḥ samajāyata || vasundharāyāṃ balavāṃstanme vyākhyātumarhasi ||22|| sautiruvāca || upendrarūpamālokya kāmārtā ca vasundharā || vidhāya sundarīveṣamakṣatā prauḍhayauvanā ||23|| malaye nirjane ramye cārucandanapallave || candanokṣitasarvāṅgaṃ ratnabhūṣaṇabhūṣitam||24|| taṃ suśīlaṃ śayānaṃ ca śāntaṃ sasmitamīpsitam || sasmitā tasya talpe ca sahasā samupasthitā||25|| suramyāṃ mālatīmālāṃ dadau tasmai varānanā || sugandhi candanaṃ cāru kastūrīkuṅkumānvitam ||26|| upendrastanmano jñātvā kāminīṃ kāmapīḍitām || nānāprakāraśṛṅgāraṃ cakāra ca tayā saha || 27 || tadaṅgasaṅgasaṃsaktā mūrchāṃ prāpa satī tadā || mṛteva nidritevāsau bījādhānaṃ kṛte harau || 28 || tāṃ vilagnāṃ ca suśroṇīṃ sukhasambhogamūrchitām || bṛhanmuktanitambāṃ ca sa smitāṃ vipulastanīm || 29 || kṣaṇaṃ vakṣasi kṛtvā tāṃ tadoṣṭhaṃ ca cucumba ha || vihāya tatra rahasi jagāma puruṣottamaḥ || 1.9.30 || urvaśī pathi gacchantī bodhayāmāsa tāṃ mune || sā ca papraccha vṛttāntaṃ kathayāmāsa bhūśca tām|| 31 || vīryyasaṃvaraṇaṃ kartuṃ sā cāśaktā ca durbalā || pravālasyākare trastā vīryyanyāsaṃ cakāra sā || 32 || tena pravālavarṇaśca kumāraḥ samapadyata || tejasā sūryyasadṛśo nārāyaṇa suto mahān || 33 || maṅgalasya priyā medhā tasya ghaṇṭeśvaro mahān|| vraṇadātā'titejasvī viṣṇutulyo babhūva ha ||34|| diterhiraṇyakaśipuhiraṇyākṣau mahābalau || kanyā ca siṃhikā vipra saiṃhikeyaśca tatsutaḥ ||35|| nirṛtiḥ siṃhikā sā ca tena rāhuśca nairṛtaḥ|| sūkareṇa hiraṇyākṣo'pyanapatyo mṛto yuvā || 36 || hiraṇyakaśipoḥ putraḥ prahrādo vaiṣṇavāgraṇīḥ || virocanaśca tatputrastatputraśca baliḥ svayam || 37|| baleḥ putro mahāyogī jñānī śaṅkarakiṃkaraḥ || ditervaṃśaśca kathitaḥ kadrūvaṃśaṃ nibodha me || 38 || anantaṃ vāsukiṃ caiva kālīyaṃ ca dhanañjayam || karkoṭakaṃ takṣakaṃ ca padmamairāvataṃ tathā || 39 || mahāpadmaṃ ca śaṃkuṃ ca śaṃkhaṃ saṃvaraṇaṃ tathā || dhṛtarāṣṭraṃ ca durddharṣaṃ durjayaṃ durmukhaṃ balam || 1.9.40 || gokṣaṃ gokārmukaṃ caiva virūpādīṃśca śaunaka || na teṣāṃ pravarāścaiva yāvatyaḥ sarpajātayaḥ || 41 || kanyakā manasā devī kamalāṃśasamudbhavā || tapasvinīnāṃ pravarā mahātejasvinī śubhā || 42 || yatpatiśca jaratkārurnārāyaṇakulodbhavaḥ || āstīkastanayo yasyā viṣṇutulyaśca tejasā || 43 || eteṣāṃ nāmamātreṇa nāsti nāgabhayaṃ nṛṇām || kadrūvaṃśo nigadito vinatāyāḥ śṛṇuṣva me || 44 || vainateyāruṇau putrau viṣṇutulyaparākramau || tau babhūvuḥ krameṇaiva yāvatyaḥ pakṣijātayaḥ || 45 || gāvaśca mahiṣāścaiva surabhipravarā ime || sarve vai sārameyāśca babhūvuḥ saramāsutāḥ || ||46 || dānavāśca danorvaṃśā anyāssāmānyajātayaḥ || uktaḥ kaśyapavaṃśaśca candrākhyānaṃ nibodha me || 47 || nāmāni candrapatnīnāṃ sāvadhānaṃ niśāmaya || atyapūrvaṃ ca caritaṃ purāṇeṣu purātanam || 48 || aśvinī bharaṇī caiva kṛttikā rohiṇī tathā || mṛgaśīrṣā tathā''rdrā ca pūjyā sādhvī punarvasuḥ || 49 || puṣyā''śleṣā maghā pūrvaphalgunyuttaraphalgunī || hastā citrā tathā svātī viśākhā cānurādhikā || 1.9.50 || jyeṣṭhā mūlā tathā pūrvā''ṣāḍhā caivottarā smṛtā || śravaṇā ca dhaniṣṭhā ca tathā śatabhiṣak śubhā || 51 || pūrvā bhādrottarābhādrā revatyantā vidhupriyāḥ || tāsāṃ madhye ca subhagā rohiṇī rasikā varā || 52 || santataṃ rasabhāvena cakāra śaśinaṃ vaśam || rohiṇyupagataścandro na yātyanyāṃ ca kāminīm || 53 || sarvā bhaginyaḥ pitaraṃ kathayāmāsurādṛtāḥ || sapatnīkṛtasantāpaṃ prāṇanāśakaraṃ param || 54 || dakṣaḥ prakupitaścandramaśapanmantrapūrvakam || drutaṃ śvaśuraśāpena yakṣmagrasto babhūva saḥ || 55 || dine dine yakṣmaṇā sa kṣīyamāṇaśca duḥkhitaḥ || vapuṣyarddhaṃ kṣīyamāṇe śaṃkaraṃ śaraṇaṃ yayau || 56 || dṛṣṭvā candraṃ śaṃkaraśca kleśitaṃ śaraṇāgatam || karuṇāsāgarastasmai kṛpayā cābhayaṃ dadau || 57 || nirmuktaṃ yakṣmaṇā kṛtvā svakapole sthalaṃ dadau || amaro nirbhayo bhūtvā sa tasthau śivaśekhare || 58 || taṃ śivaḥ śekhare kṛtvā cābhavaccandraśekharaḥ || nāsti deveṣu lokeṣu śivāccharaṇapaṃjaraḥ || 59 || dakṣakanyāḥ patiṃ muktaṃ dṛṣṭvā ca ruruduḥ punaḥ || ājagmuḥ śaraṇaṃ tātaṃ dakṣaṃ tejasvināṃ varam || 1.9.60|| uccaiśca rurudurgatvā nihatyāṅgaṃ punaḥ punaḥ || tamūcuḥ kātaraṃ dīnā dīnanāthaṃ vidheḥ sutam || 61 || dakṣakanyā ūcuḥ || svāmisaubhāgyalābhāya tvamukto'smābhireva ca || saubhāgyamastu nastāta gataḥ svāmī guṇānvitaḥ || 62 || sthite cakṣuṣi he tāta dṛṣṭaṃ dhvāntamayaṃ jagat || vijñātamadhunā strīṇāṃ patireva hi locanam || 63 || patireva gatiḥ strīṇāṃ patiḥ prāṇāśca sampadaḥ || dharmārthakāmamokṣāṇāṃ hetuḥ seturbhavārṇave || 64 || patirnārāyaṇaḥ strīṇāṃ vrataṃ dharmaḥ sanātanaḥ || sarvaṃ karma vṛthā tāsāṃ svāmināṃ vimukhāśca yāḥ || 65 || snānaṃ ca sarvatīrtheṣu sarvayajñeṣu dakṣiṇā || sarvadānāni puṇyāni vratāni niyamāśca ye || 66 || devārcanaṃ cānaśanaṃ sarvāṇi ca tapāṃsi ca || svāminaḥ pādasevāyāḥ kalāṃ nārhaṃti ṣoḍaśīm || 67 || sarveṣāṃ bāndhavānāṃ ca priyaḥ putraśca yoṣitām || sa eva svāminoṃ'śaśca śataputrātparaḥ patiḥ || 68 || asadvaṃśaprasūtā yā sā dveṣṭi svāminaṃ sadā || yasyā manaścalaṃ duṣṭaṃ santataṃ parapūruṣe || 69 || patitaṃ rogiṇaṃ duṣṭaṃ nirdhanaṃ guṇahīnakam || yuvānaṃ caiva vṛddhaṃ vā bhajettaṃ na tyajetsatī || 1.9.70 || saguṇaṃ nirguṇaṃ vāpi dveṣṭi yā saṃtyajetpatim || pacyate kālasūtre sā yāvaccaṃdradivākarau || 71 || kīṭaiḥ śunakatulyaiśca bhakṣitā sā divāniśam || bhuṅkte mṛtavasāmāṃsaṃ pibenmūtraṃ ca tṛṣṇayā || 72 || gṛdhraḥ koṭisahasrāṇi śatajanmāni sūkaraḥ || śvāpadaḥ śatajanmāni sā bhavedbandhuhā tataḥ || 73 || tato mānavajanmāni labheccetpūrvakarmaṇaḥ || vidhavā dhanahīnā ca rogayuktā bhaved dhruvam || 74 || dehi naḥ kāntadānaṃ ca kāmapūraṃ vidheḥ suta || vidhātrā sadṛśastvaṃ ca punaḥ sraṣṭuṃ kṣamo jagat || 75 || kanyānāṃ vacanaṃ śrutvā dakṣaḥ śaṃkarasannidhim || jagāma śambhustaṃ dṛṣṭvā samutthāya nanāma ca || 76 || dakṣastasyāśiṣaṃ kṛtvā samuvāca kṛpānidhim || tatyāja kopaṃ durddhaṣo dṛṣṭvā ca praṇataṃ śivam || 77 || dakṣa uvāca || dehi jāmātaraṃ śambho madīyaṃ prāṇavallabham || matsutānāṃ ca prāṇānāṃ parameva priyaṃ patim || 78 || na ceddadāsi jāmātarmama jāmātaraṃ vidhum || dāsyāmi dāruṇaṃ śāpaṃ tubhyaṃ tvaṃ kena mucyase || 79 || dakṣasya vacanaṃ śrutvā tamuvāca kṛpānidhiḥ || sudhādhikaṃ ca vacanaṃ brahmañśaraṇapañjaraḥ || 1.9.80 || śiva uvāca || karoṣi bhasmasāccenmāṃ dadyā vā śāpameva ca || nāhaṃ dātuṃ samarthaśca candraṃ ca śaraṇāgatam || 81 || śivasya vacanaṃ śrutvā dakṣastaṃ śaptumudyataḥ || śivaḥ sasmāra govindaṃ vipanmokṣaṇakārakam || 82 || etasminnantare kṛṣṇo vṛddhabrāhmaṇarūpadhṛk|| samāyayau tayormūlaṃ tau taṃ ca namatuḥ kramāt || 83 || dattvā śubhāśiṣaṃ tau sa brahmajyotiḥ sanātanaḥ || uvāca śaṅkaraṃ pūrvaṃ paripūrṇatamo dvija || 84 || śrībhagavānuvāca || na cātmanaḥ priyaḥ kaściccharva sarveṣu bandhuṣu || ātmānaṃ rakṣa dakṣāya dehi candraṃ sureśvara || 85 || tapasvināṃ varaḥ śāntastvamevaṃ vaiṣṇavāgraṇīḥ || samaḥ sarveṣu jīveṣu hiṃsākrodhavivarjitaḥ || 86 || dakṣaḥ krodhī ca durddharṣastejasvī brahmaṇaḥ sutaḥ || śiṣṭo bibheti durddharṣaṃ na durddharṣaśca kaṃcana || 87 || nārāyaṇavacaḥ śrutvā hasitvā śaṅkaraḥ svayam || uvāca nītisāraṃ ca nītibījaṃ parātparam || 88 || śaṅkara uvāca || tapo dāsyāmi tejaśca sarvasiddhiṃ ca sampadam || prāṇāṃśca na samartho'haṃ pradātuṃ śaraṇāgatam || 89 || yo dadāti bhayenaiva prapannaṃ śaraṇāgatam || taṃ ca dharmaḥ parityajya yāti śaptvā sudāruṇam || 1.9.90 || sarvaṃ tyaktuṃ samartho'haṃ na svadharmaṃ jagatprabho || yaḥ svadharmavihīnaśca sa ca sarvabahiṣkṛtaḥ || 91 || yaśca dharmaṃ sadā rakṣeddharmastaṃ parirakṣati || dharmaṃ vedeśvara tvaṃ ca kiṃ māṃ brūhi svamāyayā || 92 || tvaṃ sarvamātā sraṣṭā ca hantā ca pariṇāmataḥ || tvayi bhaktirdṛḍhā yasya tasya kasmādbhayaṃ bhavet || 93 || śaṅkarasya vacaḥ śrutvā bhagavānsarvabhāvavit || candraṃ candrādviniṣkṛṣya dakṣāya pradadau hariḥ || 94 || pratasthāvarddhacandraśca nirvyādhiḥ śivaśekhare || nijagrāha paraṃ candraṃ viṣṇudattaṃ prajāpatiḥ || 95 || yakṣmagrastaṃ ca taṃ dṛṣṭvā dakṣastuṣṭāva mādhavam || pakṣe pūrṇaṃ kṣataṃ pakṣe taṃ cakāra hariḥ svayam || 96 || kṛṣṇastebhyo varaṃ dattvā jagāma svālayaṃ dvija || dakṣaścandraṃ gṛhītvā ca kanyābhyaḥ pradadau punaḥ || 97 || candrastāśca pariprāpya vijahāra divāniśam || samaṃ dadarśa tāḥ sarvāstatprabhṛtyeva kampitaḥ || 98 || ityevaṃ kathitaṃ sarvaṃ kiñcitsṛṣṭikramaṃ mune || śrutaṃ ca guruvaktreṇa puṣkare munisaṃsadi || 99 || iti śrībahmavaivarte mahāpurāṇe sautiśaunakasaṃvāde brahmakhaṇḍe navamo'dhyāyaḥ || 9 ||
English translation
Progeny of the daughters of Dak$a Sauti Said, “O best of the Brahmanas, thereafter, Brahma commanded his sons to start creation and all the sons started creation except Narada. From the mind of MarTca, Prajapati, Kasyapa, was bom. From the eyes of the sage Atri, moon was bom in Ksirasagara (ocean of Gautama was bom out of the mind of Praceta and Maitra-vamna appeared from Pulastya.
From Manu and Satarupa, three daughters were bom, in the name of Akuti, Devahuti and Prasuti, who were all well-virtuous. In addition to the daughters, Priyavrata and Uttanapada two' sons were also bom to them. The most religions Dhruva was the son of Uttanapada.
Akuti was married to Ruci, Prasuti to Daksa and Devahuti to Kardama. Kapila was bom of With the semen of Daksa, sixty daughters were bom from the womb of Prasuti. Out of these sixty daughters, he gave away in marriage, eight to Dharma, eleven to Rudra one name Satl to Siva, thirteen to Kasyapa and twenty seven to the moon.
O Brahmana, I am reciting the names of the wives of Dharma. These were Sauti, Pusti, Dh|*ti, Ksama, Sraddha, Mati and Smrti.
A son named Saihtosa was bom to Santi and Mahan was a son of Pusti. Dhairya was bom to Dhrti and Harsa and Darpa to Tusti.
yQrojsr gife:i Similarly Sahisnu was bom of Ksama, Dharmika from Sraddha, Jhana from Mati and Jatismara from Smrti were bom.
O Saunaka, from Mati, the first wife of Dhanna, two sages known as Nara and Narayana and several other religions sons were bom.
I shall now narrate the names of the wives of Rudras. Listen to me attentively. These were Kandall, Bhisana, Rasna, Pramoca, Bhusana and Sukl. Many sons were bom to them who became the attendants of Siva.
Because of the denouncing of her husband, Siva, who was the lord of yajnas in the function in the abode of Daksa Satl ended her life and was bom again in the house of Himalayas as the daughter of Mena and married ^iva again as her O Religions ones, now you listen to the names of the wives of Kasyapa, who were, Aditi, the mother of gods, Kadru the mother of serpents, Viaata the mother of the birds, Surabhi, the mother of cows and bulls; Sarama daughter of dogs and other four footed animals, Danu the mother of the Danavas, besides several other wives who gave birth to many sons and O Brahman, Indra, the twelve Adityas, Upendra (Visnu) and other gods, are believed to be the sons of Aditi.
Jayanta was bom of SacI, the spouse of Indra.
Sani and Yama were bom of Suvana, the daughter of Visvakarma besides a daughter named Yamuna. Similarly the planet Mangala was born out of the earth from the seed of Saunaka said, “O Son of SQta, tell me, how was the valorous Mangala planet bom of the earth. Kindly tell me.
Sauti said, “once the earth-became passionate at the sight of the beauty of Upendra. She then turned herself into the form of a beautiful damsel and went to the lonely place of Malyavan mountain which abounded with the sandal-wood trees having tender leaves. Her entire body was plastered with the sandal-paste. She was adorned with the gem-studded ornaments and wore a serene and calm out look and a smile on her face.
She wore a beautiful garland of fragrant flowers, besides the perfume of saffron and kasturl emitted from her body. She found her beloved sleeping over a bed and infected with passion she herself reached him she then presented him with beautiful garland of fragrant jasmine flowers together with the perfume of kasturi and saffron.
By her union with him she felt intoxicated and was about to faint. When the seed of Visnu was implanted in her she felt like a half dead person.
Thereafter, the damsel with wide waist and developed breasts, fatigued with the performing of the love sport, she was smiling. Upendra them embraced her and kissed her lips. Thereafter, Purusottama left the place leaving her alone O sage, per chance Urvasi, passed by the way.
She enquired about her welfare and brought her to senses. The earth goddess narrated to her the Thereafter the weak earth was unable to bear the seed of Visnu. She then dropped the semen in the mine of gems and the planet Mangala was born out of it. That son of Narayana was known as great illustrious like the sun.
The spouse of Mangala was known as Medha and their sons were also illustrious like the lord Visnu. Two sons were bom to Diti, who were known as Hiranyaksa and Hiranyakasipu besides a daughter named Simhika. Rahu was the son of Hiranyaksa was issueless. He was killed young by the Varaha incarnation of Visnu.
Prahlada, the son of Hiranyakasipu was the best of the Vaisnavas. His son was known as Virocana and Bali was the son of Virocana.
Banasura was the son of Bali who was a great yogi and great devotee of Siva, Thus I have spelt out the details about the family of Diti. Now I speak about the race of Kadru. Which you please Gokarmuka and Virupa are the chiefs of all the races of the serpents.
The girl bom of LaksmI was given the name of Manasa, who happens to be the best of the female ascetics. She is illustrious and bestows Simhika was also known as Nirrti because of which Rahu was also known as Nairrta.
Jaratkaru happens to be her husband who was bom out of the ams'a of Visnu. Astika is the son of Jaratkam who too is illustrious like Visnu.
By reciting their names the humans are relieved of the danger from snakes. I have apprised you of the details of the family of Kadru and shall now enlighten you about the race of Aruna and Garuda were the two sons of Vinata. Both of them were valorous like Visnu.
All the spices of the birds emerged out of them.
The cows and buffaloes were bom out of Surabhi. All the dogs were born of Sarama. The sons born of Danu were known as Danavas and the rest of the races were bom out of different females. Thus describing about the race of Kasyapa I now speak about the solar race.
First of all you listen about the wives of the moon and their stories which have been highlighted in the Puranas.
fIraT -m wjnfeErii k o n tRjT i^cil'sirei Tpri w WrTT I The spouses of the moon include, AsvinI, and Revatl. These are the twenty seven in number of all these the passionate and beautiful RohinI is dearest to him, because she had always overpowered the moon because of her live and devotion. The moon then neglected his other Thereafter the neglected sisters complained to his father collectively that they were jeered-^t by the co-wives.
The emerged father then pronounced a curse on the moon. Because of the curse of his father- in-law, the moon suffered fi'om consumption.
Gradually his strength and lustre went on decreasing. Ultimately the moon took refuge with ^iva. The compassionate ^iva, finding the moon so suffering he freed him from the danger.
He relieved the moon from the disease of consumption and placed him over his head. The moon this became eternal and was lodged over the head of Siva, which freed the moon of all the IT te figr Thereafter, Siva came to be known a Candrasekhara because of his accommodating the moon over his head. 0 Gods, there is no one else who could be more compassionate then Then the daughters of Daksa finding the moon having been freed from the ailment, again started crying and reached Daksa, the illustrious one.
They then started lamenting while crying and beating their breasts. They cried aloud feeling miserable and spoke to Daksa, the son of For ladies, husband alone is Nfirayana, the vow and the ancient religion. Because of this, the religion functions performed by the ladies after antagonising the husbands are of no avail.
Bathing at all the holy places and the daksina given after performing of the yajnas, noble deeds, to adoration of gods, holy fasting and all the types of meditation do not equate with even the sixteenth ray as compared to the serving at the feet of the husband, Son is the dearest of all the relatives but the same son happens only fo be a part of the husband. Therefore the husband is far more important than the hundreds of sons., The daughter of Daksa said, “O Father, we had prayed to you for seeking the grace of our husband. But instead of getting his grace, our lord has left us.
O Father, we find darkness every where in the universe inspite of having eyes. We have now come to realise that the husband only is the eyes for the ladies.
gfg; trfg-. sfiunsr gg^;i afftdvwtdi gr gr tfs g^i A lady bom in an evil family always remains environs her husband because her mind always remains unstable and she feels attracted towards the evil and wicked people.
TffM flfgtit fs goi^fwT I But the chaste ladies serve her husbands even when he is mean, degraded, sickly, wicked, poor deprived of virtues and whether young or old.
Not only this, the movement of the ladies, their life and the riches are vested in the husband.
He alone is the cause of dharma, artha, kdma and moksa and the means to cross the ocean of the universe.
A woman who envies a poor or virtuous husband and deserts him, she suffers in the horrible hell till the sun and moon shine on earth.
where insects eat her up like dogs day and night.
When hungry, she has to consume the flesh of dead bodies and has to consume the urine to quench her thirst.
You also happen to be my son in law. In case you do not return my son-in-law to me, I shall pronounce a horrible curse on you and you will not be able to free yourself from it.
She then is born crores of times as vulture, female pig for a hundred years and carnivore for a hundred births and ultimately she destroys her own family.
Again, because of her good deeds, in case she is reborn as a human, she becomes a widow, a pauper and remains sickly. This is certain.
O Son of Brahmana, you better restore our husband to us because you can create the universe like Brahma himself?”.
On hearing the words of his daughters, Daksa went to Siva, who got up from his seat and bowed in reverence before Daksa, Daksa then blessed Siva, the compassionate one. Finding Daksa said, “O Lord Siva, you please return my son in law who is dearer to my daughters than their lives even.
O Brahmana, on hearing the words of Daksa, Siva spoke the words which were sweeter than the nectar even.
Siva said, “Whether your reduce me to ashes or pronounce a curse on me, but I am unable to return the moon who has taken the refuge under On hearing the words of Siva, Daksa was about to pronounce a curse of Siva. At that point of time, Siva remembered of Govinda.
ft g qqf: WRcii:il<i?ll At that very moment, lord Krsna appeared on the scene in the fonn of an old Brahmana, who happened to be the creation of both of them.
Both of them bowed before him in reverence.
O Brahmana, he blessed both of them with his divine light and he then spoke to Siva first.
The lord said, “O Siva, nothing is dearer to them the soul in all the creatures, therefore O Lord of the gods, you better same yourself by giving away the moon the Daksa, You are the best of the recluses, are calm, first among the Vaisnavas and you treat aii the creatures in one and the same way. Yon are free from violence and anger.
Daksa is full of anger, terrific and is an illustrious son of Brahma. A noble person gives in before a terrific person who never gets afraid Hearing the words of Narayana, Siva smiled and spoke quite appropriate words which were the gist of the politics.
T TROW d II Siva said, “I can sacrifice my tapas, glory, all the achievements, the riches and even my life but cannot give away the person who had taken refuge with me, t gr m: xtferig w on because the one who disown the person who had taken refuge with him, he is also abandoned by the Dharma pronouncing a curse of him.
Therefore, O lord of the universe. I can disown anyone except the Dharma, Because the one who is deprived of the Dharma of his own is discarded by all the Dharma.
mr ^ fgj w winggri)? n The one who protest Dharma, he is also protected Dharma. O Lord you are well aware of the Dharma and as such why do you speak such words influenced with your illusion.
You are the producer and the creator of all besides being the destroyer. The one who is deeply devoted to you cannot be afraid of The lord who is well aware of the sentiments of others listened to the words of Siva quite attentively. He then took out the moon from his head and gave him away to Daksa.
The half them the half portion of the moon which was quite healthy was placed over the head of Siva, while the other half which was ailing went to Daksa, who finding the same infested with the disease of consumption, prayed to lord Krsna, who so managed that the moon would become full during one fortnight and lustre less during the other fortnight. Thus blessing both of them lord Krsna retreated to his abode. Daksa on his part entrusted the care of the moon to his daughters. The moon on the other hand treated all his wives equally from that time on wards and enjoyed all the pleasures of their O BrShmana, I have narrated to you all whatever was hard by me at Psskara from the mouth of my teacher..
Chapter-aligned complete witnesses. Sanskrit Wikisource revision 400028 (2023-12-26T21:35:23Z); Shanti Lal Nagar English scan pages n39–n47: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n39/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.