Skip to main content

Brahma-khaṇḍa · Chapter 3

Chapter 3

Unit 3 of 276Brahma-khaṇḍa · Chapter 3Brahma-khaṇḍa · Chapter 31 source entries

Brahma-khaṇḍa · Chapter 3

Source

सौतिरुवाच ।। दृष्ट्वा शून्यमयं विश्वं गोलोकं च भयङ्करम्।। निर्जन्तु निर्जलं घोरं निर्वातं तमसा वृतम् ।। १ ।। वृक्षशैलसमुद्रादिविहीनं विकृताकृतम् ।। निर्मुक्तिकं च निर्धातु निःसस्यं निस्तृणं द्विज।।२।। आलोच्य मनसा सर्वमेक एवासहायवान् ।। स्वेच्छया स्रष्टुमारेभे सृष्टिं स्वेच्छामयः प्रभुः ।। ३ ।। आविर्बभूवुः सर्गादौ पुंसो दक्षिणपार्श्वतः ।। भवकारणरूपाश्च मूर्तिमन्तस्त्रयो गुणाः ।। ४ ।। ततो महानहङ्कारः पञ्चतन्मात्र एव च ।। रूपरसगन्धस्पर्शशब्दाश्चैवेतिसंज्ञकाः ।। ५ ।। आविर्बभूव पश्चात्स्वयं नारायणः प्रभुः ।। श्यामो युवा पीतवासा वनमाली चतुर्भुजः ।। ६ ।। शंखचक्रगदापद्मधरः स्मेरमुखाम्बुजः ।। रत्नभूषणभूषाढ्यः शार्ङ्गी कौस्तुभभूषणः ।। ७ ।। श्रीवत्सवक्षाः श्रीवासः श्रीविधिः श्रीविभावनः ।। शारदेन्दुप्रभामृष्टसुखेन्दुसुमनो हरः ।। ८ ।। कामदेवप्रभामृष्टरूपलावण्यसुन्दरः ।। श्रीकृष्णपुरतः स्थित्वा तुष्टाव तं पुटाञ्जलिः ।। ९ ।। नारायण उवाच ।। वरं वरेण्यं वरदं वरार्हं वरकारणम् ।। कारणं कारणानां च कर्म तत्कर्मकारणम् ।। 1.3.१० ।। तपस्तत्फलदं शश्वत्तपस्वीशं च तापसम् ।। वन्दे नवघनश्यामं स्वात्मारामं मनोहरम् ।।११।। निष्कामं कामरूपं च कामघ्नं कामकारणम्।। सर्वं सर्वेश्वरं सर्वं बीजरूपमनुत्तमम् ।। ।। १२ ।। वेदरूपं वेदभवं वेदोक्तफलदं फलम् ।। वेदज्ञं तद्विधानं च सर्ववेदविदांवरम् ।। १३ ।। इत्युक्त्वा भक्तियुक्तश्च स उवास तदाज्ञया ।। रत्नसिंहासने रम्ये पुरतः परमात्मनः ।। १४ ।। नारायणकृतं स्तोत्रं यः पठेत्सुसमाहितः ।। त्रिसंध्यं यः पठेन्नित्यं पापं तस्य न विद्यते ।। १५ ।। पुत्रार्थी लभते पुत्रं भार्य्यार्थी लभते प्रियाम् ।। भ्रष्टराज्यो लभेद्राज्यं धनं भ्रष्टधनो लभेत् ।।१६।। कारागारे विपद्ग्रस्तः स्तोत्रेणानेन मुच्यते ।। रोगात्प्रमुच्यते रोगी ध्रुवं श्रुत्वा च संयतः ।। १७ ।। सौतिरुवाच ।। आविर्बभूव तत्पश्चादात्मनो वामपार्श्वतः ।। शुद्धस्फटिकसङ्काशः पञ्चवक्त्रो दिगम्बरः ।। १८ ।। तप्तकाञ्चनवर्णाभ जटाभारधरो वरः ।। ईषद्धास्यप्रसन्नास्यस्त्रिनेत्रश्चन्द्रशेखरः ।। १९ ।। त्रिशूलपट्टिशधरो जपमालाकरः परः ।। सर्वसिद्धेश्वरः सिद्धो योगीन्द्राणां गुरोर्गुरुः ।। 1.3.२० ।। मृत्योर्मृत्युरीश्वरश्च मृत्युर्मृत्युञ्जयः शिवः ।। ज्ञानानन्दो महाज्ञानी महाज्ञानप्रदः परः ।।२१।। पूर्णचन्द्रप्रभामृष्टमुखदृश्यो मनोहरः ।। वैष्णवानां च प्रवरः प्रज्वलन्ब्रह्मतेजसा।।२२।। श्रीकृष्पुरतः स्थित्वा तुष्टाव तं पुटाञ्जलिः।। पुलकाङ्कितसर्वाङ्गः साश्रुनेत्रोऽतिगद्गदः।।२३।। महादेव उवाच ।। जयस्वरूपं जयदं जयेशं जयकारणम् ।। प्रवरं जयदानां च वन्दे तमपराजितम् ।। २४ ।। विश्वं विश्वेश्वरेशं च विश्वेशं विश्वकारणम् ।। विश्वाधारं च विश्वस्तं विश्वकारणकारणम् ।। २५ ।। विश्वरक्षाकारणं च विश्वघ्नं विश्वजं परम् ।। फलबीजं फलाधारं फलं च तत्फलप्रदम् ।। २६ ।। तेजःस्वरूपं तेजोदं सर्वतेजस्विनां वरम् ।। इत्येवमुक्त्वा तं नत्वा रत्नसिंहासने वरे ।। नारायणं च संभाष्य स उवास तदाज्ञया ।। २७ ।। इति शम्भुकृतं स्तोत्रं यो जनः संयतः पठेत् ।। सर्वसिद्धिर्भवेत्तस्य विजयं च पदे पदे ।। २८ ।। सन्ततं वर्द्धते मित्रं धनमैश्वर्य्यमेव च ।। शत्रुसैन्यं क्षयं याति दुःखानि दुरितानि च ।। २९ ।। इति ब्रह्मवैवर्ते शम्भुकृतं श्रीकृष्णस्तोत्रम् ।। सौतिरुवाच ।। आविर्वभूव तत्पश्चात्कृष्णस्य नाभिपङ्कजात् ।। महातपस्वी वृद्धश्च कमण्डलुकरो वरः ।। 1.3.३० ।। शुक्लवासाः शुक्लदन्तः शुक्लकेशश्चतुर्मुखः ।। योगीशः शिल्पिनामीशः सर्वेषां जनको गुरुः ।। ३१ ।। तपसां फलदाता च प्रदाता सर्वसम्पदाम् ।। स्रष्टा विधाता कर्त्ता च हर्त्ता च सर्वकर्मणाम् ।।३२ ।। धाता चतुर्णां वेदानां ज्ञाता वेदप्रसूपतिः ।। शान्तः सरस्वतीकान्तः सुशीलश्च कृपानिधिः।।३३ श्रीकृष्णपुरतः स्थित्वा तुष्टाव तं पुटाञ्जलिः ।। पुलकांकितसर्वांगो भक्तिनम्रात्मकन्धरः ।। ३४ ।। ।। ब्रह्मोवाच ।। ।। कृष्णं वन्दे गुणातीतं गोविन्दमेकमक्षरम् ।। अव्यक्तमव्ययं व्यक्तं गोपवेषविधायिनम् ।। ३५ ।। किशोरवयसं शान्तं गोपीकान्तं मनोहरम् ।। नवीननीरदश्यामं कोटिकन्दर्पसुन्दरम्।।३६।। वृन्दावनवनाभ्यर्णे रासमण्डलसंस्थितम् ।। रासेश्वरं रासवासं रासोल्लाससमुत्सुकम्।।३७।। इत्येवमुक्त्वा तं नत्वा रत्नसिंहासने वरम् ।। नारायणेशौ संभाष्य स उवास तदाज्ञया ।। ३८ ।। इति ब्रह्मकृतं स्तोत्रं प्रातरुत्थाय यः पठेत्।। पापानि तस्य नश्यन्ति दुःस्वप्नः सुस्वप्नो भवेत् ।। ३९ ।। भक्तिर्भवति गोविन्दे श्रीपुत्रपौत्रवर्द्धिनी ।। अकीर्तिः क्षयमाप्नोति सत्कीर्त्तिर्वर्द्धते चिरम् ।। 1.3.४० ।। इति ब्रह्मवैवर्त्ते ब्रह्मकृतं श्रीकृष्णस्तोत्रम् ।। सौतिरुवाच ।। आविर्बभूव तत्पश्चाद्वक्षसः परमात्मनः ।। सस्मितः पुरुषः कश्चिच्छुक्लवर्णो जटाधरः ।। ४१ ।। सर्वसाक्षी च सर्वज्ञः सर्वेषां सर्वकर्मणाम् ।। समः सर्वत्र सदयो हिंसाकोपविवर्जितः ।। ४२ ।। धर्मज्ञानयुतो धर्मो धर्मिष्ठो धर्मदो भवेत् ।। स एव धर्मिणां धर्मः परमात्मा फलोद्भवः ।। ४३ ।। श्रीकृष्णपुरतः स्थित्वा प्रणम्य दण्डवद्भुवि ।। तुष्टाव परमात्मानं सर्वेशं सर्वकामदम् ।। ४४ ।। श्रीधर्म उवाच ।। ।। कृष्णं विष्णुं वासुदेवं परमात्मानमीश्वरम् ।। गोविन्दं परमानन्दमेकमक्षरमच्युतम् ।। ४५ ।। गोपेश्वरं च गोपीशं गोपं गोरक्षकं विभुम् ।। गवामीशं च गोष्ठस्थं गोवत्सपुच्छधारिणम् ।।४६।। गोगोपगोपीमध्यस्थं प्रधानं पुरुषोत्तमम् ।।४७।। इत्युच्चार्य्य समुत्तिष्ठन्रत्नसिंहासने वरे ।। ब्रह्मविष्णुमहेशांस्तान्सम्भाष्य स उवास ह।।४८।। चतुर्विशतिनामानि धर्मवक्त्रोद्गतानि च।। यः पठेत्प्रातरुत्थाय स सुखी सर्वतो जयी ।।४९।। मृत्युकाले हरेर्नाम तस्य साध्यं लभेद् धुवम् ।। स यात्यन्ते हरेः स्थानं हरिदास्यं भवेद्ध्रुवम् ।।1.3.५०।। नित्यं धर्मस्तं घटते नाधर्मे तद्रतिर्भवेत् ।। चतुर्वर्ग फलं तस्य शश्वत्करगतं भवेत्।।५१।। तं दृष्ट्वा सर्वपापानि पलायन्ते भयेन च।। भयानि चैव दुःखानि वैनतेयमिवोरगाः।।५२।। इति ब्रह्मवैवर्त्ते धर्मकृतं श्रीकृष्णस्तोत्रम् ।। सौतिरुवाच ।। आविर्बभूव कन्यैका धर्मस्य वामपार्श्वतः ।। मूर्त्तिर्मूर्तिमती साक्षाद्द्वितीया कमलालया ।।५३ ।। आविर्बभूव तत्पश्चान्मुखतः परमात्मनः ।। एका देवी शुक्लवर्णा वीणापुस्तकधारिणी ।।५४।। कोटिपूर्णेन्दुशोभा ढ्या शरत्पङ्कजलोचना ।। वह्निशुद्धांशुकाधाना रत्नभूषणभूषिता ।। ५५ ।। सस्मिता सुदती श्यामा सुन्दरीणां च सुन्दरी ।। श्रेष्ठा श्रुतीनां शास्त्राणां विदुषां जननी परा ।। ५६ ।। वागधिष्ठातृदेवी सा कवीनामिष्टदेवता ।। शुद्धसत्त्वस्वरूपा च शान्तरूपा सरस्वती ।। ५७ ।। गोविन्दपुरतः स्थित्वा जगौ प्रथमतः सुखम् ।। तन्नामगुणकीर्तिं च वीणया सा ननर्त्त च ।। ५८ ।। कृतानि यानि कर्माणि कल्पेकल्पे युगेयुगे ।। तानि सर्वाणि हरिणा तुष्टाव संपुटांजलिः ।।५९।। सरस्वत्युवाच ।। रासमण्डलमध्यस्थं रासोल्लाससमुत्सुकम् ।। रत्नसिंहासनस्थं च रत्नभूषणभूषितम् ।। 1.3.६० ।। रासेश्वरं रासकरं वरं रासेश्वरीश्वरम् ।। रासाधिष्ठातृदैवं च वन्दे रासविनोदिनम् ।।६१।। रासायासपरिश्रान्तं रासरासविहारिणम् ।। रासोत्सुकानां गोपीनां कान्तं शान्तं मनोहरम्।।६२।। प्रणम्य च तमित्युक्त्वा प्रहृष्टवदना सती ।। उवास सा सकामा च रत्नसिंहासने वरे ।। ६३ ।। इति वाणीकृतं स्तोत्रं प्रातरुत्थाय यः पठेत ।। बुद्धिमान्धनवान्सोऽपि विद्यावान्पुत्रवान्सदा ।।६४।। इति ब्रह्मवैवर्ते सरस्वतीकृतं श्रीकृष्णस्तोत्रम् ।। सौतिरुवाच।। आविर्बभूव मनसः कृष्णस्य परमात्मनः ।। एका देवी गौरवर्णा रत्नालंकारभूषिता ।। ६५ ।। पीतवस्त्रपरीधाना सस्मिता नवयौवना ।। सर्वैश्वर्य्याधिदेवी सा सर्वसम्पत्फलप्रदा ।। स्वर्गे च स्वर्गलक्ष्मीश्च राजलक्ष्मीश्च राजसु ।। ६६ ।। सा हरेः पुरतः स्थित्वा परमात्मानमीश्वरम् ।। तुष्टाव प्रणता साध्वी भक्तिनम्रात्मकन्धरा ।। ६७ ।। महालक्ष्मीरुवाच ।। सत्यस्वरूपं सत्येशं सत्यबीजं सनातनम् ।। सत्याधारं च सत्यज्ञं सत्यमूलं नमाम्यहम् ।। ६८ ।। इत्युक्त्वा श्रीहरिं नत्वा सा चोवास सुखासने ।। तप्तकांचनवर्णाभा भासयन्ती दिशस्त्विषा ।। ६९ ।। आविर्बभूव तत्पश्चाद् बुद्धेश्च परमात्मनः ।। सर्वाधिष्ठातृदेवी सा मूलप्रकृतिरीश्वरी ।। 1.3.७० ।। तप्तकाञ्चनवर्णाभा सूर्य्यकोटिसमप्रभा ।। ईषद्धास्यप्रसन्नास्या शरत्पङ्कजलोचना ।। ७१ ।। रक्तवस्त्रपरीधाना रत्नाभरणभूषिता ।। निद्रातृष्णा क्षुत्पिपासा दया श्रद्धा क्षमादिकाः ।। ७२ ।। तासां च सर्वशक्तीनामीशाधिष्ठातृदेवता ।। भयङ्करी शतभुजा दुर्गा दुर्गार्तिनाशिनी ।। ७३ ।। आत्मनः शक्तिरूपा सा जगतां जननी परा ।। त्रिशूलशक्तिशार्ङ्गं च धनुःखड्गशराणि च ।। ७४ ।। शंख चक्रगदापद्ममक्षमालां कमण्डलुम् ।। वज्रमङ्कुशपाशं च भुशुण्डीदण्डतोमरम् ।।७५।। नारायणास्त्रं ब्रह्मास्त्रं रौद्रं पाशुपतं तथा ।। पार्ज्जन्यं वारुणं वाह्नं गान्धर्वं बिभ्रती सती ।। कृष्णस्य पुरतः स्थित्वा तुष्टाव तं मुदाऽन्विता ।। ७६ ।। प्रकृतिरुवाच।। अहं प्रकृतिरीशाना सर्वेशा सर्वरूपिणी ।। सर्वशक्तिस्वरूपा च मया च शक्तिमज्जगत् ।। ७७ ।। त्वया सृष्टा न स्वतन्त्रा त्वमेव जगतां पतिः ।। गतिश्च पाता स्रष्टा च संहर्त्ता च पुनर्विधिः ।। ७८ ।। स्रष्टुं स्रष्टा च संहर्तुं संहर्ता वेधसा विधिः ।। परमानन्दरूपं त्वां वन्दे चानन्दपूर्वकम् ।। चक्षुर्निमेषकाले च ब्रह्मणः पतनं भवेत् ।। ७९ ।। तस्य प्रभावमतुलं वर्णितुं कः क्षमो विभो ।। भ्रूभङ्गलीलामात्रेण विष्णुकोटिं सृजेत्तु यः ।। 1.3.८० ।। चराचरांश्च विश्वेषु देवान्ब्रह्मपुरोगमान् ।। मद्विधाः कति वा देवीः स्रष्टुं शक्तश्च लीलया ।। ८१ ।। परिपूर्णतमं स्वीड्यं वन्दे चानन्दपूर्वकम् ।। महान्विराड् यत्कलांशो विश्वसंख्याश्रयो विभो ।। वन्दे चानन्दपूर्वं तं परमात्मानमीश्वरम् ।। ८२ ।। यं च स्तोतुमशक्ताश्च ब्रह्मविष्णुशिवादयः ।। वेदा अहं च वाणी च वन्दे तं प्रकृतेः परम् ।। ८३ ।। वेदाश्च विदुषां श्रेष्ठाः स्तोतुं शक्ताश्च न क्षमाः ।। निर्लक्ष्यं कः क्षमः स्तोतुं तं निरीहं नमाम्यहम् ।। ८४ ।। इत्येवमुक्त्वा सा दुर्गा रत्नसिंहासने वरे ।। उवास नत्वा श्रीकृष्णं तुष्टुवुस्तां सुरेश्वराः ।।८५।। इति दुर्गाकृतं स्तोत्रं कृष्णस्य परमात्मनः ।। यः पठेदर्च्चनाकाले स जयी सर्वतः सुखी।। ८६ ।। दुर्गा तस्य गृहं त्यक्त्वा नैव याति कदाचन ।। भवाब्धौ यशसा भाति यात्यन्ते श्रीहरेः पुरम् ।। ८७ ।। इति श्रीब्रह्मवैवर्त्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे सृष्टिनिरूपणे दुर्गास्तोत्रं नाम तृतीयोऽध्यायः ।। ३ ।।

sautiruvāca || dṛṣṭvā śūnyamayaṃ viśvaṃ golokaṃ ca bhayaṅkaram|| nirjantu nirjalaṃ ghoraṃ nirvātaṃ tamasā vṛtam || 1 || vṛkṣaśailasamudrādivihīnaṃ vikṛtākṛtam || nirmuktikaṃ ca nirdhātu niḥsasyaṃ nistṛṇaṃ dvija||2|| ālocya manasā sarvameka evāsahāyavān || svecchayā sraṣṭumārebhe sṛṣṭiṃ svecchāmayaḥ prabhuḥ || 3 || āvirbabhūvuḥ sargādau puṃso dakṣiṇapārśvataḥ || bhavakāraṇarūpāśca mūrtimantastrayo guṇāḥ || 4 || tato mahānahaṅkāraḥ pañcatanmātra eva ca || rūparasagandhasparśaśabdāścaivetisaṃjñakāḥ || 5 || āvirbabhūva paścātsvayaṃ nārāyaṇaḥ prabhuḥ || śyāmo yuvā pītavāsā vanamālī caturbhujaḥ || 6 || śaṃkhacakragadāpadmadharaḥ smeramukhāmbujaḥ || ratnabhūṣaṇabhūṣāḍhyaḥ śārṅgī kaustubhabhūṣaṇaḥ || 7 || śrīvatsavakṣāḥ śrīvāsaḥ śrīvidhiḥ śrīvibhāvanaḥ || śāradenduprabhāmṛṣṭasukhendusumano haraḥ || 8 || kāmadevaprabhāmṛṣṭarūpalāvaṇyasundaraḥ || śrīkṛṣṇapurataḥ sthitvā tuṣṭāva taṃ puṭāñjaliḥ || 9 || nārāyaṇa uvāca || varaṃ vareṇyaṃ varadaṃ varārhaṃ varakāraṇam || kāraṇaṃ kāraṇānāṃ ca karma tatkarmakāraṇam || 1.3.10 || tapastatphaladaṃ śaśvattapasvīśaṃ ca tāpasam || vande navaghanaśyāmaṃ svātmārāmaṃ manoharam ||11|| niṣkāmaṃ kāmarūpaṃ ca kāmaghnaṃ kāmakāraṇam|| sarvaṃ sarveśvaraṃ sarvaṃ bījarūpamanuttamam || || 12 || vedarūpaṃ vedabhavaṃ vedoktaphaladaṃ phalam || vedajñaṃ tadvidhānaṃ ca sarvavedavidāṃvaram || 13 || ityuktvā bhaktiyuktaśca sa uvāsa tadājñayā || ratnasiṃhāsane ramye purataḥ paramātmanaḥ || 14 || nārāyaṇakṛtaṃ stotraṃ yaḥ paṭhetsusamāhitaḥ || trisaṃdhyaṃ yaḥ paṭhennityaṃ pāpaṃ tasya na vidyate || 15 || putrārthī labhate putraṃ bhāryyārthī labhate priyām || bhraṣṭarājyo labhedrājyaṃ dhanaṃ bhraṣṭadhano labhet ||16|| kārāgāre vipadgrastaḥ stotreṇānena mucyate || rogātpramucyate rogī dhruvaṃ śrutvā ca saṃyataḥ || 17 || sautiruvāca || āvirbabhūva tatpaścādātmano vāmapārśvataḥ || śuddhasphaṭikasaṅkāśaḥ pañcavaktro digambaraḥ || 18 || taptakāñcanavarṇābha jaṭābhāradharo varaḥ || īṣaddhāsyaprasannāsyastrinetraścandraśekharaḥ || 19 || triśūlapaṭṭiśadharo japamālākaraḥ paraḥ || sarvasiddheśvaraḥ siddho yogīndrāṇāṃ gurorguruḥ || 1.3.20 || mṛtyormṛtyurīśvaraśca mṛtyurmṛtyuñjayaḥ śivaḥ || jñānānando mahājñānī mahājñānapradaḥ paraḥ ||21|| pūrṇacandraprabhāmṛṣṭamukhadṛśyo manoharaḥ || vaiṣṇavānāṃ ca pravaraḥ prajvalanbrahmatejasā||22|| śrīkṛṣpurataḥ sthitvā tuṣṭāva taṃ puṭāñjaliḥ|| pulakāṅkitasarvāṅgaḥ sāśrunetro'tigadgadaḥ||23|| mahādeva uvāca || jayasvarūpaṃ jayadaṃ jayeśaṃ jayakāraṇam || pravaraṃ jayadānāṃ ca vande tamaparājitam || 24 || viśvaṃ viśveśvareśaṃ ca viśveśaṃ viśvakāraṇam || viśvādhāraṃ ca viśvastaṃ viśvakāraṇakāraṇam || 25 || viśvarakṣākāraṇaṃ ca viśvaghnaṃ viśvajaṃ param || phalabījaṃ phalādhāraṃ phalaṃ ca tatphalapradam || 26 || tejaḥsvarūpaṃ tejodaṃ sarvatejasvināṃ varam || ityevamuktvā taṃ natvā ratnasiṃhāsane vare || nārāyaṇaṃ ca saṃbhāṣya sa uvāsa tadājñayā || 27 || iti śambhukṛtaṃ stotraṃ yo janaḥ saṃyataḥ paṭhet || sarvasiddhirbhavettasya vijayaṃ ca pade pade || 28 || santataṃ varddhate mitraṃ dhanamaiśvaryyameva ca || śatrusainyaṃ kṣayaṃ yāti duḥkhāni duritāni ca || 29 || iti brahmavaivarte śambhukṛtaṃ śrīkṛṣṇastotram || sautiruvāca || āvirvabhūva tatpaścātkṛṣṇasya nābhipaṅkajāt || mahātapasvī vṛddhaśca kamaṇḍalukaro varaḥ || 1.3.30 || śuklavāsāḥ śukladantaḥ śuklakeśaścaturmukhaḥ || yogīśaḥ śilpināmīśaḥ sarveṣāṃ janako guruḥ || 31 || tapasāṃ phaladātā ca pradātā sarvasampadām || sraṣṭā vidhātā karttā ca harttā ca sarvakarmaṇām ||32 || dhātā caturṇāṃ vedānāṃ jñātā vedaprasūpatiḥ || śāntaḥ sarasvatīkāntaḥ suśīlaśca kṛpānidhiḥ||33 śrīkṛṣṇapurataḥ sthitvā tuṣṭāva taṃ puṭāñjaliḥ || pulakāṃkitasarvāṃgo bhaktinamrātmakandharaḥ || 34 || || brahmovāca || || kṛṣṇaṃ vande guṇātītaṃ govindamekamakṣaram || avyaktamavyayaṃ vyaktaṃ gopaveṣavidhāyinam || 35 || kiśoravayasaṃ śāntaṃ gopīkāntaṃ manoharam || navīnanīradaśyāmaṃ koṭikandarpasundaram||36|| vṛndāvanavanābhyarṇe rāsamaṇḍalasaṃsthitam || rāseśvaraṃ rāsavāsaṃ rāsollāsasamutsukam||37|| ityevamuktvā taṃ natvā ratnasiṃhāsane varam || nārāyaṇeśau saṃbhāṣya sa uvāsa tadājñayā || 38 || iti brahmakṛtaṃ stotraṃ prātarutthāya yaḥ paṭhet|| pāpāni tasya naśyanti duḥsvapnaḥ susvapno bhavet || 39 || bhaktirbhavati govinde śrīputrapautravarddhinī || akīrtiḥ kṣayamāpnoti satkīrttirvarddhate ciram || 1.3.40 || iti brahmavaivartte brahmakṛtaṃ śrīkṛṣṇastotram || sautiruvāca || āvirbabhūva tatpaścādvakṣasaḥ paramātmanaḥ || sasmitaḥ puruṣaḥ kaścicchuklavarṇo jaṭādharaḥ || 41 || sarvasākṣī ca sarvajñaḥ sarveṣāṃ sarvakarmaṇām || samaḥ sarvatra sadayo hiṃsākopavivarjitaḥ || 42 || dharmajñānayuto dharmo dharmiṣṭho dharmado bhavet || sa eva dharmiṇāṃ dharmaḥ paramātmā phalodbhavaḥ || 43 || śrīkṛṣṇapurataḥ sthitvā praṇamya daṇḍavadbhuvi || tuṣṭāva paramātmānaṃ sarveśaṃ sarvakāmadam || 44 || śrīdharma uvāca || || kṛṣṇaṃ viṣṇuṃ vāsudevaṃ paramātmānamīśvaram || govindaṃ paramānandamekamakṣaramacyutam || 45 || gopeśvaraṃ ca gopīśaṃ gopaṃ gorakṣakaṃ vibhum || gavāmīśaṃ ca goṣṭhasthaṃ govatsapucchadhāriṇam ||46|| gogopagopīmadhyasthaṃ pradhānaṃ puruṣottamam ||47|| ityuccāryya samuttiṣṭhanratnasiṃhāsane vare || brahmaviṣṇumaheśāṃstānsambhāṣya sa uvāsa ha||48|| caturviśatināmāni dharmavaktrodgatāni ca|| yaḥ paṭhetprātarutthāya sa sukhī sarvato jayī ||49|| mṛtyukāle harernāma tasya sādhyaṃ labhed dhuvam || sa yātyante hareḥ sthānaṃ haridāsyaṃ bhaveddhruvam ||1.3.50|| nityaṃ dharmastaṃ ghaṭate nādharme tadratirbhavet || caturvarga phalaṃ tasya śaśvatkaragataṃ bhavet||51|| taṃ dṛṣṭvā sarvapāpāni palāyante bhayena ca|| bhayāni caiva duḥkhāni vainateyamivoragāḥ||52|| iti brahmavaivartte dharmakṛtaṃ śrīkṛṣṇastotram || sautiruvāca || āvirbabhūva kanyaikā dharmasya vāmapārśvataḥ || mūrttirmūrtimatī sākṣāddvitīyā kamalālayā ||53 || āvirbabhūva tatpaścānmukhataḥ paramātmanaḥ || ekā devī śuklavarṇā vīṇāpustakadhāriṇī ||54|| koṭipūrṇenduśobhā ḍhyā śaratpaṅkajalocanā || vahniśuddhāṃśukādhānā ratnabhūṣaṇabhūṣitā || 55 || sasmitā sudatī śyāmā sundarīṇāṃ ca sundarī || śreṣṭhā śrutīnāṃ śāstrāṇāṃ viduṣāṃ jananī parā || 56 || vāgadhiṣṭhātṛdevī sā kavīnāmiṣṭadevatā || śuddhasattvasvarūpā ca śāntarūpā sarasvatī || 57 || govindapurataḥ sthitvā jagau prathamataḥ sukham || tannāmaguṇakīrtiṃ ca vīṇayā sā nanartta ca || 58 || kṛtāni yāni karmāṇi kalpekalpe yugeyuge || tāni sarvāṇi hariṇā tuṣṭāva saṃpuṭāṃjaliḥ ||59|| sarasvatyuvāca || rāsamaṇḍalamadhyasthaṃ rāsollāsasamutsukam || ratnasiṃhāsanasthaṃ ca ratnabhūṣaṇabhūṣitam || 1.3.60 || rāseśvaraṃ rāsakaraṃ varaṃ rāseśvarīśvaram || rāsādhiṣṭhātṛdaivaṃ ca vande rāsavinodinam ||61|| rāsāyāsapariśrāntaṃ rāsarāsavihāriṇam || rāsotsukānāṃ gopīnāṃ kāntaṃ śāntaṃ manoharam||62|| praṇamya ca tamityuktvā prahṛṣṭavadanā satī || uvāsa sā sakāmā ca ratnasiṃhāsane vare || 63 || iti vāṇīkṛtaṃ stotraṃ prātarutthāya yaḥ paṭheta || buddhimāndhanavānso'pi vidyāvānputravānsadā ||64|| iti brahmavaivarte sarasvatīkṛtaṃ śrīkṛṣṇastotram || sautiruvāca|| āvirbabhūva manasaḥ kṛṣṇasya paramātmanaḥ || ekā devī gauravarṇā ratnālaṃkārabhūṣitā || 65 || pītavastraparīdhānā sasmitā navayauvanā || sarvaiśvaryyādhidevī sā sarvasampatphalapradā || svarge ca svargalakṣmīśca rājalakṣmīśca rājasu || 66 || sā hareḥ purataḥ sthitvā paramātmānamīśvaram || tuṣṭāva praṇatā sādhvī bhaktinamrātmakandharā || 67 || mahālakṣmīruvāca || satyasvarūpaṃ satyeśaṃ satyabījaṃ sanātanam || satyādhāraṃ ca satyajñaṃ satyamūlaṃ namāmyaham || 68 || ityuktvā śrīhariṃ natvā sā covāsa sukhāsane || taptakāṃcanavarṇābhā bhāsayantī diśastviṣā || 69 || āvirbabhūva tatpaścād buddheśca paramātmanaḥ || sarvādhiṣṭhātṛdevī sā mūlaprakṛtirīśvarī || 1.3.70 || taptakāñcanavarṇābhā sūryyakoṭisamaprabhā || īṣaddhāsyaprasannāsyā śaratpaṅkajalocanā || 71 || raktavastraparīdhānā ratnābharaṇabhūṣitā || nidrātṛṣṇā kṣutpipāsā dayā śraddhā kṣamādikāḥ || 72 || tāsāṃ ca sarvaśaktīnāmīśādhiṣṭhātṛdevatā || bhayaṅkarī śatabhujā durgā durgārtināśinī || 73 || ātmanaḥ śaktirūpā sā jagatāṃ jananī parā || triśūlaśaktiśārṅgaṃ ca dhanuḥkhaḍgaśarāṇi ca || 74 || śaṃkha cakragadāpadmamakṣamālāṃ kamaṇḍalum || vajramaṅkuśapāśaṃ ca bhuśuṇḍīdaṇḍatomaram ||75|| nārāyaṇāstraṃ brahmāstraṃ raudraṃ pāśupataṃ tathā || pārjjanyaṃ vāruṇaṃ vāhnaṃ gāndharvaṃ bibhratī satī || kṛṣṇasya purataḥ sthitvā tuṣṭāva taṃ mudā'nvitā || 76 || prakṛtiruvāca|| ahaṃ prakṛtirīśānā sarveśā sarvarūpiṇī || sarvaśaktisvarūpā ca mayā ca śaktimajjagat || 77 || tvayā sṛṣṭā na svatantrā tvameva jagatāṃ patiḥ || gatiśca pātā sraṣṭā ca saṃharttā ca punarvidhiḥ || 78 || sraṣṭuṃ sraṣṭā ca saṃhartuṃ saṃhartā vedhasā vidhiḥ || paramānandarūpaṃ tvāṃ vande cānandapūrvakam || cakṣurnimeṣakāle ca brahmaṇaḥ patanaṃ bhavet || 79 || tasya prabhāvamatulaṃ varṇituṃ kaḥ kṣamo vibho || bhrūbhaṅgalīlāmātreṇa viṣṇukoṭiṃ sṛjettu yaḥ || 1.3.80 || carācarāṃśca viśveṣu devānbrahmapurogamān || madvidhāḥ kati vā devīḥ sraṣṭuṃ śaktaśca līlayā || 81 || paripūrṇatamaṃ svīḍyaṃ vande cānandapūrvakam || mahānvirāḍ yatkalāṃśo viśvasaṃkhyāśrayo vibho || vande cānandapūrvaṃ taṃ paramātmānamīśvaram || 82 || yaṃ ca stotumaśaktāśca brahmaviṣṇuśivādayaḥ || vedā ahaṃ ca vāṇī ca vande taṃ prakṛteḥ param || 83 || vedāśca viduṣāṃ śreṣṭhāḥ stotuṃ śaktāśca na kṣamāḥ || nirlakṣyaṃ kaḥ kṣamaḥ stotuṃ taṃ nirīhaṃ namāmyaham || 84 || ityevamuktvā sā durgā ratnasiṃhāsane vare || uvāsa natvā śrīkṛṣṇaṃ tuṣṭuvustāṃ sureśvarāḥ ||85|| iti durgākṛtaṃ stotraṃ kṛṣṇasya paramātmanaḥ || yaḥ paṭhedarccanākāle sa jayī sarvataḥ sukhī|| 86 || durgā tasya gṛhaṃ tyaktvā naiva yāti kadācana || bhavābdhau yaśasā bhāti yātyante śrīhareḥ puram || 87 || iti śrībrahmavaivartte mahāpurāṇe brahmakhaṇḍe sautiśaunakasaṃvāde sṛṣṭinirūpaṇe durgāstotraṃ nāma tṛtīyo'dhyāyaḥ || 3 ||

English translation

The universe emerges out of Kr$na; Sauti said: “0 Brahmana, the self bom lord found the Goloka had been looking horrible, the universe was a great void, devoid of all the creatures and the water, terrible, covered with darkness, deprived of trees, mountains and the oceans; defonned and had been deprived of the dust, metals, greenery and grass. The lord then contemplating in his mind deeply started the creation of his own accord.

All the virtues (elements) emerged at the beginning of the universe, from the right side of the great soul. The great tattvas, arrogance PancatanmStras the fQrm, taste, small, touch and sound then emerged out of him. Thereafter Narayana himself appeared having a dark complexion, clad in a yellow lower garment, having four arms holding conch, dies, club and lotus, wearing a serene smile over the face, adorned with the gem-studded ornaments, carrying the divine Sarnga-bow, wearing the kaustubha gem and the Srivatsa mark on the chest, beloved of LaksmI, glorious, adored by Sri, the face having the lustre of the full moon of the winter season, the body having the beauty of the god of love, stood before the Lord Krsna and started eulogising him with both the hands NarSyana said: “You are the best of all, adorable, bestower of the boons, the cause of granting the boon, cause of all the causes, form

of all the actions, form of tapas, the one who always grants reward of the tapas, tapas and the lord of all the sages, having the dark complexion like the new cloud beautiful, free from desires, form of all the desires, remover of the cowardice, cause of the birth of KSmadeva (the god of love), truthful, lord of all, form of all the seeds, the best of all, the form of the Vedas, the seed of the Vedas, bestower of the result of the reciting of the Vedas, well-versed in the Vedas, well aware of the provisions of the Vedas, besides being the best of all the people well versed in the Vedas; I bow in reverence to him.

Saying this, Lord Narayana, seated himself over the gem-studded lion throne, at the command of Lord Krsna. Whosoever recites this stotra recited by Narayana with a devoted mind in the morning, noon and the evening, thrice a day, he is relieved of all the sins. By reciting this, those desirous of getting a son, get the same; the seekers of a wife get the same, the deposed kings get back the kingdom and whosoever is deprived of the prowers, gets the same. The person who is overpowered with miseries, is relieved of them with the reciting of this prayer. The one who recites this prayer for a year, is relieved of all Sauti said: “Then from the left of his back side, five-faced Siva, having the lustre of a crystal, appeared. He was adorned with matted locks of hair having the complexion of heated gold. He wore a serene smile over his face, wore a crescent over his forehead, holding a trident in

his hands, served by the siddhas with the garlands of victory, the teacher of the teachers and the yogis, the one who overpowers even death, bestower of welfare, blissful, possessor of great knowledge, the best of all and the bestower of the great knowledge, having the face illumined with the lustre of the full moon, pleasant to look at, the chief of the Vaisnavas and emitted the divine light. He then stood before Lord Kfsna with folded hands and started praying. His entire body was filled with emotions; the eyes were filled with tears and his voice was choked.

Here ends prayer of Kfsna, offered by Mahadeva said: “You are the form of victory, bestower of victory, cause of victory, the best of those who bestow the victory. I bow before you, O Lord. The one who is of the universal form, the lord of the universe, the cause of the universe, the support of the universe, pervading of the universe, the cause of the universe, the destroyer of the universe, the best of the seed of the creation of the universe, the cause of the fruit, bestower of the reward, form of the lustre, the granter of the lustre and the best of all those possesing the lustre.

TETt? Eit tsR: Ti%Ei;i Sauti said: 'Thereafter out of the chest of Krs na, a divine figure of white complexion wearing the locks of hair over his heads. He wore a serene smile over his face. He was witness to all the deeds of all the creatures, was the knower of everything, who always remained unmoved, having good nature, devoid of anger and terror, filled with knowledge and Dharnia, quite religious, religion of the religious people and was the great soul and the bestower of the reward, He then stood before Lord Krsna and then prostrated before him and started offering his prayer for Dharma said: “Krsna, Visnu, Vasudeva, one is imperishable and grants the reward. He is lord of the cowherds, cowherd, protector of the cows, omnipresent, lord of the cows and is the one who resides in the home of the cow. He bears the tails of the calves and lives amongst the cowherdesses. He is the chief of all, the best of

the humans and the one who cannot be killed, sinless, dark complexioned, calm and is pleasant to look at I bow in reverence to him.

Saying this Dharma got up. Thereafter, with the permission of the lord, he took his seat with Brahma, Visnu and Siva, Whosoever recites the twenty-four names of the lord spoken by Dharma, early in the morning, he always attains happiness and pleasure besides being victorious.

At the end he reaches the abode of the lord and attains his devotion. He always achieves Dhanna and is never attracted towards sinful ways. He achieves the four elements of Dharma, Artha, Kama and Moksa. All the sins disappear at his very sight as the snakes disappear at the sight of Here ends prayer of Dharma for Krsna, recited Then Sauti said: “At that point of time a beautiful girl emerged out of the left part of Dharma who resembled completely with LaksmI.

She was known by the name of Mfirti.

Thereafter, a female with white complexion emerged out of the mount of the lord, holding a book and a lute. She had the lustre of crores of suns. Her eyes resembled the lotus flowers of the winter season. She had bright costumes and was adorned with the bright gold ornaments.

in reverence to him. The one who gets tired of the divine dance, but is still anxious to perform the divine dance. I bow in reverence to Lord Krs na who is quite pleasant to look at. Thus bowing before the lord, Sarasvatl, with a mind filled with pleasure, got seated over a lion throne. The one who recites the stotra of Sarasvatl, he would achieve wisdom, treasures, riches, intelligence and progeny.

Here ends prayer recited by Sarasvatl, in She wore a serene smile on her face and she had beautiful teeth. She was the damsel of sixteen year's age. She was the best of all the beauties in the universe and all the srutis, Sastras and the intelligence emerged out of him. She controlled the speech, the goddess, of all the poets, an incarnation of purity and was known as Sarasvatl with a peaceful look. Standing before Krsna, she played on Vlnd and then danced. She sang in praise of the lord, highlighting all the chief events of his earlier incarnations.

Sarasvatr spoke *. “Being present in the divine dance, anxious to enjoy the pleasure of the divine dance, seated over the gem-studded throne, Rasesvara and the performer of the divine dance, the beloved of Radhika, lover of the divine dance and the one who enjoys the divine dance, I bow Sauti said: “A fair complexioned lady also appeared from the mind of Lord Krsna, who was adorned with gem-studded ornaments. She was clad in yellow garments and wore a serene smile on her face. She was the goddess of all the riches and could grant all treasures. She was the gold complexioned LaksmI and remained as treasure with the kings. She stood before the lord and bowed in reverence to him. She then bowed her back in devotion and offered her prayers to the MahalaksmI said: “You are the form of truth, its lord, seed of the truth the very foundations of the truth, knower of the truth and you are the cause of the truth. I bow in reverence to you.

You have the lustre of molten gold and illuminating all the directions with her lustre, the goddess Lak^ml then took her seat, bowing before the lord. Thereafter Prakrti emerged out of the body of the lord who is adored by all the She having the lustre of the molten gold, was putting to shame the lustre of crores of Suns. He face wore the serene smile on her face. Her eyes resembled the lotus flowers of the winter season.

She was clad in red costumes and was adorned with the gem-studded ornaments. All other goddesses like the goddess of sleep, lust, hunger, thirst compassion, faith and forgiveness, owe their origin to her, besides all other saktis. She is of terrific form with hundreds of arms and is also known as Durga who removes all miseries. She is the strength of the soul and is the mother of the entire universe. She holds a trident, a sword, a bow, arrows, conch, disc, club, lotus, vajra, parjanydstra, varundstra, dgneydstra and gandharvdstra are held by her in her hands as her attributes. She, the chaste one, stood before Krsna and started reciting prayers to him.

Prakrti then spoke: “I am the nature, Isvarl, Sarvesvarl, possessing all the forms and omnipotent. The entire universe moves because You are not the exclusive creator of this universe, but you are its lord, the movement, protector, creator, destroyer and its creator again.

For the creation, you become the creator, the destroyer for distraction and even Brahma is bom out of you. I therefore bow in reverence and pleasure to the blissful one like you. O lord, Brahma fall from the grace with the fist twinkling of an eye. The one who can create crores of Visnu with the strength of his arms, who would be able to recite the glory of such a great personality like you.

Similarly you are competent enough to create innumerable moveable and immovable creatures, Brahma and other gods, besides the goddesses like me in the universe, quite playfully.

You have the complete form and I therefore bow in reverence to you. You possess the universal form which is the base of the universe ill which resides the god of death. I bow in reverence to the great soul like you.

The one whose prayers are beyond the recitation of Brahma, Visnu, Siva, the Vedas and Sarasvatl and the one who is beyond the nature, I adore the same lord with reverence.

Even the best of the well-read persons besides Sarasvatl are unable to recite his glory. The one who is aimless and beyond attraction, who could eulogise him. Therefore I bow in reverence to the great lord.

Thus praying and bowing to Lord Krsna, the goddess Durga took her seat over the lion throne.

Thereafter the gods eulogised the goddess Durga.

Thus the one who recites the prayer in the morning, composed by the goddess Durga in favour of Lord Krsna, at the time of adoration, he achieves yictory and pleasure everywhere. The goddess Durga never deserts him. He attains glory in the ocean of the universe and ultimately he reaches the abode of Hari.

Chapter-aligned complete witnesses. Sanskrit Wikisource revision 400021 (2023-12-26T21:25:32Z); Shanti Lal Nagar English scan pages n9–n16: https://archive.org/details/brahma-vaivarta-purana-all-four-kandas-english-translation/page/n9/mode/1up. The historic English OCR transcription is lightly normalized; no verse-by-verse alignment is asserted.