राम

रास-पञ्चाध्यायी ३ - गोपी-गीत

Rasa-pancadhyayi III - The Gopi-gita

Chapter 3 of 5Source coverage: logical units 1–1919 paired passages

Original

Sanskrit

Source: Śrīmad Bhāgavatam 10.31.1 with Jīva Gosvāmī's Laghu-vaiṣṇava-toṣaṇī

॥ १०.३१.१ ॥

गोप्य1 ऊचुः---

जयति तेऽधिकं जन्मना व्रजः

श्रयत इन्दिरा शश्वद् अत्र2 हि ।

दयित दृश्यतां दिक्षु तावकास्

त्वयि धृतासवास्3 त्वां विचिन्वते ॥

Jiva Gosvami - Laghu-vaisnava-tosani:

कृष्णैक-गम्यो वाग्-अर्थो यासां लेखितुम् इष्यते ।

ता एव करुणा-मय्यः स्वीकुर्वन्तु मद्-आग्रहम् ।

पीत-श्री-गोपिका-गीत-सुधा-सार-रस-श्रियाम् ।

श्रीधर-स्वामिनां किञ्चिद् अवशिष्टं विचार्यते ॥

Footnotes

  1. गोपिका ऊचुः

  2. साधु तत्र (वि।)

  3. गतासवास् (वि।)

English translation

Bhāgavata 10.31.1

The gopīs said: Vraja shines more gloriously because of Your birth, for Indirā dwells here forever. Beloved, please appear! Your own maidservants, who have placed their very lives in You, search for You in every direction.

Jīva Gosvāmī's Laghu-vaiṣṇava-toṣaṇī

I wish to write about the meaning of words whose sole true destination is Kṛṣṇa. May those very gopīs, embodiments of compassion, accept my earnest endeavor.

Śrīdhara Svāmī drank the concentrated nectar and rasa-filled beauty of the glorious Gopī-gīta. I shall consider only the little that remained.

Original

Sanskrit

Source: Śrīmad Bhāgavatam 10.31.2 with Jīva Gosvāmī's Laghu-vaiṣṇava-toṣaṇī

॥ १०.३१.२ ॥

शरद्-उदाशये साधु-जात-सत्-

सरसिजोदरे श्री-मुषा दृषा ।

सुरत-नाथ तेऽशुल्क-दासिका

वरद निघ्नतो नेह किं वधः ॥

Jiva Gosvami - Laghu-vaisnava-tosani:

शरद्-उदाशये** इति । जन्म-काल-स्थानयोः साद्गुण्यं दर्शितम् । साधु-जात इति जन्मनः सद् इति जातेर् व्यक्तेश् च । उदरे इति तत्रापि तद्-अन्तः-कोषस्य इति कमलस्य शोभा परमाकाष्ठा दर्शिता । तादृश-तच्-छ्री-मुषा स्व-श्रिया तच्-छ्रियं हरत्य् एवेत्य् अर्थः । यत्र यत्र सा स्फुरति, तत्र तत्र तच्-छ्रीर् न दृश्यते इति नव-नव-श्री-युजा अनया नूनं चोर्यत एव सा इति भावः । दृशा इत्य् एक-वचनम् एकयैव भाव-सूचनात् । एकयापि किम् उत द्वाभ्याम् ? इति श्लेषात् । दृशा इति सुरत-नाथ इत्य् अत्राप्य् अन्वयः । हि दृशैव । सुरत-याचकेति त्वयैवास्मासु तद्-इच्छा कारिता । तत्र च वरद ! इति वर-दानेन दृढीकृता चेति, तत्रास्माकं न दोषः, अशुल्क-दासिका इति प्रत्युत गुणा एव । भवतस् तु सोऽपि दोषः सम्प्रति तु महान् एवेत्य् आहुः---निघ्नत इति । श्लेषेणापि तस्मिन् तत्रैव दोषार्पणाय चौर्य-क्रियाभिनिवेशो दर्शितः । स हि चौरेषु क्रिया सम्भवति, साधूनाम् अपि सम्पत्त्य्-आदानाद् अत्युत्कट-दोषस्यागणनेन, अतिनिगूढ-पर-वस्तु-ज्ञानेन, अतिदुर्लङ्घ्य-लङ्घनेन च ।

तत्र प्रथमं सत्-सरसिज- इति पर्यन्तेनोक्तम् । शरद्-उदाशये इति स्वच्छतादि-गुण-युक्तस्य जनयितुः साधु-जात- इति जन्मनः, सद् इति स्वरूप-गुणस्य च प्रशंसनात् । द्वितीयं महा-जलान्तः-सरसिजोदरे विलीय स्थितत्वेन ।

तृतीयं च वर्षानन्तर-कालीनत्वात् अतिपूर्णस्य उदाशयस्य दुरवगाह-मध्य-देशत्वेन सहस्र-पत्राख्य-सरसिजोदरस्य दृग्भिर् दुर्भेदत्वेन चेति । किं च, त्वद्-भयाद् इव तथा निगूढापि श्रीर् नायिका मुष्टा

ततः सरलानां व्रज-वृन्दावनयोर् निर्भयं भ्रमन्तीनाम् अस्माकं वा का वार्ता ? भवत्व् अस्माकम् अपि तद्-द्वारा मोषणम्, किं तु सा कृत-तादृक्-कौटिल्यापि स्व-चक्षुषोर् अन्तरे रक्षिता, वयं तु तादृश-सरला अपि बलान् मोषणे प्रत्युत अशुल्क-दासिकाः, तत्रेर्ष्यां त्यक्त्वा निरुपाधितया सेवमाना अपि तद्-द्वारा पुनर् निहन्तुम् आरब्धाः इति परम् अन्याय्यम् इत्य् आहुः---निघ्नत इति । नेह किं वधः ? इति चौर्याल् लोकेन न ज्ञायतां नाम इत्य् अपि किं न स्यात् ? इत्य् अर्थः । सम्बोधन-द्वयेन चेदं ज्ञाप्यते---अहो ज्ञाते तत् तत् सर्वं त्वयैतद्-अर्थम् एव मृषा प्रपञ्चितम् इति । अन्यत् तैः ।

यद् वा, तादृश-दृशैव शुल्क-दासिकाः । तद्-रूपेणैव शुल्क-दासिका इत्य् अर्थः । तादृशीर् अपि निघ्नतः त्यागेन मारयतः । हे [सुरत-नाथ] सुष्ठु-रतानां जनानाम् उपतापक ! नाथतेर् उपतापार्थत्वात् । तथा हे [वरद] निज-वर-च्छेदक ! अतो निज-दोष-परिहारार्थम् अप्य् आगम्यताम् इति भावः ॥२॥

English translation

Bhāgavata 10.31.2

O Lord of love, Your glance steals the beauty from the heart of a perfect lotus freshly blossomed in an autumn lake. We are Your unpaid maidservants. O giver of blessings, is killing us in this way not truly murder?

Jīva Gosvāmī's Laghu-vaiṣṇava-toṣaṇī

“In an autumn lake” praises both the time and place of the lotus's birth. “Perfectly born” praises its arising, “excellent” its species and individual form, and “in its heart” the innermost whorl where the lotus's beauty reaches its utmost limit. Yet Kṛṣṇa's glance steals even that splendor through its own. Wherever His ever-fresh beauty appears, the lotus's beauty can no longer be seen and must therefore have been stolen by it.

“Glance” is singular to suggest the power of only one eye: if one glance does this, what then could two accomplish? The word also connects with “Lord of love.” By that very glance He begged for amorous union and caused such desire to arise in them. Calling Him “giver of blessings” says that His promise strengthened that desire. The gopīs are therefore faultless and, as unpaid maidservants, possess only virtue. Yet He now incurs the still greater fault of killing them.

The imagery also attributes to Him all the traits of a thief. A thief ignores the grave fault of taking even a virtuous person's treasure, knows objects hidden with extraordinary secrecy, and crosses barriers impossible to cross. The first trait is conveyed by praising the lotus's clear autumn lake, its excellent birth, and its noble nature. The second appears in the beauty hidden within the lotus's inner whorl beneath deep water. The third lies in reaching the inaccessible center of a lake filled after the rains and penetrating the thousand-petaled lotus with His eyes. Even Śrī, the heroine concealed there as if from fear of Him, has been robbed.

What then can be said of simple women like the gopīs, who wander fearlessly through Vraja and Vṛndāvana? Let Him steal them too through His glance. Yet Śrī, despite Her own crookedness, remains sheltered within His eyes, while the straightforward gopīs have been forcibly stolen, made unpaid servants, and then, though they serve without jealousy or condition, begun to be killed by that same glance. This is supreme injustice. “Is this not murder here?” asks whether secrecy from the world can make theft and killing cease to be crimes. Their two addresses imply: “Ah, now we understand. You falsely arranged all those promises only to bring about this end.”

Alternatively, His glance itself was their wage, making them servants purchased by that payment, yet He now kills even them through abandonment. “Lord of love” can be turned into “tormentor of those deeply absorbed in love,” while “giver of blessings” becomes “destroyer of Your own boon.” He should therefore return at least to remedy His own fault.

Original

Sanskrit

Source: Śrīmad Bhāgavatam 10.31.3 with Jīva Gosvāmī's Laghu-vaiṣṇava-toṣaṇī

॥ १०.३१.३ ॥

विष-जलाप्ययाद् व्याल-राक्षसाद्

वर्ष-मारुताद् वैद्युतानलात् ।

वृष-मयात्मजाद् विश्वतो-भयाद्

ऋषभ ते वयं रक्षिता मुहुः ॥

Jiva Gosvami - Laghu-vaisnava-tosani:

एवं परम्परया सर्व-साधारणतया च त्वया वयं सदा रक्षिताः स्म एव । तर्हि विष-वृक्षोऽपि संवर्ध्य स्वयं छेत्तुम् असाम्प्रतम् [कु।सं। २.५५] इति नीतिः । कथं न स्मर्यताम् ? इत्य् अभिप्रेत्याहुः---विष-जलाप्ययाद् इति । विष-जलं कालिय-ह्र्द-जलम्, तेन पीतेनाप्ययात् गवां गोपानां च मरणात् । व्याल-राक्षसाद् अघात् । रक्षो विदित्वाखिल-भूत-हृत् स्थितः [भा।पु। १०.१२.२५] इत्य् अनेन तस्यैव व्याल-रूपस्य राक्षसत्वेन निर्देशः कृत इति तस्माद् बाल-वत्सान् गिलितवतो वयं रक्षिता इति सर्व-गोकुल-जीवन-रूपाणां तेषां रक्षणेन गोकुलस्य रक्षणाद् वयम् अपि रक्षिता इत्य् अर्थः । इति परम्परा दर्शिता । वर्ष-मारुतात् वर्ष-मिश्रान् मारुतात्, तत्रैव वज्राश्म-परुषानिलैर् इत्य् उक्त्या वैद्युतानलाच् च श्री-गोवर्धन-धरणेन त्वया रक्षिता इति सर्व-साधारणतया दर्शिता । वृषमयात्मजाद् इति समाहारं वृषात् वत्साकारत्वेन गताद् अपि परिणामे बृहत्त्व-दर्शनात् । वृषात् वत्सासुरात् मयात्मजात् तल्-लीलाया अतिबाल्य-चरितत्वेनैव निर्णेष्यमाणत्वात् पूर्वम् एव व्योमासुराच् चेति पुनः परम्परा दर्शिता, वराह-तोको निरगात्1 [भा।पु। ३.१३.१८] इतिवत् । वृषात्मजाद् वत्सात् मयात्मजाद् व्योमाच् चेति वा । अथ सर्वम् एव सङ्गृह्य आहुः---विश्वतो भयाद् इति । तत्र तत्र योग्यताम् आहुः---हे ऋषभ ! सर्व-श्रेष्ठ इति ॥३॥

Footnotes

  1. इत्य् अभिध्यायतो नासा-विवरात् सहसानघ । वराह-तोको निरगाद् अङ्गुष्ठ-परिमाणकः ॥

English translation

Bhāgavata 10.31.3

O greatest of all, You have repeatedly protected us from death by poisoned water, from the serpent demon, from rain and wind, from lightning and fire, from the bull, Maya's son, and fear on every side.

Jīva Gosvāmī's Laghu-vaiṣṇava-toṣaṇī

He has always protected the gopīs, sometimes indirectly through saving those on whom their lives depend and sometimes together with everyone. They therefore invoke the principle, “It is improper to nurture even a poisonous tree and then cut it down oneself” (Kumāra-sambhava 2.55). How can He fail to remember this?

“Poisoned water” is the water of Kāliya's lake, whose drinking killed the cows and cowherd boys. The “serpent demon” is Aghāsura, described at 10.12.25 as a demon in serpent form who swallowed the boys and calves. By saving them, who were the life of all Gokula, He saved Gokula and therefore the gopīs as well. This is protection through a chain of dependence.

“Rain and wind” means wind mixed with rain. The same account mentions thunderbolts, hailstones, and harsh winds, so “lightning and fire” also refers to dangers from which He saved everyone by lifting Śrī Govardhana. “The bull and Maya's son” may be a collective compound naming Ariṣṭa and Vyoma. It may also join the bull with the demon who came as a calf, since that demon later expanded to great size. Then it refers to Vatsāsura and to Vyomāsura, Maya's son, whose deed must have occurred earlier because the narrative places it among Kṛṣṇa's earliest childhood acts. This resembles the Bhāgavata's phrase “a tiny boar emerged” (3.13.18). Another analysis likewise takes “the bull's offspring” as the calf and “Maya's offspring” as Vyoma.

Finally, “fear on every side” gathers every danger into one phrase. Calling Him the greatest of all declares His fitness to protect them from each one.

Original

Sanskrit

Source: Śrīmad Bhāgavatam 10.31.4 with Jīva Gosvāmī's Laghu-vaiṣṇava-toṣaṇī

॥ १०.३१.४ ॥

न खलु गोपिका-नन्दनो भवान्

अखिल-देहिनाम् अन्तरात्म-दृक् ।

विखनसार्थितो विश्व-गुप्तये

सख उदेयिवान् सात्वतां कुले ॥

Jiva Gosvami - Laghu-vaisnava-tosani:

तद् एवं प्रभावत्वाद् इदम् अनुमिमीमह इति स्तुत्य्-अर्थम् आहुः---न खल्व् इति । श्री-गोपेश्वर्या अपि स्व-कुल-श्रेष्ठत्वेन स्वान्तः-पातं विधाय स्व-दैन्येनैव न्यूनतयोक्तिर् न दोषाय, अतोऽस्माकम् इदं हृत्-ताप-वृत्तं भवान् जानात्य् एव । किं तस्य बहु-वर्णनेन ? इति भावः ।

अवतार-कारणम् अनुमीयते---विखनसा इति । अतः स्व-भक्त-वर-प्रार्थनया भक्त-कुलेऽस्मिन्न् उदित-मात्रत्वेनापि भवता भक्ता अनवसरेऽपि परिपाल्या एवेति त्वत्-प्रियाणाम् अस्माकम् अप्य् अवसरापेक्षा न युक्ता । सोऽयं तु परम एवावसर इति भावः ।

ननु यूयं न मद्-भक्ता इति चेत्, तथापि परिपाल्याः श्री-ब्रह्मणा किल सर्वेषाम् एव पालनाय प्रार्थनाद् इत्य् आहुः---विश्व-गुप्तये इति । वस्तुतस् तु भक्तेष्व् अपि भाव-विशेष-भाजो वयं विशेषतः परिपाल्या इत्य् आशयेनाहुः---सखे इति ।

यद् वा, ऐश्वर्य-ज्ञानम् इदं मुन्य्-आदि-मुखतः तन्-माहात्म्य-श्रवणेन ततो निज-भावानुरूप्येण श्री-गोपिका-नन्दनता-मय-केवल-माधुर्यानुभवेऽपि तद् एतद् ऐश्वर्यं याचक-रीत्या निजाभीष्ट-साधन-मात्राय प्रयोजितम् इति ज्ञेयम् । एवम् उत्तरापि । अन्यत् तैः ।

यद् वा, खल्व् इति प्रतिषेधे, खलु उक्त्वा इतिवत् । अन्तरात्म-दृग् अपि भवान् गोपिका-नन्दनो न भवति खलु, अपि तु भवत्य् एव इत्य् अर्थः । कथम् ? तद् आहुः---विखनसा इति । अतो वयं पाल्या एव इति भावः । सेर्ष्यम् आहुर्---गोपिकायाः परम-दयालुतया श्री-व्रजेश्वर्या नन्दनो भवान् न भवति, किन्तु परमात्मैव, स्वतः सर्वत्रौदासीन्यात् । एवं नूनम् अपि ब्रह्म-भक्ति-वशीकृतत्वाद् एव भवान् । एतन् नन्द-नन्दनता-व्याजेन विश्व-गुप्तये प्रकटोऽस्ति । तत्र च बाल्य-क्रीडामयाद्य्-अनुवृत्त्या अस्माकं सखितां च प्राप्तोऽस्तीति भवता प्रतिपाल्या एव वयम् इत्य् आहुः---विखनसा इति ।

अथवा नञः प्राङ्-निर्देशात् सर्व-पदैर् एवान्वयः । तेन हे असखे ! प्रतिकूल ! खलु वितर्के । भवान् श्री-यशोदा-नन्दनो भवति, तत्र तत्-सम्बन्धेनास्माकम् उपेक्षानुपपत्तेः । तथा अखिल-देहिनाम् अन्तरात्म-दृग् अपि भवति, तत्रास्मद्-दुःख-ज्ञान-सम्भवात् । न च ब्रह्मणा विश्व-गुप्तयेऽर्थितः, तत्रास्माकम् अपि रक्षाया योग्यत्वात् । सात्वतां भक्तानां कुलेनोदेयिवान्, तत्र तत्-सम्बन्धेन निरुपाधि-कृपालुता-सम्भवाद् इति ॥४॥

English translation

Bhāgavata 10.31.4

You are surely not merely the son of a cowherd woman. You are the seer within the hearts of all embodied beings. At Brahmā's prayer You appeared in the Sātvata dynasty to protect the universe. O friend!

Jīva Gosvāmī's Laghu-vaiṣṇava-toṣaṇī

From the power He has displayed, the gopīs infer His divine identity and praise Him. By saying that He is not merely the son of a cowherd woman, they include even Vraja's queen Yaśodā within their own community as its greatest member and humbly speak of the whole group as lower. As the witness within, He already knows the burning of their hearts. Why describe it at length?

They infer the cause of His descent from Brahmā's prayer. Having appeared in this devotee clan at the request of the foremost devotee, He must protect devotees even when the occasion seems untimely. It is therefore improper to demand that the gopīs, who are dear to Him, wait for an appropriate moment, and this is in fact the most urgent moment of all.

He may say, “You are not My devotees.” Even then He must protect them, for Brahmā requested protection of the whole universe. In truth they possess a distinctive loving mood even among devotees and deserve exceptional protection. They therefore call Him “friend.”

Alternatively, they have heard His majesty from sages and others, yet their own experience remains pure sweetness: He is the cowherd woman's son. They now employ knowledge of His majesty only as petitioners, to attain what suits their intimate mood. The same method continues in later verses.

Another reading takes “surely not” as a rhetorical denial: “Although You see every inner self, surely You are not the cowherd woman's son? Of course You are.” His appearance at Brahmā's prayer proves it, and therefore He must protect them.

With jealousy they may instead say: “You are not the son of the supremely compassionate queen of Vraja. You must be only the indifferent Supreme Self. Perhaps You are controlled solely by Brahmā's devotion and have appeared under the pretext of being Nanda's son merely to protect the universe. Yet through childhood play You also became our friend, so even then You must protect us.”

Because the negation appears first, it can also govern every phrase in a contrary reading: “O no-friend, O adversary! You cannot be Yaśodā's son, for that relationship would make neglecting us impossible. You cannot see the inner self of every embodied being, for then You would know our pain. Brahmā cannot have requested You to protect the universe, for then we too would deserve protection. Nor can You have appeared in the devotees' clan, for that relationship would make unconditional compassion inevitable.”

Original

Sanskrit

Source: Śrīmad Bhāgavatam 10.31.5 with Jīva Gosvāmī's Laghu-vaiṣṇava-toṣaṇī

॥ १०.३१.५ ॥

विरचिताभयं वृष्णि-धुर्य ते

चरणम् ईयुषां संसृतेर् भयात् ।

कर-सरोरुहं कान्त कामदं

शिरसि धेहि नः श्री-कर-ग्रहम् ॥

Jiva Gosvami - Laghu-vaisnava-tosani:

पूर्वानुसारेणैवैश्वर्यं सम्भाव्याहुः---विरचित- इति । विरचिताभयम् इति मोक्ष-प्रदत्वम् उक्तम् । कामदम् इति धर्माद्य्-अर्थिनां सर्वाभीष्ट-प्रदम् इति त्रिवर्ग-प्रदत्वं भक्ति-प्रदत्वं च । श्री-कर-ग्रहम् इति प्रेम्णा प्रिय-जन-वश्यत्वं रसिकत्वं च । एषां यथोत्तरं श्रैष्ठ्यम् ऊह्यम् । सरोरुह-रूपकेण सहज-शीतल-मधुरत्वादिना स्वतः फल-रूपत्वं सूचितम् । ततो मोक्षो नाम निर्विघ्न-प्रेम-सम्पद्-वृद्धये विविध-दुःख-परम्परा निवृत्तिर् एव ज्ञेयः । त्रिवर्गोऽयं प्रेम-साधनोपयोग्य् एव । अन्यच् च भक्तानाम् उपेक्ष्यम् एव । एतच् च सर्वं सद्-गुण-वर्णनं प्रेमोल्लासेनैव ज्ञेयम्

ननु तद्-योग्या न यूयम् इति चेत्, सत्यम्, निज-माहात्म्यापेक्षया धेहीत्य् आहुः---वृष्णि-धुर्य इति । हे निजाशेष-माधुरी-प्रकटनाय यदु-विशेष-कुलेऽवतीर्णेति । तच् च भाव-विशेषेण त्वया धेयम् इत्य् आशयेनाहुः---कान्त ! हे प्रियेति । अन्यत् तैः ।

यद् वा, विरचित- इत्य्-आदिना संसार-सम्बन्धि-पाप-हारित्वेन शौर्यम् उक्तम् । कान्तं च तत्-कामदं चेति स्वतः सुखदत्वेन सर्वाभीष्ट-प्रदत्वेन च दातृत्वं श्री-कर-ग्रहं श्रियः सम्पद्-अधिष्ठात्र्याः स्व-गोकुले वशी-कारात् करम् इव गृह्णाति यत्, तद् । इत्य् अनेन सर्व-सम्पद्-आश्रयत्वम् । अतोऽस्माकं विरह-भय-नाशः, तद्-रूपाभीष्ट-प्राप्तिः, तत्-प्राप्त्य्-आनुषङ्गिक-सर्व-सम्पत्-प्राप्तिश् च तेनैव सिध्येद् इति भावः । वृष्णि-धुर्य वृष्णि-विशेष-व्रज-राज-कुल-तिलकेति वयं स्वाभाविक-त्वत्-पाल्या नैवोपेक्ष्या इति भावः । उभयथापि शिरसि धेहि इति तेनास्मान् बाढम् अङ्गीकुरुष्वेति तात्पर्यम् ॥५॥

English translation

Bhāgavata 10.31.5

O foremost of the Vṛṣṇis, Your lotus hand grants fearlessness to those who approach Your feet in fear of worldly existence. Beloved, it fulfills desire and holds Śrī's hand. Place it upon our heads.

Jīva Gosvāmī's Laghu-vaiṣṇava-toṣaṇī

Continuing to invoke His majesty, they say that His hand “grants fearlessness,” meaning liberation. “Fulfills desire” means that it bestows every aim sought by those who desire dharma, prosperity, and pleasure, and also grants devotion. “Holds Śrī's hand” shows that love brings Him under His beloved's control and that He is a connoisseur of rasa. Each quality in this sequence surpasses the preceding one.

Comparing His hand to a lotus suggests that its natural coolness and sweetness are themselves the fruit. Liberation should therefore mean only the ending of the succession of pains so that the wealth of love may increase without obstruction. The three worldly aims are valuable only insofar as they assist the practice of love; devotees disregard them otherwise. All this praise of His virtues arises from love's exhilaration.

He may say, “You are not qualified for such a hand.” They answer, “True. Place it upon us by the power of Your own greatness, O foremost of the Vṛṣṇis.” He descended in the special Yadu clan to reveal all His sweetness. Calling Him “beloved” asks Him to place His hand upon them in a mood corresponding to their particular love.

Alternatively, “granting fearlessness” declares His heroism in removing sins connected with worldly existence. The hand is charming and fulfills desire, giving both happiness by its nature and every cherished object. By holding the hand of Śrī, goddess of fortune, and bringing Her under His control in Gokula, it becomes the shelter of every prosperity. That hand alone can end their fear of separation, bestow their desired union, and bring every wealth that accompanies His attainment. As the foremost Vṛṣṇi, the crown jewel of Vraja's royal clan, He is naturally their protector and must not neglect them. In both readings, “place it upon our heads” means “fully accept us as Your own.”

Original

Sanskrit

Source: Śrīmad Bhāgavatam 10.31.6 with Jīva Gosvāmī's Laghu-vaiṣṇava-toṣaṇī

॥ १०.३१.६ ॥

व्रज-जनार्तिहन् वीर योषितां

निज-जन-स्मय-ध्वंसन-स्मित ।

भज सखे भवत्-किङ्करीः स्म नो

जल-रुहाननं चारु दर्शय ॥

Jiva Gosvami - Laghu-vaisnava-tosani:

एवं वैयाग्र्येण आदाव् अङ्गीकार-मात्रं प्रार्थ्य, अभीष्ट-विशेषान् प्रार्थयन्ते त्रिभिः । तत्र प्रथमेन सामान्यतः सङ्गं प्रार्थयन्ते---व्रज इति । भज अस्माकं दुःखं प्रतिकुर्वन् निकटे तिष्ठ । अहो आस्तां तादृशोऽपि मनोरथः । प्रथमं तावच् चारु मनोहरं जलरुह-तुल्यम् आननम् अपि दर्शय । तत्र व्रज-जनार्ति-हन्न् इति भजनस्य योग्यत्वम् उक्तम्, अन्यथास्मद्-अन्त्य-दशापत्त्या आर्ति-हननासिद्धिः स्यात् । वीर इत्य् अदेयस्यापि दान-सामर्थ्यम् उक्तम् । निज-जनो निज-प्रिय-जनः तव स्मित-मात्रेणापि मानो निरस्यते, तद्-अर्थम् अन्तर्धानेनालम् इति भावः । अनेनैव परम-मनोहरत्वम् अप्य् अभिप्रेतम् । अतस् तद् अवश्यं द्रष्टुम् अपेक्ष्यत इति भावः । सखे ! इति भजने प्रकार-विशेषः सूचितः । यद् वा, अभजनेऽस्माकं दुर्दशया पश्चात् त्वयापि किल दुःखं लब्धव्यं सख्येन तुल्य-व्यथत्वात् । किं वा, विश्वास-घात-दोष-प्रसक्तेर् इति भावः । अथ सख्य-योग्यस्याप्य् आत्मनो विरह-दैन्येन औद्धत्यम् आशङ्क्याहुः---भवतः किङ्करीर् इति योषिताम् इति तत्रास्माकं सामर्थ्याभावात् स्वयम् एव कृपया दर्शय इति भावः । अन्यत् तैः

यद् वा, योषितां मध्ये ये निज-जनास् त्व् अपरिग्रहाः, तेषां स्मय-ध्वंसन-स्मित ! अत एव निज-दासीर् अस्मान् भज । तत्-प्रकारम् एवाहुः---जल- इत्य्-आदिना आप्याययस्व नः [८] इत्य् अन्तेन ।

यद् वा, परमार्त्या प्रणय-कोपेनाहुः---व्रज-जनार्तिहन् ! हे तथा-भूतोऽपि योषितां वीर योषिद्-वधे समर्थेत्य् अर्थः । अतो वयं मृत-प्राया एव वृत्ताः, तथा निज-जन-मुख-लापन-कपट-स्मित ! अधुना अभवत्-किङ्करीर् अन्या अदासीर् एव भज चारु जल-रुहाननंनो दर्शय, मरणस्यैव निश्चितत्वात् । अन्यत् समानम् ॥६॥

English translation

Bhāgavata 10.31.6

O destroyer of Vraja's distress, heroic one whose smile destroys the pride of Your own beloved women, O friend, attend upon us, Your maidservants. Show us Your beautiful lotus face.

Jīva Gosvāmī's Laghu-vaiṣṇava-toṣaṇī

In their agitation they first asked only to be accepted. In this and the next two verses they request the particular objects they desire. Here they ask generally for His company. “Attend upon us” means “remain nearby and counteract our pain.” Yet even that hope seems too great, so they reduce the request: “First simply show us Your charming lotus-like face.”

Calling Him “destroyer of Vraja's distress” shows that He is fit to remain with them. Otherwise, if their suffering reaches its final state, His role as destroyer of distress will fail. “Hero” proclaims His power to give even what cannot ordinarily be given. The mere smile of His beloved destroys the māna of His own dear women, so He has no need to remain hidden for that purpose. The same phrase conveys the smile's supreme enchantment and therefore why they must see it.

“Friend” specifies the intimate manner in which He should attend them. Alternatively, if He refuses, their misery will later bring Him pain too, since friends share one another's suffering, or He will incur the fault of betraying their trust. Fearing that separation-born humility has made their address too bold even for friendship, they call themselves His maidservants. As women they lack the strength to reach Him and ask Him to reveal Himself through His own mercy.

Another reading takes “Your own people among women” as those dear women who belong to no other man. His smile destroys their pride, so He should attend upon these personal maidservants. The manner of His attendance is then explained from “Your lotus face” through “revive us” in verse 8.

In extreme anguish they may instead speak with loving anger: “O supposed destroyer of Vraja's distress, hero against women, powerful enough to kill them! Your deceptive smile makes Your own people flatter You. We are now no longer Your maidservants, so attend other women instead and do not show us Your beautiful lotus face, for our death is already certain.” The remaining implications stay the same.

Original

Sanskrit

Source: Śrīmad Bhāgavatam 10.31.7 with Jīva Gosvāmī's Laghu-vaiṣṇava-toṣaṇī

॥ १०.३१.७ ॥

प्रणत-देहिनां पाप-कर्शनं

तृण-चरानुगं श्री-निकेतनम् ।

फणि-फणार्पितं ते पदाम्बुजं

कृणु कुचेषु नः कृन्धि हृच्-छयम् ॥

Jiva Gosvami - Laghu-vaisnava-tosani:

अथ द्वितीयेन हृदयान्तरङ्ग-तद्-विरह-ताप-शान्तये प्रलेपौषधम् इव प्रथमं हृदय-बहिर् एव तद्-अङ्ग-सङ्गं प्रार्थयमाना दैन्येन तच्-छ्रवण-मात्रस्यैव सङ्गं तद्-गुणानुवाद-पूर्वकं प्रार्थयन्ते---प्रणत- इति । सकृत् प्रणाम-कारिणाम् अपि यथा कथञ्चिच् छरणागताणाम् अपि नलकूवर-कालियादीनां प्राणिनां पाप-हन्तुः कुतस् तव पाप-शङ्का ? इति । किं वा, मदादिना सागःसु युष्मासु तद्-आचरणम् अयुक्तम् इति चेत्, तत्राहुः---प्रणत- इति । कालियादिवत् त्वत्-प्रणतानाम् अस्माकम् आगो नश्येद् एव ।

ननु तथापि परम-क्रूरेषु मृदुलतरं तत् कर्तुं न शक्यते ? तत्राहुः---तृण- इति । तृणान्य् एव न त्व् अग्रतो न्यस्तानि शर्करादीनि अपि चरन्तीति परमाज्ञया सूचिता । पशव इव वयम् अनुकम्प्या इति भावः ।

ननु सुष्ठु शोभनेषु युष्माकं स्तनेषु कथं पादार्पणं कर्तुं युज्यते ? इत्य् अत आहुः---श्री- इति । सर्वातिशायि-शोभास्पदत्वाद् अलङ्करण-वर्यम् एव भावीत्य् अर्थः ।

ननु भीरु-स्वभावत्वात् युष्मत्-पतिभ्यो बिभेमि ? तत्राहुः---फणि- इति । एतेन विषाद्य्-अनर्थ-ध्वंसनत्वात् विषोपम-हृच्-छय-ध्वंसन-योग्यताप्य् उक्ता । एवं चतुर्भिर् विशेषणैः पाप-हन्तृत्वादिकम् उक्तम् ।

ननु तत्-तद्-अर्थम् एवेष्यते ? नेत्य् आहुः---हृच्-छयं कृन्धि इति । अस्माकम् एतद् एव प्रयोजनम् इति भावः । यत् ते सुजातं [भा।पु। १०.३१.१९] इति रीत्या हृच्छयोऽप्य् अयं स्नेह-मयत्वेनैव स्थापयिष्यते । शिरसि [भा।पु। १०.३१.५] इति पूर्वम् एक-वचनं दैन्येनैकस्मिन्न् अपि कर-धारणात् सर्वा एव वयम् अङ्गीकृताः स्यामेति । अधुना तु कुचेष्व् इति बहुत्वं प्रत्येकं लोभेन कियत् किञ्चित् सम्बन्धेन पर्याप्तत्वाद् दैन्यस्य तेनापर्याप्तत्वात् प्रत्येकं लोभस्येति ॥७॥

English translation

Bhāgavata 10.31.7

Your lotus feet destroy the sins of embodied beings who bow to You, follow the grazing cows, serve as the abode of Śrī, and were placed upon the serpent's hoods. Put those feet upon our breasts and destroy the longing in our hearts.

Jīva Gosvāmī's Laghu-vaiṣṇava-toṣaṇī

To calm the inner burning of separation, they first seek contact with His limb outside the heart, like a medicinal paste. Yet humility makes them ask only to associate through hearing of that limb, so they begin by recounting its virtues.

His feet destroy the sins of creatures such as Nalakūvara and Kāliya who bowed once or somehow took shelter. How then could touching the gopīs bring sin upon Him? If He objects that their pride and other faults make such conduct improper, they answer that, like Kāliya's, the offenses of those who bow to Him must disappear.

He may say, “Even so, I cannot place such tender feet upon something so hard.” They reply that those feet follow grazing animals who eat mere grass and even stones placed before them, showing His supreme humility. “Like those animals, we deserve compassion.”

He may ask how His feet could properly rest upon their exceedingly beautiful breasts. They answer that His foot is the abode of Śrī. As the resting place of unsurpassed beauty, it would become their finest ornament.

He may say that His timid nature makes Him fear their husbands. They answer that those feet rested upon Kāliya's hoods. Because they destroy poison and every related danger, they are also fit to destroy heart-longing, which resembles poison. These four qualifications thus establish their power to remove sin and every obstacle.

Does the gopīs' request end with those benefits? No. “Destroy the longing in our hearts” is their sole purpose. Yet verse 19 will show that even this heart-longing is wholly composed of affection. Earlier they humbly used the singular “upon our head,” thinking that if His hand touched even one head He would thereby accept them all. Now greed makes them use the plural “upon our breasts.” Mere indirect contact is no longer enough for humility; each one longs for direct contact.

Original

Sanskrit

Source: Śrīmad Bhāgavatam 10.31.8 with Jīva Gosvāmī's Laghu-vaiṣṇava-toṣaṇī

॥ १०.३१.८ ॥

मधुरया गिरा वल्गु-वाक्यया

बुध-मनोज्ञया पुष्करेक्षण ।

विधि-करीर् इमा वीर मुह्यतीर्

अधर-सीधुनाप्याययस्व नः ॥

Jiva Gosvami - Laghu-vaisnava-tosani:

अथ तन्-मुख-सौरभ-निभ-तद्-भाषित-विशेष-जनित-तत्-पानेच्छात्मकस्य मोह-पर्यन्त-दशा-गामिनस् तापस्य पुनर् अन्य-दुश्चिकित्स्यताम् आशङ्कमानास् तस्मिन्न् एवाङ्ग-सङ्गे पेयौषधम् इवान्तरं च सङ्गमनीयं तन्-मुख-सुधाकर-सुधा-रसम् अपि प्रार्थयन्ते---मधुरय इति ।

English translation

Bhāgavata 10.31.8

Lotus-eyed hero, Your sweet voice, charming words, and speech delightful to the wise have made us Your maidservants. We are falling into bewilderment. Revive us with the intoxicating nectar of Your lips.

Jīva Gosvāmī's Laghu-vaiṣṇava-toṣaṇī

The distinctive speech from His fragrant mouth awakened a desire to drink its sweetness, and the resulting fever has now advanced to the point of bewilderment. The gopīs fear that no other medicine can cure it. They therefore ask, in addition to external contact with His limb, for an inwardly uniting drink: the nectar of the moon that is His mouth, a liquid medicine from those very lips.

Original

Sanskrit

Source: Śrīmad Bhāgavatam 10.31.9 with Jīva Gosvāmī's Laghu-vaiṣṇava-toṣaṇī

॥ १०.३१.९ ॥

तव कथामृतं तप्त-जीवनं

कविभिर् ईडितं कल्मषापहम् ।

श्रवण-मङ्गलं श्रीमद्-आततं

भुवि गृणन्ति ते भूरिदा जनाः ॥९॥

Jiva Gosvami - Laghu-vaisnava-tosani:

अथ कथं तर्हि जीवथ ? इत्य् आशङ्क्य प्रेम-मय-स्वानुभव-प्रमाण-निर्णीत-तत्-कथा-महिम-वर्णनेन । तत्र कारणम् आहुः---तव इति । कथा एव अमृतम् अमृतवत् स्वतः फलं फलान्तर-साधनं च । तत्-तद्-रूपत्वं दर्शयन्ति---तप्तान् त्वद्-विरह-ताप-खिन्नान्, किम् उत संसार-ताप-खिन्नान्, जीवयति मृत्यु-पर्यन्त-दुर्दशातो रक्षतीति तत् । पूर्वेषां जीवन-रूपं चेति तथा वन्द्यमान-चरणः पथि वृद्धैर् [भा।पु। १०.३५.२२] इत्य्-आदेः, शक्र-शर्व-परमेष्ठि-पुरोगाः कश्मलं ययुः [भा।पु। १०.३५.१५] इत्य्-आदेश् च दर्शनात् । कविभिर् ब्रह्म-शिव-चतुःसनादिभिर् आत्मारामैः, किम् उतान्यैर् ईडितम् । वर्तमाने क्तः । अस्मद्-वृज-वासिभिर् यद् वर्ण्यते, तद् एवानूद्य श्लाघ्यते, न तु स्वयं वर्णयितुं शक्यत इत्य् अर्थः, रहस्याज्ञानात् । तथा कल्मषं सर्व-रोचकत्वादि-प्रभाव-मयत्वात् स्वान्तरायम् अपि, किम् उत संसार-हेतु-पुण्य-पाप-रूपं हन्ति इति तत् । एवम् एवम्-भूतम् अपि श्रवण-मात्रेणैव मङ्गलं तत्-तत्-सर्वार्थ-साधकं, किम् उतार्थ-विचारेण । अत एव श्रीमत् सर्वत उत्कर्ष-युक्तम् आततं सर्व-व्यापकं चेति प्रसिद्धामृताद् वैलक्षण्यम् इत्य् उक्तम् । तद् ईदृशं कथामृतं भुवि यत्र कुत्रापि ये गृणन्ति कथन-रूपेण ददति, ते भूरिदाः सर्वेभ्योऽपि सर्वार्थ-प्रदातारः । किम् उत गोकुले तत्राप्य् अस्मासु तु त्वद्-विरह-तप्तासु जीवनम् एव ददति इति भावः । ते चान्यत्र पूर्वोक्ता ब्रह्मादयः व्रजे सर्व एवास्मासु तु विशेषतः सख्य इति ज्ञेयम्

यद् वा, अहो परम-व्यग्रा यावद्-आप्यायेयं तावत् क्षणं मिथो मद्-वार्तया कालो नीयताम् इति चेत्, तत्र सत्रासम् आहुः---कथा एव मृतं मृतिः, कथैव मारयतीत्य् अर्थः । कुतः ? तप्तं जीवनं यस्मात् । तप्ते तैलादौ जलम् इवेति श्लेषः । कविभिस् तावकैर् एव कल्मषापहं यथा स्यात् तथा ईडितं तन्-नाशकतया श्लाघितम् इत्य् अर्थः । किं च, श्रवणेन एव मङ्गलं, मङ्गलम् इति श्रूयते, न त्व् अनुभूयत इत्य् अर्थः । श्रीमदाततं श्रिय सौन्दर्यादिना तत्-कृतेन मदेन निज-जनान् आदरादि-लक्षणेन च आततं चर्वतः प्रसृतम् । अतो ये तद् गृणन्ति ते भूरिदा महा-प्राणाघातका इत्य् अर्थः । एषा परमार्त्य्-उक्तिर् एव । दो अवखण्डने । अतोऽधुना त्वद्-आशया क्षणं जिजीविषूणां तेनालम् इति भावः ॥९॥

English translation

Bhāgavata 10.31.9

The nectar of Your stories is life for those scorched by suffering. Praised by sages, it removes all impurity. Auspicious to hear, filled with splendor, and spread everywhere, it is proclaimed on earth by those who give the greatest gift.

Jīva Gosvāmī's Laghu-vaiṣṇava-toṣaṇī

Someone may ask, "How, then, do you remain alive?" The gopīs answer by glorifying Kṛṣṇa's stories, whose greatness they have ascertained through the evidence of their own love-filled experience. They explain the cause of their survival with the words "the nectar of Your stories."

His story itself is nectar. Like nectar, it is both a reward in itself and a means to further rewards. They show how it has both qualities. It gives life to those scorched by the heat of separation from You, and how much more to those scorched by worldly suffering. It protects them from a plight that would otherwise end in death. For those suffering separation, it is their very life. This is evident from such verses as "His feet are worshiped on the road by the elders" (Bhāgavata 10.35.22), and "Indra, Śiva, Brahmā, and the other foremost gods became overwhelmed" (Bhāgavata 10.35.15).

It is praised by self-satisfied sages such as Brahmā, Śiva, and the Four Kumāras, and therefore certainly by others. The past participle here carries a present sense: it is continually praised. The meaning is that those sages merely repeat and extol what we residents of Vraja describe. They cannot describe it independently, because they do not know its secret.

It destroys impurity. By the power that makes everything else lose its charm, it even destroys obstacles arising within the heart, and how much more the merit and sin that cause worldly existence. Although it has all these qualities, merely hearing it is auspicious and accomplishes every desired end. How much more is gained by reflecting on its meaning. It is therefore "filled with splendor," endowed everywhere with unsurpassed excellence, and "spread abroad," pervading everything. These qualities distinguish it from ordinary nectar.

Whoever proclaims this nectar of Your stories anywhere on earth gives it to others in the form of narration. Such people are the greatest benefactors, for they bestow every attainment upon everyone. How much more is this true in Gokula, and most of all among us, scorched by separation from You, for here they give life itself. Elsewhere these benefactors are Brahmā and the others already mentioned; in Vraja they are all its residents, and for us especially they are our companions.

Or Kṛṣṇa may say, "You are utterly distraught. Until I revive you, pass a moment speaking among yourselves about Me." The gopīs answer in alarm with a contrary interpretation. Your story is itself death, for the story itself kills us. Why? Because it is life cast into burning heat, like water poured into boiling oil. Your own poets praise it as a destroyer of impurity, meaning that it destroys the listener together with the impurity. It is called auspicious merely when heard about, but its auspiciousness is not experienced. "Filled with splendor and spread abroad" means that the pride produced by its beauty and opulence, and its disregard for its own people, have spread everywhere among those who savor it. Therefore those who proclaim it are "great givers" only in the ironic sense that they strike down many lives. This is an utterance born of supreme anguish. The verbal root do can mean cutting apart. The sense is: we now wish to remain alive for just a moment in the hope of finding You, so enough of that story.

Original

Sanskrit

Source: Śrīmad Bhāgavatam 10.31.10 with Jīva Gosvāmī's Laghu-vaiṣṇava-toṣaṇī

॥ १०.३१.१० ॥

प्रहसितं प्रिय प्रेम-वीक्षणं

विहरणं च ते ध्यान-मङ्गलम् ।

रहसि संविदो या हृदि-स्पृशः

कुहक नो मनः क्षोभयन्ति हि ॥

Jiva Gosvami - Laghu-vaisnava-tosani:

तत्र प्रथमेऽर्थे । ननु विचार-लुब्धाः दुर्लभे मयि कथम् एतावन्तम् अनुरागं कुरुध्वे ? यदि कुरुत, तदा मत्-कथा-श्रवणेनैव निर्वृता भवत इत्य्-आदिकम् आशङ्क्य तेनानिर्वृतौ तस्यैव पूर्वानुराग-मयं चरितं दूषयन्ति त्रिभिः । आशयापि चिरं जीवितुं न शक्नुम इत्य् आहुः---प्रहसितम् इति । भावे क्तः । "वीक्षितम्" इति तु क्वचित् पाठः ।

प्रथमतः प्रहसितं तासां दर्शन-मात्रेण भावोल्लासात् प्रकृष्टं सहज-स्मितात् किञ्चिद् उद्भटं हसितम् । कीदृशम् ? ततः प्रेम्णा वीक्षितं यत्र तादृशम् । ततो विहरणं सखिभिः सह-क्रीडा-विशेषः । तच् च कीदृशम् ? ध्याने मङ्गलं तद्-अनुचिन्तने आशा-बन्ध-कारकं निज-भावाभिव्यञ्जनामयत्वात् । ततश् च रहसि संविदः, दूरतः स्वयं निर्जने गत्वा वेण्व्-आदिना नर्मोक्तयः । ताश् च कीदृश्यः ? या हृदि स्पृशो हृदयङ्गमा इति सर्वतोऽन्तरङ्गत्वं दर्शितम् । यच्-छब्दोऽत्र चमत्कार-विशेषार्थः । ततो लिङ्ग-विभक्ति-विपरिणामेण पूर्व-पूर्वत्राप्य् अनुषञ्जनीयः । तेषु यथोत्तरं श्रैष्ठ्यम् ।

English translation

Bhāgavata 10.31.10

Beloved, Your radiant laughter, Your loving glances, Your pastimes that bring auspiciousness when contemplated, and those intimate words spoken in private that touch the heart all agitate our minds, O deceiver.

Jīva Gosvāmī's Laghu-vaiṣṇava-toṣaṇī

This follows the first interpretation of the previous verse. Kṛṣṇa may object, "You are capable of reflection. Why do you cherish such intense attachment to Me, when I am so difficult to attain? And if you do cherish it, be satisfied simply by hearing stories about Me." Because hearing those stories does not satisfy them, the gopīs criticize, in three verses, the very conduct by which He awakened their earlier attachment. They say that they cannot live for long even on hope: "Your radiant laughter..." The past participle is used here as an abstract noun. Some manuscripts read "glance" rather than "laughter."

First came His radiant laughter. The mere sight of the gopīs made His emotion overflow, producing a laugh more pronounced and exuberant than His natural smile. What kind of laughter was it? It contained a glance filled with love. Then came His roaming pastimes, His special games with His companions. What were they like? They were auspicious in meditation. Because they disclosed His own feelings, contemplating them bound the gopīs with hope.

Then came His intimate exchanges in private. He would go alone to some secluded place at a distance and speak playful words through His flute and by other means. What were those exchanges like? They touched the heart, showing that they were intimate in every respect. The relative pronoun "those which" conveys a special sense of wonder here. By adjusting gender and case, it should also be supplied with each preceding expression. Each successive experience is more excellent than the one before it.

Original

Sanskrit

Source: Śrīmad Bhāgavatam 10.31.11 with Jīva Gosvāmī's Laghu-vaiṣṇava-toṣaṇī

॥ १०.३१.११ ॥

चलसि यद् व्रजाच् चारयन् पशून्

नलिन-सुन्दरं नाथ ते पदम् ।

शिल-तृणाङ्कुरैः सीदतीति नः

कलिलतां मनः कान्त गच्छति ॥

Jiva Gosvami - Laghu-vaisnava-tosani:

तच् च भवता क्षोभ-दानं संयोग-वियोगयोर् अविशेषम् एव, न तु कादाचित्कम् इत्य् आहुः---चलसि इति द्वाभ्याम् । व्रजाद् इति । ततश् चलनम् आरभ्यागमन-पर्यन्तेन कलिलता सूचिता । पशूंश् चारयन्न् इति विविधानाम् अनन्तानां तेषां चारणार्थं वर्त्म-परित्यागेनेतस् ततो भ्रमणाच् छिलादिभिर् अवसादः सम्भावितः । तथा पशुतया निर्बुद्धित्वेन ते त्वत्-पादाब्ज-दुर्गम-पथेऽपि बत भ्रमन्तीति श्लेषेण सूचितम् । शिल-पतित-स-शृङ्ग-वन्य-धान्यादिकम् । अझिल्लि-कण्टक-वनं [ह।वं। २.८.२३] इत्य्-आदि-हरि-वंशोक्तेः । सर्वत्र कण्टकाभावात् न तद्-उल्लेखः । नाथ ! हे व्रजेश्वर ! इति तत् तवायुक्तम् इवेति, कान्त इति अस्मत्-कोमल-कर-स्पृश्यम् एव तद् इति प्रेम-सम्बोधन-द्वयम् । कलिलताया हेतु-विशेषः । यद् वा, नाथत्वेन सर्वेषां व्रज-जनानां, कान्तत्वेन च विशेषतोऽस्माकम् इति भावः । यद् वा, नाथ एवं प्रिय-जनोपतापक !

ननु विवेकिन्यस् तर्हि अवसाद-हेतु-मद्-विषयक-चिन्ता त्यज्यताम् ? तत्राहुः---कान्त इति । प्रिय-जन-चिन्ताया विवेकेऽप्य् अपरिहार्यत्वात् । यद् वा, कलिलता-गमने हेतुः---नाथ ! हे प्राणेश्वर ! इति।

ननु---

यावतः कुरुते जन्तुः सम्बन्धान् मनसः प्रियान् । > तावन्तोऽस्य निखन्यन्ते हृदये शोक-शङ्कवः ॥ [हितोपदेश ४.७८]

इत्य्-आदि-वचनेन प्रीतेर् दोषत्व-प्रतिपादनात् प्रीतिर् एव निरस्यतां ? तत्राहुः---मनो गच्छति इति। सङ्कल्प-मात्रात्मकं तन् नास्माकं बुद्धि-वृत्तिं विवेकम् अपेक्षत इति भावः।

ननु मनोऽपि युष्माकम् एवेत्य् आशङ्क्य तस्यापि न दोष इत्य् आहुः---कान्त ! हे मनोहर इति । अहो वन-भ्रमणं विहायात्र द्रुतम् एहीति भावः ॥११॥

English translation

Bhāgavata 10.31.11

When You leave Vraja to graze the animals, O master, we fear that stones, grass, and tender shoots will hurt Your feet, beautiful as lotuses. O beloved, our minds become deeply troubled.

Jīva Gosvāmī's Laghu-vaiṣṇava-toṣaṇī

In this verse and the next, the gopīs say that Kṛṣṇa gives them agitation equally in union and separation, not merely on occasion. The words "from Vraja" imply that their distress lasts from the instant He sets out until He returns.

"While grazing the animals" suggests the possible injury caused by stones and the other things named in the verse. To graze the countless animals of many kinds, He must leave the path and wander here and there. There is also a play on the animals' lack of discrimination: being mere beasts, alas, they roam even along paths difficult for His lotus feet. "Stone" can include fallen wild grain still bearing its husk or awn. The Harivaṁśa speaks of "a forest of ajhilli thorns" (Harivaṁśa 2.8.23). Because there are not thorns everywhere, the verse does not mention them.

The two affectionate forms of address explain the special cause of the gopīs' distress. "Master" means "Lord of Vraja," suggesting that such conduct is unbecoming for Him. "Beloved" suggests that those feet ought to be touched only by their own tender hands. Or He is the master of all the people of Vraja, but especially the beloved of the gopīs. Or "master" may be reproachful: "O You who torment Your own beloved people!"

Kṛṣṇa may say, "If you possess discrimination, abandon this thought of Me that causes you such pain." They answer, "Beloved," because even discrimination cannot banish concern for one who is dear. Or "master" explains why they become distressed: "O Lord of our lives!"

Someone may cite the maxim:

Sanskrit quotation, Hitopadeśa 4.78

As many cherished bonds as a creature forms in its mind, so many spikes of grief are driven into its heart.

If affection is thus declared a fault, why not reject affection itself? They answer, "Our mind becomes..." This movement is merely the mind's own resolve; it does not wait for the discriminating judgment of their intellect.

Kṛṣṇa may object, "But the mind is also yours." The gopīs show that even the mind is not at fault by calling Him "beloved," meaning "O stealer of the mind." Their intention is: "Ah, give up roaming in the forest and come here quickly."

Original

Sanskrit

Source: Śrīmad Bhāgavatam 10.31.12 with Jīva Gosvāmī's Laghu-vaiṣṇava-toṣaṇī

॥ १०.३१.१२ ॥

दिन-परिक्षये नील-कुन्तलैर्

वनरुहाननं बिभ्रद् आवृतम् ।

घन1-रजस्वलं दर्शयन् मुहुर्2

मनसि नः स्मरं वीर यच्छसि ॥

Jiva Gosvami - Laghu-vaisnava-tosani:

दिनस्य परितः क्षये** अत्यन्त-प्रान्ते सतीति दुःखाधिक्यं सूचितम् । नीलाः कुन्तला अलकाः, तेषां ललाटोपरि श्री-मुखस्यावरणेन शोभा-भरापादनात् तैर् आवृतम् इति सहज-परम-सौन्दर्यम् अभिप्रेतम् । अत एव धन-रजस्वलम्, गो धन-वित्तयोः इति विश्व-प्रकाशाद्, गो-रजश्-छुरितम् इति । रजसापि तद्-उल्लासोऽभिप्रेतः, पङ्काङ्ग-राग-रुचिरौ [भा।पु। १०.८.२३] इतिवत् । विशेषतस् तु गोपोचित-वेशस्य तस्य गोपी-जातिषु स्वेषूद्दीपनत्वाद् अनुवादः । ततश् च सामान्यतः स्मरार्पणे हेतुः । विशेषतस् तु दिन-परिक्षये नील-कुन्तलैर् इति दर्शयन्न् इति च पूर्वस्य कामोदय-वेलात्वात्, उत्तरस्य च भावातिशय-सूचकत्वात् । यदि चादर्शयन् स्व-गृहान्तः प्रविशति, तथापि तादृशं कामार्पणं न स्याद् इति भावः । तत्रापि मुहुर् इति । गो-सम्भालनादि-च्छलेन पुनः पुनः परितो बहुधा निरीक्षणेन स्मरार्पणस्यापि पौनःपुन्यं दर्शितम् । तच् च कथञ्चित् विचार-भरेण संवरीतुम् इष्यमाणस्यापि तस्य मुहुर् उद्भटीकरणं । मनसि इति स्मरस्यात्यन्त-मनो-व्यापकत्वम् अप्रतिकार्यत्वं च । श्लेषेण स्मरम् इति यः कान्त-जन-स्मरण-मात्रेण क्षोभकः, तं साक्षाद् यच्छसि इति तस्य महत्त्वं सूचितम् ।

तत्र सामर्थ्यं दर्शयन्ति---हे वीर ! इति । तत्रैव तव वीरत्वं, न त्व् अन्यत्रेति स-प्रणय-रोष-नर्म ध्वनितम् । वस्तुतस् तु तादृश-स्वीय-भावोद्दीपनम् इति भावस्य मुहुर् अनूह्यते । अहो व्रजान्तस्-तादृश-दर्शनेनापि स्मरोऽभूत् । अधुना च वनान्तर् निशि रत्य्-अर्थ-नागर-वेशेन, तत्रापि विरहे स्मरण-विशेषेणासौ वर्धेतैवेति विलम्बं मा कुरु इति भावः ।

एवं श्लोक-द्वयेऽस्मिन्न् इदम् अपि व्यज्यते---नित्यम् एवास्मद्-अभीष्टम् अपूरयित्वापि गच्छसि । त्वय्य् अस्माकं मनः स्नेहम् एव वहति, न तु तद्-अभावेनौदासीन्यं । यं स्मरं वहति, तं तु त्वत्-प्रेरितयैव, न तु स्वतः । तथा त्वत्-स्नेहमयतयैव, न तु रूक्षतया स्नेहस्य स्वभावजत्वात्, त्वं पुनर् अस्मासु सङ्गेच्छया सङ्गच्छमानासु स्मरम् एव ददासि, न तु मिथः स्नेहोचितं सङ्गं । तस्माद् अस्माकं सर्वं स्नेहमयम् एव, भवतस् तु कपट-मयम् एवेति ॥१२॥

Footnotes

  1. "धन-" इति श्री-जीव-गोस्वामिनां सम्मतः पाठः ।

  2. चारु दर्शयन्

English translation

Bhāgavata 10.31.12

At day's end You repeatedly show us Your lotus face, veiled by dark curls and thickly covered with the dust raised by the cows. O hero, in this way You arouse desire in our minds.

Jīva Gosvāmī's Laghu-vaiṣṇava-toṣaṇī

"At the complete ending of the day," at its very last boundary, indicates an increase in their pain. His blue-black curls cover His beautiful face above the forehead and thereby add an abundance of beauty. The words describe His naturally supreme loveliness.

For this reason the accepted reading is "covered with the dust of wealth." The Viśva-prakāśa lexicon gives go in the senses of cattle and wealth, so the phrase means that His face is sprinkled with the cows' dust. Even the dust makes His beauty more radiant, just as the Bhāgavata says, "charming with mud adorning His limbs" (10.8.23). More particularly, His dress as a cowherd is a stimulant of love for the gopīs, who belong to the cowherd community. Its mention therefore generally explains why He awakens desire in them.

More specifically, "at day's end," "with dark curls," and "showing" are each significant. The first is the time when desire awakens, while the last indicates an excess of emotion. If He entered His own home without showing Himself, He would not cast such desire upon them. Even then the word "repeatedly" is used. On the pretext of tending and gathering the cows, He looks all around again and again in many ways, repeatedly placing desire within them. Whenever they try to restrain it through forceful reflection, He repeatedly makes it surge forth. "In our minds" shows both that desire pervades the mind completely and that it cannot be countered. There is also a play on smara: mere remembrance of one's beloved agitates the heart, yet You place that very god of love directly within us. This indicates its power.

They indicate Kṛṣṇa's ability by calling Him "hero." Their affectionate anger and humor suggest, "Your heroism lies only in this, not anywhere else." In truth, "repeatedly" may be supplied with the meaning that He repeatedly kindles their own emotion. "Ah, merely seeing Him like that within Vraja awakened desire. Now, at night in the forest, He is dressed as an amorous lover for dalliance; in separation, intense remembrance can only make that desire grow. Do not delay."

These two verses also imply the following: "Every day You depart without fulfilling our longing. Yet our minds bear only affection for You; Your failure to fulfill it does not make us indifferent. The desire we bear has been inspired by You, not produced by us. It is born only from affection for You, never from harshness, because affection is its very nature. But when we approach You out of a desire for union, You give us only passion, not the meeting proper to mutual affection. Everything in us is therefore made of affection, while everything in You is made of deception."

Textual notes

Original

Sanskrit

Source: Śrīmad Bhāgavatam 10.31.13 with Jīva Gosvāmī's Laghu-vaiṣṇava-toṣaṇī

॥ १०.३१.१३ ॥

प्रणत-कामदं पद्मजार्चितं

धरणि-मण्डनं ध्येयम् आपदि ।

चरण-पङ्कजं शन्तमं च ते

रमण नः स्तनेष्व् अर्पयाधिहन् ॥

Jiva Gosvami - Laghu-vaisnava-tosani:

तद् एवं प्रहसितम् [१०.३१.१०] इत्य्-आदिभिस् तासाम् एव प्रेमोक्ति-द्वारा पूर्वम् अवर्णितः श्री-कृष्णस्य तासु पूर्व-रागः श्री-मुनीन्द्रेण स्पष्टीकृतः । तासु तदीय-रागस्य ताभिर् अनुभूयमानतया वर्णनेनैव महा-रसावहत्वाद् इति ज्ञेयम् । एवं तद्-अङ्ग-सङ्गानुरागे तस्यैव दोषं विन्यस्य तथैव तत्-प्रार्थना-द्वयम् उपसंहरन्त्यः स्वयं गीतेन जात-स्मर-क्षोभाः पुनः प्रार्थयन्ते---प्रणत- इति द्वाभ्याम् ।

English translation

Bhāgavata 10.31.13

O lover, place Your lotus feet upon our breasts. They grant the desires of those who bow before You, are worshiped by Lakṣmī, adorn the earth, are to be meditated upon in danger, and bestow the deepest peace. O destroyer of our pain, place them upon us.

Jīva Gosvāmī's Laghu-vaiṣṇava-toṣaṇī

In the verses beginning with "Your radiant laughter" (10.31.10), the greatest of sages, Śukadeva, has clarified Kṛṣṇa's previously undescribed first awakening of love for the gopīs through their own speech of love. Its supreme relish lies precisely in their describing Kṛṣṇa's attachment as they themselves experienced it.

They have placed the fault for their longing to touch His limbs upon Him. They conclude their two requests for that contact in the same spirit. Yet their own song has now aroused the agitation of love within them, so in this verse and the next they plead once more, beginning with "They grant the desires of those who bow."

Original

Sanskrit

Source: Śrīmad Bhāgavatam 10.31.14 with Jīva Gosvāmī's Laghu-vaiṣṇava-toṣaṇī

॥ १०.३१.१४ ॥

सुरत-वर्धनं शोक-नाशनं

स्वरित-वेणुना सुष्ठु चुम्बितम् ।

इतर-राग1-विस्मारणं नृणां

वितर वीर नस् तेऽधरामृतम् ॥

Jiva Gosvami - Laghu-vaisnava-tosani:

अधरामृतम्** अधर एवामृतं तत् सुरतं प्रेम-विशेषम् असम्भोगेच्छां वर्धयति इति तथा तद् इति मध्व्-आदिवन् मादकत्वम् उक्त्वा मुहुर् लब्धेऽपि तस्मिन्न् न तृप्तिः सूचिता । निज-धार्ष्ट्यादिकं च परिहृतं । शोकं त्वद्-अप्राप्ति-दुःखस्यानुभवम् अपि नाशयति विस्तारयतीति तथा तद् इति चोक्तम् । इतर-राग-विस्मारणं तु नॄणाम् अपि, किम् उत नारीणाम्, तास्व् अप्य् अस्माकं तु तद्-विस्मारणम् इति किं वाच्यं ? शाश्वत-स्व-स्पृहया तद्-अत्यन्ताभावस्यापि सम्पादकम् इत्य् अर्थः । तद् एव प्रमाणयन्ति---स्वरित- इति वेणोः पुं-भावेन ख्यातत्वात्, तेषां तत्-प्राप्तिस् ताम्बूल-चर्वितादि-सम्बन्धेन तदीय-रसे तद्-उपचारात् क्रमतस् त्रयेण स्वेच्छा-वर्धन-दुःखान्तर-स्फूर्ति-नाशन-विषयान्तर-विस्मारणान्य् उक्त्वा तस्य परम-पुरुषार्थत्वं दर्शितम् । एवम् अर्थ-त्रयम् एव पूर्व-पद्येऽपि दर्शितम् इत्य् ऐकार्थ्यं च ज्ञेयम् । न च तवादेयं किञ्चिद् अस्तीत्य् आशयेनाहुः---वीर ! हे दान-शूरेति । अन्यत् तैः ।

अत्र नादामृत-वासितम् इति वेणु-द्वारा सुष्ठु पायकम् इत्य् अर्थः । इदं च लोभ-विशेषोत्पादकता-गमकं सुगायनस्य श्रोतृषु सुखादिना स्पर्शादीच्छा-जनकत्वात्, तत्र चामृतस्याप्य् अमृत-वासितत्वं गन्ध-युक्ति-न्यायेन परस्परं किञ्चिद् वैलक्षण्यम् इति ज्ञेयम् । यद् वा, स्वरितेन सञ्जात-षड्जादि-स्वरेण वेणुना चुम्बितम् इति तस्य मादकत्वम् एव दर्शितं, वेणोस् तच्-चुम्बनं गान-पौनःपुन्येन वैयात्याभिव्यक्तेः, तत्-सम्पर्कज-स्वरेणापि जगतोऽप्य् उन्मादकत्वाभिव्यक्तेश् च ॥१४॥

Footnotes

  1. रोग-

English translation

Bhāgavata 10.31.14

O generous hero, give us the nectar of Your lips. It increases intimate love, destroys sorrow, is thoroughly kissed by Your resonant flute, and makes human beings forget every other attachment.

Jīva Gosvāmī's Laghu-vaiṣṇava-toṣaṇī

His lip is itself nectar. It increases surata, a distinctive form of love, the longing for union when union is absent. Like honey and other intoxicants, this nectar is inebriating. Even when obtained repeatedly it gives no satisfaction, so the gopīs' boldness in asking again is excused. It destroys sorrow, the felt pain of not attaining You, although in another sense it expands that pain. It makes even men forget every other attachment, and how much more women. What need is there to say that it makes us forget all else? By producing perpetual longing for itself, it brings every other attraction to a complete end.

They establish this through the phrase "by the resonant flute." Because the flute is conventionally masculine, its attainment of His lip nectar is spoken of by transferring the taste of that nectar to it, through its contact with His chewed betel and the like. The three expressions successively show that His lip nectar increases longing for itself, destroys the arising of any other sorrow, and makes one forget other objects. They thus demonstrate that it is the highest human attainment. The previous verse also showed these same three meanings, and the two verses should be understood as conveying a single purport. Thinking that there is nothing He cannot give, they call Him "hero," meaning a hero of generosity. The other details have been explained by earlier commentators.

The phrase can also mean that His lips are fragrant with the nectar of sound and offer an especially excellent drink through the flute. This indicates that they generate a special greed. Beautiful singing produces happiness in its hearers and awakens a desire for touch and the other forms of contact. By the principle that a scent permeates what bears it, even nectar becomes infused with nectar, while the two retain a slight distinction.

Or "kissed by the resonant flute" means that the flute has produced notes such as ṣaḍja and has kissed His lips. This displays the intoxicating power of His lip nectar. The flute's repeated kissing through repeated song reveals its shamelessness, while the sound born from that contact reveals its power to drive even the whole world mad.

Textual note

Original

Sanskrit

Source: Śrīmad Bhāgavatam 10.31.15 with Jīva Gosvāmī's Laghu-vaiṣṇava-toṣaṇī

॥ १०.३१.१५ ॥

अटति यद् भवान् अह्नि काननं

त्रुटि युगायते त्वाम् अपश्यताम् ।

कुटिल-कुन्तलं श्री-मुखं च ते

जड उदीक्षतां पक्ष्म-कृत् दृशाम् ॥

Jiva Gosvami - Laghu-vaisnava-tosani:

युगायते** दुःख-समयस्य दुरतिक्रमत्वेन इति परम-दृशम् अतश् चिरम् अदर्शन-दुःखम् असह्यम् इति सत्वरं दर्शनं देहीति भावः । अपश्यतां सर्वेषाम् अपि व्रज-जनानां किम् उतास्माकं ? कुटिलाः कुन्तलाश् चूर्ण-कुन्तला उपरि भागे यस्मिन्, तत् स्वत एव श्री-युक्तं मुखम् उदीक्षतां चेति च-कारान्वयः भवत्व् अन्येषां पक्ष्म-कृत् उदीक्षमाणानाम् अपीत्य् आक्षेपार्थः । अन्यत् तैः ।

यद् वा, दुर्वितर्क्य-प्रकृते कदापि त्वत्तोऽस्माकं न किञ्चित् सुखं जातं प्रत्युत अदर्शन-काले दर्शन-कालेऽपि दुःखम् एवेत्य् आहुः---अटति इति । पूर्वार्धेनादर्शन-काले दुःखम् उक्तम् । दर्शन-कालेऽपि दुःखम् आहुः---कुटिल- इति । जडः अनभिज्ञः । अनिमिषत्वाकारणात् शपणीय इति शेषः । यद् वा, उदीक्षमाणानां सतां पक्ष्म-कृत् कृती छेदने यः पक्ष्माणि कृन्तति, स एव अजडः रसज्ञो विद्वान् वा । यद् वा, स्व-दृशां पक्ष्मी-च्छेदेवाजडः, स एव च उदीक्षताम् उच्चैः पश्यतु । वयं तु पक्ष्म-छन्न-दृशो जडाः साक्षाद् अपि किं पश्यामः ? इति भावः ॥१५॥

English translation

Bhāgavata 10.31.15

When You roam the forest by day, every instant becomes an age for those who cannot see You. And when we gaze upon Your beautiful face framed by curling locks, the creator of eyelids seems a senseless fool, for they obstruct our sight.

Jīva Gosvāmī's Laghu-vaiṣṇava-toṣaṇī

An instant becomes an age because a time of pain is so difficult to cross. This is an extreme condition. The gopīs cannot bear the misery of not seeing Him for so long, and their intention is, "Grant us Your sight at once." "For those who cannot see You" includes every resident of Vraja, and how much more the gopīs. His naturally beautiful face has curling locks arranged above it, and they gaze upward at that face. The conjunction "and" connects these phrases. The statement that the maker of eyelids is dull also applies to all others who gaze at Him and obstructs any objection on their behalf. The remaining details have been explained by earlier commentators.

Or the gopīs say to Kṛṣṇa, whose nature is impossible to reason about, "We have never received any happiness from You. On the contrary, we suffer both when we cannot see You and when we can." The first half of the verse describes their suffering while He is unseen. The phrase beginning "curling locks" describes their suffering even while seeing Him. The creator of eyelids is dull and ignorant. Because he failed to make the eyes unblinking, he deserves to be cursed.

Alternatively, the one who cuts off the eyelashes of those gazing at Kṛṣṇa is truly not dull but a connoisseur of rasa and a learned person. Or only one who has cut away the lashes from his own eyes is intelligent, and only he may gaze upward and truly see. We, whose vision is covered by eyelashes, are dull. Even when Kṛṣṇa stands before us, what do we actually see?

Original

Sanskrit

Source: Śrīmad Bhāgavatam 10.31.16 with Jīva Gosvāmī's Laghu-vaiṣṇava-toṣaṇī

॥ १०.३१.१६ ॥

पति-सुतान्वय-भार्तृ-बान्धवान्

अतिविलङ्घ्य तेऽन्त्य् अच्युतागताः ।

गति-विदस् तवोद्गीत-मोहिताः

कितव योषितः कस् त्यजेन् निशि ॥

Jiva Gosvami - Laghu-vaisnava-tosani:

एवं च सति तद् एतद् अद्य कृतम् अत्यन्तम् अयुक्तम् इत्य् आहुः---पति- इति । बान्धवा माता-पित्र्-आदयः । अति तेषां वाक्यातिक्रमात् स्नेहादि-परित्यागाच् चातिशयेन विशेषेण च धर्माद्य्-अनपेक्षया स-मूलत्वेन लङ्घयित्वा अतिक्रम्य । आगमने हेतुः---तवोद्गीत-मोहिता इति, हरिण्य इवेति भावः । न च यादृच्छिकम् उद्गीतम्, अपि तु ज्ञान-पूर्वकम् एवेत्य् आहुः---गति-विद इति। अस्मद्-आगमनं जानत इति भावः ।

यद् वा, ननु भवत्यः परम-धीराः गीत-मात्रेण कथं मोहिताः ? तत्राहुः---गीत-गति-विशेषान् जानन्त्य इति । यैः शक्र-शर्वर-परमेष्ठि-पुरोगाः [भा।पु। १०.३५.१५] इति भावः ।

यद् वा, "भवत्यो विदग्धा ममैतादृशं स्वभावम् अपि जानन्तीति कथं न सावधाना जाताः ?" तत्राहुः---त्वत्-स्वभाव-विदोऽपि वयम् इति । मोहन-मन्त्र-प्रायत्वात् त्वद्-वानस्येति (?) भावः । अहो तद् अप्य् आस्तां स्वयम् एव तथानीता योषितः पुनर् निशि कस् त्यजेत्, सम्भावनायां लिङ्, न कोऽपीत्य् अर्थः । अत एव हे कितव ! वञ्चन-शील ! अनेनान्योऽपि कितवः कस् त्यजेत्, सर्वस्यापि तस्य कैतवे लब्धेनैवार्थेन स्व-व्यवहार-साधकत्वं भवतु तस्यापि तिरस्कारित्वम् इति तत्रापि विशेषः । अत एव हे अच्युत ! स्व-गुणाद् अव्यभिचारिन्न् इति सान्वयैव तवैषा संज्ञेति भावः॥१६॥

English translation

Bhāgavata 10.31.16

Unfailing one, we have completely transgressed the commands of husbands, sons, families, brothers, and relatives and have come to You. Knowing our movements, You enchanted us with Your song. What man would abandon women at night, O cheat?

Jīva Gosvāmī's Laghu-vaiṣṇava-toṣaṇī

Given all this, the gopīs say that what Kṛṣṇa has done tonight is utterly improper. "Relatives" includes mother, father, and the rest. They have "completely transgressed" all these people: they disobeyed their words, gave up their affection, disregarded religious duty and every other consideration, and crossed beyond those bonds at their very root.

Why did they come? They were enchanted by His loud song, like does spellbound by music. Nor was His song accidental. "Knowing our movements" means that He sang deliberately, knowing that they would come.

Or Kṛṣṇa may ask, "You are exceptionally composed. How could a mere song bewilder you?" They answer that they know the special movements and modes of His music, those by which "Indra, Śiva, Brahmā, and the other foremost gods" become overwhelmed (Bhāgavata 10.35.15).

Or He may say, "You are clever and even know that this is My nature. Why were you not cautious?" They answer, "We did know Your nature, but Your song is virtually an incantation of enchantment." The source marks the precise reading of the phrase describing His music as uncertain.

But let all that be. After women have been brought there by the man himself, who would then abandon them at night? The optative "would abandon" expresses impossibility: no one would. Therefore they call Him "cheat," one whose nature is deception. The reproach carries a further distinction. Even another gambler would not abandon such women, for he conducts his affairs with whatever he has obtained through his gambling. Thus Kṛṣṇa's rejection makes Him worse even than other cheats. They also call Him "unfailing," one who never deviates from His own qualities. Their irony implies that this name indeed suits Him perfectly: He never departs from His deceptive nature.

Original

Sanskrit

Source: Śrīmad Bhāgavatam 10.31.17 with Jīva Gosvāmī's Laghu-vaiṣṇava-toṣaṇī

॥ १०.३१.१७ ॥

रहसि संविदं हृच्-छयोदयं

प्रहसिताननं प्रेम-वीक्षणम् ।

बृहद्-उरः श्रियो वीक्ष्य धाम ते

मुहुर् अतिस्पृहा मुह्यते मनः ॥

Jiva Gosvami - Laghu-vaisnava-tosani:

ते** तव हृदयस्य कामस्य उदयं वीक्ष्य । कीदृशं? रहसि-संवित् यत्र, तम् । अलुक्-समासः । तथा प्रकृष्टं हसितं यस्मिन्न् आनने, तद् आननं। यत्र बृहद् इति गाढालिङ्गनेच्छा-कारकः सौन्दर्य-विशेष उक्तः । श्रियः सर्व-सम्पन्-निधेः स्वाभाविक-पीत-रेखा-रूपाया धाम इति च वीक्ष्य अस्माकम् अतिस्पृहा इत्य् अस्मच्-छब्द-वाच्य-कर्तृक-वीक्षण-स्पृहायाः क्रियाया वीक्षणस्य पूर्व-कालत्वात् क्त्वा-प्रत्ययः । स्वातन्त्र्य-विवक्षया स्पृहाया एव वीक्षण-कर्तृत्वोपचारः । अत्रोद्भवतीति शेषः । अतिस्पृहया मनो मुह्यति इत्य् अर्थः । "अतिस्पृहम्" इति चित्सुखः । अतिस्पृहा च तत्-तद्-अनुभवाय तत्-सङ्गम-मात्राय वा । तथा च मनो मुह्यति इति स्पृहायाः परमौत्कण्ठ्यं द्योत्यते ।

यद् वा, वीक्ष्य इति पूर्व-वृत्तम् इदं तथा तथैव भवेत् । अधुना तत्-तद्-अतिशयेन मरणम् एवासन्नम् इति भावः । एवं स्पृहाया दुर्निवारत्वाद् अप्रतिकार्यत्वम् । तेन निज-परम-दैन्यं च सूचितम् ॥१७॥

English translation

Bhāgavata 10.31.17

Seeing Your intimate exchanges, the awakening of desire in Your heart, Your brightly smiling face and loving glances, and Your broad chest, the abode of Lakṣmī, our minds repeatedly reel with overwhelming longing.

Jīva Gosvāmī's Laghu-vaiṣṇava-toṣaṇī

The gopīs have seen the awakening of desire in Kṛṣṇa's heart. What was that awakening like? Intimate conversation took place within it. The expression is an aluk compound, in which the case ending remains. They also saw His face, upon which an especially radiant smile appeared, and His loving glance.

The word "broad" describes a distinctive beauty in His chest that awakens a desire for a tight embrace. His chest is the abode of Śrī, the treasury of every excellence, who naturally appears there as a golden line. Having seen all this, "our overwhelming longing" arises. The absolutive "having seen" indicates that their act of seeing preceded their longing to behold and experience Him. To emphasize the longing's independence, longing itself is figuratively treated as the one that sees.

The full meaning is that their minds become bewildered by overwhelming longing. Citsukha reads the word as an adverb, "with intense longing." That longing is either to experience each of the features just described or simply to meet Him. "The mind becomes bewildered" reveals the longing's utmost intensity.

Alternatively, "having seen" refers to what occurred earlier. It may be understood in precisely the ways already explained. But now, as each emotion reaches excess, death itself draws near. Their longing therefore cannot be restrained or counteracted. This also reveals their own supreme humility.

Original

Sanskrit

Source: Śrīmad Bhāgavatam 10.31.18 with Jīva Gosvāmī's Laghu-vaiṣṇava-toṣaṇī

॥ १०.३१.१८ ॥

व्रज-वनौकसां व्यक्तिर् अङ्ग ते

वृजिन-हन्त्र्य् अलं विश्व-मङ्गलम् ।

त्यज मनाक् च नस् त्वत्-स्पृहात्मनां

स्वजन-हृद्-रुजां यन् निषूदनम् ॥

Jiva Gosvami - Laghu-vaisnava-tosani:

तद् एवं भवतैव निज-हृच्-छयोदयस्य व्यञ्जनया अस्मासु ते ते नाना-भावा जन्यन्ते हन्तास्य हृच्छय-ताप एवम् एवं शान्तः स्याद् इति भावनया त्वद्-भाव-भावितत्वेन तत्-तद्-वासनोदयात् । यतोऽस्माकं त्वयि स्नेहः स्वभावजत्वाद् बलवत्तर इति द्योतयन्त्यस् तादृश-स्नेहमयाभिलाष-विस्फुट-हृदयाः स-दैन्यं निवेदयन्ति---व्रज- इति द्वाभ्याम् । व्रजौकसां वनौकसां चेत्य् अर्थः । व्यक्तिः प्राकट्यम्। अतोऽन्तर्धानम् अयुक्तम् इति भावः । अङ्ग इति प्रेम-सम्बोधने । न केवलं तेषां वृजिन-हन्त्री अशेषस्यापि मङ्गल-रूपा वृजिन-हन्त्री । यद् वा, तेषाम् एव सर्व-सुखदा च । अलम् अतिशयेनेत्य् अस्य उभयतोऽप्य् अन्वयः । अतो नः सम्बन्धे दुःख-शमकं किम् अपि देहि ।

ननु व्रजौकस्त्वेन भवतीनाम् अपि तत्-तद्-उत्पातज-दुःख-शान्त्य्-आदिकं भविष्यत्य् एव किम् अन्यत् प्रार्थयध्वे, तत्राहुः---त्वयि त्वत्-प्राप्त्य्-अर्थम् एव या स्पृहा, तस्याम् एव आत्मा मनो यासां, तासां नः

ननु व्रज-वनौकसाम् अपि मत्-स्पृहाः, ततः को विशेषः ? तत्राहुः---स्वजन इति । तेष्व् अपि स्वजन-विशेषोऽस्मद्-विधः, तस्य हृद्-रुजां यन् निषूदनम् इति । मनाग् इति परम-दौर्लभ्येन, याचक-रीत्या वा । वस्तुतस् तु हृद्-रुजाम् इति बहुत्वेन नि-शब्देन च तथा तद्-विषयक-कामानाम् अनिवर्त्यत्वेन प्रत्युत सदा नव-नवतया वर्धिष्णुत्वेनैव निरन्तरं तद्-वैविध्यम् अभिप्रेतम् ॥१८॥

English translation

Bhāgavata 10.31.18

Beloved, Your appearance among the people of Vraja and the forest utterly destroys their suffering and brings auspiciousness to the whole universe. We have made longing for You our very self. Please grant us even a little of that which destroys the heartache of Your own people.

Jīva Gosvāmī's Laghu-vaiṣṇava-toṣaṇī

By revealing the awakening of desire in His own heart, Kṛṣṇa Himself has generated many distinct emotions within the gopīs. Filled with His emotion, they develop corresponding desires, thinking, "Ah, His fever of love would be calmed in this way and that." Their affection for Him is still stronger because it arises from their very nature. Their hearts burst open with longings made entirely of such affection, and in their humility they present their plea in this verse and the next.

"Among the people of Vraja and the forest" refers to both the residents of the settlement and the forest dwellers. His "appearance" means His becoming manifest, and therefore implies that His disappearance is improper. "Beloved" is an affectionate address.

His appearance does not merely destroy the suffering of those residents. Being the auspiciousness of the entire universe, it destroys everyone's suffering. Or it gives every happiness to those very residents. The word "utterly" may be joined with either meaning: it utterly destroys misery and is utterly auspicious. Therefore, in relation to us, give something that will calm our pain.

Kṛṣṇa may say, "Because you too are residents of Vraja, the suffering created by the various calamities will certainly be calmed for you as it is for the others. What more do you ask?" They answer, "For us, who have made longing for You our very self." Their entire mind and being rest solely in the longing to attain Him.

He may object, "The people of Vraja and the forest also long for Me. What is distinctive about you?" They answer, "Your own people." Even among those residents there are particular intimate people such as us. Give what destroys the pains in their hearts. They ask for "even a little" because the gift is exceedingly rare, or because this is the humble manner of a beggar.

In truth, the plural "pains of the heart" and the intensive force of the prefix in "destroys" imply unending variety. Their desires concerning Him cannot be removed. On the contrary, they perpetually increase, becoming newer at every moment, and their heartaches therefore assume ever new forms.

Original

Sanskrit

Source: Śrīmad Bhāgavatam 10.31.19 with Jīva Gosvāmī's Laghu-vaiṣṇava-toṣaṇī

॥ १०.३१.१९ ॥

यत् ते सुजात-चरणाम्बु-रुहं स्तनेषु

भीताः शनैः प्रिय दधीमहि कर्कशेषु ।

तेनाटवीम् अटसि1 तद् व्यथते न किं स्वित्

कूर्पादिभिर् भ्रमति धीर् भवद्-आयुषां नः ॥

Jiva Gosvami - Laghu-vaisnava-tosani:

ननु कास् ता हृद्-रुजः ? किं वा तन्-निषूदनम् ? इत्य् अपेक्षायां रुदत्य इवोद्दिशन्ति---यद् इति । अम्बुरुह-रूपकेण सिद्धेऽपि सुकोमलत्वे सुजात- इति विशेषणं ततोऽपि परम-कोमलत्व-विवक्षया । शनैर् इत्य् अत्र हेतुः । भीता इति तत्र च हेतुः---कर्कशेष्व् इति । स्तनेषु दधीमहि इत्य् अत्र---हे प्रिय इति । प्रियत्वेन हृद्य् एव । तत्रापि स्तनेष्व् एव धारणस्य योग्यत्वात् तेन अटवीम् अटसि । अधुना निशि वने भ्रमसीत्य् अर्थः । स एव चरणस्यैव धारणे पुनः पुनस् तद्-उल्लेखे च हेतुर् उक्तः, अनिष्टाशङ्कया तत्रैव वर्धित-स्नेहातिशयत्वात् । पूर्वं गो-चारणाय तृण-मय-प्रदेश एव परिभ्रमणात् प्रायिकत्वेन शिल- इत्य्-आद्य्-उक्तम् । सम्प्रति तु कर्कश-प्रायत्वेन दृश्यमाने पुलिनोपरितन-यमुना-तटे भ्रमणात् कूर्पादिभिर् इति । यद्यपि तदानीं श्री-वृन्दावनस्य स्वभावेन च तेषाम् अपि तत्र तत्राशङ्का नास्ति, तथापि अनिष्टाशङ्कीनि बन्धु-हृदयाणि भवन्ति [अभिज्ञान-शकुन्तला?] इत्य्-आदि-न्यायेन शङ्का तासां सा सञ्जायेतैव भ्रमति मुह्यति । अत्र हेतुः---भवद्-आयुषाम् इति । इत्थम् एवोपक्रान्तं त्वयि धृतासव इति मध्ये चाभ्यस्तं चलसि यद् व्रजाद् [भा।पु। १०.३१.११] इति । अतस् तैर् या व्यथा सास्मज्-जीवन एवोत्पद्यते, तद् अधुना प्राणान् धारयितुं कथञ्चिद् अपि न शक्नुम इति भावः । तद् एव तादृशाशङ्का एव हृद्-रुजः तन्-निषूदनं च स्वयम् एव परम-प्रियतमाङ्गे स-लालन-सुख-निवासनम् एवेति द्रुतम् एव समागच्छेति भावः । "नयसि" इति पाठे गच्छसीत्य् एवार्थः । नय पय गताव् इति धातोः ।

तद् एव तासां सर्वस्यापि भावस्य प्रेमैकमयत्वे स्थिते श्री-भगवतोऽप्य् एवम् एव ज्ञेयम् । हन्तेमा मयि प्रेमैकमय्य इत्य्-आदिभ्यः । परम-सुखमयात्म-दानम् एव समञ्जसं । तच् च योग्यत्वाद् एवम् एवम् इत्य् आलोच्य तादृश-प्रेम-विलासमय-तत्-तद्-इच्छा जायते इति एवम् अन्यद् अप्य् ऊह्यं सहृदयैस् तद्-एक-रसिकैर् इति ॥१९॥

Footnotes

  1. नयसीति पाठान्तरं स्वामिभिर् धृतम्।

English translation

Bhāgavata 10.31.19

Beloved, Your exquisitely tender lotus feet are so delicate that we fearfully place them very gently upon our hard breasts. Yet with those same feet You roam the forest. Are they not hurt by pebbles and the like? Our minds reel, for our very lives belong to You.

Jīva Gosvāmī's Laghu-vaiṣṇava-toṣaṇī

Kṛṣṇa may ask, "What are those pains in your hearts, and what would destroy them?" As if weeping, the gopīs point to the answer with the verse beginning "Your exquisitely tender feet."

The metaphor "lotus feet" already establishes their softness, but the adjective "exquisitely formed" expresses a tenderness surpassing even that of a lotus. This is why the gopīs place them down "gently." Why are they so cautious? Because they are afraid. Why are they afraid? Because their breasts are hard.

When they say, "We place them upon our breasts," they address Him as "beloved." Because He is beloved, His feet belong in their hearts. Even bodily, the breasts alone are a fitting place to hold them. Yet "with those same feet You roam the forest," meaning that even now, at night, He wanders in the woods. This is why they speak repeatedly of holding His feet alone. Their affection for those feet grows still more intense from fear that something unwanted may happen to them.

Earlier, when Kṛṣṇa went to graze the cows, He generally roamed grassy ground, so they spoke of stones and tender shoots. Now He wanders along the Yamunā's bank above the sandy shore, which appears largely rough, so they speak of pebbles and the like. By the inherent nature of Śrī Vṛndāvana at that time, there was actually no danger from such things anywhere. Nevertheless, by the maxim that the hearts of loving relatives always fear misfortune, a principle perhaps echoed in the Abhijñāna-śākuntala, such anxiety inevitably arises within them.

"Our minds reel." Why? "Our very lives belong to You." The song began in this same mood with "we have placed our lives in You" and repeated it in the middle with "when You leave Vraja" (Bhāgavata 10.31.11). Whatever pain those feet undergo therefore arises within the gopīs' own life. Their meaning is, "Now we cannot preserve our lives by any means."

These very fears are the pains of their hearts. What destroys them is Kṛṣṇa's own joyful repose, with tender caresses, upon the supremely beloved part of their bodies. Their plea is therefore, "Come back at once." If the alternate reading is "You lead," it still means "You go," from the verbal root naya, which, like paya, can mean motion.

All the gopīs' emotions are thus made solely of love. The same must be understood of the Supreme Lord, as indicated by His thought, "Ah, these women are wholly made of love for Me," and similar statements. Only His gift of Himself, an act filled with the highest bliss, is a fitting response. Reflecting on precisely what is proper in each circumstance, He develops the corresponding desires for loving pastimes. Sensitive connoisseurs devoted exclusively to this rasa should infer other such meanings in the same way.

Textual note