राम

रास-पञ्चाध्यायी ३ - गोपी-गीत

Rasa-pancadhyayi III - The Gopi-gita

Chapter 3 of 5Source coverage: logical units 1–1919 paired passages

Original

Sanskrit

Source: Śrīmad Bhāgavatam 10.31.1 with Sanātana Gosvāmī's Bṛhad-vaiṣṇava-toṣaṇī

॥ १०.३१.१ ॥

गोप्य1 ऊचुः---

जयति तेऽधिकं जन्मना व्रजः

श्रयत इन्दिरा शश्वद् अत्र2 हि ।

दयित दृश्यतां दिक्षु तावकास्

त्वयि धृतासवास्3 त्वां विचिन्वते ॥

Sanatana Gosvami - Brhad-vaisnava-tosani:

कृष्णैक-गम्यो वाग्-अर्थो यासां लेखितुम् इष्यते ।

क्षान्त्वा गो-व्रज-देव्यस् ता भक्तिं तन्वन्तु मे निजाम् ॥

पीत-श्री-गोपिका-गीत-सुधा-सार-रस-श्रियाम् ।

श्रीधर-स्वामिनां किञ्चिद् उच्छिष्टम् उपचीयते ॥

Footnotes

  1. गोपिका ऊचुः

  2. साधु तत्र (वि।)

  3. गतासवास् (वि।)

English translation

Śrīmad Bhāgavatam 10.31.1

The gopīs said:

“By Your birth Vraja has become more glorious than every other place, for Indirā now dwells here perpetually. O beloved, please reveal Yourself. Your own people, who hold their very life-breaths in You, are searching for You in every direction.”

Sanātana Gosvāmī's Bṛhad-vaiṣṇava-toṣaṇī

I desire to write about the words and meanings of those whose sole destination is Kṛṣṇa. May those goddesses of the cowherd settlement of Vraja forgive me and extend their own devotion within me.

Śrīdhara Svāmī has drunk the glorious rasa that is the distilled nectar of the sacred Gopikā-gīta. I gather only a little of what remains from him.

Footnote 90 records the variant “the gopikās said.” Footnote 91 records the Viṣṇu Purāṇa reading “beautifully there.” Footnote 92 records the Viṣṇu Purāṇa reading “whose life-breaths have departed.” (1)

Original

Sanskrit

Source: Śrīmad Bhāgavatam 10.31.2 with Sanātana Gosvāmī's Bṛhad-vaiṣṇava-toṣaṇī

॥ १०.३१.२ ॥

शरद्-उदाशये साधु-जात-सत्-

सरसिजोदरे श्री-मुषा दृषा ।

सुरत-नाथ तेऽशुल्क-दासिका

वरद निघ्नतो नेह किं वधः ॥

Sanatana Gosvami - Brhad-vaisnava-tosani:

श्री-मुषा** इति दृशः परम-तस्करत्वं ध्वनितम् । उत्तम-काले जल-दुर्गे साधूनाम् उत्तम-द्रव्यान्तर्-व्यस्त-लक्ष्मी-तुल्य-महा-धनस्य हरणात् । अत ईदृश-चौरेण वधोऽपि सुघट एवेति भावः । वस्तुतश् चैवं दृशः परम-सौन्दर्यम् उक्तम् । दृशा इत्य् एकत्वेनैव भाव-विशेष-सूचनात् क्षोभणत्वम् । यद् वा, एकयापि दृशेत्य् अर्थः ।

English translation

Śrīmad Bhāgavatam 10.31.2

“In the autumn lake Your glance steals the beauty from the heart of the finest, perfectly blossomed lotus. O Lord of love, O giver of boons, we are Your unpaid maidservants. Is Your killing us in this way not murder?”

Sanātana Gosvāmī's Bṛhad-vaiṣṇava-toṣaṇī

The phrase “stealing beauty” suggests that His glance is the supreme thief. At the most favorable time, within a fortress of water, it steals the great treasure resembling Lakṣmī that lies among the finest possessions of saintly persons. It is therefore entirely fitting that such a thief should even commit murder. In reality, this language declares the supreme beauty of His glance.

The singular “with a glance” reveals a distinctive emotional force and its power to agitate. Or it means that even one of His glances is sufficient. (2)

Original

Sanskrit

Source: Śrīmad Bhāgavatam 10.31.3 with Sanātana Gosvāmī's Bṛhad-vaiṣṇava-toṣaṇī

॥ १०.३१.३ ॥

विष-जलाप्ययाद् व्याल-राक्षसाद्

वर्ष-मारुताद् वैद्युतानलात् ।

वृष-मयात्मजाद् विश्वतो-भयाद्

ऋषभ ते वयं रक्षिता मुहुः ॥

Sanatana Gosvami - Brhad-vaisnava-tosani:

विष-जलादिभ्यो** गो-गोपादीनां वर्षादिभ्यश् च सर्व-व्रजस्यैव रक्षणेन आत्मीयात्म-पालनात् । किं वा, तत्र तत्र श्री-कृष्ण-विषयक-माङ्गल्येनैव सर्व-रक्षा-मननाद् वयं रक्षिता इति प्रेमोद्रेकेणोक्तं । तत्र वृष-मयात्मजाद् इति भावि-सूचनम् । सहज-सार्वज्ञ्याद् विशेषतश् च विरहार्त्या प्रेम-विशेषोच्छलनात् स्वत एव तत्-तत्-परिस्फूर्तेः, तस्य भावित्वेऽपि भूत-निर्देशः, सुनिश्चितत्वात् । अहो कति गणयानि, बहुभ्योऽपि दुःखेभ्यो रक्षिता इत्य् आहुः---विश्वतः पूतना-शकट-तृणावर्त-यमलार्जुनेभ्यो बक-वत्स-दवानल-केश्य्-आदिभ्योऽपि भयाद् इत्य् एवं पुनः पुनस् ते त्वया त्वदीया वा वयं रक्षिताः । तच् च तव युक्तम् एवेति सम्बोधयन्ति---ऋषभ ! कारुण्यादिना सर्वतः श्रेष्ठ ! इति । यद् वा, व्रजेश्वर ! इति वयम् इत्य् अत्र स्पष्ट-निर्देशः स्व-विषय-कोप-कार-विज्ञापनाय । तच् चाधुनापि तद्-अर्थं मुहुर् इति तत्रौदासीन्य-राहित्येन परम-कृपालुत्वं सूचितम् । किं वा, प्रेम-विवशानां तासां स्वप्न-मनोरथादौ पुनः पुनस् तेषाम् एव साक्षाद् इव स्फूर्त्य्-अभिप्रायेण, पूर्वोक्त-क्रमातिक्रमा विरह-वैवश्यात् । किं वा, श्री-कृष्ण-विषयक-तत्-तद्-भये तेषां यथोत्तरं न्यूनताभिप्रायात् । अत एवैते स्पष्ट-निर्दिष्टाः । ततश् च विष-जलाप्ययाद् अपि रक्षिताः । किं वक्तव्यम् ? व्याल-राक्षसाद् इत्य् एवं व्याख्येयम् । अन्यत् तैर् व्यञ्जितम् ।

यद् वा, व्यालाः कालियाजगरादयः । राक्षसाः पूतनावकाशाद्याः, शङ्खचूडश् च यक्ष-राक्षसयोर् अभेदात् । स च श्री-ध्रुवोपाख्यानान्ते व्यक्त एव । तेषां जाताव् एकत्वं पुनर् द्वन्द्वैक्यम् । एवम् अग्रेऽपि, वर्षं दुर्मदेन्द्र-प्रेरित-संवर्तक-कृतम्, मारुतस् तदानीन्तनस् तृणावर्तश् च । वैद्युतं विद्युत्-समूहः । तद् वर्ष-कालीनम् एव । अनलश् च स्थान-द्वय-दावः । विश्वतस् तद्-इतरेभ्यः शकटादिभ्यः, ते गोपा वयंरक्षिताःत्वया इति प्रकरण-बलात् गोपा इति साक्षाद्-अनुक्तिस् तदानीं तत्-प्रसङ्गस्यायोग्यत्वात् । तत्र विष-जलाप्ययाद् गोपाः सुधा-दृष्ट्या जीवनादिना, वयं च शोक-भरेण तत्र प्रविश्य मरणोद्यताः, कालिय-मर्दनादिना अजगरात् श्री-नन्दः, पूतनातस् तन्-निपात-भयात् । प्रायः सर्वोऽपि व्रजः शकटार्जुनतो वत्स-बकाद्य्-असुरेभ्यश् च बालकाः, शङ्खचूडाद् वयम्, वर्षात् सर्वोऽपि व्रज इत्य् एवं विवेचनीयम् । तत्र ते इति दृष्टान्ततयोह्यम् । एवं सामान्येनैव वयं रक्षिताः स्मः । अधुना तु त्वद्-एक-गतयो वयं विशेषेण रक्ष्या इति भावः । अन्यत् समानम् ।

यद् वा, किं-शब्दः पूर्वस्माद् अनुवर्तेत । ततश् चायम् अर्थः---"तस्मात् तस्मात् किम् इति रक्षिताः ? मारिताः स्याम चेत्, तदैव भद्रम् अभविष्यत्" इत्य् अर्थः । ततश् च तेषां दुर्मारकतापेक्षया यथोत्तरं श्रैष्ठ्यम् ऊह्यम् ॥३॥

English translation

Śrīmad Bhāgavatam 10.31.3

“O foremost one, again and again You have saved us from death in poisoned water, from serpents and demons, from rain and wind, from lightning and fire, from the bull demon and Maya's son, and from danger on every side.”

Sanātana Gosvāmī's Bṛhad-vaiṣṇava-toṣaṇī

By protecting the cows, cowherds, and others from poisoned water and similar dangers, and all of Vraja from the rain and the other calamities, He protected those who were His very own self. Or, because every rescue was contemplated solely as an auspicious act concerning Śrī Kṛṣṇa, the gopīs declared in an outpouring of prema, “We were saved.”

The reference to the bull demon and Maya's son foretells events still to come. The gopīs possessed natural omniscience, and especially in the pain of separation their extraordinary prema overflowed and spontaneously made those events manifest. Although the events were future, the verse uses the past tense because they were certain.

“How many can we count? You saved us from innumerable sufferings.” Thus “danger on every side” includes fear of Pūtanā, the cart demon, Tṛṇāvarta, the twin arjuna trees, Baka, Vatsa, the forest fire, Keśī, and others. Repeatedly, “we, who are Yours, were protected by You.” Addressing Him as “foremost one” means, “You who excel everyone through compassion and every other virtue,” or “Lord of Vraja.” This makes His saving them entirely appropriate.

Their explicit “we” informs Him of the offense and anger directed at themselves. “Again and again” asks Him to save them even now and shows that He was never indifferent but supremely compassionate. Or, overcome by prema, they repeatedly saw these dangers as if directly present in dreams, wishes, and other inner experiences. Their helplessness in separation disrupts the events' earlier sequence. Or the order suggests that each successive danger to Śrī Kṛṣṇa Himself was less severe than the preceding one; this is why the incidents are named explicitly. The construction can thus be expanded: “You saved us even from death in poisoned water; what need is there to mention serpents and demons?” The other terms should be explained in the same ascending manner. The remaining implications have been explained by earlier commentators.

Alternatively, “serpents” includes Kāliya, the python, and others. “Demons” includes Pūtanā, Agha, and the rest, as well as Śaṅkhacūḍa because yakṣas and rākṣasas are treated as one class, as is made clear at the end of the account of Śrī Dhruva. Their unity by kind again permits a compound joining them. The same principle applies below.

The “rain” was produced by the world-destroying clouds sent by the maddened Indra. “Wind” includes the wind accompanying that storm and Tṛṇāvarta. “Lightning” means the mass of lightning in that same rainstorm. “Fire” means the two forest fires. “On every side” means from the other dangers, beginning with the cart demon. By force of the context, “You protected the cowherds and us” is understood, though the cowherds are not named directly because speaking of them was unsuitable to the gopīs' immediate mood.

From death in the poisoned water the cowherds were revived by His nectarean glance, while the gopīs, overwhelmed by grief, were ready to enter the water and die. Śrī Nanda was saved from the python; from Pūtanā, Vraja was saved from the danger of her falling body; nearly all Vraja was saved from the cart and the twin arjuna trees; the boys were saved from Vatsa, Baka, and other demons; the gopīs from Śaṅkhacūḍa; and all Vraja from the rain. The word “You” is to be supplied by illustration throughout. In this general way they had all been saved. But now, when Kṛṣṇa alone was their destination, they especially needed protection. The rest is the same.

One final reading carries forward the interrogative “what?” from the preceding verse: “Why did You save us from each of those dangers? Had we died then, that alone would have been fortunate.” One should understand each successive danger as preferable to the terrible death they now endured in separation. (3)

Original

Sanskrit

Source: Śrīmad Bhāgavatam 10.31.4 with Sanātana Gosvāmī's Bṛhad-vaiṣṇava-toṣaṇī

॥ १०.३१.४ ॥

न खलु गोपिका-नन्दनो भवान्

अखिल-देहिनाम् अन्तरात्म-दृक् ।

विखनसार्थितो विश्व-गुप्तये

सख उदेयिवान् सात्वतां कुले ॥

Sanatana Gosvami - Brhad-vaisnava-tosani:

विचित्र-क्रीडा-कारि-साक्षाद् एतद् वर्तमान-रूपो बहिर् एव केवलं भवान् न भवति, किं तु अन्तर् अप्य् एवं वर्तत इत्य् आहुः---अखिल- इति । अतोऽस्माकम् एतद् हृत्-ताप-वृत्तं भवान् जानात्य् एव । किं तस्य बहु-वर्णनेन इति भावः

ननु सत्यं जानाम्य् एव, किं तु कृत्यं सर्वम् अवसर एव सम्पाद्यते । तत्राहुः---विखनसा इति । स्व-भक्त-वर-प्रार्थनया भक्त-कुलेऽवतीर्णेन भवतावश्यं भक्ता अनवसरेऽपि परिपाल्या एवेति । त्वद्-भक्तानाम् अस्माकम् अप्य् अवसरापेक्षा न युक्तेति भावः । अस्मिन्न् अवतारे स्व-भक्तापेक्षया स्व-कृत-निबन्धस्याप्य् अतिक्रमणात् । तच् चाग्रे गुरु-पुत्रानयनादौ व्यक्तम् एव ।

ननु यूयं न मद्-भक्ता इति चेत्, तथापि परिपाल्याः श्री-ब्रह्मणावतारेऽस्मिन् सर्वेषाम् अपि पालनस्य प्रार्थनाद् इत्य् आहुः---विश्व- इति । अतो निज-भक्त-वर-प्रार्थनस्यावश्य-पाल्यत्वाद् वयं नोपेक्ष्या एव इति भावः । किं च, तत्रापि विशेषतो वयं परिपाल्याः । तत्र च भाव-विशेषेणेत्य् आशयेनाहुः---सखे इति । अन्यत् तैर् व्याख्यातम् ।

यद् वा, अन्तरात्म-दृग् अपि भवान्, गोपिका-नन्दनो भवति खलु किम् ? अपि तु भवत्य् एव। कथम् ? तत्रहुः---विखनसा इति । अतो वयम् आनन्दनीया एव इति भावः । यद् वा, गोपिका-नन्दनः कारुण्यादि-गुण-रूप-लीलैश्वर्यादि-निज-भगवत्ता-प्रकरण-परः श्री-कृष्णो भवान् न भवति, किं तु परमात्मैवेति, परम-दुःखेन वेदान्त-पक्षम् अङ्गीकृत्याहुः--- इति । खलु निश्चितम् । इत्य् अधुना ज्ञातम् इति सर्वत्राग्रेऽपि शेषः । किं च, अ-कार-प्रश्लेषेण न विश्वस्य गुप्तिः, अविश्व-गुप्तिस्, तस्यै जगत्-संहारायैवेत्य् अर्थः । सात्वतां सात्वतानां यादवानाम् एव कुले, न तु गोप-कुले जात इति च । अन्यत् समानम् ।

अथवा, हे सखे ! इति सोल्लुण्ठम् । नञः प्राङ्-निर्देशात् सर्व-पादैर् एवान्वयः । तेन हेऽसखे ! प्रतिकूल ! इति । खलु वितर्के । श्री-यशोदा-नन्दनो न भवति, तथा सति दामोदरत्वादि-भक्त-वश्यतादि-भर-प्रदर्शनेन चास्माकम् उपेक्षानुपपत्तेः । यद् वा, गोपिका व्रज-स्त्रियः सर्वा आनन्दयति इति तथा सति तद्-वैपरीत्यासम्भवात् । किं च, अखिल-देहिनाम् अन्तरात्म-दृग् अपि भवति, तथास्मद्-दुःख-ज्ञान-सम्भवात् । न च ब्रह्मणा विश्व-गुप्तयेऽर्थितः, तथा सत्य् अस्माकम् अपि रक्षाया योग्यत्वात् । सात्वतां कुलेनोदेयिवान्, तथा सति तत्-सम्बन्धेन निरुपाधि-कृपालुता-सम्भवाद् इति ।

यद् वा, स प्रसिद्धो भवान् अखिल-देहिनाम् अन्तर्-आत्म-दृग् इति विश्व-गुप्तये ब्रह्मणा सात्वतां भक्तानां कुले अवतरितुम् अर्थितःभवान् खलु आकाश एव उदेयिवान् इत्य् आकाश-गुणत्वेन असङ्गौदासीनत्वाद् भवान् गोपिका-नन्दनो न भवतीत्य् अर्थः ।

यद् वा, इति पदं सम्बोधने । भो गोपिका-नन्दन ! विखनाः पितामहः, तेन च कृष्णस्य पितामहो गृह्यते, प्लवग-सैन्यम् उलूकजिता जितम् []1 इतिवत् । अत्र उलूक-शब्देन कौशिक उच्यते, तेन च शुकः । नात्र नेयार्थता-दोषः, तस्य काव्यैक-विषयत्वात् । अतोऽयम् अर्थः---तव पितुः पित्रा विश्व-गुप्तये विश्वेषां सकलानां व्रज-वासिनां गुप्तये रक्षायै भवान् अर्थितः सन्, सात्वतां भक्तानाम् एषां गोपानां कुले उदेयिवान् । साम्प्रतं रक्षा द्वारेऽस्तु । हृदय-दुःखम् अपि न जानातीत्य् आहुः---अखिल-देहिनाम् अन्तर्-आत्म-दृक् । अन्तर् हृदय-ज्ञोऽपि न भवति, बाढम् अन्तर् दह्यमानानाम् अस्माकं यद् एतां महार्तिं विनाशयतीत्य् अर्थः । व्रजेन्द्र-पित्रा सर्वोत्तम-सन्तानार्थं विष्णुर् आराधित इति प्रसिद्धिः ॥४॥

वितुल-पवन्त-वर्षि-शितैः शरैः प्लवग-सैन्यम् उलूक-जिताजितम्‌
॥ नेयार्थ-दोषस्योदाहरणं । रस-गङ्गाधरः ?

Footnotes

  1. सपदि पङ्क्ति विहङ्गम-नाम-भृत-तनय-संवलितं बल-शालिना

English translation

Śrīmad Bhāgavatam 10.31.4

“Surely You are not merely the son who delights the gopikā. You are the witness within all embodied beings. Requested by Brahmā to protect the universe, O friend, You arose in the family of the Sātvatas.”

Sanātana Gosvāmī's Bṛhad-vaiṣṇava-toṣaṇī

They say that the directly visible form who performs these wonderful pastimes is not present only outside them; He dwells within as well, as indicated by “the witness within all embodied beings.” He therefore already knows the entire course of the burning in their hearts. What need is there to describe it at length?

Kṛṣṇa may reply, “It is true that I know, but every duty must be carried out at its proper time.” They answer with “requested by Brahmā.” Having descended into a family of devotees at the request of His foremost devotee, He must protect His devotees even at an improper time. It is therefore inappropriate to require His devotees, the gopīs, to wait for an occasion. In this avatāra He even transgresses rules He Himself has established for the sake of His devotees, as will become manifest later when He retrieves His guru's sons and in similar acts.

If He says, “But you are not My devotees,” they answer that He must still protect them, for Brahmā requested that in this avatāra He protect everyone in the universe. Since the petition of His foremost devotee must be fulfilled, they cannot be neglected. Moreover, they in particular deserve protection, and in a special loving mood. Therefore they address Him as “friend.” The other commentators explain the remaining words.

Alternatively, the sentence is a question: “Although You see the inner self, are You not also the one who delights the gopikā? Of course You are.” How so? Because Brahmā requested His descent. Therefore He must certainly delight them.

Another reading accepts the Vedāntic position in the gopīs' extreme pain: “You are not Śrī Kṛṣṇa, the delight of the gopikā, the one whose own divinity appears through compassion, beauty, pastimes, majesty, and other qualities. You are only the indifferent Paramātmā.” “Surely” means they have now reached this certainty. By joining a negative prefix, “protection of the universe” becomes “non-protection of the universe”: He came only to destroy it. He was born in the family of the Sātvatas, the Yādavas alone, not in the cowherd family. The rest follows accordingly.

Or “O friend!” is bitterly sarcastic. Because the negation stands first, it can govern every quarter of the verse: “O nonfriend, O adversary!” “Surely” expresses conjecture. He cannot be Śrī Yaśodā's son; if He were, the immense subjection to devotees shown in His Dāmodara pastime and elsewhere would make neglect of the gopīs impossible. Nor can He be one who delights all the women of Vraja, for then He could not do the opposite. Nor can He see the inner self of all embodied beings, for then He would know their suffering. Nor could Brahmā have asked Him to protect the universe, for then they too would deserve protection. Nor could He have arisen in the family of devotees, for that relationship would make unconditional compassion possible.

In another interpretation, the renowned Lord was asked by Brahmā to descend in the family of the Sātvatas because He sees the inner self of all embodied beings and would protect the universe. Yet He “arose” only in the sky. Like the sky, He remains unattached and indifferent, and therefore does not delight the gopikā.

Finally, “u” may be a vocative: “O delight of the gopikā!” Vikhana means grandfather and here indicates Kṛṣṇa's paternal grandfather, just as a poetic line says that the monkey army was conquered by the conqueror of the owl. There “owl” indirectly means Kauśika, and through him Śuka. Such indirect expression is not a fault of forced meaning because it belongs specifically to poetry.

The sense is then: requested by Your father's father to protect the entire community of Vraja, You arose in this family of Sātvatas, these devotee cowherds. Now let that protection stand at the door. The words “witness within all embodied beings” charge that He does not even know the pain within their hearts, for if He truly knew their hearts He would destroy the great anguish burning them from within. It is well known that Vrajendra's father worshiped Viṣṇu for the finest possible son.

The indented line is cited as an example of the poetic fault of forced meaning: “With sharp arrows, pouring forth like an unequalled wind, the powerful son bearing the name of the row-flying bird swiftly conquered the monkey army unconquered by the conqueror of the owl.” Sanātana tentatively attributes the example to Rasa-gaṅgādhara. Footnote 99 preserves the continuation supplying that indirect expression. (4)

Original

Sanskrit

Source: Śrīmad Bhāgavatam 10.31.5 with Sanātana Gosvāmī's Bṛhad-vaiṣṇava-toṣaṇī

॥ १०.३१.५ ॥

विरचिताभयं वृष्णि-धुर्य ते

चरणम् ईयुषां संसृतेर् भयात् ।

कर-सरोरुहं कान्त कामदं

शिरसि धेहि नः श्री-कर-ग्रहम् ॥

Sanatana Gosvami - Brhad-vaisnava-tosani:

विरचिताभयम्** इति मोक्षदत्वम् उक्तम् । कामदम् अर्थिनां सर्वाभीष्ट-प्रदम् इति त्रिवर्गत्वं भक्तिदत्वं च । श्री-कर-ग्रहम् इति प्रेम्णा भक्त-वश्यत्वं रसिकत्वं च । एषां यथोत्तरं श्रैष्ठ्यम् ऊह्यम् । सरोरुह-रूपकेण सहज-शीतल-मधुरत्वादिना स्वतः फल-रूपत्वं सूचितम् एव । अतो नः शिरसि धेहि। अस्माकं तत्-तत्-सिद्धये इति भावः । तत्र मोक्षो नाम निर्विघ्न-भक्ति-सिद्ध्यै विविध-संसार-दुःख-निवृत्ति-रूपो ज्ञेयः । त्रिवर्गोऽयं प्रेम-साधनोपयोग्य् एव । अन्यच् च भक्तानाम् उपेक्ष्यम् एव । एतच् च भक्ति-सिद्धान्त-मते ज्ञेयम् । तासां च मते शिरसि श्री-हस्त-धारणम् एव परम-फलम्, अन्यच् च तत्-स्वभाव-मात्र-स्तोत्रम् ।

ननु तद्-योग्या न यूयम् इति चेत्, सत्यम्, निज-माहात्म्यापेक्षया धेहीत्य् आहुः---वृष्णि-धुर्य वृष्णीन्द्रे धुर्यो दमन-समर्थ इति स्व-पक्ष-कृपा-करणं दर्शितम् । यद् वा, वृष्णि-धुर्य हे निजाशेष-गुण-कृपादि-प्रकटनार्थं यदु-कुलावतीर्णेत्य् अर्थः, गोपानाम् अपि यादवत्वात् । तच् च भाव-विशेषेण त्वयाधेयम् इत्य् आशयेनाहुः---कान्त ! हे प्रियेति । अन्यत् तैर् व्याख्यातम् ।

यद् वा, सरोरुह-रूपकेण ध्वनितम् । ताप-हारित्वादिना दुःख-ध्वंसन-सुखापादनाद्य्-आत्मकं सर्वार्थ-प्रदत्वम् । तथा सहज-शीतलत्वादिना च ध्वनितम् । स्वतः परम-फलत्वम् एव दर्शयन्ति---विरचित- इत्य्-आदिना । संसार-भयाद् अपि प्रपद्यमानानां विरचितम् अभयं सर्वतो भयाभावो येन । अतोऽस्माकं पुनर् विरह-भयं नाशयेति भावः । कान्तं च तत् कामदं चेति स्वतः सर्वार्थ-रूपत्वं सर्वार्थ-प्रदत्वं चोक्तम्, कामदत्वात् । कान्तत्वस्य श्रैष्ठ्येन पश्चान् निर्देशस्याप्य् आदौ निर्देशः । श्री-भागवतामृतोक्त-भक्ति-सिद्धान्तापेक्षया, तात्कालिक-स्वाभिप्रेतानुसारेण वा । अतस् तत्-प्राप्तिर् निज-काम-पूर्तिश् चाभिप्रेता । तच् च सम्भवेद् एवेत्य् आहुः---श्री इति । तद्-दृष्टान्तेनास्मास्व् अप्य् अपेक्षासम्भवाद् इति भावः । यद् वा, श्री-कर-ग्रहम् अपि धेहि । तत्र हेतुः---वृष्णि-धुर्य इत्य् एव । एतद्-अनुसारेणाग्रे मनोरथं कुर्वता अक्रूरेण विस्तार्य वक्ष्यते---अप्य् अङ्घ्रि-मूलं पतितस्य [भा।पु। १०.३८.१६] इत्य्-आदि । तत्र कान्तेत्य् अस्य । यद् वा, इति कामदम् इत्य् अस्य च समर्हणम् इति विस्तरः । परं स्पष्टम् एवेति । एवम् अग्रेऽप्य् ऊह्यम् ।

यद् वा, भयतः शत्रु-भयेन संसृतेर् इतस् तं संसरणात् पलायनात् चरणम् ईयुषां प्रपद्यमानानां जनानां वैरि-विनाशेन विरचिताभयं श्री-कर-ग्रहं श्री-कराः सम्यक्-कर-रेखा-मयाः शङ्ख-चक्रादयः, तान् गृह्णातीति तथा, तद् ऐश्वर्यं विनायम् अर्थः ॥५॥

English translation

Śrīmad Bhāgavatam 10.31.5

“O foremost of the Vṛṣṇis, Your lotus hand grants fearlessness to those who approach Your feet out of fear of saṁsāra. O beloved, it fulfills desire and has taken Śrī's hand. Please place it upon our heads.”

Sanātana Gosvāmī's Bṛhad-vaiṣṇava-toṣaṇī

“Granting fearlessness” declares that His hand bestows liberation. “Fulfilling desire” means that it grants every cherished object to those who seek, and thus bestows the three worldly aims as well as bhakti. “Having taken Śrī's hand” reveals that prema places Him under His devotees' control and that He is a connoisseur of rasa. Each successive quality is superior to the preceding one.

The metaphor of a lotus, naturally cooling and sweet, indicates that the hand is itself the fruit. Therefore they ask Him to place it upon their heads so that each of these attainments may become theirs. Here liberation means the cessation of the varied sufferings of saṁsāra so that bhakti may be attained without obstruction. The three worldly aims are acceptable only insofar as they support the practice of prema; devotees reject whatever does not. This is the conclusion of bhakti. In the gopīs' own view, however, Śrī Kṛṣṇa's placing His hand upon their heads is itself the supreme fruit. All the other qualities are merely praise arising from the nature of that hand.

If He objects, “You are not qualified for this,” they concede the point but ask Him to act in accordance with His own greatness. “Foremost of the Vṛṣṇis” can mean that He is fit to bear the yoke even before the lord of the Vṛṣṇis and can subdue him, showing mercy to His own side. Or it means that He descended into Yadu's lineage to reveal all His qualities, compassion, and more; the cowherds too are Yādavas. They call Him “beloved” to indicate that He should place the hand upon them in their distinctive loving mood.

The lotus metaphor also suggests that His hand grants every good by removing burning pain and producing happiness, and, through its natural coolness, that it is itself the supreme fruit. “Granting fearlessness” means that those who approach even from fear of saṁsāra receive freedom from every fear. Therefore He should destroy the gopīs' renewed fear of separation. The hand is both “beloved” and “desire-fulfilling”: it is itself every object of desire and also bestows every desired object. Although “beloved” is stated later, its superiority gives it first place. This may be understood according to the doctrine of bhakti stated in Bṛhad-bhāgavatāmṛta, or according to their immediate intent: they desire both the hand itself and fulfillment of their particular longing.

They show that this is possible by saying it has taken Śrī's hand. Her example allows the same expectation for them. Or the prayer is, “Place upon us even the hand that has taken Śrī.” “Foremost of the Vṛṣṇis” supplies the reason. Akrūra will later expand this same hope in the verse beginning “When I fall at the root of His feet” (Bhāgavata 10.38.16). There “beloved,” or alternatively “desire-fulfilling,” receives the fuller honor. The meaning is otherwise clear, and similar constructions below should be understood in this way.

Finally, saṁsṛti can mean fleeing here and there from fear of an enemy. The hand grants fearlessness to people who come to His feet for shelter by destroying their foes. It “holds auspicious marks”: conch, disc, and the other fine lines of the palm. In this reading the reference is to His majesty. (5)

Original

Sanskrit

Source: Śrīmad Bhāgavatam 10.31.6 with Sanātana Gosvāmī's Bṛhad-vaiṣṇava-toṣaṇī

॥ १०.३१.६ ॥

व्रज-जनार्तिहन् वीर योषितां

निज-जन-स्मय-ध्वंसन-स्मित ।

भज सखे भवत्-किङ्करीः स्म नो

जल-रुहाननं चारु दर्शय ॥

Sanatana Gosvami - Brhad-vaisnava-tosani:

न च केवलं शिरसि श्री-हस्त-निधान-मात्रं कार्यम्, किन्त्व् अस्माकं कामश् च पूरयितव्य इति प्राक् सूचितम् एव अत्यौत्सुक्येन अभिव्यञ्जयन्ति---व्रज इति । एतेन भजनस्य योग्यत्वम् उक्तम् । अन्यथा अस्मद्-अन्त्य-दशापत्त्या आर्ति-हननासिद्धिः । वीर इत्य् अदेयस्यापि दाने सामर्थ्यम् उक्तम् । स्मयो मानः । तव स्मित-मात्रेणापि मानो निरस्यते । तद्-अर्थम् अन्तर्धानेनालम् इति भावः । यद् वा, अनेन परम-मनोहरत्वम् अभिप्रेतम् । अतस् तद् अवश्यं द्रष्टुम् अपेक्ष्यते इति भावः । सखे ! इति भजने प्रकार-विशेषः सूचितः । यद् वा, अभजनेऽस्माकं दुर्दशया पश्चात् त्वयापि किल दुःखं लब्धव्यम्, सख्येन तुल्य-व्यथत्वात् । किं वा, विश्वास-घाति-दोष-प्रसक्तत्वाद् इति भावः

ननु तत्र तत्रादरो मे नास्तीति चेत् ? तत्र स-दैन्यम् आहुः---भवतः किङ्करीः इति । दीनानां शरणागतानाम् उपेक्षा परम् अयुक्तेति भावः । यद् वा, तर्हि श्री-बलरामम् अनुगच्छतेति चेत्, तत्राहुः---भवत एव, न त्व् अन्यस्य किङ्करीर् इति जलरुहवद् आननं चारु यथा स्यात्, तथा इति प्रेम्णा स-स्मित-भ्रू-विलास-कटाक्ष-वलितम् । किं वा, निकटागमनेन सम्यक्तया दर्शय इत्य् अर्थः । जलरुहेत्य् उपमया दर्शन-मात्रेण विरह-सन्ताप-हारित्वम् अभिप्रेतम् ।

English translation

Śrīmad Bhāgavatam 10.31.6

“O destroyer of the suffering of Vraja's people, O hero whose smile destroys the pride of Your own women, please cherish us, Your maidservants. O friend, reveal to us Your lovely lotus face.”

Sanātana Gosvāmī's Bṛhad-vaiṣṇava-toṣaṇī

They had already suggested that He must not merely place His sacred hand upon their heads but also fulfill their longing. In their intense eagerness they now express this directly with “O destroyer of the distress of Vraja's people.” The address establishes that they deserve His loving attention, for otherwise their reaching the final condition of separation would prevent Him from fulfilling His identity as the destroyer of suffering.

“Hero” declares that He has the power to give even what should not ordinarily be given. Smaya means pride, and even His smile alone dispels their pride. There is no need for Him to disappear for that purpose. Or the word indicates that His smile is supremely enchanting and therefore must certainly be seen.

Calling Him “friend” indicates a particular intimate manner in which He should cherish them. Or if He does not, their wretched condition will afterward bring suffering to Him as well, since friends share one another's pain. Otherwise He will incur the fault of betraying their trust.

If He says, “I have no regard for such requests,” they humbly answer that they are His maidservants. Neglecting the destitute who have taken shelter is utterly improper. If He says, “Then follow Śrī Balarāma,” they insist, “We are Your maidservants and no one else's.”

“Reveal Your face as lovely as a lotus” means that in prema it should be adorned with a smile, playful brows, and sidelong glances. Or “reveal” asks Him to come near so that they may see it fully. Comparing His face to a lotus indicates that the mere sight of it removes the burning pain of separation. (6)

Original

Sanskrit

Source: Śrīmad Bhāgavatam 10.31.7 with Sanātana Gosvāmī's Bṛhad-vaiṣṇava-toṣaṇī

॥ १०.३१.७ ॥

प्रणत-देहिनां पाप-कर्शनं

तृण-चरानुगं श्री-निकेतनम् ।

फणि-फणार्पितं ते पदाम्बुजं

कृणु कुचेषु नः कृन्धि हृच्-छयम् ॥

Sanatana Gosvami - Brhad-vaisnava-tosani:

ततश् च ते तावकम् असाधारणम् । किं वा, त्वदीयानाम् अस्माकं कुचेषु कृणु निधेहीत्य् अर्थः । पापं संसार-दुःखं परमोत्कट-व्यसनं वा । तृण-चराणुगम् इति सर्व-व्रज-पशु-वर्ग-पालकत्वेन कृपालुत्वम् । एवं चतुर्भिर् विशेषणैः पाप-हन्तृत्वादिकम् उक्तम् ।

ननु किं तत्-तद्-अर्थम् एवेष्यते ? नेत्य् आहुः---हृच्छयं कृन्धि इति । अस्माकम् एतद् एव प्रयोजनं तत्-तद्-अशेषम् एतद् अनुगम् एवेति भावः । तत् तच् च स्व-भक्तार्थं किञ्चिद् आत्मार्थे च किञ्चिद् इति यथा-योग्यं विवेचनीयम् । अम्बुज-रूपकेण पूर्वोक्त-सरोरुह-रूपकवत् [५] सर्व-साधनत्वं परम-साध्यत्वं च ध्वनितम् । अन्यत् तैर् व्याख्यातम् ।

यद् वा, ननु निर्भयाः ! पापाद् अहं बिभेमि । तत्राहुः---प्रणत- इति । सकृत्-प्रणाम-कारिणाम् अपि यथा-कथञ्चिच् छरणागतानाम् अपि वा, सर्व-प्राणिनां पाप-हन्तृ कुतस् तव पाप-शङ्का ? इति भावः । किं वा, मदादिना सागःसु युष्मासु तद् आचरणम् अयुक्तम् इति । तत्राहुः---प्रणत- इति । त्वत्-प्रणतानाम् अस्माकम् आगो नश्येद् एवेति भावः ।

सकृद् एव प्रपन्नो यस् तवास्मीति च याचते । > अभयं सर्वदा तस्मै ददाम्य् एतद् व्रतं मम ॥1 > इत्य्-आदि-वचनात् ।

ननु तथापि परम-क्रूरेषु मृदुलतरं तद्-दुःख-शङ्कया कर्तुं न शक्यते ? तत्राहुः---तृण- इति । पशु-सङ्गत्या वने वने भ्रमणाद् इदं नाधिकं दुःखम् इति भावः ।

यद् वा, अनभिज्ञाभिर् युष्माभिः सङ्गो मेऽनर्ह एव । तत्राहुः---तृण- इति । तृणान्य् एव, न त्व् अग्रतो न्यस्तानि शर्करादीन्य् अपि चरन्तीति परमाज्ञता सूचिता । पशव इव वयम् अप्य् अनुकम्प्या इति भावः ।

ननु सुष्ठु शोभनेषु युष्माकं स्तनेषु कथं पादार्पणं कर्तुं युज्यते ? इत्य् अत आहुः---श्री- इति । सर्वातिशायि-शोभास्पदत्वाद् अलङ्करण-वर्यम् एव भावीत्य् अर्थः ।

ननु तथापि भीरु-स्वभावत्वात् युष्मत्-पतिभ्यो बिभेमि ? तत्राहुः---फणि- इति । यद् वा, फणि-फणार्पितत्वेन विषाद्य्-अनर्थ-ध्वंसनत्वम् उक्तम् । ततो विषोपम-हृच्-छयम् अपि हृदि पदार्पनेन कृन्धि इति भावः ।

शिरसि [भा।पु। १०.३१.५] इति पूर्वं सर्वासाम् ऐक्याभिप्रायेणोक्तम् । मूर्ध्नि करार्पण-मात्रेण सापत्न्य-विशेषानुदयात् । अधुना च स्तनेष्व् इति बहुत्वेन प्रत्येकं तेषु कर-धारणम् अभिप्रेतम् । अत्र रस-विशेषेण सापत्न्य-सम्भवात् । अतोऽन्योन्यं भेदानुत्पत्तये सर्वासाम् एव प्रत्येकं युगपद् विशेषेण तत् कार्यम् इति भावः । हृच्छयम् इति अदृश्यस्य तद्-रोगस्य तथैव प्रतिकार्यत्वात् । अन्यत् समानम् ॥७॥

Footnotes

  1. उक्तं च रामायणे श्री-रघुनाथेन विभीषण-गमन-प्रसङ्गे। [ह।भ।वि। ११.६५३]

English translation

Śrīmad Bhāgavatam 10.31.7

“Your lotus feet remove the sins of embodied beings who bow to them, follow the grass-eating cows, serve as the abode of Śrī, and were placed upon the serpent's hoods. Place those feet upon our breasts and destroy the desire in our hearts.”

Sanātana Gosvāmī's Bṛhad-vaiṣṇava-toṣaṇī

The pronoun means, “Those extraordinary feet are Yours.” Or the request is, “Place them upon the breasts of us who belong to You.” “Sin” means the suffering of saṁsāra or an exceedingly intense affliction. “Following the grass-eaters” reveals His compassion as the protector of all the animals of Vraja. These four descriptions declare the feet's power to destroy sin and their other qualities.

If He asks whether they desire the feet merely for these general purposes, they answer no: “Destroy the desire in our hearts.” This alone is their purpose; every other benefit follows it. One should distinguish appropriately which qualities benefit His devotees and which bring some pleasure to Him. Like the earlier lotus-hand metaphor, the lotus-foot metaphor suggests both the universal means and the supreme goal. The earlier commentators explain the rest.

Kṛṣṇa may object, “Fearless girls, I am afraid of committing sin.” They answer with “of those who bow.” His feet destroy the sins of all creatures who bow even once or somehow take shelter. Why then should He fear sin? Or He may say that because their pride and related behavior made them offenders, He should not act as they request. They answer that because they have bowed to Him, their offense must certainly be destroyed. Scripture says:

Language: Sanskrit

“Whoever takes refuge in Me even once and petitions, ‘I am Yours,’ I grant fearlessness forever. This is My vow.”

Footnote 101 notes that Śrī Raghunātha spoke this in the Rāmāyaṇa when Vibhīṣaṇa approached Him, and cites Hari-bhakti-vilāsa 11.653.

If He says, “Even so, I cannot place My very tender feet upon such hard breasts, fearing that the feet will suffer,” they answer that those feet wander from forest to forest among the cows. This will cause them no greater pain.

Or He may say, “Association with inexperienced girls such as you is unworthy of Me.” They answer with “the grass-eaters.” Cows are so utterly unknowing that they eat only grass and not even sugar placed before them. Like those animals, the gopīs too deserve His compassion.

If He asks how it could be proper to place His feet upon their exceptionally beautiful breasts, they answer that His feet are the abode of Śrī. As the seat of beauty surpassing all else, they will become the finest ornament.

If He says that His timid nature makes Him fear their husbands, they answer that He placed those feet upon the serpent's hoods. Or this phrase declares that His feet destroy the calamity of poison and every similar evil. Therefore He should place them upon their hearts and destroy heart-born desire, which resembles poison.

In verse 5 the gopīs said “upon our heads” with an intention of unity among them all, because merely placing His hand upon their heads gives no occasion for rivalry. Here “upon our breasts” is plural and asks Him to place His feet upon each pair individually. This intimate rasa can give rise to rivalry. To prevent division among them, He should therefore perform the act in an extraordinary manner for every one of them simultaneously. Heart-born desire is an unseen illness and must be counteracted by an equally inward remedy. The rest is the same. (7)

Original

Sanskrit

Source: Śrīmad Bhāgavatam 10.31.8 with Sanātana Gosvāmī's Bṛhad-vaiṣṇava-toṣaṇī

॥ १०.३१.८ ॥

मधुरया गिरा वल्गु-वाक्यया

बुध-मनोज्ञया पुष्करेक्षण ।

विधि-करीर् इमा वीर मुह्यतीर्

अधर-सीधुनाप्याययस्व नः ॥

Sanatana Gosvami - Brhad-vaisnava-tosani:

ततश् च अधर-सीधुना अस्मान् आप्याययस्व, अन्यथा सद्य एव म्रियेमहीति भावः । कुतः? तव गिरा स्मर्यमाणया "नहि भवतीभ्यो ममान्यत् प्रियतमं कुत्रापि किञ्चिद् अस्ति" इत्य्-आदि-लक्षणया मुह्यतीः, मोहस्यान्त्य-दशानुगतत्वात् । विरहेण सीध्व्-अप्राप्त्या जनितस्य मोह-रागस्य वैद्य-शास्त्रोक्त-निदान-विपर्यय-न्यायेन तत्-प्राप्त्यैवोपशमः सिध्येत्, न त्व् अन्यथेति भावः । तच् च युक्तम् एवेत्य् आह---विधि-करीस् त्वद्-आज्ञा-कारिणीः ।

गिरो मोह-हेतुत्वं दर्शयन्ति---मधुरया अमृतवन् मिष्टया । यद् वा, मधु मद्यम् एव साक्षाद् इव राति ददातीति तया, इति परम-मादकत्वम् उक्तम् । कथम् ? तद् आहुः---वल्गूनि अर्थस्य प्रियत्वादिना शब्दस्य च सद्-वर्ण-बन्धादिना मनोहराणि वाक्यानि यस्यां, तया । अतो बुधानां विदग्धानां चित्ताकर्षिण्या इति श्रोत्र-मनः-प्रियत्वम् उक्तम् । इमा इति मोहस्य प्रत्यक्षत्वादिना असन्दिग्धत्वं तत्-कालीनत्वं चोक्तम् ।

ननु वाङ्-मात्रेण कथं मोहः स्यात् ? तत्राहुः---वीर ! हे महा-सामर्थ्य-युक्तेति । त्वद्-गिरोऽपि तादृशत्वाद् इत्य् अर्थः । यद् वा, कथम् अदेयं तद् दातव्यम् इत्य् अत आहुः---हे वीर ! दया-वीर दान-वीरेति वा । पुष्करेक्षण ! हे परम-सुन्दरेत्य् अर्थः । उक्त्य्-अवसरे सुन्दर-दृष्ट्य्-आदिना गिर एव विमोहनम् अधिकम् अभिप्रेतम् । तथा च कर्णामृते---

पर्याचितामृत-रसानि पदार्थ-भङ्गी- > वल्गूनि वल्गित-विशाल-विलोचनानि । [कृ।क। ३३] इति ।

अन्यत् तैर् व्याख्यातम् । यद् वा, गिरा मुह्यतीः । अत एव विधि-करीः दासीत्वं गताः, मोहेन विवेकापगमात् । यद् वा, गिरैव विधि-करीः, अधुना विरहार्त्या इमा मुह्यतीः

अ-कार-प्रश्लेषेण अबुधानाम् अपि, किम् उत विदग्धानाम् । यद् वा, बुधानां ज्ञानिनाम् अपि, किं पुनर् भक्तानाम् ? किं वा, बुधानां पण्डितानाम् अपि, किम् उताबुधानाम् अस्माकं मनोज्ञया ? अन्यत् समानम् । अथवा मधुरया श्रोत्र-मात्र-प्रिययेत्य् अर्थः । वस्तुतस् तु अवल्गु-वाक्यया अबुध-मनोज्ञया, तथापि विधि-करीः । कुतः ? इमाः त्वत्-प्रेम-हत-विचारा गोपीः, अत एव त्वद्-अधर-सीधुं प्रति त्वद्-अर्थं मुह्यतीर् नाप्यायय न स्वस्थय, किन्तु मारयेत्य् अर्थः । तद् एवाविवेकिनीनाम् अस्माकम् उचितम् इति भावः । एषा प्रेमार्ति-भरोक्तिः ॥।८॥

English translation

Śrīmad Bhāgavatam 10.31.8

“O lotus-eyed hero, Your sweet voice speaks charming words that captivate the wise. We obey Your commands, yet now we are fainting. Revive us with the nectar of Your lips.”

Sanātana Gosvāmī's Bṛhad-vaiṣṇava-toṣaṇī

They ask Him to revive them with the wine of His lips; otherwise they will die at once. Why? Remembering His voice and such statements as “Nothing anywhere is dearer to Me than you” has made them faint, and fainting accompanies the final condition of separation. Their delirious passion arose in separation because they could not obtain that wine. According to the medical principle of reversing the cause of an illness, only obtaining it can bring relief. Their request is proper because they obey His commands.

They explain why His voice causes bewilderment. It is “sweet,” delicious like nectar. Or it directly bestows madhu, intoxicating wine, and is therefore supremely intoxicating. How so? Its “charming words” delight through the loveliness of their meaning and through the excellent arrangement of their sounds. His voice therefore attracts the hearts of the budhas, the discerning connoisseurs, and delights both ear and mind. “These” shows that their fainting is visible, indisputable, and happening at this very moment.

If He asks how mere speech could cause fainting, they answer, “O hero, possessor of tremendous power.” His voice possesses the same power. Or if He asks how He can give what ought not to be given, they call Him a hero of compassion or a hero of generosity. “Lotus-eyed” means supremely beautiful. When He spoke, His lovely glances and other gestures made the enchantment of His voice still greater. As Kṛṣṇa-karṇāmṛta 33 says:

Language: Sanskrit

“Its every word and turn pours the nectar one has begged for; it is lovely, and the wide eyes dance as it is spoken.”

The earlier commentators explain the rest. Alternatively, they faint because of His voice and thereby became obedient maidservants after bewilderment removed their discrimination. Or His voice itself made them obedient, and now the pain of separation makes them faint.

By joining a negative prefix, the voice captivates even the unwise, what then of connoisseurs? Or it captivates even the wise, what then of devotees? Or it captivates even learned people, what then of unlearned gopīs such as themselves? “Sweet” can mean merely pleasing to the ear.

In a final, anguished reversal, they call it “speech that is not charming and pleases only the foolish.” Even so, they obey Him. Why? Because these gopīs have lost all judgment through love for Him. Therefore, as they swoon for the wine of His lips and for His sake, He should not revive them but kill them. That alone is fitting for undiscriminating women such as themselves. This is speech produced by overwhelming pain in prema. (8)

Original

Sanskrit

Source: Śrīmad Bhāgavatam 10.31.9 with Sanātana Gosvāmī's Bṛhad-vaiṣṇava-toṣaṇī

॥ १०.३१.९ ॥

तव कथामृतं तप्त-जीवनं

कविभिर् ईडितं कल्मषापहम् ।

श्रवण-मङ्गलं श्रीमद्-आततं

भुवि गृणन्ति ते भूरिदा जनाः ॥९॥

Sanatana Gosvami - Brhad-vaisnava-tosani:

विरहादि-तप्तान् जनान् जीवयतीत् तथा तत्, न च तस्य श्रवणार्थं प्रयासोऽपेक्ष्येत्य् आहुः---कविभिः पूर्वैर् आधुनिकैश् च ईडितं स्वत एव संश्लाघ्य वर्णितम् इत्य् अर्थः । न च काम-क्रोधादिना पापेन वा तद्-अर्थानुभवान् न फलं सिद्ध्येद् इति वक्तव्यम् । तस्यैव तन्-निरसन-स्वभावत्वाद् इत्य् आहुः---कल्मष- इति । अतोऽर्थानुभवः स्वत एव भवतीति भावः । न च तद्-अपेक्षापीत्य् आहुः---श्रवण- इति ।

यद् वा, न केवलं तप्त-जीवनत्वेन सद्यो-दुःख-हर-मात्रम्, किन्तु कविभिः सर्वार्थ-प्रापकत्वेन स्तुतम् । कथम् ? तद् एव प्रपञ्चयन्ति---कल्मषापहं संसार-ध्वंसकम् इत्य् अर्थः । संसारस्य कल्मषैक-मूलत्वात् सर्व-दुःख-ध्वंसकं वा । किं च, श्रवण- इति। एवम् उभयथा दुःख-दोष-हरत्वेन मङ्गलत्वेन च सर्वार्थ-साधनत्वम् उक्तम् । स्वतः परम-फलत्वं चाहुः---श्रीमद् इति । एवम् एषां यथोत्तरं श्रैष्ठ्यम् । अतः कथैवामृतं यथा तस्य क्षुत्-त्वङ्-रोगादि-हरत्वाद् बल-पुष्ट्य्-आदि-करत्वाच् च साधनत्वम्, मधुर-रस-मयत्वात् साध्यत्वं च तथा कथाया अपीत्य् अर्थः । आततं यथा स्यात् विस्तारेणेत्य् अर्थः । यद् वा, व्यापकम् इत्य् अर्थः । इति देव-भोग्याद् विशेष उक्तः । तस्य व्यापकत्वाभावात् । अन्यत् तैर् व्याख्यातम् ।

यद् वा, अत्राधुना तादृश-जनाभावाद् अस्माकं च विरहार्ति-वैवश्येन तत्राशक्तेर् वयं मृता एवेति भावः । अथवा, अरे परम-व्यग्राः ! यावद् आप्यायेयं तावत् क्षणं मिथो मद्-वार्तया कालो नीयताम् इति चेत्, तत्र स-त्रासम् आहुः---कथैव मृतम् । मृतिः कथैव कार्य-कारणयोर् अत्यन्ताभेद-विवक्षयोपचारः । कुतः ? तप्तं जीवनं यस्मात् । अतो ये तद् गृणन्ति उच्चारयन्ति ते भूरिदाः । दो अवखण्डने । महा-प्राण-घातका इत्य् अर्थः । एषा परम-प्रेमार्त्य्-उक्तिर् एव ।

ननु तर्हि कथं पुराणादिषु प्रतिपाद्यते ? तत्राहुः---कविभिर् व्यासादिभिर् ईडितं कवीनां वर्णन-मात्र-स्वभावेन तस्यापि वर्णनाद् इति भावः । पाप-नाश-मात्रम् । किं च, श्रवणेनैव मङ्गलं सुख-करम्, न तु प्रयोजनेन । यद् वा, कविभिर् ईडितम् इत्य् अत्र हेतुः---कल्मष- इत्य्-आदि पद-द्वयम् । पाप-हरत्वेन श्रवणयोः सुखदत्वेन च तैर् ईभ्यत इत्य् अर्थः । अत एव श्रिया मदो येषां राजादीनां तेष्व् आततं कविभिर् एव विस्तृतम् । किं वा, श्रीमदैर् जनैर् नाट्य-गीतादिभिर् द्वारा आततम् । अतोऽधुना त्वद्-आशया क्षणं जिजीविषूनां तेनालम् इति भावः ॥९॥

English translation

Śrīmad Bhāgavatam 10.31.9

“The nectar of Your stories gives life to those who burn, is praised by sages, and removes impurity. Auspicious to hear, rich with beauty, and spread throughout the world, it is proclaimed by people who bestow the greatest gift.”

Sanātana Gosvāmī's Bṛhad-vaiṣṇava-toṣaṇī

His stories give life to people scorched by separation and other suffering. No effort is needed to hear them because poets of former and present times praise and describe them as intrinsically glorious. Nor should one say that desire, anger, sin, or similar impediments prevent realization of their meaning and thus block the fruit, for the stories themselves naturally remove those obstructions. This is the force of “removes impurity.” Realization of their meaning therefore arises of itself. The words “auspicious to hear” show that even such realization is not required.

Alternatively, their giving life to the afflicted does not mean merely that they remove immediate sorrow. Poets praise them because they grant every goal. “Removing impurity” means destroying saṁsāra, or all suffering, because impurity is the sole root of saṁsāra. Together with “auspicious to hear,” this shows that by removing both pain and fault and by producing auspiciousness they are the means to every good. “Rich with beauty” declares that they are themselves the supreme fruit. Each successive quality is superior to the preceding one.

Thus the story itself is nectar. Just as nectar is a means because it removes hunger, skin disease, and other troubles and produces strength and nourishment, while also being a goal because it consists of sweet rasa, so too Kṛṣṇa's story is both means and goal. “Spread” means extended widely or universally pervasive. In this it surpasses the nectar enjoyed by the gods, which is not all-pervading. The earlier commentators explain the rest.

Another reading says that because no such generous reciter is present now, and because separation has made the gopīs incapable of speaking the stories themselves, they are as good as dead.

Or Kṛṣṇa may say, “O utterly distressed girls, until I revive you, pass this moment by speaking among yourselves about Me.” Terrified, they reverse the verse: “Your story itself is death.” Calling the effect by the name of its cause expresses their absolute identity. Why? Because it burns life. Those who speak it are bhūridā: taking the root do in the sense of cutting, they are great destroyers of life. This is speech born solely of extreme pain in prema.

If He asks why the Purāṇas and other works teach His stories, they answer that poets such as Vyāsa describe them merely because description is the nature of poets. The stories remove only sin. They are pleasant merely in the hearing, not in their result. Or “removing impurity” and “auspicious to hear” explain why poets praise them: they remove sin and please the ear. For this very reason poets spread them among kings and others maddened by prosperity, or prosperous people disseminate them through drama, song, and similar arts. But the gopīs, who now wish to live for a moment only in hope of Him, have had enough of those stories. (9)

Original

Sanskrit

Source: Śrīmad Bhāgavatam 10.31.10 with Sanātana Gosvāmī's Bṛhad-vaiṣṇava-toṣaṇī

॥ १०.३१.१० ॥

प्रहसितं प्रिय प्रेम-वीक्षणं

विहरणं च ते ध्यान-मङ्गलम् ।

रहसि संविदो या हृदि-स्पृशः

कुहक नो मनः क्षोभयन्ति हि ॥

Sanatana Gosvami - Brhad-vaisnava-tosani:

ननु निर्बुद्धयस् तथाप्य् औषधवद् बलान् मत्-कथां मिथः सेवध्वम् इत्य् आहुः । यद् वा, आशयापि चिरं जीवितुं न शक्नुम इत्य् आहुः---प्रहसितम् इति । भावे क्तः । प्रकृष्टं हसितं शुद्ध-भवेन स्मितम् इत्य् अर्थः । प्रेम्णा वीक्षितम्विहरणं क्रीडा । ते इत्य् अस्य प्रहसितादिभिः सर्वैर् अप्य् अन्वयः ।

English translation

Śrīmad Bhāgavatam 10.31.10

“O beloved deceiver, Your radiant smile, Your loving glances, Your play, which is auspicious to meditate upon, and the intimate words that touched our hearts certainly agitate our minds.”

Sanātana Gosvāmī's Bṛhad-vaiṣṇava-toṣaṇī

Kṛṣṇa may say, “Foolish girls, even so, take the medicine of My stories among yourselves by force.” Or the gopīs explain that even hope cannot keep them alive for long.

The grammatical form in “radiant smile” names the act itself. Pra-hasita means an excellent smile, laughter expressed in a pure emotion. “Glance” means a look filled with prema, and “play” means His sportive pastimes. The pronoun “Your” connects with the smile, glance, play, and every other item in the verse. (10)

Original

Sanskrit

Source: Śrīmad Bhāgavatam 10.31.11 with Sanātana Gosvāmī's Bṛhad-vaiṣṇava-toṣaṇī

॥ १०.३१.११ ॥

चलसि यद् व्रजाच् चारयन् पशून्

नलिन-सुन्दरं नाथ ते पदम् ।

शिल-तृणाङ्कुरैः सीदतीति नः

कलिलतां मनः कान्त गच्छति ॥

Sanatana Gosvami - Brhad-vaisnava-tosani:

व्रजाद्** इति । ततश् चलनम् आरभ्यागमन-पर्यन्तम् एव कलिलता सूचिता । व्रजे तद्-अवसादानुत्पत्तिश् चोक्ता, स्वयं ताभिस् तच्-छोधनात् । पशूंश् चारयन्न् इति विविधानाम् अनन्तानां तेषां चारणार्थं वर्त्म-परित्यागेनेतस् ततो भ्रमणाच् छिलादिभिर् अवसादः सम्भावितः । तथा पशुतया निर्बुद्धित्वेन ते त्वत्-पादाब्ज-दुर्गम-पथेऽपि बत भ्रमन्तीति श्लेषेण सूचितम् । पदम् इत्य् एकत्वे\ऽपि द्वित्वम् आयात्य् एवेति पूर्व-लिखितम् एव । तथाप्य् अत्रार्थोऽयं ज्ञेयः---एकम् अपि, किम् उत द्वयम् इति गो-चारण-प्रदेशस्य प्रायो घन-मृदु-तृण-मयत्वेन भू-तल-वर्ति-शर्करा-कर्करादेः सम्पर्काभावात् तन् नोक्तम्, अझिल्लि-कण्टक-वनं [ह।वं। २.८.२३] इत्य्-आदि-हरि-वंशोक्तेः । सर्वत्र कण्टकाभाव एव हरिदास-वर्येण गिरि-राजेन श्री-गोवर्धनेन तत्-पार्श्व-वर्ति-तद्-अनुग-गिरि-वर्गेण च स्व-शिलानां श्री-पादाब्ज-न्यास-पदे नवनीतायमानत्व-सम्पादनात् ता अप्य् अत्र नोक्ताः । नाथ ! हे व्रजेश्वरेति तत् तवायुक्तम् इवेति । कान्त इति अस्मत्-कोमल-कर-स्पृश्यम् एव तद् इति प्रेम-सम्बोधन-द्वयम् । कलिलताया हेतु-विशेषः, तेनाधिक-कलिलतापि सूचिता ।

यद् वा, नाथत्वेन सर्वेषां व्रज-जनानां, कान्तत्वेन च विशेषतोऽस्माकम् इति भावः । यद् वा, नाथ एवं प्रिय-जनोपतापक !

ननु विवेकिन्यस् तर्हि अवसाद-हेतु-मद्-विषयक-चिन्ता त्यज्यताम् ? तत्राहुः---कान्त इति । प्रिय-जन-चिन्ताया विवेकेऽप्य् अपरिहार्यत्वात् इति भावः । यद् वा, कलिलता-गमने हेतुः---नाथ ! हे प्राणेश्वर ! इति।

ननु---

यावतः कुरुते जन्तुः सम्बन्धान् मनसः प्रियान् । > तावन्तोऽस्य निखन्यन्ते हृदये शोक-शङ्कवः ॥ [हितोपदेश ४.७८]

इत्य्-आदि-वचनेन प्रीतेर् दोषत्व-प्रतिपादनात् प्रीतिर् एव निरस्यताम् । तत्राहुः---कान्त ! हे मनोहरेति । अलम् अतिविस्तरेण । अन्यत् तैर् व्याख्यातम् ।

यद् वा, सीदति व्यथत इति । एतच्-चिन्तया कलिलतां कैव यम् इति । अतो वन-भ्रमणं विहायात्र द्रुतम् एहीति भावः ॥११॥

English translation

Śrīmad Bhāgavatam 10.31.11

“When You leave Vraja to graze the animals, O Lord, we think that Your lotus-beautiful feet suffer from stones, grass, and tender shoots. O beloved, our minds become deeply distressed.”

Sanātana Gosvāmī's Bṛhad-vaiṣṇava-toṣaṇī

“From Vraja” indicates that their distress begins when He departs and continues until He returns. It also implies that His feet do not suffer within Vraja because the gopīs themselves clear the paths.

“Grazing the animals” suggests that to feed those innumerable and varied creatures He leaves the path and wanders here and there, making injury from stones and similar things possible. Through a play on “animals,” it also suggests that those senseless creatures, lacking understanding, make Him wander even upon paths difficult for His lotus feet.

Although “foot” is singular, it includes both feet, as explained earlier. Still, the special implication here is: “Even one foot may suffer, what then of both?” The grazing grounds are generally covered with thick, soft grass, so the verse does not mention pebbles and rough gravel lying upon bare earth. Hari-vaṁśa 2.8.23 does, however, speak of a forest of thorns. Yet even thorns are absent throughout this region because Girirāja Śrī Govardhana, foremost among Hari's servants, and the surrounding hills that follow him make their own stones turn like fresh butter wherever the sacred lotus feet are placed. Hence those stones too are not named.

“O Lord,” meaning Lord of Vraja, suggests that such exposure is seemingly improper for Him. “O beloved” means that those feet should be touched only by the gopīs' soft hands. These two loving addresses give a special cause for their distress and show how intensely it increases.

Or as Lord He belongs to all the people of Vraja, while as beloved He belongs especially to them. “O Lord!” can also be a reproach: “You who torment Your beloved people in this way!”

If He says, “Discerning girls, then abandon thoughts about Me that cause such pain,” they answer, “O beloved.” Even discrimination cannot eliminate concern for one who is dear. Or “O Lord, master of our life” explains why their minds become distressed.

If He cites the maxim, “For every cherished relationship a creature forms in the mind, a spike of grief is planted in its heart” (Hitopadeśa 4.78), and tells them to reject affection itself as faulty, they answer, “O beloved, O enchanter of the heart.” Sanātana declines to elaborate further; the earlier commentators explain the rest.

Finally, “suffer” can mean “are pained.” If merely thinking of that pain so confounds their minds, He should abandon His wandering in the forest and come to them quickly. (11)

Original

Sanskrit

Source: Śrīmad Bhāgavatam 10.31.12 with Sanātana Gosvāmī's Bṛhad-vaiṣṇava-toṣaṇī

॥ १०.३१.१२ ॥

दिन-परिक्षये नील-कुन्तलैर्

वनरुहाननं बिभ्रद् आवृतम् ।

घन1-रजस्वलं दर्शयन् मुहुर्2

मनसि नः स्मरं वीर यच्छसि ॥

Sanatana Gosvami - Brhad-vaisnava-tosani:

एवं सम्पूर्ण-दिनं दुःखेनैव वयं गमयामः । सायं व्रजे त्वद्-आगमनेऽपि दुर्भगा न सुखं लभामहे इत्य् आहुः---दिन- इति । दिनस्य परितः क्षये अत्यन्ते सतीति दुःखाधिक्यं सूचितम् । नीलाः कुन्तला अलकाः, तेषाम् एवोपरि श्री-मुखस्यावरणेन शोभा-भरापादनात् । अत एवाग्रे वक्ष्यते अक्रूरेण---मुखं मुकुन्दस्य गुडालकावृतं [भा।पु। १०.३८.९] इति । तैर् आवृतम् इत्य्-आदिना परम-सौन्दर्यम् अभिप्रेतम् । तच् च मुहुः स्मरार्पणे हेतुः । तथा दिन-परिक्षये इति च तस्य कामोदय-वेलात्वात् । कुन्तलावृतत्वादिकं सहज-सौन्दर्य-परिकरत्वेन बिभ्रत् प्रकटयन्, तच् च नोऽस्मान् दर्शयन्, यदि चादर्शयन् स्व-गृहान्तः प्रविशसि, तथापि मुहुः कामार्पणं न स्याद् इति भावः । मुहुर् इति गो-सम्भालनादि-च्छलेन पुनः पुनः परितो बहुधा निरीक्षणेन स्मरार्पणस्यापि पौनःपुन्यम् ।

यद् वा, कथञ्चिद् विचारेऽपि सति स्मरस्य मुहुर् उदयो मनसि इति स्मरस्य अत्यन्त-मनो-व्यापकत्वम् अप्रतिकार्यत्वं च । स्मरम् इति स्मरण-मात्रेण यः क्षोभकः, स साक्षाद्-दर्शनेन परम-क्षोभं कुर्याद् एवेति सूचितम् । तत्र सामर्थ्यं दर्शयन्ति---हे वीर ! इति । किं वात्रैव तव वीरत्वम्, न त्व् अन्यत्रेति क्रोध-नर्मोक्तिः । अन्यत् तैर् व्याख्यातम् ।

यद् वा, घन-रजो बिभ्रत् । अत एव स्वलं सुष्ठ्व् अलङ्कृतम् इत्य् अर्थः । यद् वा, सुष्ठु अलम् अतिशयेन बिभ्रद् इत्य् अनेन दर्शयन्न् इत्य् अनेन वास्य अन्वयः ।

यद् वा, बिभ्रद् "वेणुम्" इति शेषः । मोह-मयेन प्रेम-वैवश्येन वा साक्षात्-तद्-उच्चारणाशक्तेः । यद् वा, घनं वेणु-लक्षणं रजश् च गव्यम् एव बिभ्रत् । अन्यत् समानम्। अहो व्रजान्तस् तादृश-वेश-दर्शनेनापि स्मरोऽभूत् । अधुना च वनान्तर् निशि रत्य्-अर्थं नागर-वेशेन, तत्रापि विरहे स्मरण-विशेषेणासौ वर्धेतैवेति विलम्बं मा कुरु इति भावः ॥१२॥

Footnotes

  1. "धन-" इति श्री-जीव-गोस्वामिनां सम्मतः पाठः ।

  2. चारु दर्शयन्

English translation

Śrīmad Bhāgavatam 10.31.12

“At day's end You repeatedly show us Your lotus face, veiled by dark curling locks and thickly covered with the cows' dust. O hero, You place desire within our minds.”

Sanātana Gosvāmī's Bṛhad-vaiṣṇava-toṣaṇī

The gopīs say that they spend the entire day only in suffering. Yet even when He returns to Vraja in the evening, they are so unfortunate that they gain no happiness. “When the day has completely ended” indicates that their pain has reached its extreme.

The dark locks are curls. By falling over His sacred face they cover it and create an abundance of beauty. Akrūra will therefore later say, “Mukunda's face, covered by curling locks” (Bhāgavata 10.38.9). “Covered” and the related terms indicate supreme beauty, which causes Him repeatedly to implant desire. So too does the end of day, the time when desire naturally awakens.

He “bears” or manifests His face veiled by curls and all the ornaments of natural beauty, and displays it to the gopīs. If He did not show it and simply entered His home, desire would not be planted again and again. “Repeatedly” means that under the pretext of collecting the cows He looks all around at them again and again in many ways, repeatedly implanting desire.

Alternatively, even when they somehow reason with themselves, desire repeatedly rises in the mind. This shows how completely it pervades the mind and cannot be counteracted. Smara is that which agitates by remembrance alone; direct sight must therefore cause supreme agitation. They call Him “hero” to indicate His power. Or in angry play they ask whether His heroism exists only here, not anywhere else. The earlier commentators explain the rest.

Another reading says that He bears thick dust and is therefore su-alam, beautifully adorned. Or “bearing exceedingly well” can connect either with “bears” or with “shows.”

Another interpretation supplies “flute” as the object of “bearing,” because bewilderment or helplessness in prema leaves them unable to utter its name directly. Or He bears a ghana, a flute, and rajas, the dust raised by the cows. The rest is the same.

Even the sight of Him in this dress within Vraja awakened desire. Now, in the forest at night, He wears the elegant attire of a lover for intimate play, and remembrance intensified by separation can only make that desire grow. He should therefore delay no longer. Footnote 107 records Śrī Jīva Gosvāmī's preferred reading “wealth” rather than “thick.” Footnote 108 records the variant “showing beautifully.” (12)

Original

Sanskrit

Source: Śrīmad Bhāgavatam 10.31.13 with Sanātana Gosvāmī's Bṛhad-vaiṣṇava-toṣaṇī

॥ १०.३१.१३ ॥

प्रणत-कामदं पद्मजार्चितं

धरणि-मण्डनं ध्येयम् आपदि ।

चरण-पङ्कजं शन्तमं च ते

रमण नः स्तनेष्व् अर्पयाधिहन् ॥

Sanatana Gosvami - Brhad-vaisnava-tosani:

एवं गीतेन जात-स्मर-क्षोभात् पूर्वतो विशेषेण वर्णयन्त्यः प्रार्थितम् अपि वैयग्र्यात् पुनः प्रार्थयन्ते---प्रणत- इति द्वाभ्याम् । प्रणतानां कामदम् अभीष्टदम् इति सर्वार्थ-प्रदत्वम् उक्तम् । अत एव पद्मजेनार्चितम् इति पारमैश्वर्यम् । धरणिं भू-तलं सुन्दरासाधारण-लक्षणैर् ध्वजादिभिर् प्रेम-भक्ति-प्रवर्तनेन च मण्डयति इति । तथा तद् इति सौन्दर्यं कृपालुत्वं च । ध्येयम् आपदि इति भक्ति-विघ्नादि-सर्वापन्-निवर्तकत्वम् । अनेन भक्ति-प्रवर्तनम् एव दृढी-कृतम् । एवं पूर्ववत् पङ्कज-रूपकेण सूचितम् । सर्वार्तह-साधनत्वं दर्शितम् । दुःखादि-ध्वंसनेन कामदत्वेन च स्वतः परम-फलत्वं चाहुः---शन्तमं इति । य एतद् आत्मोद्देशेन तद्-द्वयानुसारेण सम्बोधन-द्वयं विवेचनीयम् । अतोऽस्माकं विरहादि-व्यथां नाशय विचित्र-क्रीडादिना सुखं च सम्पादय । तथा आत्मानं च अर्पय इति भावः । अन्यत् तैर् व्याख्यातम् ।

यद् वा, प्रणतानां भक्तानां ब्रह्मादीनां कामदम्, पद्मजया लक्ष्म्या अर्चितम् इति परम-सौभाग्य-निधित्वं । धरणिं लक्ष्मी-द्वितीयां निज-प्रियां विचित्र-क्रीडया स्तनोपर्य्-अवस्थित्या च मण्डयति इति । यद् वा, धरण्या मण्डनं कुच-कुङ्कुमादिना चित्रादि-निर्माणेन चालङ्कारो यस्येति प्रिय-जन-परवशत्वं रसिकत्वं च । एवं लक्ष्मीतोऽपि धरण्यां प्रीतिर् अधिका ध्वनिता । सा श्री-वराह-पुराणादौ प्रसिद्धेव । ध्येयम् आपदि इति विरह-दुःख-मोचकत्वं, परं शन्तमं सुख-प्रदं, तद्-आत्मकं च । एवं पक्ष-द्वये यथोत्तरं श्रैष्ठ्यम् । ते त्वदीयानां नः । अतोऽर्पणं युक्तम् एवेति भावः ।

किं च, हे रमण ! इति । तत्रापि तव रति-शीलत्वाद् इत्य् अर्थः । आधिहन् इति । अन्यथा अस्माकम् अन्त्य-दशापत्त्या तवाधि-हन्तृत्व-कीर्तेर् लोपः स्याद् इति भावः । अस्यैवं विस्तारोऽग्रे श्रीमद्-अक्रूर-मनोरथे यद् अर्चितम् [१०.३८.८]1 इति, तत्र प्रणत- [१०.३८.३६] इत्य् अस्य विस्तारः । ब्रह्मेत्य्-आदि-ध्येयम् इत्य् अस्य । मुनिभिर् इति धरणी इत्य् अस्य । सात्वतैर् इति गोचारणायेति च शन्तमम् इत्य् अस्य । यद् गोपिकाणाम् इति । एवं पूर्वम् उक्तान् पाप-हन्तृत्वादि-माहात्म्याद् अत्र कामदत्वादिना विशेष ऊह्याः । तत्र च पूर्वं द्वितीय-पक्षे निज-दैन्य-निवेदन-पूर्वकम् एव प्रार्थनम् । अधुना च गीत-क्रमेण श्री-पदाब्जे मनः-प्रवेशात् तस्यैव मुख्याद्य्-अपेक्षया केवलं तद्-एक-वर्णनेनैवेति भेदः । किं च, पूर्वं तत्-प्रयोजनं साक्षाद् एवोक्तं हृच्-छयं कृन्धि [१०.३१.७] इति । अत्र च आधिहन्न् इति सम्बोधन-द्वारा परोक्ष-वादेनैव तस्य चोत्कर्षः---परोक्ष-वादा ऋषयः परोक्षं मम च प्रियं [भा।पु। ११.२१.३५] इति श्री-भगवद्-उक्तेः । तेन च पूर्वं काम-रोगस्यैव, अधुना चाशेष-मानस-पीडाया एव नाश इत्य् एषा दिक् ॥१३॥

Footnotes

  1. यद् अर्चितं ब्रह्म-भवादिभिः सुरैः श्रिया च देव्या मुनिभिः स-सात्वतैः ।

    गो-चारणायानुचरैश् चरद् वने यद् गोपिकानां कुच-कुङ्कुमाङ्कितम् ॥

English translation

Śrīmad Bhāgavatam 10.31.13

“O lover, destroyer of distress, place Your lotus feet upon our breasts. They fulfill the desires of those who bow, are worshiped by Brahmā, ornament the earth, should be contemplated in danger, and are the most peaceful refuge.”

Sanātana Gosvāmī's Bṛhad-vaiṣṇava-toṣaṇī

The song has agitated them with desire. Although they already made this request, in their restlessness they describe His feet more fully than before and petition Him again in this and the next verse.

“Fulfilling the desire of those who bow” declares that the feet bestow every good. Therefore “worshiped by the lotus-born Brahmā” declares their supreme majesty. They ornament the earth with beautiful and extraordinary signs such as the flag and by setting prema-bhakti in motion, revealing both beauty and compassion. “To be contemplated in danger” means they remove every calamity, including obstacles to bhakti, and thus confirms again that they establish bhakti. As before, the lotus metaphor suggests that they are the means to remove every distress.

By destroying pain and fulfilling desire, the feet are also themselves the supreme fruit, as declared by “most peaceful.” The two addresses should be understood in relation to these two functions and directed to Him personally: “Destroy our pain of separation and create happiness through wonderful play; offer Yourself to us.” The earlier commentators explain the rest.

Alternatively, the feet fulfill the desires of devotees who bow, including Brahmā, and are worshiped by Padmajā, Lakṣmī, making them the storehouse of supreme good fortune. They ornament Dharaṇī, His beloved and a second Lakṣmī, through wonderful play and by resting upon her breasts. Or the earth ornaments them through breast-kumkuma and painted designs. This reveals both His subjection to His beloved and His connoisseurship of rasa, suggesting that His love for Dharaṇī exceeds even His love for Lakṣmī, as is renowned in Varāha Purāṇa and elsewhere.

Contemplated in danger, the feet free one from the suffering of separation; being supremely peaceful, they give happiness and consist of happiness. In both interpretations each later quality is superior. “Your feet” belong to “us who are Yours,” so placing them upon the gopīs is entirely proper.

They also call Him “lover,” whose nature is delight in love, and “destroyer of distress.” Otherwise, if they reached the final condition, His fame as destroyer of distress would disappear.

Akrūra's later meditation expands these meanings. His verse beginning “Those feet worshiped by Brahmā, Bhava, the gods, Śrī Devī, sages, and the Sātvatas, which wander the forest to graze the cows and are marked by the kumkuma of the gopikās' breasts” (Bhāgavata 10.38.8; footnote 110) expands “worshiped”; Brahmā and the others expand “contemplated”; the sages expand “earth”; the Sātvatas and grazing expand “most peaceful”; and the gopikās expand the intimate sense. Compared with the previously described powers such as destroying sin, this verse adds the special quality of fulfilling desire.

Earlier, under the second interpretation, they petitioned only after declaring their lowliness. Now the song has brought their minds into the sacred lotus feet, so they simply describe those feet alone as chief and supreme. Earlier they directly stated the purpose, “destroy heart-born desire” (10.31.7); here the address “destroyer of distress” conveys it indirectly and therefore more excellently, for Bhagavān says, “The sages speak indirectly, and indirect expression is dear to Me” (Bhāgavata 11.21.35). Earlier they sought destruction of the disease of desire; now they seek the end of every mental pain. (13)

Original

Sanskrit

Source: Śrīmad Bhāgavatam 10.31.14 with Sanātana Gosvāmī's Bṛhad-vaiṣṇava-toṣaṇī

॥ १०.३१.१४ ॥

सुरत-वर्धनं शोक-नाशनं

स्वरित-वेणुना सुष्ठु चुम्बितम् ।

इतर-राग1-विस्मारणं नृणां

वितर वीर नस् तेऽधरामृतम् ॥

Sanatana Gosvami - Brhad-vaisnava-tosani:

सुरतं** सुशोभनम् । रतं रतिः प्रेम । किं वा, सम्भोग-सुखं वर्धयतीति तथा तद् इति मुहुर् लब्धेऽपि तस्मिन्न् अतृप्तिः सूचिता । निज-धार्ष्ट्यादिकं च परिहृतम् । शोकोऽकृतार्थत्वादिना विरहेण वा तं नाशयति तथा तद् इति । अन्यथा शोक-नाशो न भवतीति सूचितम् । तथा स्वरित- इति गुण-विशेषेण परम-मादकता-हेतु-सम्पर्क-मात्रकत्वाद् इति तेनैव सर्व-दुःख-विस्मृतिर् न त्व् अन्येति ध्वनितम् ।

यद् वा, पूर्वोक्त-वेणु-भाग्य-भराभिप्रायेण तत् सुष्ठु-चुम्बिततया परम-मधुरत्वं सौभाग्य-भर-प्रदत्वं च । चुम्बितम् इति भोगानाचरणेन तत्-क्षीणतापि परिहृता । नृणां यानि इतराणि अधरामृत-व्यतिरिक्तानि सार्वभौमादि-मोक्षान्त-सुखानि तेषु राग-विस्मारणम् इति परम-मोहनत्वम् । एवं देव-भोग्याद् अमृतात् मोक्षाख्याद् अपि वैशिष्ट्यं दर्शितम् । तथा श्रवणाद् अपि भक्ति-प्रकारेभ्योऽप्य् ऊह्यम् । एवं तद्-दर्शन-सुखाद् अपि वैशिष्ट्यम् ऊह्यम् । तादृश-प्रियतम-जनैक-प्राप्यत्वात् । एवं विशेषणानाम् एषां यथोत्तरं क्रमेण हेतु-हेतुमत्तोह्या ।

न च तवादेयं किञ्चिद् अस्तीत्य् आशयेनाहुः---वीर ! हे दान-शूरेति । यद् वा, श्लेषेण हे काम-युद्ध-वीरेति । तद् युक्तम् एवेति भावः । वीर इति किशोरं प्रति सम्बोधनम् एतद् देश-रीत्यैतेन च रसिकत्वम् एव बाध्यते । अत एव तस्य पौनःपुन्यम् । तथापि सङ्गत्य्-अनुसारेणार्थ-भेदो लिख्यत इति दिक् । अन्यत् तैर् व्यञ्जितम् ।

यद् वा, स्वरिते षड्जादि-स्वरं प्रापितेन वेणुना नृणाम् अपि, किम् उत नारीणाम् इत्य् अर्थः । तेषां तत्-प्राप्तिस् ताम्बूल-चर्वितादि-सम्बन्धेन कथञ्चिद् ऊह्या । यद् वा, नृणां मध्ये वीर इत्य् अन्वयः । अर्थः स एव । इतरेति तस्मिन् प्राप्ते पुनर् अन्यत् किञ्चिन् नेष्ट-निजौद्धृत्यादि-परिहारार्थं च तत्-स्वभाव एवोक्तः । एवं पूर्वतोऽत्र विशेषः स्पष्ट एव । अत एव पूर्वं सीधुना [१०.३१.८] इति । अत्र चामृतम् इत्य् एषा दिक् ॥१४॥

Footnotes

  1. रोग-

English translation

Śrīmad Bhāgavatam 10.31.14

“O hero, distribute to us the nectar of Your lips. It increases the joy of love, destroys sorrow, is deeply kissed by Your resonant flute, and makes people forget every other attachment.”

Sanātana Gosvāmī's Bṛhad-vaiṣṇava-toṣaṇī

Surata means beautiful rati, or prema. Alternatively, it means the happiness of intimate union. The nectar of His lips increases that happiness, suggesting that even after obtaining it repeatedly one never becomes satisfied. This also removes any suggestion that the gopīs' request arises merely from their own boldness. It destroys the grief produced by unfulfilled longing or by separation. Nothing else can truly destroy that sorrow.

The qualification “resonant” indicates that merely coming into contact with those lips gives the flute its supremely intoxicating power. Those lips alone make every sorrow forgotten; nothing else can do so.

Alternatively, in keeping with the previously described abundance of the flute's good fortune, the flute's thoroughly kissing His lips reveals both the nectar's supreme sweetness and its power to bestow an abundance of good fortune. “Kissed” also rules out any fear that the nectar has been diminished, because kissing does not consume it.

The lip nectar makes human beings forget their attachment to every pleasure other than itself, from universal sovereignty all the way to liberation. This declares its supreme captivating power and its superiority both to the nectar enjoyed by the gods and to the nectar called liberation. Its superiority may likewise be inferred over hearing and the other forms of bhakti, and even over the happiness of seeing Him, because this nectar is obtainable only by His most intimate beloveds. Each successive description should be understood as the cause of the next.

Thinking that there is nothing He cannot give, they call Him “hero,” a hero of generosity. By a play on words it may also mean a hero in the battle of love, which makes their request especially fitting. According to the usage of that region, addressing a youthful boy as “hero” specifically implies that he is a connoisseur of rasa. This explains why the address recurs, although the nuance changes according to context. The earlier commentators disclose the remaining implications.

Alternatively, the flute is “resonant” because He makes it sound the notes beginning with ṣaḍja. If even men forget every other attachment, what need be said of women? Men might receive that lip nectar indirectly through remnants such as His chewed betel. Or “hero” may be construed as “hero among men,” with the same meaning.

“Every other attachment” means that once this nectar is obtained nothing else remains desirable. This statement of its inherent nature also removes any appearance of arrogance in the gopīs' plea. The distinction from the earlier verse is clear: there it was called wine (10.31.8), whereas here it is called nectar. Footnote 111 records the variant reading “disease” in place of “attachment.” (14)

Original

Sanskrit

Source: Śrīmad Bhāgavatam 10.31.15 with Sanātana Gosvāmī's Bṛhad-vaiṣṇava-toṣaṇī

॥ १०.३१.१५ ॥

अटति यद् भवान् अह्नि काननं

त्रुटि युगायते त्वाम् अपश्यताम् ।

कुटिल-कुन्तलं श्री-मुखं च ते

जड उदीक्षतां पक्ष्म-कृत् दृशाम् ॥

Sanatana Gosvami - Brhad-vaisnava-tosani:

काननम्** अटति इति श्लेषेण अरसज्ञत्वम् अभिप्रेतम् । अह्नि इति तदानीं तत्र निज-गमनाशक्तिर् उक्ता । युगायते दुःख-समयस्य दुरतिक्रमत्वेन विवृद्धम् इव गतत्वाद् इति परम-दुःखम् । अपश्यताम् अस्मादृश-जनानां किं वा सर्वेषाम् अपि व्रज-जनानां, किम् उतास्माकम् इति । यद् वा, तावका इतिवत् त्वज्-जनानाम् अपि दृशाम् इत्य् अर्थः । अन्यत् तैर् व्याख्यातम् ।

यद् वा, दुर्वितर्य-प्रकृते ! कदापि त्वत्तोऽस्माकं न किञ्चित् सुखं जातं, किं त्व् अदर्शने दर्शनऽपि दुःखम् एवेत्य् आहुः---अटति इति पूर्वार्धेन । व्यक्तम् एवादर्शने परम-दुःखम् । अतश् चिरम् अदर्शन-दुःखं सोढुं न शक्नुमः सत्वरं तद्-दर्शनासम्पत्त्या दुःखम् एवेत्य् अर्थः । अहो बतास्माकं परम-दौर्भाग्यम् इति भावः । तथापि तद्-दर्शनोत्कण्ठा नितरां बोधितैव दर्शने निमिष-मात्र-व्यवधानासहिष्णुत्वात् ।

यद् वा, उदीक्षमाणानां सतां पक्ष्म-कृत् कृती छेदने यः पक्ष्माणि कृन्तति, अ-कार-प्रश्लेषेण स एव अजडो रसज्ञो विद्वान् वा । यद् वा, स्व-दृशां पक्ष्मी-च्छेदेवाजडः, स एव च उदीक्षताम् उच्चैः पश्यतु । वयं तु पक्ष्म-छन्न-दृशो जडाः साक्षाद् अपि किं पश्यामः ? इति भावः ॥१५॥

English translation

Śrīmad Bhāgavatam 10.31.15

“When You wander through the forest by day, every instant becomes an age for those who cannot see You. And when we gaze upon Your sacred face framed by curling locks, the maker of our eyelids seems dull-witted.”

Sanātana Gosvāmī's Bṛhad-vaiṣṇava-toṣaṇī

The statement that He “wanders in the forest” contains a pun suggesting a lack of sensitivity to rasa. “By day” indicates that at that time the gopīs are unable to go there themselves. An instant “becomes an age” because a time filled with pain is so difficult to cross that it seems greatly prolonged. This expresses their extreme suffering.

“For those who cannot see You” may mean people like the gopīs, or even all the residents of Vraja, with the implication: if everyone suffers so, what then of us? Alternatively, as in the expression “Your people,” it may refer to the eyes of those who belong to Him. The earlier commentators explain the remainder.

Another interpretation addresses Him as one whose nature is impossible to fathom: “We have never received any happiness from You. We suffer when we cannot see You, and even when we see You.” The first half of the verse clearly describes the extreme pain of not seeing Him. Since they cannot endure that long suffering, they seek His sight at once, yet obtaining it also produces the pain caused by blinking. “Alas, how supremely unfortunate we are!” Even so, their intense longing to see Him is disclosed more powerfully still, because while seeing Him they cannot tolerate even the interval of a blink.

There is also a wordplay on “maker of eyelashes.” For those who gaze upon Him, the truly intelligent and rasa-knowing maker would be one who cuts the eyelashes away. Or only one who cuts the lashes from his own eyes is intelligent and qualified to look fully. “We, whose eyes remain covered by lashes, are dull. Even when He stands directly before us, what can we really see?” (15)

Original

Sanskrit

Source: Śrīmad Bhāgavatam 10.31.16 with Sanātana Gosvāmī's Bṛhad-vaiṣṇava-toṣaṇī

॥ १०.३१.१६ ॥

पति-सुतान्वय-भार्तृ-बान्धवान्

अतिविलङ्घ्य तेऽन्त्य् अच्युतागताः ।

गति-विदस् तवोद्गीत-मोहिताः

कितव योषितः कस् त्यजेन् निशि ॥

Sanatana Gosvami - Brhad-vaisnava-tosani:

बान्धवा पितृ-मात्रादयः । एषां पूर्वोक्त-न्यायेन पूर्व-पूर्व-परित्यागे पर-परापेक्षया यथोत्तरं श्रैष्ठ्यम् ऊह्यम् । अति तेषां वाक्यातिक्रमात् स्नेहादि-परित्यागाच् चातिशयेन विशेषेण च धर्माद्य्-अनपेक्षया स-मूलत्वेन लङ्घयित्वा अतिक्रम्य, आगमने हेतुः---हे अच्युत ! इति प्रपन्न-जन-रञ्जनादि-माहात्म्यतः कदाचिद् अपि विच्युतेर् असम्भवाद् इत्य् अर्थः । किं च, गतिं स्वभावम् आत्मनोऽस्माकं च वेत्सीति गति-विदः । यद् वा, तव ज्ञानम् अभिज्ञत्वं विदन्तीति विदः सुव्रतत्वादि-स्व-माहात्म्यम् अस्माकं च त्वद्-एक-गतित्वं जानासीति विदन्त्यः । किं वा, कारुण्यादि-मयं त्वत्-स्वरूपं जानत्य इत्य् अर्थः । किं च, उद्गीत-मोहिताः, कितव ! हे कपटिन् ! निज-स्वभावान्यथा-करणात् । निशि इति रात्रौ भीरूणां स्त्रीणां त्यागोऽनुचित एवेति भावः । त्यजेद् इति सम्भावनायां सप्तमी । कितव इति सम्बोधनेन, कः कितवोऽपि त्यजेत्, अपि तु कितवेनापि निशि योषितां त्यागो नैव सम्भवेद् इत्य् अर्थः । अतस् त्वयि न केवलं धूर्तत्वं परमाकृतज्ञत्वम् अपि पर्यवस्येद् इति भावः

अथवा, रात्रौ निर्जने निजान्तिके उद्गीतेन रिरंसया प्राग् आकृष्यानीतानां गोप-सुन्दरीणां पश्चात् त्यागाद् धूर्त एवासीत्य् अर्थः । अतो व्यक्तीभूतं धूर्तत्वम् अधुना दर्शनं देहीति भावः । अन्यत् तैर् व्याख्यातम् । यद् वा, कितवा धूर्ताः ! किं वा, धूर्तस्य तव योषितः, "त्वद्वद् वयम् अपि धूर्ताः, तव धूर्तत्वं सर्वं विद्म एवेत्य् अलम् अस्मासु धूर्तत्वेन" इति । एतच् च दर्शन-प्रार्थन-चातुर्यं ज्ञेयम् ॥१६॥

English translation

Śrīmad Bhāgavatam 10.31.16

“O Acyuta, enchanted by Your loud song and knowing Your ways, we have come to You after completely transgressing husbands, sons, family lines, brothers, and relatives. O cheat, who would abandon women in the night?”

Sanātana Gosvāmī's Bṛhad-vaiṣṇava-toṣaṇī

“Relatives” includes father, mother, and others. According to the principle already explained, each later bond in the list should be understood as weightier than the preceding bond and therefore harder to abandon.

The prefix ati in “completely transgressing” indicates not only disobeying their relatives' words but abandoning affection and everything connected with it. They crossed those bonds radically and without regard even for dharma and the other aims of life. The reason they came is contained in the address “Acyuta”: because of His greatness in delighting those who surrender, it is impossible for Him ever to fall from His nature.

They are “knowers of the way” because He knows His own nature and theirs. Alternatively, they know that He is fully aware: He knows their own greatness, including their fidelity to sacred vows, and He knows that they have no destination but Him. Or they know that His very nature consists of compassion and other such qualities.

Yet they were enchanted by His loud song. They therefore call Him “cheat,” one who has transformed their own nature into something opposite. “At night” means that abandoning timid women in the darkness is especially improper. The optative “would abandon” expresses possibility: what cheat would do so? Even a cheat could not abandon women at night. If He did, the conclusion would be not merely that He is a rogue but that He is supremely ungrateful.

Alternatively, He is truly a cheat because at night, in a lonely place, He first drew the beautiful cowherd women to Himself with His loud song for the sake of love, and then abandoned them. Since His roguery has now become manifest, they imply: “Come before us and display it openly.” The earlier commentators explain the rest.

The address may also be plural: “O cheats!” Or they may identify themselves as “the women of You, a cheat”: “We too are rogues like You and know every one of Your tricks, so stop trying to deceive us.” This is the clever artistry of their prayer that He reveal Himself. (16)

Original

Sanskrit

Source: Śrīmad Bhāgavatam 10.31.17 with Sanātana Gosvāmī's Bṛhad-vaiṣṇava-toṣaṇī

॥ १०.३१.१७ ॥

रहसि संविदं हृच्-छयोदयं

प्रहसिताननं प्रेम-वीक्षणम् ।

बृहद्-उरः श्रियो वीक्ष्य धाम ते

मुहुर् अतिस्पृहा मुह्यते मनः ॥

Sanatana Gosvami - Brhad-vaisnava-tosani:

अतो निज-कृतज्ञत्वापेक्षया दर्शनेक्षणम् अपि न विलम्बस्वेत्य् आशयेन पूर्वतो विशेषम् आहुः---रहसि इति । पूर्वं संविदः [भा।पु। १०.३१.१०] इत्य् उक्तम् । अत्र च संविदम् इति एकाम् अपि संविदम्, किम् उत बह्वीर् इत्य् अर्थः । एवं पूर्वोक्त-विशेषोऽत्रोह्यः । हृच्-छयस्य हृदि सुप्तवन् निश्चेष्टतया लीनस्यापि कामस्य उदयः प्राकट्यं यस्मात् तत् । इदं **प्रहसित-**आदीनां सर्वेषाम् अपि विशेषणं ज्ञेयम् ।

यद् वा, तव हृच्छयोदयं काम-विकारं भाव-विशेष-विलसित-स्मित-गण्डाधर-विस्फूर्त्य्-आदि-लक्षणं प्रकृष्टं हसितं यस्मिन्न् आनने तत् । प्रकृष्ट-हास-युक्तम् आननम् इति वा । प्रेम्णा वीक्षणं पूर्ववत् पद-द्वयं वा । बृहद् इति गाढालिङ्गनाभिप्रायेण परम-सौन्दर्यम् उक्तम् । श्रियो धाम इति अतिस्पृहायां हेतु-विशेषः, सापत्न्यात् शोभा-विशेषाच् च । वीक्ष्य आलोच्य चिन्तयित्वेत्य् अर्थः । "तापिन्" इत्य् अध्याहार्यम् । किं वा, भिन्न-कर्तृकत्वे क्त्वा-प्रत्यय आर्षः । "अत एवातिस्पृहम्" इति चित्सुखः । अतिस्पृहा च तत्-तद्-अनुभवे त्वत्-सङ्गम-मात्रे वा । तया च मनो मुह्यति इति स्पृहायाः परमौत्कट्यं द्योत्यते ।

किं वा, पूर्ववन् निज-धैर्य-हानिर् एवोक्ता । यद् वा, रहसि संविदं प्रति यत् **प्रहसितानन-**आदिकं **हृच्छयोदय-**आदिकं वा । एवं सति दृष्ट्वेत्य् एवार्थः । ततश् च पूर्व-दृष्टानां तेषाम् अधुना स्मरणाद् अतिस्पृहादिकम् इति पूर्ववज् ज्ञेयम् । यद् वा, पूर्वम् अपि तथा तथैव भवेत् । अधुना तु तत्-तद्-अतिमरणम् एवासन्नम् इति भावः । अन्यत् तैर् व्याख्यातम् ।

यद् वा, श्रियो धाम अपीति शोभा-रूप-वेश-लीलादि-विषयकाः इत्य् अनुक्तम् अप्य् अन्यत् सौन्दर्यादिकं सङ्गृहीतम् । धाम च लता-गृहादि । न केवलम् अतिस्पृहा मनश्मुह्यते, परम-मोहनात् तत्-तन्-माधुर्यात् । अनेन मनसो दुर्निवारत्वाद् अप्रतिकार्यत्वम् । तेन निज-परम-दैन्यं च सूचितम् । अन्यत् समानम् ।

अथवा, ननु कृतज्ञोऽस्मि । कथम् एवम् अत्यन्तार्ता भवथ ? इति चेत्, त्वयैव बहुधा मोहितत्वाद् इत्य् आर्तत्वे त्वद्-एक-कारणत्वेन पूर्ववत् संविद्-आदीनां परम-मोहनत्वम् एव परमार्त्या विशिष्याहुः---रहसि इति । ते इत्य् अस्य पूर्वतः परतश् चान्वयः । ते संविद्-आदिकं **प्रहसितानन-**आदिकं वा वीक्ष्य तेऽपि अतिस्पृहः, तेऽपि मन इत्य् आदर्शादौ निरीक्षणादिना भाव-विशेषोदयाद् इति तेषां परम-मोहनत्वम् उक्तम् । अतोऽस्माकम् अतिस्पृहा मनो-मोहश् च युक्त एवेति । अतो यावद् अन्त्य-दशा न भवेत्, तावद् एव सन्दर्शनं देहि । तत एव कृतज्ञत्वं सिध्येद् इति भावः ॥१७॥

English translation

Śrīmad Bhāgavatam 10.31.17

“Your confidential conversations awaken desire in the heart; Your smiling face and loving glances do the same. O broad-chested abode of Śrī, when we behold these qualities of Yours, intense longing repeatedly overwhelms our minds.”

Sanātana Gosvāmī's Bṛhad-vaiṣṇava-toṣaṇī

The gopīs' point is that, if He expects them to acknowledge His gratitude, He should not delay appearing even for a moment. This verse describes a distinction beyond what they said earlier. In verse 10 they spoke of many confidential conversations; here the singular means that even one such conversation has this effect, what then of many? The further distinctions described earlier should be understood here as well.

Their conversation causes the awakening and manifestation of desire even when it had lain dormant and motionless in the heart as though asleep. “Awakening desire in the heart” should qualify each item that follows: His smiling face, loving glance, broad chest, and the abode of beauty.

Alternatively, His own heart-born desire becomes manifest through signs such as the special emotion in His smile and the radiance of His cheeks and lips. His face bears an excellent smile, or is filled with abundant laughter. “A loving glance” may be read as two words, as before: a glance given with prema. “Broad-chested” declares supreme beauty and suggests a deep embrace.

That His chest is the abode of Śrī gives a special cause for the gopīs' overwhelming longing, both because Lakṣmī is a rival and because His chest possesses extraordinary splendor. “Seeing” may mean considering or contemplating. One may supply “O afflicted one,” or understand the absolutive construction with different grammatical subjects as an archaic usage. Citsukha reads, “For precisely this reason there is intense longing.” That longing may be for experiencing each of these features, or simply for union with Him. The statement that the mind becomes bewildered by it reveals the supreme intensity of their longing.

Or, as before, they describe only the loss of their composure. His smiling face and the other qualities, or the awakening of desire itself, are connected with their confidential conversation. On this reading “seeing” retains its straightforward meaning. They now remember what they saw before, and remembrance produces intense longing, as previously explained. It may have had the same effect earlier, but now excessive remembrance of each feature has brought them close to death. The earlier commentators explain the rest.

The expression “abode of Śrī” may gather into itself all the beauty not separately stated, including the splendor of His form, dress, and play. Dhāma may also mean a bower of flowering vines. Not only intense longing but the mind itself becomes bewildered by the supremely captivating sweetness of all these things. Because the mind cannot be restrained, the condition has no remedy; this also reveals the gopīs' own supreme humility.

One may object, “I am grateful. Why, then, are you so intensely afflicted?” They reply that He Himself has bewildered them in so many ways. Because He alone is the cause of their anguish, they stress with utmost pain the supremely captivating power of His confidential conversation and all His other qualities. The word “Your” connects with what precedes and follows. Seeing His conversations, smiling face, and the rest, He too develops extraordinary longing and an altered state of mind when He looks at Himself in a mirror. This shows the supreme enchantment of His qualities. Their own intense longing and bewilderment are therefore entirely reasonable. He should reveal Himself before they reach their final condition; only then will His gratitude be established. (17)

Original

Sanskrit

Source: Śrīmad Bhāgavatam 10.31.18 with Sanātana Gosvāmī's Bṛhad-vaiṣṇava-toṣaṇī

॥ १०.३१.१८ ॥

व्रज-वनौकसां व्यक्तिर् अङ्ग ते

वृजिन-हन्त्र्य् अलं विश्व-मङ्गलम् ।

त्यज मनाक् च नस् त्वत्-स्पृहात्मनां

स्वजन-हृद्-रुजां यन् निषूदनम् ॥

Sanatana Gosvami - Brhad-vaisnava-tosani:

अतोऽधुनेदं विधेहीति सर्वान्ते फलितं निश्चित्याहुः---व्रज इति । व्रजौकसां वनौकसां चेत्य् अर्थः । ते व्यक्तिः अवतारं प्राकट्यं वा । अतोऽन्तर्धानम् अयुक्तम् इति भावः । अङ्ग इति प्रेम-सम्बोधने । न केवलं वृजिन-हन्त्री, विश्व-मङ्गलम् अशेष-मङ्गल-रूपा चेत्य् अर्थः । अलम् अतिशयेनेत्य् अस्योभयतोऽप्य् अन्वयः । ततो वृजिनस्य अपुनर्-उद्भवत्वादिकं मङ्गलस्य च भक्ति-प्रेमादि-सम्पत्ति-पूर्वक-प्रतिक्षणम् अभिनव-सुख-परम्परादि-रूपत्वम् ऊह्यम् । स्वजनानां या हृद्-रुजः कामाः, तासां नितरां सूदनं स्वजनत्वात् तव विदितम् एवेति भावः । रुक्-शब्द-प्रयोगः प्रेमार्ति-भरेण ।

ननु यद् भक्ता मयि प्रेम-भक्तिं सदा सन्दर्शनं तद्-अर्थं श्री-वैकुण्ठादिकम् अपि वाञ्छन्तीति जानाम्य् एव । तत्राहुः---त्वयि त्वत्-प्राप्त्य्-अर्थम् एव स्पृहा । किं वा, तव या स्पृहा रिरंसा, तस्याम् एव आत्मा मनो यासां, तासां नः । ईदृशीर् अस्मान् प्रति यद् देयं स्यात्, तद् एवेति भावः । मनाग् इति परम-दौर्लभ्येन याचक-रीत्या वा । वस्तुतस् तु हृद्-रुजाम् इति बहुत्वेन नि-शब्देन च तथा तद्-विषयक-कामानाम् अनिवर्त्यत्वेन सदा नवीनवत् तया वर्धिष्णुत्वेनैव निरन्तर-विविध-प्रेम-रतिर् अभिप्रेता । अन्यत् तैर् व्याख्यातम् । यद् वा, हे स्वजन ! त्वत्-स्पृहात्मनां नो या हृद्-रुजः, तासाम् इति । अन्यत् समानम् इति ॥१८॥

English translation

Śrīmad Bhāgavatam 10.31.18

“Beloved, Your manifestation among the residents of Vraja and the forest powerfully destroys suffering and brings auspiciousness to the entire universe. Please bestow upon us, whose very selves consist of longing for You, even a little of that which utterly destroys the heart's pain in Your own people.”

Sanātana Gosvāmī's Bṛhad-vaiṣṇava-toṣaṇī

At the end of all their appeals, the gopīs settle upon the practical conclusion and say, “Do this now.” “The residents of Vraja and the forest” includes both those who dwell in the settlement and those who dwell in the woodland. His manifestation means His descent or His visible appearance. Since He has appeared for them, His concealment is improper. Aṅga is an address of love.

His manifestation is not merely the destroyer of suffering; it is the auspiciousness of the whole universe and consists of every blessing. The word alam, “exceedingly,” applies to both qualities. Thus the suffering it destroys can never arise again, while the auspiciousness it brings is a succession of ever-new happiness at every moment, preceded by the attainment of bhakti, prema, and all other spiritual wealth.

The pains in the hearts of His own people are their desires for Him. As they are His own people, He surely knows that His appearance utterly destroys those pains. The word for pain is deliberately used because their anguish of prema is so overwhelming.

He may say, “I already know that devotees desire prema-bhakti for Me, constant sight of Me, and even places such as Śrī Vaikuṇṭha for that purpose.” They answer that their longing is solely for attaining Him. Alternatively, their whole self and mind are absorbed only in His own desire for intimate play. What He ought to give women such as these is precisely the fulfillment suited to that condition.

“Even a little” may express the supreme rarity of the gift or the humility proper to a petitioner. In truth, however, the plural “pains of the heart,” together with the intensive prefix in “utterly destroys,” indicates an unbroken variety of loving rati. Their desires concerning Him cannot be eliminated, are always new, and therefore continually increase. The earlier commentators explain the rest.

Alternatively, they address Him as “O member of our own family, O our own person”: “Destroy the heart's pains of us whose very selves are longing for You.” The remainder is the same. (18)

Original

Sanskrit

Source: Śrīmad Bhāgavatam 10.31.19 with Sanātana Gosvāmī's Bṛhad-vaiṣṇava-toṣaṇī

॥ १०.३१.१९ ॥

यत् ते सुजात-चरणाम्बु-रुहं स्तनेषु

भीताः शनैः प्रिय दधीमहि कर्कशेषु ।

तेनाटवीम् अटसि1 तद् व्यथते न किं स्वित्

कूर्पादिभिर् भ्रमति धीर् भवद्-आयुषां नः ॥

Sanatana Gosvami - Brhad-vaisnava-tosani:

एतावत् पर्यन्तं निजेष्टम् एव बहुधा प्रार्थितम् । उपसंहारे च श्री-भगवतो वनाटनम् अनुसन्धाय तेन च श्री-पादाब्जयोर् व्यथां सम्भाव्य निज-प्रार्थितम् अप्य् अनादृत्य प्रेम-भर-प्रधर्षिताः केवलं तत्-सुखम् एव प्रार्थयाणा रुदत्य आहुः---यद् इति । अम्बुरुह-रूपकेण ततोऽपि परम-कोमलत्व-विवक्षया । भीता इत्य् अत्र शनैर् इत्य् अत्र च हेतुः---कर्कशेष्व् इति । श्लेषेणैवं निज-नित्य-नव-यौवनं, तेन दुःखाधिक्यं च निवेदितम् । दधीमहि इत्य् अत्र हेतुः---हे प्रिय इति । प्रियत्वेन तेष्व् एव तस्य धारण-योग्यत्वात् । एवं पूर्वोक्त-नलिन-सुन्दरत्वम् अपि स्वानुभवेन दृढीकृतम् ।

Footnotes

  1. नयसीति पाठान्तरं स्वामिभिर् धृतम्।

English translation

Śrīmad Bhāgavatam 10.31.19

“Beloved, we fearfully place Your exquisitely tender lotus feet very gently upon our hard breasts. Yet with those same feet You wander through the forest. Are they not pained by stones and the like? Our minds reel, for You are our very life.”

Sanātana Gosvāmī's Bṛhad-vaiṣṇava-toṣaṇī

Until this point the gopīs have petitioned in many ways only for what they themselves desire. At the conclusion, however, they remember Bhagavān's wandering through the forest and imagine the pain this may cause His sacred lotus feet. Overpowered by the abundance of their prema, they disregard even everything for which they had prayed and weep while asking solely for His happiness.

The metaphor of the water-born lotus intends to say that His feet are far more tender even than a lotus. The hardness of their breasts explains both why they are afraid and why they place His feet upon them only very gently. By a play on words, this also conveys their own eternally fresh youth and therefore the increased intensity of their sorrow.

The address “beloved” explains why they nevertheless place His feet there: because He is their beloved, His feet properly rest upon their breasts alone. Their own experience thus confirms the lotus-like beauty and tenderness described earlier.

Footnote 112 records that the earlier master accepts the variant reading “You take [them through the forest]” in place of “You wander.” (19)